ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 631–640
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 631–640
पृष्ठ 631
पाठ पढ़ें पाठ छिपाएँ
अथ तृतीयपञ्चिकायाम् तृतीयोऽध्यायः [ अथ त्रयोदशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— वक्त्वाहावप्रभेदं प्रतिगरणमथानुष्टुभः शस्यमानाः ।
मृत्योः संनद्धयातिक्रमणमथं मरुत्वद्विधानप्रशंसा ॥
तच्छेषा ये विशेषाः प्रतिपदनुचरप्रक्रमाः सप्तभागाः ।
निष्केवल्यं च शस्त्रं तदवयवकृताः स्तोत्रियाद्याश्च पञ्च ॥१ ॥
अथ तृतीयसवनं वक्तुमादावाख्यायिकामाह— ( तृतीयसवनविधानम् ) ( तत्राख्यायिका ) सोमो वै राजाऽमुष्मिँल्लोके आसीत्, तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मात् सोमो राजाऽऽगच्छेदिति, तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमाहरतेति, तथेति, ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत् सौपर्णमित्याख्यानविद आचक्षते ॥ १ ॥
हिन्दी — ( अब तृतीयसवन को कहने के लिए प्रारम्भ में आख्यायिका को कह रहे हैं ) सोमः वै राजा सोम राजा अमुस्मिन् लोके उस लोक ( द्युलोक में) आसीत् थे । देवाः ऋषयः च देवताओं और ऋषियों ने तम् अभ्यध्यायन् उस ( सोम ) के विषय में विचार किया कि अयं सोमः ये राजा सोम अस्मात् उस (द्युलोक) से कथम् आगच्छेत् किस प्रकार हमारे समीप आएँगे। ते उन (देवताओं) ने छन्दांसि अब्रुवन् छन्दों से कहा कि यूयम् तुम लोग इमं सोमं राजानं इस सोम राजा को नः हमारे लिए आहरत ले आओं। तथा इति ( तब छन्दों ने कहा ) ठीक है । ते वे ( छन्द) सुपंर्णा भूत्वा सुन्दर पक्षों वाले (पक्षी ) होकर उदपतन् ( सोम को लाने के लिए द्युलोक की ओर) उड़ गये । (जो " छन्द) सुपर्णा भूत्वा सुन्दर पंखों वाले (पक्षी ) होकर उदपतन् उड़े थे, तद् एतत् उस इस (आख्यान ) को आख्यानविद् आख्यान के विद्वान् लोग (पौराणिक) सौपर्णम् इति आचक्षते सौपर्णाख्यान ( नाम से) कहते हैं। सा० भा० — पुरा सोमवल्ली द्युलोक एवासीत्, न त्वेतस्मिँल्लोके। तदानीं सोममभिलक्ष्य ऐ.ब्रा.पू- ३६
पृष्ठ 632
पाठ पढ़ें पाठ छिपाएँ
: [ ५७० ऐतरेयब्राह्मणम् १३.१ तृतीयपञ्चिकायां केन प्रकारेण सोमो न आगच्छेदिति देवा ऋषयश्च विचारितवन्तः । विचार्य गायत्र्यादीनि च्छन्दांसि प्रत्येवमब्रुवन्। हे छन्दांसि! अस्मदर्थं सोममाहरतेति । तानि च तदङ्गीकृत्य ' ते' लोकप्रसिद्धाः पक्षिणो भूत्वा द्युलोकं प्रत्युदपतन्। यस्मादेवं तस्मादेतत् सोमाहरणप्रतिपादकं ग्रन्थजातं ‘सौपर्णम्’ आख्यानमिति ' आख्यानविदः ' पौराणिका कथयन्ति॥ अथोत्पतत्सु च्छन्दःसु मध्ये जगतीवृत्तान्तमाह— ( उत्पतत्सु छन्दः सु मध्ये जगतीवृत्तान्तः ) छन्दांसि वै तत्सोमं राजानमच्छाचरंस्तानि ह तर्हि चतुरक्षराणि, चतुरक्षराण्येव च्छन्द्रांस्यासन्, सा जगती चतुरक्षरा प्रथमोदपतत्, सा पतित्वाऽर्धमध्वनो गत्वाऽश्राम्यत् सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत् तस्मात् तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति, जागता हि पशवो जगती हि तानाहरत् ॥ २ ॥
