ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 611–620
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 611–620
पृष्ठ 611
पाठ पढ़ें पाठ छिपाएँ
] द्वितीयोऽध्यायः दशमः खण्डः सायणाचार्यकृतभाष्योपेतम्: तदर्थमादावुपाख्यानमाह— ५४ ९ ( निष्केवल्यशस्त्रविधानम् ) ( तत्र निष्केवल्यशस्त्रविधातुमुपाख्यानम् इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत् ) प्रजापतिमहमेतदसानि यत्त्वमहं महानसानीति स प्रजापातिरब्रवीद्- अथ कोऽहमिति यदेवैतद- वोच इत्यब्रवीत्, ततो वै को नाम प्रजापतिरभवत्, को वै प्रजापतिर्यन्महानिन्द्रोऽभवत् तन्महेन्द्रस्य महेन्द्रत्वम् ॥ १ ॥ नाम
हिन्दी– ( अब निष्केवल्यशस्त्र का विधान करने के लिए पहले उपाख्यान रहे हैं - ) इन्द्रः वै इन्द्र ने वृत्रं हत्वा वृत्र को मार कर और सर्वाः विजितीः को कह ' ( ) सभी जीतने योग्य भूमि को विजित करके प्रजापतिम् उवाच विजित्य )! – ( ( ), प्रजापतिमहान् असानियत्मैंत्वम्महान्जो होतुमजाऊँहो। अहम्तब सःएतद्प्रजापतिःअसानिअब्रवीत्मैं वह प्रजापति से कहा हे उसमहान्प्रजापति हो जाऊँने ( इन्द्रअहं) से कहा— अथ कः अहम् तो मैं कौन हूँ? ( तब इन्द्र ने) ' यद् एव एतद् अवोचत् जो यह तुमने (कः ) कहा है, वही हो जाओ' इति अब्रवीत् इस प्रकार कहा । ततः तब से प्रजापतिः प्रजापति कः नाम अभवत् 'क' नाम वाले हो गये। यत् कः वै नाम प्रजापतिः जो ' क' नाम वाले प्रजापति हैं, वे महान् इन्द्रः अभवत् इन्द्र महान् हो गये । तद् महेन्द्रस्य महेन्द्रत्वम् वही महेन्द्र का महेन्द्रत्व ( महेन्द्र नाम वाला होना) है । सा ० भा ० – इन्द्रः पुरा वृत्रं हत्वा सर्वा विजितीर्जेतव्या भूमीर्विजित्य प्रजापतिमिद- मब्रवीत्। हे प्रजापते, त्वमिदानीं यदसि, एतदहमिति परमसानि भवानि । किं तदिति वीक्षायां विशेषाकारेणोच्यते — अहं महानसानि सर्वेभ्यो भूतेभ्योऽधिकः पूज्यो भवानीति। ततः स प्रजापतिरिदमब्रवीत्। मदीये महत्त्वे त्वया स्वीकृते सत्यनन्तरमहं को नाम भविष्यामीति। तत इन्द्र इदमब्रवीत्। हे प्रजापते, स्वात्मनमुद्दिश्य निवेदनेन क इति यदेवैतदवोचस्तदेव त्वं भवेति। तत् आरभ्य क इत्येतन्नामवान् प्रजापतिरभूत् । एतत्कशब्दवाच्यत्वं सर्वत्र प्रसिद्धम्। अत एव श्रुत्यन्तरेषु प्रतिग्रहमन्त्रब्राह्मण एवमाम्नायते—-'क इदं कस्मा अदादित्याह, प्रजापतिर्वै कः प्रजापतय एव तद् ददातीति' । कशब्दस्य सुखवाचित्वात् तेन प्रजापते- र्व्यवहारे सति सुखी प्रजापतिरित्युक्तं भवति। प्रजापतिगतं महत्त्वं स्वीकृत्येन्द्रो यस्मान्महान- भवत् तस्मान् महेन्द्रनाम संपन्नम्। श्रुत्यन्तरेऽप्येतदाम्नातम्— 'इन्द्रो वृत्रमहन् तं देवा अब्रुवन् महान् वा अयमभूद् यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम्' ' इति॥ अथेन्द्रस्य महत्त्वप्रसक्तं सत्कारविशेषं दर्शयति— ( १ ) ‘विजीती: विजयप्रकारान्' –इति भट्टभास्करः । ( २ ) तै०ब्रा० २.२.५.५ । ( ३ ) तै ० सं ० ६.५.५.३ । 'को ह वै नाम प्रजापतिः ' इति तै ० ब्रा० २.८.१० ।
पृष्ठ 612
पाठ पढ़ें पाठ छिपाएँ
: [५५० ऐतरेयब्राह्मणम् १२.१० तृतीयपञ्चिकायां ( इन्द्रस्य सत्कारविशेषप्रदर्शनम् ) स महान् भूत्वा देवता अब्रवीदुद्धारं म उद्धरतेति, यथाऽप्येतहींच्छति, यो वै भवति यः श्रेष्ठतामश्नुते, स महान् भवति, तं देवा अब्रुवन्, स्वयमेव ब्रूष्व यत् ते भविष्यतीति, स एतं माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां, निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसां, पृष्ठं साम्नां, तमस्मा उद्धारमुदहरन् ॥ २ ॥
