ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 621–630

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 621–630

पृष्ठ 621

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 621 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः:: ]: द्वादश खण्ड सायणाचार्यकृतभाष्योपेतम् ५५ ९ नेत्यब्रवीत् साम ज्यायान् वा अतो मम महिमेति; ते द्वे भूत्वोपा- वदतां; ते न प्रतिचन समवदत; तास्तिस्रो भूत्वोपावदंस्तत् तिसृभिः समभवद्, यत्तिसृभिः समभवत्, तस्मात् तिसृभिः स्तुवन्ति, तिसृभि- रुद्गायन्ति, तिसृभिर्हि साम संमितं, तस्मादेकस्य बह्व्यो जाया भवन्ति, नैकस्यै बहवः सह पतयो यद्व तत्सा सामश्च समभवतां, तत्सामाभवत्, तत्साम्नः साम्नत्वम् ॥ १ ॥

हिन्दी — अग्ने (ऋक् और साम के मेल के ) पहले ऋक् च साम च (छन्दोबद्ध ) ऋक् और (गेयात्मक ) साम— ये दोनों आस्ताम् अलग- अलग थे । सा एव नाम ऋग् ऋक् ‘सा' नाम वाला तथा अमः साम साम ' अम' नाम वाला था । सा वै ऋक् उस ऋक् ने साम उपावदन् साम के समीप आकर कहा कि प्रजात्यै सन्तानोत्पत्ति के लिए मिथुनं संभवावः हम दोनों परस्पर मिथुन (स्त्रीपुरुष ) हो जावे। साम नेति अब्रवीत् साम ने कहा- नहीं; क्योंकि मम महिमा मेरा महत्व अतः ज्यायान् एव तुमसे अधिक है। ते द्वे भूत्वा (साम के बराबर होने के लिए ) वे (ऋचाएँ ) दो होकर उपावदताम् उसी प्रकार (मिथुन बनाने के लिए साम से) बोलीं । ते प्रतिचन उन दो (ऋचाओं) के प्रति न समवदत (मिथुन बनाने के लिए साम ) तैयार नहीं हुआ । तब ताः तिस्रः भूत्वा वे ऋचाएँ तीन होकर उपावदन् ( मिथुन बनाने के लिए ) बोलीं। तत् तिसृभिः सह समभवत् तब ( वह साम) तीन ( ऋचाओं) के साथ संयोग किया। यत् तिसृभिः समभवत् जो तीन (ऋचाओं) के साथ ( साम ने ) संयोग किया, तस्मात् इसी कारण तिसृभिः स्तुवन्ति तीन (ऋचाओं ) के द्वारा (सामगायक ) स्तुति करते हैं, अर्थात् तिसृभिः उद्गायन्ति तीन ऋचाओं से उद्गातृ गान करते हैं; क्योंकि तिसृभिः हि साम सम्मितः तीन ऋचाओं के साथ साम संवृत हुआ। तस्मात् इसी कारण ( लोक में भी) एकस्य बहुशः जाया भवन्ति एक ( सामस्थानीय पुरुष ) की अनेक (ऋक्स्थानीय) पत्नियाँ होती हैं । एकस्यै एक पत्नी के लिए बहवः पतयः बहुतेरे पति न सह सहमत नहीं होते। यद्वै तत् इस प्रकार जो सा च अम: च सा ( नाम वाला ऋक्) और अम (नाम वाला साम) सम- भवताम् संयुक्त हुए तत् साम अभवत् वह साम हुआ। तत् साम्नः सामत्वम् वही साम का सामत्व ( साम नाम वाला ) होना है । सा० भा० — यत् ‘ इदम्’ इदानीमृगाश्रितं सामोभयमेलनरूपमधीयते, तदिदमग्रे मेल- नात्पुरा ऋगक्षरपदरूपा पृथग्भूता, साम च गीतिरूपं पृथग्भूतम् -इत्येवं द्वे अपि पृथगेवाऽऽस्तां तयोः परस्परमेलनयोग्यतां प्रदर्शयितुमस्मिन्नेव सामनाम्न्यन्तर्भावः प्रदर्श्यते । · सामेति नाम्नि यदेतत् सेति पूर्वमक्षरं, तदेवैकं नाम, तन्नामवाच्या, ऋगासीत्। अम इत्येकं नाम तद्वाच्यं सामाऽऽसीत्। अतो मेलनयोग्यतायां सत्यां सैव ऋक्, साम प्रत्युपावदत्___