हिन्दी – ( अब उड़तें हुए छन्दों में जगती छन्द के वृत्तान्त को कह रहे हैं — ) तत् सोमं राजानम् उस सोम राजा को अच्छ प्राप्त करने के लिए छन्दांसि छन्द अचरन् चले । तर्हि तब तानि वे. ( छन्द ) चतुरक्षराणि चतुरक्षराणि चार- चार अक्षर वाले ही आसन् थे। सा चतुरक्षरा जगती वह चार अक्षरों वाली जगती प्रथमा उदपतत् सर्वप्रथम ( सोमस्थान के लिए) उड़ी। सा वह (चतुरक्षरा जगती) पतित्वा उड़कर अर्धम् अध्वनः गत्वा आधामार्ग जाकर अश्राम्यत् श्रान्त हो गयी तथा सा वह ( जगती ) त्रीणि अक्षराणि परास्य तीन अक्षरों का परित्याग करके एकाक्षरा भूत्वा एक अक्षर वाली होकर, दीक्षां च तपः च ( सोमसम्बन्धी ) दीक्षा और तप को हरन्ती लेती हुई पुनः अभ्यावपतत् पुनः इस ( लोक को ) लौट आयी । तस्मात् इसी कारण यस्य पशवः सन्ति जिसके पशु होते है तस्य उसको दीक्षा वित्ता दीक्षा प्राप्त करता है और तपः वित्तम् तप प्राप्त करता है; क्योंकि जागता वै पशवः पशु जगती छन्द वाले होते हैं और जगती हि तान् अहरत् जगती ने ही उन (दीक्षा और तप) को आहरित किया था। सा ० भा ० — गायत्र्यादिच्छन्दांस्युत्पतने प्रवृत्तानि, तदानीं सोमम् ‘ अच्छ' प्राप्तुं द्युलोकं प्रत्यचरंस्तानि च च्छन्दांसि तस्मिन् काले चतुरक्षरोपेतानि, अतः पुरा सर्वदा चतुरक्षराण्येवासन्, न तु कस्यापि च्छन्दसोऽधिकाक्षरताऽऽसीत्। ततः सा जगती चतुरक्षरा सती छन्दाऽन्तरेभ्यः सर्वेभ्यः प्रथमं प्रवृत्ता सोमस्थानं प्रत्युदपतत्। सा च मार्गस्यार्धं गत्वा श्रान्ता सती श्रमवशात् त्रीण्यक्षराणि परित्यज्य स्वयमेकाक्षरा भूत्वा सोममाहर्तुमशक्नु-वती सोमयागसंबन्धिनीं ‘ दीक्षां’ दीक्षणीयेष्ट्यादिरूपाम्, क्षीरपानादिरूपं ‘ तपश्च' ‘हरन्ती’
पृष्ठ 633
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५७१तस्माल्लोकादानयन्ती पुनरेतं लोकमभिलक्ष्यावापतत्, अधोमुखी समागता। यस्मादेवं तस्माल्लोके यस्य पुरुषस्य पशवः सन्ति, तेन दीक्षा वित्ता लब्धा भवति, तपश्च लब्धं भवति । न च दीक्षातपसोर्जगत्या समानीतयोः सतोः पशूनां तदुभयकारणत्वं कथमिति शङ्कनीयम्। पशूनां जागतत्वेन जगतीद्वारा दीक्षासंबन्धसंभवात्। जागतत्वं कथमिति? चेत्, जगत्या पशूनामानीतत्वादिति द्रष्टव्यम्। अत एव शाखान्तरे जगती प्रकृत्यैवमाम्नातम्-' सा पशुभिश्च दीक्षया चाऽऽगच्छत् तस्माज्जगती छन्दसां पशव्यतमा', तस्मादुत्तमा, ‘तस्मात् पशुमन्तं दीक्षोपनमति' ' इति॥ सा त्रिष्टुब् द्युलोके भूयो भूयः पतित्वाऽपि मार्गस्यार्थादेवाश्राम्यदित्यन्वयः । यस्मादेव दक्षिणाः सर्वा आनीतवती, तस्मात् त्रिष्टुभः स्थाने माध्यंदिनसवने यजमानैर्दत्ताः सर्वा दक्षिणा ऋत्विग्भिर्नीयन्ते ॥ त्रिष्टुभो वृत्तान्तमाह— ( त्रिष्टुभो वृत्तान्तः ) अथ त्रिष्टुब् उदपतत् सा पतित्वा भूयोऽर्धादध्वनो गत्वाऽश्राम्यत् सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्तो पुनरभ्यवापतत् तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भ ता आहरत् ॥ ३ ॥