हिन्दी—( अब इन्द्र के सत्कार- विशेष को कह रहे हैं - ) सः महान् भूत्वा वह ( इन्द्र ) महान् होकर देवताः अब्रवीत् देवताओं से कहा- मे उद्धारम् उद्धरत मेरे सत्कारभाग को अलग करो । यथा जिस प्रकार ( लोक में ) यः वै भवति जो ऐश्वर्य को प्राप्त करता है और यः श्रेष्ठताम् अश्नुते जो श्रेष्ठता को प्राप्त करता है, सः महान् भवति वह महान् होता है । एतर्हि अपि इच्छति वह अब भी जैसी इच्छा करता है वैसे ही ( मेरा सत्कार अलग करो )। तं देवाः अब्रुवन् उस ( इन्द्र ) से देवताओं ने कहा कि यत् ते भविष्यति जो तुम्हें (प्रिय ) होगा, स्वयमेव ब्रूष्व उसे तुम स्वयं ही बतलाओ । तब सः उस ( इन्द्र) ने एतं माहेन्द्रं ग्रहम् अब्रूत ( ग्रहों में ) इस महेन्द्र सम्बन्धी ग्रह को ( अपना प्रिय) बतलाया तथा सवनानां माध्यन्दिनम् सवनों में माध्यन्दिनसवन को; उक्थानां निष्केवल्यम् शस्त्रों में निष्केवल्यशस्त्र को, छन्दसां त्रिष्टुभम् छन्दों में त्रिष्टुप् छन्द को और साम्नां पृष्ठम् सामों में पृष्ठ नामक साम को ( अपना प्रियं बतलाया ) । ( तब देवताओं ने ) अस्मै इस (इन्द्र) के लिए तम् उद्धारम् उस ( माहेन्द्र ग्रह इत्यादि ) सत्कार को उदहरन् अलग कर दिया। सा ंभा ० — ‘सः’ इन्द्रः, उक्तप्रकारेण महत्त्वं प्राप्य देवताः प्रत्येतदब्रवीत् –हे देवा उद्धारमुत्कर्षं निमित्तीकृत्य यः पुंसा पूजाविशेषो ह्रियते संपाद्यते सोऽयं सत्कार उद्धारः१, तं सत्कारभागं ‘ मे ' मदर्थमुद्धरत पृथक्कुरुतेति । यथेत्यादिना लौकिकदृष्टान्त उच्यते— ' यो वै भवति' यः पुमान् भवत्यैश्वर्यं प्राप्नोति। यश्च ' श्रेष्ठतां' विद्याचारादि-प्रयुक्तवैशिष्ट्यमश्नुते । स प्राप्तैश्वर्यो विशिष्टश्च सर्वेषां मध्ये महान् भवति। स तादृशः पुरुष एतर्ह्यपीदानीमपि यथा विशिष्टपूजारूपं भागमिच्छति तथाऽयमिन्द्रोऽपीत्यध्याहारः। तमुद्धारेच्छावन्तमिन्द्रं देवा ग्रहाणां मध्ये 'एतं' माहेन्द्रं ग्रहमब्रूत, तथा सवनानां मध्ये माध्यदिनं सवनम्, शस्त्राणां मध्ये निष्केवल्यं शस्त्रं, छन्दसां मध्ये त्रिष्टुभं, साम्नां मध्ये ' पृष्ठ ', पृष्ठस्तोत्रनिष्पादकं बृहद्रथंतरवैरूपादिकम्। ततो देवा अस्मा इन्द्राय तमुद्धारं माहेन्द्रग्रहादिकं यज्ञादुदहरन् । तदेतच्छाखान्तरेऽप्याम्नातम्—' स एतं माहेन्द्रामुद्धारमुदहरत ( १ ) ‘ सर्वोभ्यो भागेभ्यो य उद्भियते ज्येष्ठाय दातुं सोऽधिकोंऽश उद्धारो नाम' - इति भट्टभास्करः । ( २ ) बृहद्, रथन्तरम्, वैरूपम, वैराजम्, शाक्वरम्, रैवतञ्चेति षट्। पृष्ठानीन्द्रस्य निष्केवल्यानि’– इति च ता० ब्रा० ७.८.५ ।
पृष्ठ 613
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ५५१ वृत्रं हत्वाऽन्यासु देवतास्वधीति यन्माहेन्द्रो गृह्यत उद्धरमेव तं यजमान उद्धरतेऽन्यासु प्रजास्वधि'' इति ॥ वेदनं प्रशंसति— उदस्मा उद्धारं हरन्ति य एवं वेद ॥३ ॥
