ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 651–660
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 651–660
पृष्ठ 651
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ५८ ९ उन (ऋभुओं ) को विश्वेदेवाः विश्वेदेवों ने अनोनुद्यन्त अत्यधिक निराकृत कर दिया कि ' नेह नेह पास्यन्ति ये इस ( तृतीयसवन ) में कदापि नहीं पान कर सकते। तब सः प्रजापतिः उस प्रजापति ने सवितारम् अब्रवीत् सविता से कहा कि इमे ये (ऋभुगण) तव अन्तेवासाः एव तुम्हारे समीप रहने वाले (शिष्य) हैं इस लिए एभिः सह इन (ऋभुओं ) के साथ संपिबस्व अच्छी प्रकार से पान करो। सः सविता तथा इत्यब्रवीत् उस सविता ने कहा कि ठीक है किन्तु त्वम् वै तुम भी तान् उभयतः परिपिब उनके दोनों ओर खड़े होकर पान करो । तब प्रजापतिः प्रजापति ने तान् उभयतः पर्यपिबत् उनके दोनों ओर होकर पान किया। सा० भा० - देवेषु सर्वेषु मध्य ऋभुनामकाः केचन देवत्वं प्राप्ता मनुष्यविशेषाः ' प्रजापतिमुद्दिश्य तपः कृत्वा तेन तपसा 'सोमपीथमभ्यजयत्' सोमपानमभिलक्ष्य जित-वन्त:, प्रजापतेः सकाशात् तल्लब्धवन्त इत्यर्थः । स प्रजापतिरन्या देवताश्च ' तेभ्यः ' ऋभुभ्यः प्रातःसवने वाचि ' कल्पयिषन्' सोमपानं कल्पयितुमैच्छन् तदानीं प्रातःसवना-भिमानी ‘ अग्निः ’ देवः स्वभृत्यैः ' वसुभिः ' सह तस्मान् प्रातः सवनात् तानृभून् ‘ अनुदत' निराकरोत्। तथेन्द्रो रुद्रैः सह माध्यंदिनात् सवनान्निराकरोत्। विश्वे देवास्तृतीयसवनाद् ' अनोनुद्यन्त' भृशं निराकुर्वन्। निराकरणप्रकारः स च ' नेहेति' - वाक्येन पुनः पुनरनूद्यते। 'इह' तृतीयसवन ऋभवो न पास्यन्ति । विश्वेषां देवानां प्रत्येकं निराकरणवाक्येन संबन्धा-नेहेति नियुक्तम्। ततः स प्रजापतिर्निराकृतान्ऋभून् दृष्ट्वा सवितारमब्रवीत्, —हे सवित, तव ‘ इमे ’ ऋभवः ‘ अन्तेवासाः समपीवासिसिनः शिष्याः, अतस्त्वमेवैभिः सह सम्यक् पिबस्व। तथेत्यङ्गीकृत्य सविता प्रजापतिमिदमब्रवीत्, – हे प्रजापते, त्वं 'तान् वै' तानेवं ऋभून् ‘उभयतः ’ ‘ पिब ’ तेषामृभूणामुभयोः पार्श्वयोः स्थित्वा त्वमपि सोमपानं कुरु । एव-मुक्तः प्रजापतिस्तथैवाकरोत्॥ अथ धाय्ये विधत्ते- ( धाय्याविधानम्) ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं, -' सुरूप- कृनुमूतयेऽयं वेनश्चोदयत् पृश्निगर्भा' इति-प्रजापतिरेवैनांस्तदुभयतः परिपिबति, तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तम् ॥ ३ ॥
हिन्दी— ( अब दो धाय्याओं का विधान कर रहे हैं— ) आर्भवम् अभितः ऋभुदेवता वाले ( सूक्त ) के दोनों ओर ( आगे और पीछे क्रमशः ) 'सुरूपकृत्नुमूतये’ और ‘ अयं ( १ ) ‘ऋभुविभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः । तेषां प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति, न मध्यमेन । तदेतदृभोश्च बहुवचनेन चमसस्य च संस्तवेन बहूनि दशतयीषु सूक्तानि भवन्ति । आदित्यरश्मयोऽप्यृभव उच्यन्ते' – इति निरु० ११.२.४ ।
पृष्ठ 652
पाठ पढ़ें पाठ छिपाएँ