पृष्ठ 622

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 622 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५६० ऐतरेयब्राह्मणम् १२.१२ तृतीयपञ्चिकायां समीपमागत्योक्तवती । आवामुभे मिथुनं यथा भवति तथा संभवाव। तच्च संभवनं प्रजोत्पत्त्यर्थ- मिति। तदुक्तं साम निराकरोत् स्वाभिप्रायं चावदत्– अतोऽस्मादृङ्महिम्नो ‘ ज्यायान्’ अभ्यधिको ‘ मम' साम्नो महिमा; तस्माद् विवादश्च विवाहश्च तुल्ययोरिति न्यायविरोध इति । ततः साम्ना स्वस्य तुल्यत्वसिद्धये ते.ऋचौ द्वे संभूयोपेत्य पूर्ववदुक्तवत्यौ । चनेत्यक्षरद्वयात्मको निपातोऽपिशब्दार्थः ' । ते द्वे ऋचौ प्रत्यपि साम 'न समवदत' संवादमङ्गीकारं नाकरोत्। पुनस्ता ऋचस्तिस्रो भूत्वोपेत्य पूर्ववदुक्तवत्यः । तदानीं ताभिस्तिसृभिः ‘ समभवत्' संभवनं संयोगमकरोत्। यस्मात् संयोगः संभूतः, तस्मात् समयुक्ताभिस्तिसृभिर्ऋग्भिः सामगाः ‘स्तु- वन्ति' यज्ञे स्तोत्रं कुर्वन्ति । तस्यैव व्याख्यानं— 'तिसृभिरुद्गायन्ति' इति। औद्गात्रं कर्म कुर्वन्तीत्यर्थः। अत एव शाखान्तरे श्रूयते - 'एकं साम तृचे क्रियते स्तोत्रियम्' इति। यद्यपि च्छन्दःसामनामके ग्रन्थ एकस्यामृचि सामोत्पन्नं तथाऽप्यत्तराख्ये ग्रन्थ आम्नातेषु तृचेषु प्रयोगकाले साम गातव्यम्। तत्र प्रथमायामृचि योनिरूपायां यत्सामोत्पन्नं छन्दः सामग्रन्थे सामाम्नातम्, र तदवलोक्य तत्सादृश्येन, द्वितीयतृतीययोर्ऋचोर्गानं समूहनीयम्। एतदपि शाखान्तरे विहितम्— ‘ यद्योन्यां तदुत्तरयोर्गायति' इति । तस्मादौद्गात्रं कर्म तिसृभिर्ऋग्भि- र्निष्पद्यते । यस्मादाख्यानोक्तप्रकारेण तिसृभिर्ऋग्भिः 'साम संमितं साम्न एकस्य महिमा तुल्यः संवृतः, तस्माल्लोकेऽप्येकस्य पुरुषस्य समास्थानीयस्य बहव्यो जाया ऋक्स्थानीया भवन्ति, न तु विपर्ययेणैकस्याः स्त्रिया 'बहव: ' पतयः परस्परैकमत्येन 'सह'" वर्तमान दृश्यन्ते। यस्मादृगाक्षरपदादिरूपा सेत्यनेन शब्देनाभिधेया साम चामशब्देनाभिधेयं सत्पश्चा- दुभयं संयुक्तं सत्सामाभवत् तस्मादेकोभयात्मकवस्तुनः सामनाम संपन्नम् ॥ उक्तार्थवेदनं प्रशंसति— ( १ ) पा० सू० ८.१.५७। अमरकोश ३.४.३ । ( २ ) गेयारण्यगानग्रन्थयोरेकं नाम छन्दस्सामेति वेदसामेति च राणायनशाखाध्येतॄणाम्। ( ३ ) तथाविधगानानि ऊहोह्ययोर्द्रष्टव्यानि तादृशगानसमूहात्मकावेव हि तौ गानग्रन्थौ । तयोः पौरुषेयत्वं च, अत एव मीमांसायां सिद्धान्तितम् ( जै० न्या० वि० ९.२.१.१-२ )। ( ४ ) ‘ संमानं संश्लेष:’ – इति षड्गुरुशिष्यः । 'संमितं निर्वर्त्तितम्इति भट्टभास्करः।. ( ५ ) सह पतय इत्यत्र सहग्रहणं किमर्थमुच्यते। पर्यायेण बहवः पतयो यथा स्युरिति । तथाहि— ‘दत्तामपि हरेत् कन्यां श्रेयांश्चेद् वर आव्रजेत्' (याज्ञ० ३.६५ ) – इति श्रेयसोऽन्यस्य ·· वरस्य लाभे वाग्दत्ताया अक्षतयोन्याश्च पूर्वपतित्यागेनान्यं पतिमिच्छन्ति। तथा प्राजापत्यं वचनम्—‘नष्टे मृते प्रव्रजिते क्लीवेऽथ पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते’— इति । तस्मात् सह बहवः पतयो न स्युरिति प्रतिपादनार्थं सह ग्रहणम्। एवं स्थिते ‘ तस्मान्नैका द्वौ पती विन्दते' – इति या श्रुतिः, 'न द्वितीयो हि साध्वीनां क्वचिद् भर्तोपदिश्यते ' ( अनु० ५.१६२ )—– इति या च स्मृतिः, तत् सर्वं सहाभिप्रायं वेदितव्यम्— इति भट्टभास्करः । ( ६ ) 'साम सम्मितमृचा । अस्यतेर्वा । ऋचा समं मेन इति नैदाना: ' इति निरु० ७.१२ ।