हिन्दी—( अब त्रिष्टुप् के वृतान्त को कह रहे हैं- ) अथ त्रिष्टुप् उदपतत् इसके बाद त्रिष्टुप् उड़ी । सा पतित्वा वह (त्रिष्टुप्) उड़कर भूयः अर्थात् अध्वनः गत्वा पुनः आधे मार्ग तक जाकर अश्श्राम्यत् श्रान्त हो गयी । सा एकमक्षरं परास्य वह एक अक्षर छोड़कर त्र्यक्षरा भूत्वा तीन अक्षरों वाली होकर दक्षिणा हरन्ती (सोमसम्बन्धी ) दक्षिणा को लेते हुए पुनः अभ्यवापतत् पुन: इस लोक में लौट आयी। तस्मात् इसी कारण त्रिष्टुभौ त्रिष्टुप् के स्थान पर मध्यन्दिने माध्यन्दिनसवन में दक्षिणा नीयते (ऋत्विकों द्वारा ) दक्षिणा ले ली जाती है; क्योंकि लोके त्रिष्टुब् हि ता आहरत् इस लोक में त्रिष्टुप् ने ही उस (दक्षिणा) को आहरित किया था । सा० भा० - सा त्रिष्टुप् द्युलोके भूयो भूयः पतित्वाऽपि मार्गस्यार्धादेवाश्राम्यदि-त्यन्वयः यस्मादेव दक्षिणाः सर्वा आनीतवती, तस्मात् त्रिष्टुभः स्थाने मार्ध्यंदिनसवने ( १ ) तै० सं ० ६.१.६.२ । ( २ ) ‘ अध्वनोऽर्थाद् भूयो बहुतरमभ्यधिकमगत्वा गन्तुमशक्ता जगतीवाध्वमध्येऽश्राम्यत्’ – इति भट्टभास्करः । ( ३ ) ‘ अध्वनोऽर्धाद् भूयो बहुतरमभ्यधिकमगत्वा गन्तुमशक्ता जगतीवाध्वमध्येऽश्राम्यत्— इति भट्टभास्करः ।
पृष्ठ 634
पाठ पढ़ें पाठ छिपाएँ
: [ ५७२ ऐतरेयब्राह्मणम् १३.२ तृतीयपञ्चिकायां यजमानैर्दत्ताः सर्वा दक्षिणा ऋत्विग्भिर्नीयन्ते ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये ( त्रयोदशाध्याये ) प्रथमः खण्डः ॥१ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० - अथ गायत्रीवृत्तान्तमाह— ( आख्यायिकायां गायत्रीवृत्तान्तः ) ते देवा अब्रुवन् गायत्री -त्वं न इमं सोमं राजानमाहरेति; सा तथेत्यब्रवीत्, तां वै मां सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति; तथेति, सोदपतत्, तां देवाः सर्वेण स्तस्त्ययनेनान्वमन्त्रयन्त, -प्रेति चेति चेति; एतद्वै सर्वं स्वस्त्ययनं यत् प्रेति चेति चेति; तद् योऽस्य प्रियः स्यात्, तमेतेनानुमन्त्रयेत- 'प्रेति चेति चेति'; स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति ॥ १ ॥
हिन्दी— ( अब गायत्री के वृत्तान्त को कह रहे हैं— ) ते देवाः उन देवताओं ने गायत्रीम् अब्रुवन् गायत्री से कहा कि त्वम् तुम नः हम लोगों के लिए इमं सोमं राजानम् इस सोम राजा को आहर ले आओ। सा तथा इति अब्रवीत् उस ( गायत्री) ने कहा कि ठीक है। तां माम् उस प्रकार जाती हुई मुझको सर्वेण स्वस्त्ययनेन सम्पूर्ण स्वस्त्ययन से अनुमन्त्रयध्वम् तुम लोग अनुमन्त्रित करो। तथा ( तब देवताओं ने कहा कि) ठीक है । सा उद्यतत् वह गायत्री (सोम के स्थान पर जाने के लिए) उड़ी । ताम् उस (उड़ती हुई गायत्री ) को देवाः देवताओं ने सर्वेण स्वस्त्यनेन सम्पूर्ण स्वस्त्ययन से अन्वमन्त्रयत अनुमन्त्रित किया। ' प्रेति चेति चेति' जो 'प्र- यह और आ - यह दो (मन्त्र)’ है, एतद्वै सर्वं स्वस्त्ययनम् यही सम्पूर्ण स्वस्त्ययन है। तत् इसी लिए सः जो (प्रस्थान करने वाला) अस्य इसका प्रियः स्यात् प्रिय होता है तम् उस ( प्रस्थान करने वाले का प्रेति चेति' इति एतेन इस मन्त्र से अनुमन्त्रयेत अनुमन्त्रित करना चाहिए। ( इस स्वस्त्यन से प्रस्थान करने वाला ) स्वस्ति एव गच्छति क्षेमपूर्वक जाता है और स्वस्ति पुनरागच्छति सकुशल वापस लौट आता है । विमर्श— ( १ ) ‘प्रेति चेति च ' मन्त्र का विच्छेद है, प्र इति च आ इति च अर्थात्