हिन्दी– (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार ( ) है अस्मै इस ज्ञाता के लिए वे उद्धारम् उद्हरन्ति अभीष्ट सत्कार जानता कर देते हैं । को निश्चित प्रदान सा ० भा ० — उद्धारभागं दत्तवतां देवानां तस्मिन्नुद्धारे स्वापेक्षितभागप्रार्थनांदर्शयति- ( उद्धारे देवानां स्वापेक्षितमात्रप्रार्थना ) तं देवा अब्रुवन्, सर्वं वा अवोचथा, अपि नोऽत्रास्त्विति, स नेत्य- ब्रवीत्, कथं वोऽपि स्यादिति, तमब्रुवन्नप्येव नोऽस्तु मघवन्निति, तानीक्षतैव ॥४ ॥
हिन्दी –( उद्धार भाग देते हुए देवताओं के द्वारा उस उद्धार में अपने अपेक्षितभाग के लिए की गयी प्रार्थना को दिखला रहे हैं - ) तं देवाः अब्रुवन् उस ( इन्द्र) से देवताओं ने कहा कि (हे इन्द्र)! सर्वं वै अवोचथ तुमने (अपने विषय में) सब कुछ कह दिया । अपि अत्र नः अस्तु किन्तु इसमें हम लोगों के लिए भाग होना चाहिए । सः न इति अब्रवीत् उस ( इन्द्र) ने ( अस्वीकार करते हुए कहा कि नहीं। कथं वः अपि स्यात् कैसे तुम लोगों के लिए होना चाहिए। तब तम् अब्रुवन् उस (इन्द्र ) से ( देवताओं) ने कहा कि मघवन् हे इन्द्र! नः अप्यस्तु हम लोगों के लिए भी होना चाहिए । तान् ईक्षत एव (तब इन्द्र ने ) उन ( देवताओं ) को ( अनुग्रह की दृष्टि से ) ही देखा । सा ० भा ० — उद्धारयुक्त तमिन्द्रमितरे देवा इदमब्रुवन् । हे मघवन्निन्द्र सर्वमेव यज्ञं स्वसंबन्धित्वेनोक्तवानसि, अस्माकमप्यत्र सारो भागोऽस्त्विति । ततः स इन्द्र एवमब्रवीत्। अयं सारः सर्वोऽपि ममैवापेक्षितो युष्माकमप्यत्र भागः कथं स्यान्नास्त्येव युष्माकं भाग इति । निराकृतवन्तं तमिन्द्रं देवाः प्रार्थयमाना इदमब्रुवन्। हे मघवन्नोऽस्माकमप्यस्त्वेव सर्वथा भागोऽपेक्षित एवेति । ततः स इन्द्रस्तान् देवानीक्षतैवानुग्रहदृष्ट्याऽवलोकितवानेव ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये ) दशमः खण्डः ॥१० ॥
॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के दशम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) तै ० सं ० ६.५.५.३.४ ।
पृष्ठ 614
पाठ पढ़ें पाठ छिपाएँ
: [ ५५२ ऐतरेयब्राह्मणम् १२.११ तृतीयपञ्चिकायां अथ एकादश: खण्ड: सा० भा०— अथ निष्केवल्यशस्त्रे याज्यां विधातुं पूर्वोपाख्यानशेषं प्रस्तौति— ( निष्केवल्यशस्त्रे याज्याविधातुमुपाख्यानावशेषप्रदर्शनम् ) ते देवा अब्रुवन्नियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नामा- स्यामेवेच्छामहा इति, तथेति, तस्यामैच्छन्त, सैनानब्रवीत्, प्रातर्वः प्रति वक्तास्मीति, तस्मात् स्त्रियः पत्याविच्छन्ते, तस्मादु ख्यनुरात्रं पत्याविच्छते, तां प्रातरुपायन्, सैतदेव प्रत्यपद्यत ॥ १ ॥
हिन्दी— ( अब निष्केवल्यशस्त्र में याज्या का विधान करने के लिए पूर्वोक्त आख्यान के अवशिष्ट भाग के दिखला रहे हैं - ) ते देवाः अब्रुवन् उन देवताओं ने कहा कि प्रासहा नामा प्रासहा नाम वाली इन्द्रस्य प्रिया वावाता जाया इन्द्र की प्रिय मध्यम जाति वाली पत्नी है। अस्याम् एव इच्छामहै हम लोग इसी से अपनी इच्छा को कहें। तथा ठीक है ( इस प्रकार परस्पर स्वीकार करते देवताओं ने ) तस्याम् ऐच्छन्त उस (प्रासहा ) से अपनी इच्छा को कहा। सा एनान् अब्रवीत् उस (प्रासहा ) ने इन ( देवताओं) से कहा कि प्रातः वः प्रति वक्ता अस्मि मैं प्रातःकाल तुम लोगों के लिए प्रत्युत्तर दूँगी । तस्मात् स्त्रियः पत्यौ इच्छन्ते इसी कारण ( लोक में ) स्त्रियाँ ( रात्रि में ) पति से ( सब कुछ) जानना चाहती हैं । तस्मादु स्त्री अनुरात्रं