पृष्ठ 623

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 623 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ] द्वितीयोऽध्यायः द्वादश खण्ड सायणाचार्यकृतभाष्योपेतम्ः ५६१ सामन् भवति य एवं वेद ॥ २ ॥

हिन्दी—( पूर्वोक्त अर्थ के ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार

जानता है, वह सामन् भवति साम ( सभी के द्वारा अभ्यर्हित ) के समान हो जाता है ।

सा ० भा ० — ऋक्सामयोरेकत्ववेदिता यः, स सर्वैरभ्यर्हितैः सदृशा१ भवति ॥

लौकिकवृतान्तोदहरणेनापि सामस्वरूपं प्रशंसति— यो वै भवति, यः श्रेष्ठतामश्मुते, स सामन् भवत्यसामन् य इति हि निन्दन्ति ॥ ३ ॥

हिन्दी— ( लौकिकवृत्तान्त के उदाहरण द्वारा साम के स्वरूप की प्रशंसा कर रहे हैं— ) यः वै भवति जो ऐश्वर्य से सम्पन्न होता है, और यः श्रेष्ठताम् अश्नुते जो श्रेष्ठता को प्राप्त करता है, सः सामन् भवति वह साम ( सभी द्वारा अभ्यर्हित अथवा समदृष्टि वाला) होता है तथा यः असामन् जो असामन् ( असमान दृष्टि वाला) होता है, इति हि निन्दन्ति उसकी सभी लोग निन्दा करते हैं। सा० भा ० - यः पुमान् भूतिमैश्वर्य प्राप्नोति, यश्च विद्यावृत्ताम्यां श्रेष्ठत्वं प्राप्नोति, स सर्वोऽपि सामन् भवति सर्वेषु स्वकीयत्वबुद्धया समदृष्टिर्भवति। अन्यथा सर्वे जनास्तम् ‘ असामन् यः ’ पक्षपातीति निन्दन्ति। अतः सामान्यरूपस्य लोके प्रशस्तत्वाद् अत्राप्यक्षर-. पाठस्य गानस्य चैकत्वेन सामत्वं प्रशस्तमित्यर्थः ॥ नन्वस्त्वेवं सामत्वं निष्केवल्यशस्त्रे किमायातमित्याशङ्क्य सामसादृश्येन शस्त्रप्रशंसां दर्शयति- ( सामसादृश्येन निष्केवल्यशस्त्रप्रशंसा ) ते वै पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वा कल्पेताम्- आहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुदगीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च ॥४ ॥

हिन्दी— ( अब साम की सदृशता से निष्केवल्यशस्त्र की प्रशंसा कर रहे हैं— ) ते वै वे दोनों ( आहाव इत्यादि शस्त्र के अवयव) रूप में पञ्च अन्यद् भूत्वा पञ्च अन्यद् ( १ ) 'स सामन् साम्नि साधुर्निपुणतरो भवति ’ — इति भट्टभास्करः । ( २ ) ' सामन् सामन्यः पूज्य: ’ — इति षड्गुरुशिष्यः । ( ३ ) ‘ यो ह्युक्तगुणरहितो निन्द्यः पुरुषः तं खलु विद्वांसोऽसामन्योऽयमिति निन्दन्ति गर्हन्ते। साम्नि साधुः सामन्यः तत्र साधुरिति यत्। अत एव ज्ञायते सामन् भवति इत्यत्रापि सामविषयं साधुत्वमेवाभिप्रेतमिति' – इति भट्टभास्करः । ( ४ ) ' सामान्यरूपस्य' इति वा पाठः ।