पृष्ठ 635
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ५७३ प्र-यह और आ- यह । सा० भा ० — जगतीत्रिष्टुभोः सोमानयनसामर्थ्याभावं दृष्ट्वा ते देवा गायत्रीं प्रार्थित-वन्तः । हे गायत्रि, त्वं ‘नः ’ अस्मदर्थमिमं सोममाहरेति । ' सा' च गायत्री तथेत्यङ्गीकृत्य देवान् प्रत्येवमब्रवीत्, हे देवा, यदाऽहं सोममानेतुं गच्छामि, तदानीं तामेवं गच्छन्तीं मां यूयं सर्वेऽपि यथाशक्ति सर्वेण' ' स्वस्त्ययनेन' ' अनुमन्त्रयध्वं' क्षेमप्रापणं स्वस्त्ययनं तदर्थमाशीर्वादरूपेण मन्त्रेण ममानुमन्त्रणं कुरुतेति । एवमुक्त्वा तथेति देवैरङ्गीकृते सति 'सा' गायत्री द्युलोकं प्रत्युत्पतनमकरोत्। तदानीं देवाः स्वागतप्रकारेण सर्वेणापि क्षेम- प्रापणमन्त्रेण गायत्रीमनुमन्त्रितवन्तः । कोऽसौ मन्त्रः? इति- 'प्र' शब्द एको मन्त्रः, 'आ'- शब्दो द्वितीयो मन्त्रः, तदुभयप्रदर्शनार्थमितिशब्दद्वयम्। उभयसमुच्चयार्थं चकारद्वयम्। क्षेमेण सोमं प्राप्नुहि, पुनरपि क्षेमेणाऽऽगच्छेति, अयमाशीर्वादमन्त्रद्वयस्यार्थः । एतदेव' मन्त्रद्वयं सर्वं स्वस्त्ययनं ‘प्र’ – इत्येकम्, 'आ' -इति द्वितीयं पदमस्ति इतोऽधिकं नान्यत् स्वस्त्यनमस्ति। यस्माद् इदमेव सर्वक्षेमप्रापकं तस्माद् इदानीमपि 'यः ' पुमान् ग्रामान्तरं जिगमिषुरस्य गृहस्वामिनः प्रियः स्यात्, तं जिगमिषुं प्रेत्येतीति मन्त्रद्वयेनानुमन्त्रयेत, तेनाऽऽशीर्वाद- प्रसादेनायं क्षेमेणैव गच्छति पुनरागच्छति च॥ इत्थं प्रासङ्गिकं लौकिकविधिमुक्त्वा प्राकृतमेव गायत्रीवृत्तान्तमनुसरति— सा पतित्वा सोमपालान् भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णाद्, यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात् ॥ २ ॥
हिन्दी – (इस प्रकार लौकिकं प्रासङ्गिक विधि को कह कर प्राकृत गायत्रीवृतान्त को कह रहे हैं— ) सा वह ( गायत्री ) पतित्वा उड़कर सोमपालान् भीषयित्वा सोमरक्षक ( गन्धर्वों ) को भयभीत करके पद्भ्यां च मुखेन च पैरों और मुख से सोमं राजानं समगृभ्णात् सोम राजा को अच्छी प्रकार से पकड़ लिया तथा इतरे छन्दसी जो अन्य दो छन्दों (जगती और त्रिष्टुप्) ने यानि अक्षराणि अजहिताम् जिन अक्षरों को छोड़ दिया था, तानि च उपसमगृभ्णात् उनको भी अच्छी प्रकार से पकड़ लिया । ( १ ) ‘ सर्वेण सर्वप्रकारोपद्रवशमनेन स्वस्त्ययनेन कल्याणप्रापणेन मन्त्रेण' इति भट्टभास्करः । ( २ ) ( i ) 'प्रेति च साध्यमर्थ प्रत्यविघ्नेन गच्छति चां ततः कृतकार्यः सन्नेति च स्वदेशं प्रति निर्बाधमागच्छति कार्यार्थं गन्ता जन: ' –इति भट्टभास्करः । ( ii ) 'प्र एति आ एति पररूपं छान्दसम्’ –इति षड्गुरुशिष्यः । ( iii ) अत्र ' एत्येधत्यूट्सु' इत्येतद् बाधित्वा व्यत्ययेन एङि पररूपम् इत्येतत् प्रवर्तते। एति इ यस्य चैकादशस्य पूर्वं प्रत्यन्तवद्भावेन आङ्ग्ङ्ग्रहणेन ग्रहणात्। तस्मिन् परतश्च शब्दाकारस्य ओमाडोश्चेति पररूपत्वम्—इति भट्टभास्करः ।
पृष्ठ 636
पाठ पढ़ें पाठ छिपाएँ