पत्यौ इच्छते इसी कारण रात्रि में स्त्री पति से (एकान्त में सब कुछ) जानना चाहती है। तां प्रातः उपायन् उस (प्रासहा नामक इन्द्रपत्नी ) के पास प्रात: काल ( देवता लोग) आये। साः एतद् एव प्रतिपद्यत उस (प्रासहा) ने (देवताओं से ) यह ( मन्त्र) प्रत्युत्तर में कहा । सा ० भा ० —– ते देवा इन्द्रस्याभिप्रायमजानन्तः परस्परमिदमब्रुवन्– ‘इयं वै' पुरतो दृश्यमानैवेन्द्रस्य ‘ प्रिया जाया' सा 'वावाता' मध्यमजातीया । राज्ञां हि त्रिविधाः स्त्रियः-- तत्रोत्तमजातेर्महिषीति नाम । मध्यमजातेर्वावातेति। अधमजातेः परिवृत्तिरिति ' । अत एवा- श्वमेधेऽश्वं प्रति राजस्त्रीणां कर्तव्यविशेष एतैर्नामभिराम्नातः–' भूरिति महिषी भुव इति वावाता सुवरिति परिवृक्तिः ' इति । तस्याश्च वावातायाः प्रासहेति नाम, राजप्रियत्वात्। प्रसह्य बलात्कारेण सर्वं कार्यं कर्तुं शक्तेत्यर्थः । तस्मादेतस्यामेव निमित्तभूतायां सत्यां ( १ ) ‘ चतस्त्रो जाया उपक्लृप्ता भवन्ति –महिषी, वावाता, परिवृक्ता, पालागली, सर्वा निष्किण्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय। ताभिः सहाग्न्यागारं प्रपद्यते, पूर्वया द्वारा यजमानो दक्षिणया पत्न्यः’- इति शत०ब्रा० १३.४.१.८ । ' वावाता भोग्यां न तु व्यूढा' -इति भट्टभास्करः । (२ ) तै०ब्रा० ३.९.४.५ ।
पृष्ठ 615
पाठ पढ़ें पाठ छिपाएँ
:: ]: द्वितीयोऽध्यायः एकादश खण्ड सायणाचार्यकृतभाष्योपेतम् ५५३ राजाभिप्रायं ज्ञातुमिच्छामहा इति विचार्य, तमभिप्रायं सर्वैऽङ्गीकृत्य, 'तस्यां' वावातायां स्वाभीष्टमैच्छन्त। ‘सा’ अपि वावाता 'एतान्' देवान् इदमब्रवीत् । रात्रौ राजाभिप्रायं विचरयितुं शक्यत्वात् परेद्युः प्रातःकाले वो युष्माकं प्रत्युत्तरं वक्तास्मि वक्ष्यामीति। यस्मादेवं तस्माल्लो- केऽपि प्रियाः स्त्रियः सर्वमवगन्तव्यं वृत्तान्तं पत्याववेगन्तुमिच्छन्ते। यस्माद् विविक्तावसरे सर्वमवगन्तुं सुशकं ' तस्मादु' तस्मादेव कारणात् प्रिया स्त्री, ' अनुरात्रं' रात्रिसमये विविक्तवेलायां पत्यौ सर्वमवगन्तुमिच्छते। देवास्तु प्रातःकाले वावातामुपागच्छन्। 'सा' वावाता ' एतदेव' वक्ष्यमाणमन्त्ररूपं वाक्यं प्रत्युत्तरत्वेन प्राप्तवती॥ तस्मिन् मन्त्रे ' पादत्रयं पठति— ( याज्यायाः मन्त्रस्तद् व्याख्यानञ्च ).
' यद् वावान पुरुतमं पुराषाळा वृत्रहेन्द्रो नामान्यप्राः ।
अचेति प्रासहस्पतिस्तुविष्मान्' इति ॥ २ ॥
हिन्दी–(प्रासहा द्वारा कथित मन्त्र के तीन पादों को कह रहे हैं— ) पुराषाढा वृत्रहा इन्द्रः पुरातन पुरुषों में सहिष्णु और वृत्र को मारने वाले इन्द्र ने यद् पुरुतमं वावान जिस अत्यधिक ( उद्धाररूप वस्तु ) को सम्यक् प्रकार से प्राप्त किया और नामानि आप्राः ( माहेन्द्र ग्रह इत्यादि अपने ) नामों को सभी ओर से पूरित किया । प्रासहस्पतिः तुविष्मान् अचेति प्रभूत बलों के स्वामी और प्रभूत धन वाले (इन्द्र) ने. ( देवताओं की इच्छा को समझ लिया ) । सा ० भा ० — पुरातनानां पुरुषाणां मध्ये सहिष्णुः पुरुष इन्द्रः स व पुरुतममतिशयेन प्रभूतं यदुद्धारितरूपं वस्तु 'वावान', आदौ दीर्घश्छान्दसः, ' वावान' सम्यग्भेजे लब्धवानि- त्यर्थः । स च वृत्रहेन्द्रः तस्मिन्नुद्धारे ' नामानि, आ प्रा' माहेन्द्रग्रहो माध्यंदिनमित्यादीनि स्वाभीष्टनानानि ‘ आ ’ समन्तात् पूरितवान्। प्रकृष्टं सहो बलं येषां ते प्रासहाः, तेषां पतिः- प्रासहस्पतिरिन्द्रः, ‘ अचेति' अजानाद् देवानामभीष्टं ज्ञातवान् कटाक्षेणानुगृहीतवानित्यर्थः । स चेन्द्रः ‘ तुविष्मान् बहुधनवान्॥ अस्मिस्तृतीयपादे पादयोरप्रसिद्धत्वादर्थं व्याचष्टे— इन्द्रो वै प्रासहस्पतिस्तुविष्मान् ॥ ३ ॥