पृष्ठ 624

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 624 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५६२ ऐतरेयब्राह्मणम् १२-१२ तृतीयपञ्चिकायां भूत्वा एक पाँच संख्या वाला होकर और दूसरा पाँच संख्या वाला होकर कल्पेताम् अपने व्यापार में समर्थ होते हैं— ( १ ) आहावः च हिङ्कारः च (शोंसामोम् यह) आहाव और (उद्गाता द्वारा पढ़ा जाने वाला) हिङ्कार ( २ ) प्रस्तावः च प्रथमा च ऋक् प्रस्तोता द्वारा गेय सामावयव प्रस्ताव और प्रथमा ऋचा ( ३ ) उद्गीथः च मध्यमा च उद्गाता द्वारा गेय उद्गीथ और द्वितीय ऋचा ( ४ ) प्रतिहारः च उत्तमा च (प्रतिहर्ता द्वारा गेय) प्रतिहार और अन्तिम ऋचा ( ५ ) निधनं च वषट्कारः च ( सभी के द्वारा अन्त में गाये जाने वाला) ( सभी सामगायकों द्वारा गंये ) निधन और ( याज्या के अन्त में शंसन किया जाने वाला) वषट्कार। सा० भा ० — ‘ ते वै ' त एव वक्ष्यमाणाः आहावादयः शस्त्रावयवाः पञ्चसंख्याका ‘ अन्यत्’ पृथगेव शस्त्ररूपं भूत्वा वर्तन्ते। ते च शस्त्रसामनी स्वावयवोपेते उभे 'कल्पेतां ’ स्वव्यापारसमर्थे भवतः । ‘आहाव: ' शोंसावोमिति मन्त्रः । स्तोत्रिये तृचे 'प्रथममध्यमोत्तमाः ' तिस्रं ऋचः । याज्यान्ते पठितव्यो 'वषट्कारः ' - तदेतत्पञ्चकं शस्त्रस्वरूपम्। उद्गात्रा पठि-तव्यः साम्न आदौ हिमित्येवंशब्दो 'हिङ्कारः । प्रस्तोत्रा गातव्यः सामावयवः ‘ प्रस्तावः ’ उद्गात्रां गातव्य ‘उद्गीथः'। प्रतिहर्त्रा गातव्यः 'प्रतिहार:' । अन्ते सर्वैर्गातव्यो भागो 'निध-नम् —तदेतत्पञ्चकं स्तोत्रस्वरूपम्। अतः सामसादृश्येन निष्केवल्यशस्त्रं प्रशस्तम्॥ प्रकारान्तरेण प्रशंसति— ( प्रकारान्तरेण प्रशंसनम् ) ते यत्पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वा कल्पेतां, तस्मादाहुः पाङ्क्तो यज्ञः, पाङ्क्ताः पशव इति ॥५ ॥

हिन्दी - ( पुनः प्रकारान्तर से प्रशंसा कर रहे हैं - ) ते वे दोनों यत् पञ्च अन्यद् भूत्वा पञ्च अन्यद् भूत्वा जो पाँच एक और पाँच दूसरा होकर कल्पेताम् अपने- अपने व्यापार में समर्थ होते हैं तस्मात् इसी कारण पाङ्क्तः यज्ञः यज्ञ पाँच संख्या वाला है और पाङ्क्ता; पशवः पशु पाँच संख्या वाले हैं -इति आहुः ऐसा कहा जाता है । सा ० भा० — यस्मात् सामशस्त्रयोरुक्तप्रकारेण प्रत्येकं पञ्चावयवत्वं संपन्नम्, ‘ तस्मात् पञ्चानां पङ्क्तया योगादयं यज्ञः पाङ्क्तः इत्येवं ब्रह्मवादिन आहुः । तथा गवादि-पशवोऽपि चतुर्भिः पादैर्मुखेन च योगात् पाङ्क्ताः । अतो यज्ञपाङ्क्तत्वप्रसिद्धिसंवादनात् पशुसाम्याच्च शस्त्रं प्रशस्तम् ॥ ( १ ) ‘ प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनानि भक्तयः । तत्पाञ्चविध्यम्’ – इतिः ‘ ओङ्कारहिङ्का- राभ्यां साप्तविध्यम्’ – इति, ‘ अवसानं पूर्वं प्रस्ताव: ' इत्यारभ्य ‘निधनं पर्वं सामान्त्यम्’ इत्यन्तश्च पञ्चविधसूत्रग्रन्थो द्रष्टव्यः, समालोच्याः च छान्दोग्योपनिषद् ब्राह्मणस्य २.१- २१ खण्डाः ।

पृष्ठ 625

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 625 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ]:द्वितीयोऽध्यायः द्वादश खण्ड सायणाचार्यकृतभाष्योपेतम् ५६३ पुन: प्रकारान्तरेण प्रशंसति- यदु विराजं दशिनीमभि समपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति ॥ ६ ॥

हिन्दी—( पुनः प्रकारान्तर से प्रशंसा कर रहे हैं - ) यदु जो विराजं दशिनीम् अभि विराट् छन्द के ( दश अक्षरों से सम्पन्न ) दशक को अभिलक्षित करके ( दो पञ्चकों वाले शस्त्र और स्तोत्र ) समपद्येताम् समान संख्या वाले हो जाते हैं तस्मात् इसी कारण दशिन्यां विराजि दश अक्षरों वाले विराट् छन्द में यज्ञः प्रतिष्ठितः यज्ञ प्रतिष्ठित है— इति आहुः ऐसा ब्रह्मवेता कहते हैं । सा० भा०-- 'दशाक्षरा विराट्” इति श्रुत्यन्तराद् दशानामक्षराणां समूहो 'दशिनी ' । या विराडस्ति, तामभिलक्ष्य पञ्चकद्वयात्मके शस्त्रसामनी ' समपद्येतां' समभवतः विराट्-सदृशे जाते इत्यर्थः । ‘ यदु’' यस्मादेव कारणात् संख्यया विराट्सादृश्यं तस्मादभिज्ञा एव-माहुः, –दशसंख्योपेतायां शस्त्रसामरूपायां विराजि यज्ञो ‘ प्रतिष्ठितः ' व्यवस्थित इति॥ पुनरपि गृहस्थपुरुषसादृश्येन शस्त्रं प्रशंसति- ( गृहस्थपुरुषसादृश्येन प्रशंसनम् ) आत्मा वै स्तोत्रियः, प्रजाऽनुरूपः, पत्नी धाय्या, पशवः प्रगाथो, गृहाः सूक्तम् ॥७ ॥