: [ ५७४ ऐतरेयब्राह्मणम् १३.२ तृतीयपञ्चिकायां सा० भा ० – ‘सा’ गायत्री ‘ पतित्वा' उत्पतनेन सोमं प्राप्य गन्धर्वान् स्वानभ्राजादीन् सोमरक्षकान् आस्फोटनायुधप्रदर्शनादिनां भीषयित्वा-- भीत्या तेष्वपसृतेषु स्वयं पक्षि- रूपा सति स्वकीयाभ्यां पद्भ्यां मुखेन च सोमं सम्यग् गृहीतवती । स्वानभ्राजादीनां - सोमपालकत्वमाध्वर्यवे सोमप्रकरणे मन्त्र-तद्ब्राह्मणाभ्यामवगम्यते । ' स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वम्' – इति मन्त्रः । ' ' स्वानभ्राजेत्याहते वाऽमुष्मिँल्लोके सोममरक्षन्’ ’ – इति ब्राह्मणम्। न केवलं गायत्री सोममेव गृहीतवती, किंत्वितरे जगतीत्रिष्टुबाख्ये छन्दसी 'यानि' चत्वार्यक्षराण्यजहिता परित्यक्तवत्यौ, तानि चोपेत्य सम्यग् गृहीतवती॥ अथ तस्या गायत्र्या गन्धर्वेण सह युद्धे यो वृत्तान्तस्तं दर्शयति—. ( गायत्र्या गन्धर्वेण सह युद्धवृत्तान्तः ) तस्या अनु विसृज्य कृशानुः सोमपालः सव्यस्य पदों नखमच्छिदत्, तच्छल्यकोऽभवत्, तस्मात् सनखमिव, यद्वशमस्स्रवत्, सा वशाऽभवत्, तस्मात् सा हविरिव; अथ यः शल्यो यदनीकमासीत् स सर्पो निर्दंश्यभवत्, सहसः स्वजो, यानि पर्णानि ते मन्थावलाः, यानि स्नावानि ते गण्डूपदा, यत् तेजनं सोऽन्धाहिः, सो सा तथेषुर- भवत् ॥ ३ ॥
हिन्दी —( अब उसं गायत्री के सोमरक्षक गन्धर्व के साथ युद्ध के वृत्तान्त को दिखला रहे.. हैं - ) तब सोमपालः कृशानुः (सोम के रक्षकों में सप्तम) सोम रक्षक कृशानु ( नामक गन्धर्व ) ने तस्याः अनु उस ( गायत्री ) के पीछे विसृज्य (बाण को ) छोड़ कर सव्यस्य पदः ( उसके ) बाये पाद के नखम् नख को अच्छिदत् काट दिया। तत् वह (नाखून ) शल्यकः अभवत् साही (नामक पशु) हो गया। तस्मात् इसी कारण सः नखम् इव यह ( साही ) नख के समान (अगले भाग वाला) होता है। यद् वशम् अस्रवत् जो वंश (मेद ) स्रवित हुआ सा वशा अभवत् वह मेध्यं पशु भेड़ बकरी इत्यादि हुआ। तस्मात् इसी कारण सा वह मेध्य पशु हविः इव हविष् के समान होता है । अथ यः शल्यः यद् अनीकम् आसीत् जो बाण और जो नोक था सः निर्दशी सर्पः अभवत् वह दंशरहित सर्प हुआ तथा सहसः (कुण्ठित अग्रभाग के लोहे के ) वेग से स्वजः दोनों ओर मुख वाला ( द्विमुख ) सर्प हुआ। यानि पर्णानि जो पंख ( कङ्कपत्र ) थे ते मन्थावलाः वे मन्थावला (वृक्ष की शाखाओं पर अधोमुख लटकने वाले जीव विशेष) हुए । यानि स्नावानि जो ( पत्रबन्धन के लिए) स्नायु थे ते गण्डूपदाः वे केचुएँ हुए। यत् तेजनम्जो ( १ ) तै ० सं० १. २.७। शत० ब्रा ० १.७.१; ३.३.४.१०( ) २ तै ० सं ० ६.१.१०.५ ॥
पृष्ठ 637
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ५७५ ( बाण की ) तेज धार थी, सः अन्धाहिः वह अन्धा सर्प हुआ । सः वह बाण और सा वह (गायत्री ) तथा अभवत् इस प्रकार रूप वाली हो गयी। सा० भा०-.