( १ ) यस्मादेवं प्रासहा स्वयमेवेन्द्राभिप्रायं निश्चेतुं शक्ता हि रात्रौ पत्युर्मुखादेव श्रुत्वा प्रातर्वः प्रतिवक्तास्मि — इत्यब्रवीत्, न तु स्वयमेव तदभिप्रायमाविष्कृतवती तस्मादिदानीमपि सर्वाः स्त्रियः पत्यावेवेच्छन्ते पतिमुखादेव तदभिप्रायं ज्ञातुमिच्छन्ति ज्ञातमप्यर्थं तमेव पृच्छन्ति'— इति भट्टभास्करः । (२) ऋ० १०.७४.६ । ( ३ ) 'स विष्णुः ' पुराषाट्' इन्द्रः ' -इति वा पाठः । ऐ.ब्रा.पू-३५
पृष्ठ 616
पाठ पढ़ें पाठ छिपाएँ
: [ ५५४ ऐतरेयब्राह्मणम् १२.११ तृतीयपञ्चिकायां हिन्दी— इन्द्रः वै इन्द्र ही प्रासहस्पतिः तुविष्मान् प्रभूत बलों के स्वामी और प्रभूत धन से सम्पन्न हैं। चतुर्थ पादमनूद्य व्याचष्टे— ' यदीमुश्मसि कर्तवे करत्तद्' इति यदेवैतदवोचामाकरत्तदित्येवैनां- स्तदब्रवीत्॥४ ॥
हिन्दी—( ऋचा के चतुर्थ पाद को कहकर उसका व्याख्यान कर रहे हैं- ) ‘ यदीमुश्मसि कर्तवे करत्तद्' अर्थात् ( ववाता का कथन है कि) हे देवो! हम जो करवाना चाहते हैं (इन्द्र ने ) उस सभी की पूर्ण कर दिया है' इति यद् एव एतद् अवोचाम् इस प्रकार जो कुछ लोगों ने कहा तद् आकरत् वह उन्होंने किया है— इत्येव यही एनान् इन ( देवताओं) से अब्रवीत् उस प्रकार (उस वावाता ने) कहा है। सा ० भा ० — पादत्रयोक्तं वावाताया वचनं श्रुत्वा चतुर्थपादेनं देवाः परस्परं ब्रुवते। ‘ यदि, ईं ’ यदिदमस्माकमप्यत्र भागोऽस्त्वित्येतादृशं कार्यं ' कर्तवे ' कर्तुमुश्मसि वयं सर्वे कामयामहे ' तत् सर्वं करत्' इन्द्रः संपूर्णमकरोत्। अथवा चतुर्थपादोऽपि वावाताया एव वचनम्। हे देवाः, वयं सर्वे यदिदं कार्यं कर्तुं कामयामहे तद् युष्मद् भागप्रदानरूपं कार्यमिन्द्रोऽकरोदिति । इदमेव द्वितीयं व्याख्यानं यदेवैतदित्यादिब्राह्मणेन स्पष्टीकृतम्। हे देवाः मया सह युष्माभिरालोचितं कार्यमिन्द्रः कृतवानित्यनेनैव प्रकारेण तस्मिन् मन्त्रे सा वावाताऽब्रवीत्॥ उपाख्यानशेषं दर्शयति- ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति, •तथेति, तस्या अप्यत्राकुर्वन् ॥ ५ ॥
हिन्दी-(उपाख्यान के अवशिष्ट भाग को कह रहे हैं - ) ते देवाः अब्रुवन् तब उन देवतओं ने परस्पर कहा कि अस्याः अपि इह अस्तु इस (वावाता) का भी इसमें ( भाग ) होना चाहिए; क्योंकि या जो (वावाता ) अस्मिन् इस ( निष्केवल्यशस्त्र ) में नः हमारा ( उपकार करने वाली है उसने ) कं न अविदत् कुछ भी नहीं पाया। तथा इति ठीक है, (इस प्रकार स्वीकार करते हुए देवताओं ने ) तस्याः अपि उस (वावाता) का भी अन अकुर्वन् इस ( निष्केवल्यशस्त्र ) में भाग कर दिया । सा० भा ० — ते देवा वावाताया उत्तरं श्रुत्वा परस्परमिदमब्रुवन्। वावाता नोऽ-स्माकमुपकारिणी, ‘ अस्मिन्’ निष्केवल्ये शस्त्रे 'कम् अपि संबन्धं ' न वा अविदत्' नैव लब्धवती । अस्या अपि वावाताया इह निष्केवल्ये शस्त्रे संबन्धोऽस्तु । 'इति’ एतदङ्गीकृत्य तस्या अप्यत्र संबन्धमकुर्वन् ।
पृष्ठ 617