हिन्दी – ( पुनः गृहस्थ व्यक्ति की समानता से शस्त्र की प्रशंसा कर रहे हैं - ) आत्मा वै स्तोत्रियः ( सामगायकों द्वारा ) स्तुति किया जाने वाला (तृच) गृहस्थ व्यक्ति की आत्मा ( शरीर ) रूप; प्रजाः अनुरूपः द्वितीय तृच प्रजा ( पुत्रादि) रूप, पत्नी घाय्या ( शस्त्र में प्रक्षेप की जाने वाली) धाय्या पत्नीरूप, पशवः प्रगाथः प्रगाथ पशुरूप तथा गृहाः सूक्तम् सूक्त गृहरूप है । सा० भा० – येन तृचेन सामगाः स्तुवन्ति, सः 'स्तोत्रिया: ' तृचों निष्केवल्यशस्त्रस्य प्रारम्भे शंसनीयः । स च ‘ आत्मा वै' गृहस्थशरीरस्थानीय एव । स्तोत्रियं तृचमनु द्वितीयो यस्तृचः शस्यते, सोऽयम् ‘ अनुरूपः । स च 'प्रजा' पुत्रपौत्रादिस्थानीयः । येयं ‘ धाय्या’ शस्त्रे प्रक्षेपणीया, सा पत्नीस्थानीया। यः 'प्रगाथः ', स पशुस्थानीयः । यन्निविद्धानीयं ‘ सूक्ते ’ तद्गृहस्थानीयम् ॥ एतद् वेदनं प्रशंसत्ति— ( १ ) तै० सं० ५.२.३ । ता०ब्रा० ६.८.४; ८.५.१३; शत० ब्रा० १.१.१.१२ इत्यादि । ( २ ) दशपरिमाणवतीम्। दश ‘ परिमाणम् अस्या इति शन् शतोडिनिः इति डिनिः’ —इति भट्टभास्करः ।

पृष्ठ 626

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 626 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५६४ ऐतरेयब्राह्मणम् १२.१३ तृतीयपञ्चिकायां स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया च पशुभिश्च गृहेषु वसति, य एवं वेद || ८ || हिन्दी—(इस ज्ञान की प्रशंसा कर रहे हैं — ) यः एवं वेद जो इस प्रकार जानता है, सः वै वह निश्चित रूप से अस्मिन् अमुष्मिन् च लोके इस लोक और परलोक में

प्रजया पशुभिः च प्रजा और पशुओं के साथ गृहेषु वसति गृहों में निवास करता है।

सा० भा० – पशुभिश्च सहिता इति शेषः ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये) द्वादशः खण्डः ॥१२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के द्वादश खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ त्रयोदशः खाण्डः सा० भा० —अथ निष्केवल्यशस्त्रभागाः स्वरविशेषाश्च वक्तव्याः— तत्र प्रथमभागं विधत्ते ( स्तोत्रियसामविधानम्) स्तोत्रियं शंसति, आत्मा वै स्तोत्रियः ॥ १ ॥

हिन्दी — ( निष्केवल्यशस्त्र के भागों और स्वर-विशेष का विधान करने के लिए पहले शस्त्र के प्रथम भाग का विधान कर रहे हैं — ) स्तोत्रियं शंसति स्तोत्रिय तृच का शंसन करता है; क्योंकि आत्मा वै स्तोत्रियः स्तोत्रिय (तृच) (गृहस्थ की ) आत्मा ( शरीर ) स्थानीय है । सा० भा०.—-'अभि त्वा शुर नोनुमः ' इत्यस्मिन् प्रगाथे तृचं संपाद्य सामगाः स्तु-वन्ति, ' सोऽयं स्तोत्रियस्तृचः, तमादौ शंसेत्। तस्य गृहस्थदेहस्वरूपत्वं पूर्वमेवोक्तम्॥ तस्मिन् स्तोत्रिंये स्वरविशेषं विधत्ते— तं मध्यमया वाचा शंसति, आत्मानमेव तत्संस्कुरुते ॥ २ ॥