- स्वानभ्राजादिषु सोमरक्षकेषु यः सप्तमो गन्धर्वः कृशानुनामकः, सोऽयं ‘ तस्या ’ गायत्र्या ‘ अनु’ पृष्ठतो बाणं 'विसृज्य' तदीयस्य वामपादस्यैकं नखं छिन्नवान्। तच्च नखं शल्यको मर्कटशरीरपरिमितः शलल्याख्यो मृग आसीत्। यस्य मृगस्य पुच्छसमीपे बहवो रोमविशेषाः प्रादेशपरिमितास्तीक्ष्णाग्रा लोहमया उत्पद्यन्ते, स शल्यकः । यस्मादयं नखादुत्पन्नः, तस्मात् स नखमिव तीक्ष्णाग्ररोमोपेतः । तत्र च्छिन्ननखपादप्रवेशे यद् वशं मेदोऽस्रवत् सा ‘ वशा’ मेध्या काचिदजाऽव्यादिपशुष्वासीत् । तस्माद् गायत्र्या उत्पन्नत्वात् ‘ सा' वा ‘ हविरिव’ देवतायोग्यं हविरेवाऽऽसीत्। तच्च हविष्यं शाखांन्तरे श्रूयते— ' एतामेव वशामादित्येभ्यः कामायाऽऽलभेत' ' इति। अथ नखच्छेदनाय गन्धर्वेण विसृष्टों बाणः, सोऽपि नखसंघट्टनेन कुण्ठिताम्रो बहुधा भग्नो भूमौ पतितः । तस्य बाणस्य यः ' शल्य: '. कृष्णायसनिर्मितो बाणग्रे स्थापितः, तस्य च शल्यस्य यद् ' अनीकं' मुखं संघट्टनेन कुण्ठितमासीत् सोऽयं शल्यः, तदनीकात्मको बाणभागो 'निर्दशी' दंशनसमर्थः नास्ति । `तस्मात् कुण्ठिताग्रस्य लोहस्य योऽयं सहो वेगः, तस्मात् सहसो बाणवेगात् स्वजः ' उभयतःशिराः सर्पोऽभवत् । तस्य बाणस्य मूले यानि ' पर्णानिं' कङ्कपत्राणि ते 'मन्थावला: ’ २ अभवन् । ये जीवविशेषा वृक्षशाखास्वधोमुखा अवलम्बन्ते ते मन्थावलाः। तस्मिन् बाणे यानि ‘ स्नावानि’ पत्रबन्धनार्थाः स्नायुविशेषास्ते ' गण्डूपदाः ' अभवत्। अवस्कारादिस्थानेषु ये सर्पवज्जायन्ते, ते गण्डूपदाः । तस्मिन् बाणे यत् ' तेजनं' लोहपत्रव्यतिरिक्तं काष्ठं', सोऽन्धाहिरभवत्, दृष्टिरहितः सर्पोऽभूत्। ' तथा' तेनोक्तप्रकारेण ' इषुः ’ गन्धर्वेण मुक्तो बाणः ' सो सा' अभवत्। उशब्दः समुच्चयार्थः । सा च सा चेत्युक्तं भवति। तथोक्ते सति तत्तज्जातिर्निर्दशिसर्पादिरूपेत्युक्तार्थोपसंहारः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीणध्याये ( त्रयोदशाध्याये ) द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( ) १ तै ० सं० २.१.१.३,४ । जन्तु- ( २ ) ( i ) 'महावाग्गुदा अभवन्’ -इति षड्गुरुशिष्यः । ( ii ) 'मन्थावला नाम महावाग्गुंदा विशेषाः । सर्पविशेषा एवेत्येके ' – इति भट्टभास्करः ॥ ( ii ) तेजनं ज्यानिधानस्थानम्। ( ३ ) ( i ) ‘ तेजनम्' इति यष्टिनाम — इति षड्गुरशिष्यः मुखनैशित्यमित्येके — इति भट्टभास्करः ।
पृष्ठ 638
पाठ पढ़ें पाठ छिपाएँ
: [ ५७६ ऐतरेयब्राह्मणम् १३.३ तृतीयपञ्चिकायां अथ तृतीयः खण्डः सा० भा ० - अथ तृतीयसवनार्थं सवनस्योत्पत्तिं दर्शयति— ( तृतीयसवनार्थं सवनस्योत्पत्तिकथनम् ) सा यद्दक्षिणेन पदा समगृभ्णात्, तत्प्रातः सवनमभवत्, तद्गायत्री स्वमायतनमकुरुत, तस्मात् तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानाम्, अग्रियो मुख्यो भवति, श्रेष्ठतामश्नुते, य एवं वेद, अथ यत्सव्येन पदा समगृभ्णात्, तन्माध्यंदिनं सवनमभवत्, तद्विस्रंसत तद्विस्रंसत नान्वाप्नोत् पूर्वं सवनं, ते देवाः प्राजिज्ञासन्त, तस्मिंस्त्रिष्टुभं छन्दसाम- दधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत् पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेद, अथ यन्मुखेन समगृभ्णात् तत् तृतीयसवनमभवत् ॥ १ ॥