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः एकादशः खण्डः सायणाचार्यकृतभाष्योपेतम् ५५५ इदानीं धाय्यां विधत्ते— तस्मादेषाऽत्रापि शस्येत' यद्वावान पुरुतमं पुराषाळिति ॥ ६ ॥
हिन्दी—( अब धाय्या का विधान कर रहे हैं - ) तस्मात् इसी कारण अन्न अपि इस (निष्केल्यशस्त्र) में भी ‘ यद्वावान् पुरुतमं पुराषाट्' इति एषा यह (ऋचा) शस्यते (धाय्या के रूप से ) शंसित की जाती है । सा० भा० — यस्माद् वावातायाः संबन्धः कृतः, तस्मात्कारणाद् यद्वावानेत्येषापि ऋक् ‘ अत्र’ निष्केवल्यशस्त्रे धाय्यात्वेन शंसनीया ॥ अस्या ऋचो वक्त्री येन्द्रस्य जायोक्ता तत्प्रशंसाबुद्धिस्थं कंचित्प्रयोगं विधत्ते— सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम; को नाम प्रजा- पतिः श्वशुरस्तद्याऽस्य कामे सेना जयेत्, तस्या अर्थात् तिष्ठंस्तृण- मुभयतः परिच्छिद्येतरां सेनामभ्यस्येत्- 'प्रासहे कस्त्वा पश्यतीति', तद्यथैवादः स्नुषा श्वशुराल्लज्जमाना निलीयमानेत्येवमेव सा सेना भज्यमाना निलीयमानैति, यत्रैवं विद्वांस्तृणमुभयतः परिच्छिद्येतरां सेनामभ्यस्यति 'प्रासहे कस्त्वा पश्यतीति' ॥७॥
हिन्दी- प्रासहा नाम वाली इन्द्रस्य प्रिया जाया इन्द्र की प्रिय पत्नी वावाता सेना वै मध्यम कुलोत्पन्न सेना ही है। कः नाम प्रजापतिः श्वसुरः 'क' नाम वाले प्रजापति (इस सेना के ) श्वसुर हैं । तत् तो ' अस्य सेना जयेत' इसकी सेना विजयी हो कामे ( ऐसी ) कामना होने पर तस्याः अर्थात् उस सेना की आधी दूरी पर तिष्ठन् खड़े होकर और एक तिनके को लक्ष्य करके ( बाण के समान यह कहते हुए ) फेंक दे कि ' प्रासहे कः त्वा पश्यति हे प्रासहे । ( तुम्हारे श्वसुर) प्रजापति तुमको देख रहे हैं। तद्यथैव तो जिस प्रकार (लोक में) अदः स्नुषा एक वधू श्वसुरात् लज्जमाना श्वसुर से लज्जा करती हुई, तथा निलीयमाना अपने को छिपाती हुई एति चली जाती है एवमेव सा सेना इसी प्रकार वह ( शत्रु की ) सेना भज्यमाना निलीयमाना एति भागती हुई और ( यत्र तत्र) छिपती हुई चली जाती है । यत्र जिस ( युद्ध ) में एवं विद्वान् इस प्रकार जानने वाला तृणम् उभयतः परिच्छिद्य तिनके को दोनों किनारों से काटकर इतरां सेनाम् अभ्यस्यति अन्य ( शत्रु ) की सेना को अभिलक्षित करके (यह कहते हुए) फेक देता है कि 'प्रासहे कः त्वा पश्यति हे प्रासहे! प्रजापति तुमको देख रहे हैं । सा० भा० -–पूर्वत्रास्येन्द्रस्य प्रिया जाया वावाता प्रासहा नामेति यैवमुक्ता, सेयं 'लोकव्यावहारे ' सेना वै' युद्धार्थोद्यतसेनारूपेण वर्तते इन्द्रजायायाः सेनाभिमानित्वात्। तच्च ( १ ) ‘ यद्वावानेति धाय्या’– इति आश्व० श्रौ० ५.१५.२१।
पृष्ठ 618
पाठ पढ़ें पाठ छिपाएँ
: [ ५५६ ऐतरेयब्राह्मणम् १२.११ तृतीयपञ्चिकायां शाखान्तरे समाम्नातम्— ‘ इन्द्राणी वै सेनाया देवता' ' इति। 'को नाम' क इत्यनेन नाम्ना युक्तः प्रजापतिः, तस्या इन्द्रजायायाः श्वशुरः प्रजापतेरिन्द्रोत्पादकत्वात्। तथा चान्यत्र श्रूयते— ‘ प्रजापतिरिन्द्रमसृज़तानुजावरं देवानाम्' इति । तत्तथा सति, अस्य लौकिकस् पुरुषस्य युद्धार्थिनो या स्वकीया सेना जयत्विति कामो भवति । एतस्मिन् कामे सति स पुमांस्तस्याः स्वकीयायाः सेनाया अर्धात् तिष्ठन्नर्धभागेऽतीते भूमाववस्थितः किचित् तृणमध्य आदाय मूलतोऽग्रत उभयतः परिच्छिद्येतरां परकीयां सेनामभिलक्ष्यास्येत्, बाणवत् क्षिपत्। तत्रायं मन्त्रः--'प्रासहे कस्त्वा पश्यति' इति । हे प्रासहाख्ये, इन्द्रजाये, ‘ कः ’ प्रजापतिः त्वदीयः श्वशुरः, ‘त्वां’ चक्षुषा पश्यति। अनेन मन्त्रेण तृणे क्षिप्ते सति परसेनाया भङ्गे दृष्टान्त उच्यते। ‘ तत्’ तस्मिन् विवक्षितार्थे ‘ यथैवाद: ' निदर्शनं भवति, तथा कथयामः — अनूचानाना- मीशानां वा गृहेषु युवतिः स्नुषा स्वकीयं श्वशुरं दृष्ट्वा तस्माल्लज्जमाना लज्जां प्राप्नुवती ‘निलीयमाना’ वस्त्रावगुण्ठनहस्ताद्यङ्गसंकोचेन तिरोहितवसना 'एति ' गृहाभ्यन्तरमागच्छति । एवमेव ‘ सा ' परकीया सेनाऽभिमन्त्रिततृणरूपास्त्रप्रक्षेपेण ' भज्यमाना " सती तत्र तत्रारण्य- पर्वतादिषु ‘ निलीयमाना’ तिरोहिता सती स्वकीयं देशमेति । कुत्रायमितरसेनाभङ्गः? इत्या- शङ्क्य ‘ यत्रैवम्’ – इत्यादिना पूर्वोक्त एवार्थः स्पष्टीकृतः ॥ प्रासङ्गिकं परिसमाष्य प्रकृतमनुसरति— ... तान् इन्द्र उवाचापि वोऽत्रास्त्विति; ते देवा अब्रुवन्- विराड् याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंषदक्षरा ॥८ ॥
हिन्दी— ( अब प्रासङ्गिकता को छोड़कर प्रकृत कथन का अनुसरण कर रहे हैं— ) तान् इन्द्रः उवाच उन ( देवताओं ) से इन्द्र ने कहा कि (हे देवताओ! ) अत्र इस (निष्केवल्यशस्त्र) में वः अपि अस्तु तुम लोगों के लिए भी भाग मिले। तब ते देवाः अब्रुवन् उन देवतओं ने कहा कि निष्केवल्यस्य निष्केवल्यशस्त्र की या त्रयस्त्रिशं- दक्षरा विराट् जो (' पिबा सोमम्' ) तैंतीस अक्षरों वाला विराट् छन्द है, वह याज्या अस्तु याज्या होवे । सा० भा ० — वावाताया वचनेनेन्द्रसमीपं प्रति देवेष्वागतेषु ‘तान्’ देवान् इन्द्र एव- ( १ ) तै ० सं ० २.२.८.१ । द्र० 'इन्द्राणी देवी सुभाग सुपत्नी, उदंशेन पतिविद्ये जिगाय त्रिंशदस्या जघनं योजनानि, उपस्थ इन्द्रं स्थविरं बिभर्ति। सेना ह नाम पृथिवी धनञ्जया, विश्वव्यचा अदितिः सूर्यत्वक् । इन्द्राणी देवी प्रासहा ददाना, सा नो देवी सुहवा शर्म यच्छतु॥ - इति द्वे ऋचौ, तै०ब्रा० २.४.२.७। ( २ ) तै ० ब्रा० २.२.१० । तै ० सं० ६.६.११.२; ७.२.१०.२; २.३.४.२( ) ' - ३ अदः अधुना इति भट्टभास्करः ॥ ( ४ ) ‘ भज्यमाना नश्यत्परिकरा' इति भट्टभास्कर: ' ताड्यमाना' –इति षड्गुरुशिष्यः ।
पृष्ठ 619
पाठ पढ़ें पाठ छिपाएँ
]:: द्वितीयोऽध्यायः एकादशः खण्डः सायणाचार्यकृतभाष्योपेतम् ५५७ युष्माकमप्यत्र निष्केवल्येऽपेक्षितो भागोऽस्त्विति। ततो देवाः ‘ त्रयस्त्रिंशदक्षरा’ ‘. विराट्छन्दस्कांमुवाच पिबा सोमम्’१ इत्येतां याज्यां प्रार्थितवन्तः॥ तां याज्यां प्रशंसति— ( याज्याप्रशंसनम् ) त्रयस्त्रिंशद् वै देवा अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्याः प्रजापतिश्च वषट्कारश्च; देवता अक्षरभाजः करोत्यक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति, देवपात्रेणैव तद्देवतास्तृप्यन्ति ॥९ ॥
हिन्दी— ( उस याज्या की प्रशंसा कर रहे हैं - ) अष्टौ वसवः आठ वसुगण, 'एकादश रुद्राः ग्यारह रुद्रगण, द्वादश आदित्याः बारह आदित्यगण, प्रजापतिः च वषट्कारः च प्रजापति और वषट्कार– ये त्रयस्त्रिंशत् देवाः ये तैंतीस देवता हैं । देवताः अक्षरभाजः करोति इन देवताओं को अक्षरों में (विराट्छन्द के अक्षरों और देवताओं की संख्या में समानता के कारण ) सम्मिलित देता है। तद् अक्षरम् अक्षरम् अनु उन अक्षर- अक्षर को अनुसरण करते हुए देवताः प्रपिबन्ति देवता प्रकृष्ट रूप से (सोम का) पान करते हैं । तत् इस (प्रयोग) से देवतापात्रेण ( अक्षररूपी ) देवपात्र से देवताः तृप्यन्ति देवता लोग तृप्त होते हैं । सा० भा ० — एतद् वाक्यं पूर्वत्रैव व्याख्यातम्। यद्यप्यस्या याज्यायास्त्रयस्त्रिंशद- क्षराणि साक्षान्न दृश्यन्ते, तथाऽपि संयोगाक्षरादिविभागेन संख्या पूरणीया । ततो देवसाम्यात् प्रत्यक्षरमेकैकदेवतातृप्तिः सिध्यति॥ अथाभिचारप्रयोगं विधत्ते— ( याज्यायाः अभिचारप्रयोगः ) यं कामयेतानायतनवान् स्यादित्यविराजाऽस्य यजेद् गायत्र्या वा त्रिष्टुभा वाऽन्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्क- रोति ॥१० ॥
हिन्दी— ( अब याज्या के अभिचार-प्रयोग को कह रहे हैं— ) यम् कामयेत जिस (यजन करने वाले ) को (होता) कामना करे कि अनायतनवान् स्यात् यह (गृहादि) आश्रय से विहीन होवे तो वह अस्य इस (यजमान) का अविराजा यजेत् विराट् छन्द वाली (ऋचा) से याज्या न करे तथा गायत्र्या वा त्रिष्टुभा वा अन्येन वा छन्दसा गायत्री, त्रिष्टुप् अथवा अन्य छन्द वाली (ऋचा) से वषट्कुर्यात्वषट्कार करे। तत्इस (प्रयोग) से एनम् इस (यजमान) को अनायतनवन्तम्करोति आश्रय से विहीन कर देता है। (१ ) ऋ० ७.२२.१ ।
पृष्ठ 620
पाठ पढ़ें पाठ छिपाएँ
: [५५८ ऐतरेयब्राह्मणम् १२.१२ तृतीयपञ्चिकायां सा० भा ० — आयतनमाश्रयो गृहादिरस्यास्तीति ' आयतनवान्' तद्विपरीतो यजमा-नोऽस्त्विति कामयमानो होता विराड्व्यतिरिक्तगायत्र्यादिच्छन्दोयुक्तां याज्यां पठित्वा तदन्ते वषट्कुर्यात्।' तथा सत्यायतनहीनो यजमानो भवति॥ उक्तार्थव्यतिरेकं विधत्ते— ( अभिचारप्रयोगव्यतिरेकविधानम् ) यं कामयेताऽऽयतनवान् स्यादिति विराजाऽस्य यजेत्, पिबा सोममिन्द्र मन्दतु त्वेत्येतयाऽऽयतनवन्तमेवैनं तत्करोति ॥११ ॥
हिन्दी—( पूर्वोक्त अभिचार के व्यतिरेक का विधान कर रहे हैं— ) यं कामयेत जिस ( यजमान ) को ( होता) कामना करे कि आयतनवान् स्यात् यह आश्रय से सम्पन्न होवे तो अस्य इस ( यजमान) की विराजा विराट् छन्द वाली (ऋचा ) 'पिबा सोममिन्द्र मन्दतु त्वा' अर्थात् हे इन्द्र! सोम का पान करो यह तुमको आनन्दित करे– 'इति एतया' इस से यजेत् याज्या करे । तत् इस (प्रयोग ) से एनम् इस (यजन करने वाले ) को आयतनवन्तं करोति आश्रय - स्थान से सम्पन्न करता है।. ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयंब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये ) एकादशः खण्डः ॥११ ॥ ·
11. इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के एकादश खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वादश: खण्ड: सा० भा ० — ' स्तुतमनुशंसति' इतिविधिबलेन निष्केवल्यशस्त्रस्य स्तोत्रपूर्वकत्वाद् बुद्धिस्थस्य साम्न आश्रयत्वेन तृचं विधातृमाख्यायिकामाह— ( निष्केवल्यशस्त्रात्पुरस्तात्स्तोत्रियसाम्नस्तृचविधानम् ) ( तत्र सामस्वरूप्रशंसनम् ) ऋक्च वा इदमग्र साम चाऽऽस्तां, सैव नाम ऋगासीदमो नाम .साम, सा वा ऋक्सामोपावदन्- मिथुनं संभवाव प्रजात्या इति; ( १ ) ‘वषटकुर्याद् यजेदित्यर्थः ’ । यागस्यासमीचीनतां ख्यापयितुं यजेदिति नोक्तम्। विराव्यतिरिक्तेन केनचिच्छन्दसा वषट्कारमात्रमिव कुर्यादित्यर्थः ' – इति भट्टभास्करः । ( २ ) 'पिबा सोममिन्द्र मन्दतु त्वेति याज्या' – इति आश्व० श्री०. ५.१५.२३। ( ३) ता०ब्रा० ९.८.१० ।