हिन्दी –(उस स्तोत्रिय तृच स्वरविशेष का विधान कर रहे हैं — ) तं मध्यमया वाचा शंसति उस ( स्तोत्रिय तृच) का मध्यम स्वर (वाणी ) से शंसन करता है। तत् इस ( शंसन) से आत्मानमेव संस्कुरुते अपनी आत्मा ( शरीर ) को ही संस्कारित करता है। ( १ ) द्र० सायणकृता सामवेदभाष्योपक्रमणिका पृ० ८८ । ( २ ) यस्मिस्तृचे छन्दोगाः स्तुवते स तृचः सस्त्रादि स्तोत्रियः। स्तोत्रियतृचसमानच्छन्दः- प्रमाणलिङ्गदेवतार्षस्तृचोऽनुरूपः ।

पृष्ठ 627

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 627 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः त्रयोदशः खण्डः सायणाचार्यकृतभाष्योपेतम् ५६५ सा० भा० — अत्युच्चत्वमतिनीचत्वं च यस्यां वाचि नास्ति, सा ' मध्यमा’ ” तया । यावता ' वाचा ' ध्वनिना देवयजनदेशस्थाः शृण्वन्ति, न तद्बहिर्देशस्थाः, तावन्तं ध्वनिं कुर्यात्। तेन ‘ आत्मानमेव ’ देहमेव संस्कुरुते॥ तृचान्तरं विधत्ते— . ( अनुरूपसामविधानम् ) अनुरूपं शंसति, प्रजा वा अनुरूपः ॥३ ॥

हिन्दी— ( अन्य तृच का विधान कर रहे हैं - ) अनुरूपं शंसति (स्तोत्रिय तृच के समान) अनुरूप का शंसन करता है। प्रजा वै अनुरूपः क्योंकि (गृहस्थ शरीर की ) प्रजा अनुरूप है । सा ० भा० – स्तोत्रियेण तृचेन सदृशतृचोऽनुरूपः । स चात्र ' अभि त्वा पूर्वपीतये इन्द्रस्तोमेभिरायव: ' इत्येष प्रगाथः ' । उभयोः प्रगाथयोः समानच्छन्दस्त्वात् समान- देवताकत्वाच्चानुरूपत्वम्।* तमिमं तृचं शंसेत्। तस्य च पुत्रादिप्रजास्थानीयस्यानुरूपत्व- मपेक्षितं पितृपुत्रयोः कुलशीलादिना समानरूपत्वात्॥ तस्य ध्वनिविशेषं विधत्ते— स उच्चैस्तरामिवानुरूपः शंस्तव्यः, प्रजामेव तच्छ्रेयसीमात्मनः कुरुते ॥४ ॥

हिन्दी–( अनुरूप के शंसन में स्वरविशेष का विधान कर रहे हैं— ) सः अनुरूपः वह अनुरूप उच्चैस्तराम् इव अत्यधिक ऊँची ध्वनि के समान शंसव्यः शंसनीय होता है॥ तत् इस शंसन से प्रजाम् एव आत्मनः श्रेयसीम् कुरुते अपनी सन्तान को अपने से अधिक ऊँचा बनाता हैं। ' सा ० भा ० -– स्तोत्रियध्वनेरप्यधिकं ध्वनिः कुर्यात्। तथा सति स्वस्मादाधिक्यं पुत्रादौ संपादितं भवति॥ ततो यद् वावानेत्येतस्याः ५ धाय्यायाः शंसनं विधत्ते- ( धाय्यायाः शंसनविधानम्) धाय्यां शंसति, पत्नी वै धाय्या ॥५ ॥

( १ ) ‘ यां दीक्षितविमितदेशस्था एव शृण्वन्ति सा मध्यमा वाक्' – इति भट्टभास्करः । (२ ) उ०आ० ७.३.१.१-२। ( ३ ) ‘ अभि त्वा शूर’ - इति स्तोत्रीयस्य, 'अभि त्वा पूर्वपीतये '– इत्यनुरूपस्य चेत्यर्थः । द्र० आश्व०श्रौ० सू० ५.१५.१-३ । (४ ) द्र ० ता० ब्रा० ११.६.४-६ । प्रथमस्य स्तोत्रीयस्यैव सञ्ज्ञान्तरं प्रतिपदिति – ता॰ब्रा ० ६.९.१; १२.१.१ द्र० सा ० भा० । (५) ऋ० १० ९.७४.६ । द्र० आश्व०श्री० ५.१५.२१।

पृष्ठ 628

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 628 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५६६ ऐतरेयब्राह्मणम् १२.१३ तृतीयपञ्चिकायां हिन्दी— ( तदनन्तर धाय्या के शंसन का विधान कर रहे हैं - ) धाय्यां शंसति धाय्या का शंसन करता है । पत्नी वै धाय्या धाय्या ही (गृहस्थ की) पत्नी -स्थानीय है । ' सा ० भा० — पत्नीत्वं पूर्वमेवोक्तम्॥ स्वरविशेषं विधत्ते— सा नीचैस्तरामिव धाय्या शंस्तव्या ॥ ६ ॥