हिन्दी—( अब तृतीयसवन की उत्पन्ति को दिखला रहे हैं — ) सा उस ( गायत्री ) ने यद् दक्षिणेन पदाः समगृभ्णात् जो दाहिने पैर से ( सोम को ) अच्छी प्रकार से पकड़ा था, तत् प्रातःसवनम् अभवत् वह प्रातः सवन हो गया । तत् उस (प्रातःसवन) को गायत्री गायत्री ने स्वम् आयतनम् अकुरुत अपना स्थान बना लिया। तस्मात् इसी कारण तत्' वह (प्रात: सवन) सर्वेषां सवनानाम् सभी सवनों में समृद्धतमं मन्यन्ते सर्वाधिक समृद्ध माना जाता है। यः एवं वेद जो इस प्रकार जानता है, वह अग्रियः मुख्यः भवति (सभी सवनों में) अग्रगण्य और प्रमुख होता है तथा श्रेष्ठताम् अश्नुते श्रेष्ठता को प्राप्त करता है। अथ तत्पश्चात् यत् सव्येन पदा जो बायें पैर से समगृभ्णात् ( सोम को) अच्छी प्रकार से पकड़ा तत् माध्यन्दिनं सवनम् अभवत् वह माध्यन्दिन-सवन हो गया । तद् विसंस्रत वह फिसल गया। तद् विसंस्रत वह फिसल गया, अतः पूर्वं सवनं न अन्वाप्नोत् पूर्ववर्ती प्रातः सवन को नहीं प्राप्त कर सका । तब ते देवाः देवताओं ने प्रजिज्ञासन्त विचार किया और तस्मिन् उस (मध्यन्दिनसवन) में छन्दसां त्रिष्टुभम् छन्दों में त्रिष्टुप् छन्द की तथा देवतानाम् इन्द्रम् देवताओं में इन्द्र को अदधुः रख दिया । तेन उससे तत् वह ( माध्यन्दिनसवन) पूर्वेण सवनेन समवद्वीर्यम् अभवत् पूर्ववर्ती संवन (प्रात: सवन) के समान सामर्थ्य वाला हो गया। यः एवं वेद जो इस प्रकार जानता है वह उभाम्यां सवनाभ्याम् (प्रातः सवन और माध्यन्दिनसवन) दोनों सवनों के समावद्वीर्याभ्याम् समान सामर्थ्यो और समावज्जाभ्याम् समान जामियों ( सम्बन्धियों) के साथ राध्नोति समृद्धि को प्राप्त करता है। अथ इसके बाद यत् ( सोम 'का ) जो ( भाग) मुखेन समगृम्णात् मुख द्वारा अच्छी प्रकार से पकड़ातत् तृतीयसवनम्
पृष्ठ 639
पाठ पढ़ें पाठ छिपाएँ
] तृतीयोऽध्यायःअभवत् वह तृतीयसवनतृतीयः खण्डःहो गया । सायणाचार्यकृतभाष्योपेतम् ः ५७७ सा० भा० -'सा ' गायत्री सोममानयन्ती दक्षिणेन 'पदा' पादेन 'यत्' यावत् सोमस्य स्वरूपं गृहीतवती, ' तत्' तावत् प्रातः सवनमभवत्। तच्च प्रातः सवनं 'सा' गायत्री स्वकीयं स्थानकरोत्। तस्मात् तत्सर्वेषां सवनानां मध्ये अतिशयेन समृद्धमिति याज्ञिका मन्यन्ते। तत्र प्रयोगबाहुल्यसद्भावात्। य ‘एवम्' उक्तार्थं वेद, स स्वकीयानां मध्ये ‘मुख्यः’ श्रेष्ठः सन् विद्यावृत्तादिरूपां श्रेष्ठतां' प्राप्नोति। अथा सा गायत्री वामपादेन ' यत्' सोमस्य स्वरूपं गृहीतवती, तन्माध्यंदिनं सवनं विस्रस्तमभूत्। वामपादात् ‘ तत्’ तत्र ‘विस्रस्तं’ गलितं तन्माध्यंदिनं सवनं पूर्वोक्तप्रातः सवनानुगमनाय शक्तं नाभूत्। त देवा विचार्य ' तस्मिन्’ माध्यंदिने सवने स्वामित्वेन च्छन्दसां मध्ये त्रिष्टुभं देवतानां मध्ये इन्द्रं च स्थापितवन्तः । तेन ' तत्' माध्यंदिनं सवनं प्रातःसवनेन सह ' समावद्वीर्यं' तुल्यसामर्थ्यमभूत्। उक्तार्थवेदिता तुल्यसामर्थ्याभ्याम्, अत एव तुल्यजामीभ्यामुभाभ्यां सवनानभ्यां समृद्धो भवति । जामीशब्दो जातिवाची' तुल्यजातिभ्यामित्यर्थः । अथअथ गायत्रीगायत्री मुखेन यत्सोमस्वरूपं गृहीतवती तत्तृतीयसवनमभूत्॥ तस्मिन् सवन ऋजीषस्वरूपे निःसारे सोम आशिरादिकं विधत्ते— तस्य पतन्ती रसमधयत्, तद् धीतरसं नान्वाप्नोत् पूर्वे सवने, ते देवाः प्राजिज्ञासन्त, तत्पशुष्वपश्यंस्तद् यदाशिरमवनयन्त्याज्येन शु चरन्ति तेन तत्समावद्वीर्यमभवत् पूर्वाभ्यां सवनाभ्याम् ॥२ ॥.