हिन्दी – ( धाय्या के शंसन में स्वर-विशेष का विधान कर रहे हैं - ) सा धाय्या वह

धाय्या नीचैस्तराम् इव अत्यन्त निम्न ध्वनि से शंसतव्या शंसनीय होती है ।

सा० भा० — अत्यन्तनीचो ध्वनिः कर्तव्यः ॥

होतुरेतद्वेदनं प्रशंसति— अप्रतिवादिनी हास्य गृहेषु पत्नी भवति, यत्रैवं विद्वान् नीचैस्तरां धाय्यां शंसति ॥७ ॥

हिन्दी— ( होता के इस ज्ञान की प्रशंसा का रहे हैं - ) यत्र जहाँ एतद् विद्वान् इस प्रकार जानने वाला ( होता) शंसति शंसन करता है, अस्य गृहेषु इस (यजन करने वाले ) के घर में पत्नी अप्रतिवादिनी भवति पत्नी (पति के ) प्रतिकूल वचन कहने

•वाली नहीं होती हैं ।

सा ० भा ० — पत्युः प्रतिकूलं वदतीपि 'प्रतिवादिनी' तद्विपर्ययेणानुकूलवादिनी भवति॥

'पिबा सुतस्य रसिनः’२ इत्येतं प्रगाथं विधत्ते— ( प्रगाथस्वरविधानम्) प्रगाथं शंसति ॥८ ॥

हिन्दी— ( अब ‘पिबा सोममिन्द्र' इस प्रगाथ का विधान कर रहे हैं— ) प्रगाथं शंसति ( होता) प्रगाथ का शंसन करता है। तत्र स्वरविशेषं विधत्ते-: स स्वरवत्या वाचा शंस्तव्यः, पशवो वै स्वरः, पशवः प्रगाथः, पशूनामवरुदध्यै ॥ ९ ॥

हिन्दी— ( प्रगाथ के शंसन में स्वरविशेष का विधान कर रहे हैं- ) सः वह (प्रगाथ) स्वरवत्या वाचा स्वरयुक्त वाणी द्वारा शंसतव्यः शंसनीय होता है; क्योंकि पशवः वै स्वरः पशु ही स्वर- स्वरूप हैं और पशवः प्रगाथः पशु प्रगाथ रूप है। अतः पशूनाम् ( १ ) यां दीक्षितविमितस्थानस्था अपि न शृण्वन्ति सा नीचतरा वाक्' इति भट्टभास्करः । ( २ ) उ०आ० ६.२.१६.१-२।

पृष्ठ 629

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 629 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:: द्वितीयोऽध्यायः त्रयोदशः खण्डः सायणाचार्यकृतभाष्योपेतम् ५६७ अवरुद्धयै पशुओं की प्राप्ति के लिए (स्वरयुक्त शंसन करना चाहिए) ।* सा० भा ० – ‘ स्वरवत्या’” स्वरयुक्तया वाचेत्यर्थः । प्रगाथस्य पशुत्वं पूर्वमुक्तम्। स्वरस्य पशुत्वं संख्यासाम्यात्, चत्वारः स्वराः, पशवोऽपि चतुष्पदाः ॥ ' निविद्धानीयां ' पञ्चदशर्चं सूक्तं विधत्ते—' ( निविद्धानीयपञ्चदशर्चसूक्तविधानम् ) ' इन्द्रस्य नु वीर्याणि प्रवोचम्' इति सूक्त' शंसति ॥ १० ॥

हिन्दी—( अब पन्द्रह ऋचाओं वाले निविद्धानीय सूक्त का विधान कर रहे हैं- ) ' इन्द्रस्य नु वीर्याणि प्रवोचम्' अर्थात् इन्द्र के पराक्रमयुक्त कर्मों को कहूँगा' – इति सूक्तं शंसति इस (निविद्धानीय) सूक्त का शंसन करता है । तदेतत्प्रशंसति— तद्वा एतत् प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपम्, एतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्, स परमं लोकमजयत् ॥ ११ ॥

हिन्दी - (इस सूक्त की प्रशंसा कर रहे हैं - ) तद्वा एतत् यह इन्द्रस्य प्रियं निष्केवल्यं सूक्तम् इन्द्र का प्रिय निष्केवल्य वाला सूक्त हैरण्यस्तूपम् हिरण्यस्तूप ऋषि द्वारा दृष्ट है। एतेन वै सूक्तेन इसी सूक्त द्वारा आङ्गिरसः हिरण्यस्तूपः अङ्गिरा के पुत्र हिरण्यस्तूप ने इन्द्रस्य प्रियं धाम इन्द्र के प्रिय धाम को उपागच्छत् प्राप्त किया था और सः उस (हिरण्यस्तूप ने ) परमं लोकम् परमलोक को अजयत् जीत लिया था । सा ० भा० — यदेतद् ' इन्द्रस्य नु वीर्याणि प्रवोचम्' इति निष्केवल्यशस्त्रं ' सूक्तं, तदेतदिन्द्रस्य प्रियम्; हिरण्यस्तूपनाम्ना महर्षिणा दृष्टत्वाद् 'हैरण्यस्तूपं तदेव ' एतेन’ इत्यादिना स्पष्टीक्रियते। अङ्गिरसः पुत्रो हिरण्यस्तूपाख्यो मुनिरेतेनैव सूक्तेनेन्द्रं स्तुत्वा तदीयं स्थानं प्राप्य ततोऽप्युतमं लोकमजयत्॥ वेदनं प्रशंसति— उपेन्द्रस्य प्रियं धाम गच्छति, जयति परमं लोकं य एवं वेद॥१२ ॥

हिन्दी- ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह उपेन्द्रस्य प्रियं धाम इन्द्र के प्रिय धान को गच्छति जाता (प्राप्त करता ) है और परमं लोकं जयति उससे भी परमलोक के जयति प्राप्त करता है । ( १ ) त्रैस्वर्यवती वाक् सरस्वती’— इति भट्टभास्करः । ( २ ) ' इन्द्रस्य नु वीर्याणीत्येतस्मिन्नेन्द्री निविदं दध्यात्' इति आश्व० श्रौ० ५.१५.२२। ( ३ ) ऋ० १.३३.१-१५

पृष्ठ 630

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 630 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५६८ ऐतरेयब्राह्मणम् १२.१३ तृतीयपञ्चिकायां सूक्ते ध्वनिविशेषं विधत्ते— ( सूक्ते स्वरविशेषविधानम् ) गृहा वै प्रतिष्ठा सूक्तं, तत्प्रतिष्ठिततमया वाचा शंस्तव्यं; तस्माद् यद्यपि दूर इव पशूंल्लभते, गृहानेवैनानाजिगमिषति; गृहा हि पशूनां प्रतिष्ठा, प्रतिष्ठा ॥१३ ॥

हिन्दी— (इस सूक्त के शंसन में स्वर विशेष का विधान कर रहे हैं— ) गृहा वै प्रतिष्ठा यह सूक्त गृह और प्रतिष्ठा रूप है। तत् प्रतिष्ठिततमया वाचा अतः प्रतिष्ठिततम (द्रुतविलम्बित इत्यादि दोष से रहित ) वाणी से शंस्तव्यम् शंसनीय होता है। तस्मात् इसी कारण यद्यपि दूरे इव पशून् लभते यद्यपि चरने के लिए गये हुए पशुओं को (दिन में) दूर ही प्राप्त करता है । तथापि एनान् इन (पशुओं) को ( सायंकाल) गृहान् आजिग-मिषति घर में ही ले आना चाहता है; क्योंकि गृहा हि पशूनां प्रतिष्ठा घर ही पशुओं के रहने का स्थान है । सा० भा ० -– ' इन्द्रस्य नु वीर्याणि' इत्यस्मिन् सूक्ते शस्त्रस्य समापनेनावस्थानात् तस्य प्रतिष्ठा रूपत्वम् । गृहा अपि स्थितिहेतुत्वात् प्रतिष्ठारूपाः । तथा सत्येतत्सूक्तं प्रति-ष्ठिततमया' द्रुतविलम्बितत्वादिदोषरहितया श्राव्येण ध्वनिनोपेत्या वाचा शंसेत् । तस्माद् गृहस्थानीयस्य सूक्तस्य ध्वनिः प्रतिष्ठिततमः तस्माल्लोकेऽपि यद्यपि तृणभक्षणार्थमरण्ये गतान् दूरदेश एवावस्थितान् पशून् दिवसे पुरुषो ' लभते ' पश्यति तथाऽप्येनान्पशून् सायं-काले गृहानेव ‘ आजिगमिषति' आनेतुमिच्छति। यस्मात् पशूनां गृहाः 'प्रतिष्ठा' सुखेना-वस्थातुं स्थानाम्। द्विरभ्यासोऽध्यायसमाप्त्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्य विरचिते माधवीये ' वेदार्थ प्रकाशे' ऐतरेयब्राह्मण- भाष्ये तृतीयपञ्चिकायां द्वितीयाध्याये त्रयोदशः खण्डः ॥१३ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के त्रयोदश खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । 119 ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा-पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश' - नामभाष्ये ऐतरेयब्राह्मणस्य तृतीयपञ्चिकायाः द्वितयोऽध्यायः ( द्वादशोऽध्यायः ) समाप्त ॥१२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