हिन्दी- पतन्ती (मुख से तृतीय सवनरूप सोम को लेकर द्युलोक के नीचे ) उतरती हुई (उस गायत्री ) ने तस्य उस (सोम) के रसम् अधयत् सारतत्व को पी डाला। तत् धीतरसम् वह ( गायत्री द्वारा) पान कर लिए सारतत्व वाला (माध्यन्दिन सवन निस्सार होने के कारण) पूर्वे सवने पूर्ववर्ती दोनों (प्रातः और माध्यन्दिन) सवनों का न अन्वाप्नोत अनुसरण नहीं कर सका। ते देवाः प्रजिज्ञासन्त उन देवताओं ने (उसके साधन के ) विषय में विचार किया। तत् उस (साधन को) पशुषु अपश्यन् (दुग्ध धृतादि रूप से ) पशुओं में देखा। अतः यद् आशिरम् अवनयन्ति जो (निस्सार सोम में) आशिर (दूध ) को डालते हैं तथा आज्येन पशुना घी और पशु से चरन्ति अनुष्ठान करते हैं तेन उससे तत् वह (तृतीयसवन ) पूर्वाभ्यां सवनाभ्यां समावद्वीर्यम् पूर्ववर्ती दोनों (प्रातः और माध्यन्दिन) सवनों के समान सामर्थ्य वाला हो जाता है । सा० भा ० — सा गायत्री मुखेन तृतीयसवनरूपं सोमं गृहीत्वा द्युलोकादधः पतन्ती ( १ ) 'अग्र्य: अग्रगण्यः, मुख्यः प्रधानभूतः, श्रेष्ठः प्रशस्यतमः' –इति भट्टभास्करः । ( २ ) अतिरेकवालिशसमान जातीयानां वाचको 'जामिशब्द: – इत्यादि देवराजयज्वकृता नि- घण्टुवृत्तिः ( ४.१.४६ ) । निरु ० ३.१.५,६ ।
पृष्ठ 640
पाठ पढ़ें पाठ छिपाएँ
: [५७८ ऐतरेयब्राह्मणम् १३.४ तृतीयपञ्चिकायां तस्य सोमस्य ‘ रसमधयत्’ सारं पीतवती। तत्तृतीयसवनं ' धीतरसं' पीतसारं भूत्वा पूर्वोक्तप्रातःसवनमाध्यंदिनसवने द्वे अनुगन्तुं नाशक्नोत्। ते देवास्तत्प्रतीकारं विचार्य तत्साधनं ‘ पशुष्वपश्यन्’ । पशुषु क्षीरं यदस्ति, यच्चाऽऽज्यमस्ति, यदपि हृदयाद्यङ्गमस्ति, तत्सर्वं सारं तस्माद् यत्पीतरसे सोमसंबन्धिनि ऋजीषे 'आशिरं' क्षीरम् ' अवनयन्ति' सिञ्चन्ति याज्ञिकाः, तथाऽऽज्यपशूभ्यां 'चरन्ति' अनुतिष्ठन्ति, तदानीं ‘ तेन ’ अनुष्ठानेन ‘तत्’ तृतीयसवनं पूर्वसवनाभ्यां तुल्यसामर्थ्यमभूत्। अयमर्थः सर्वोऽपि शाखान्तरे संगृह्याऽऽ-म्नात: -—'' ब्रह्मवादिनो वदन्ति— तस्मात् सत्याद्गायत्री कनिष्ठा छन्दसां सती यज्ञमुखं परीयायेति; यदेवादः सोममाहरत् तस्माद् यज्ञमुखं पर्येत् तस्मात् तेजस्विनी तमापद्भयां द्वे सवने समगृभ्णान् मुखेनैकं यन्मुखेन समगृभ्णात् तदधयत् तस्माद् द्वे सवने शुक्रवती प्रातः सवनं च माध्यंदिनं च तस्मान् तृतीयसवनं ऋजीषमभिषुण्वन्ति, धीतमिव हि मन्यन्त आधिरमवनयति सशुक्रत्वाय' ' इति ॥ वेदनं प्रशंसति— सर्वैः सवनैः समावद्वीर्यै: समावज्जामिभी राध्नोति य एवं वेद ॥ ३ ॥
हिन्दी–(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह समवद्वीर्यैः समान सामर्थ्य वाले और समावज्जामिभिः समान सम्बन्धियों वाले सर्वैः सवनैः सभी सवनों से राध्नाति समृद्धि को प्राप्त करता है॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये ( त्रयोदशाध्याये ) तृतीयः खण्डः ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के तृतीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा ० भा ० — ननु पूर्वत्र सर्वाणि च्छन्दांसि चतुरक्षराणीत्युक्तम्, तेष्वपि त्रिष्टुभ एक- मक्षरं गतं जगत्याश्च त्रीण्यक्षराणि गतानि। तथा सति सर्वश्रुत्यन्तरविरोधः । तेषु च श्रुत्यन्तरेष्वष्टाक्षरा गायत्री । एकादशाक्षरा त्रिष्टुप्। द्वादशाक्षरा जगतीति सर्वत्र श्रूयते; अनुष्ठानं च तथैव क्रियते; तत्कथं विरोधपरिहारः? इत्याख्यायिकया परिहारं दर्शयितु- मारभते— . ( १ ) तै ० सं० ६.१.६: ३,४! .( २ ) शत ० ब्रा० १.७.३.२३-२५ । ता०ब्रा० ८.४।