[ १३.६ तृतीयपञ्चिकायां ५ ९ ०: ऐतरेयब्राह्मणम् वेनश्चोदयत् पृश्विनगर्भा’ — इति ते एते ये दो अनिरुक्ते प्राजापत्ये अनिरुक्त प्रजापति देवता वाली (जिनमें प्रजापति का नाम उक्त नहीं है ऐसी ) धाय्ये दो धाय्या शस्येते शंसित की जाती हैं। तत् इन ( दोनों ओर धाय्या के शंसन ) से एनाम् उभयतः इस ऋभुओं के दोनों ओर होकर प्रजापतिः परिपिबति प्रजापति पीते हैं । तस्मादु इसी कारण श्रेष्ठी यं कामयते ( लोक में ) श्रेष्ठी ( अन्नसम्पन्न व्यक्ति ) जिसकी कामना करता है तम् उसको पात्रे रोचयति एक पात्र ( प्रतिग्रह के योग्य स्थान ) में हठात् प्रकट ही करता है। सा ० भा ० – ‘ सुरूपकृत्नुम्' इत्येका धाय्या' ‘अयं वेनः ’ २ इति द्वितीया; ते एते धाय्ये आर्भवसूक्ते ‘ अभितः शस्येते ' । ' सुरूपकृत्नुम्' इत्येषा सूक्तान् पूर्वं शंसनीया । ‘ अयं वेनः ' इत्येषा सूक्तात् पश्चाच्छंसनीया। कीदृश्यौ धाय्ये? ' अनिरुक्ते' नि: शेषेणोक्तो देवो निरुक्तः, तादृशो ययोर्धाय्ययोर्नास्ति, ते अनिरुक्ते । न खल्वनयोर्ऋचोरीदृशो देव इति सहसा निर्णेतुं शक्यते । प्रजापतेरपि जगत्सृष्टेः पूर्वं मूर्तस्य निर्वक्तुमशक्यत्वात् सोऽप्य- निरुक्तः, अतो योग्यत्वात् ते उभे प्रजापतिदेवताके। एतयोर्धाय्ययो शंसने प्रजापतिरेवैना- नृभूनुभयतः परिपिबति । यस्मात् प्रजापतिरर्त्विस्वादिदेवतानामृभुषु रुच्यभावे सति पितृद्वारा बलात् रुचिमुत्पादितवांस्तस्मादु तस्मादेव कारणाल्लोकेऽपि श्रेष्ठी कश्चिद्धनपतिर्यं स्वकीयं भृत्यमितरैरङ्गीकृतमपि सर्वेभ्यो रोचयितुं कामयते तं भृत्यामाचारहीनं पात्रे प्रतिग्रहयोग्य- स्थाने बलात् सर्वेभ्यो रोचयत्येव॥ अथापरमृग्द्वयं विधत्ते— ( अपरर्द्धयविधानम् ) तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्, त एते धाय्ये अन्तर- - दधत, ' येम्यो मातैवा पित्रे' इति ॥४ ॥
हिन्दी–(इसके बाद अन्य दो ऋचाओं का विधान कर रहे हैं - ) देवाः ( इन्द्रादि) देवताओं ने तेभ्यः उन (ऋभुओं) के लिए मनुष्यगन्धात् मनुष्य की गन्ध होने के कारण अपैव अबीभत्सन्त स्वयं अपगत होकर घृणा करने लगे। ते उन ( देवताओं) ने ‘ येभ्यो माता ' और ‘ एवा पित्रे’ – इति एते धाय्ये इन दो धाय्या को अन्तः अदयत्(ऋभुओं और इन्द्रादि अन्य देवताओं के मध्य में रख दिया । ' ऋभुभ्यः ‘ अपैव’ स्वयमपगता एव सा० भा ० — अग्निवस्वाद् ' देवाः ' ' तेभ्यः ( ३ ) तु० ऐ०ब्रा० २ ९.४। ( १ ) ऋ० १.४.१शं ( २ ) ऋ० १०.१२३.१
(४ ) 'तस्मात् तथाहि श्रेष्ठी तु प्रशस्यगुणसंयुतः ।
स्वसमीपस्थापनेन प्रकाशयति सत्सु तम् ॥
यं श्रद्दधाति पुनरु पात्रे पानादिकर्मणि । विदुषा पूजितं तं तु लोकोऽथ बहुमन्यते ॥ ' – इति षड्गुरुशिष्यः ।
पृष्ठ 653
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५ ९ १ सन्तः ‘ अबीभत्सन्त ' एवं मनसि बीभत्सां कृतवन्तः । कस्मात्कारणादिति? तदुच्यते— ‘मनुष्यगन्धात्' इति। एते मनुष्या अस्मत्पङ्क्तियोग्या न भवन्तीति शङ्कयेत्यर्थः । बीभत्सां प्राप्य 'ते एते' वक्ष्यमाणे द्वे धाय्ये ' अन्तरदधत ' ऋभूणामग्न्यादीनां च मध्येऽन्तर्धानं व्यवधानमकुर्वत। के ते धाय्ये? इत्युच्येते — ' येभ्यो माता मधुमत्" इत्येका। ‘एवा पित्रे विश्वदेवाय’ ” इत्यपरा अयं वेन: ' इत्येतस्मात् पूर्वमेतदुभयं शंसेदित्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये (त्रयोदशाध्याये) षष्ठः खण्डः ॥६ ॥॥। इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के षष्ठ खण्ड की
' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० – अथ विश्वदेवदेवताकम् ‘ आ नो भद्राः ' इत्येतत् सूक्तं ' विधत्ते— ( वैश्वदेवशस्त्रविधानम् ) ( तत्र वैश्वदेवसूक्तविधानम् ) वैश्वदेवं शंसति ॥ हिन्दी - वैश्वदेवं शंसति विश्वेदेवों से सम्बन्धित ( सूक्त ) का शंसन करता सा० भा० — लौकिकदृष्टान्तेन प्रशंसन्नाहावं' विधत्ते- ( पर्याहावप्रशंसनम्) यथा वै प्रजा एवं वैश्वदेवं, तद् यथाऽन्तरं जनता एवं सूक्तानि, यथाऽरण्याान्येवं धाय्याः, तदुभयतो धाय्यां पर्याह्वयते, तस्मात् तान्यरण्यानि सन्त्यनरण्यानि मृगश्च वयोभिश्चेति ह स्माऽऽह ॥ १ ॥
हिन्दी–( इसके बाद ' आनो भद्रा' इस विश्वे देवों से सम्बन्धित सूक्त का विधान कर रहे हैं— ) यथा वै प्रजा जिस प्रकार (लोक में ) प्रजा (प्रजा का निवासस्थान राष्ट्र) है, एवं वैश्वदेवम् उसी प्रकार वैश्वदेवशस्त्र है। तद् तो यथा अन्तरं जनता जिस प्रकार ( राष्ट्र में) जनता होती है एवं सूक्तानि उसी प्रकार (वैश्वदेवशस्त्र में) सूक्त होते हैं । यथा अरण्यानि जिस प्रकार ( राष्ट्र में ) अरण्य होते हैं एवं धाय्या उसी प्रकार (वैश्वदेवशस्त्र में) धाय्या होती ( ) ( ); १ ऋ० १०.६३.३ । २ ऋ० ४.५०.६ द्र० आश्व०श्रौ० ५.१८.५ । (३ ) ऋ० १.८ ९.१। (४ ) द्र ० आश्व० श्रौ ० ५.९.३ । ' आहाव आह्वानात्' इति निरु० ५.४.८ ।
पृष्ठ 654
पाठ पढ़ें पाठ छिपाएँ
: [५ ९ २ ऐतरेयब्राह्मणम् १३.७ तृतीयपञ्चिकायांहै। तद् धाय्याम् उस (अरण्य स्थानीय) धाय्या को उभयतः पर्याह्वयते दोनों ओर से ( शोंसावोम् मन्त्र से ) पर्याहाव किया जाता है। तस्मात् इसी कारण ( लोक में भी) तानि अरण्यानि वे ( निर्जन ) अरण्य मृगैः वयोभिः च मृगों और पक्षियों से युक्त होने कारण अनरण्यानि सन्ति अनरण्य ( मृगादि से रहित नहीं ) होते हैं - इति ह स्म आह ऐसा (किसी अभिज्ञ ने ) कहा है । सा० भा ० — लोके यथा प्रजा, एवमत्र ' वैश्वदेवं' शस्त्रं; प्रजाशब्देन तन्निवासस्थानं राज्यमुपलक्ष्यते, राज्यसदृशं शस्त्रमित्यर्थः । ‘ तत्’ तत्र प्रजाशब्देन राज्ये विवक्षिते, राज्ये ‘ अन्तरम्’ अभ्यन्तरे ‘जनता:' जनसमूहा यथा तिष्ठन्ति, एवं तस्मिन् शस्त्रे सूक्तानि तिष्ठन्ति । यथा अरण्यानि राज्ये क्वचित्क्वचिद् भवन्ति, एवमस्मिन् शस्त्रे धाय्याः क्वचित् प्रक्षिप्यन्ते। तथा सत्यरण्यस्थानीयां धाय्यामुभयतः पर्याह्वयते । ' शोंसावोम्' इत्येष मन्त्रः ‘पर्याहावः ’ । अस्य धाय्यायाः पार्श्वयोर्यस्मात् पाठः, तस्माल्लोकेऽपि बहुवृक्षसंकीर्णानि स्थानानि स्वभावतोऽरण्यानि मनुष्यशून्यानि सन्त्यपि मृगैश्च पक्षिभिश्च संकीर्णत्वाद् ' अन- रण्यानि' अशून्यानि एवेति कश्चिदभिज्ञ आह स्म । एवमेकेन दृष्टान्तेन पर्याहावं प्रशस्य पुनरप्यन्येन दृष्टान्तेन प्रशंसति— यथा वै पुरुष एवं वैश्वदेवम्, तस्य यथाऽवान्तरमङ्गान्येवं सूक्तानि, यथा पर्वाण्येवं धाय्याः तदुभयतो धाय्यां पर्याह्वयते, तस्मात् पुरुषस्य पर्वाणि शिथिराणि सन्ति दृहळानि, ब्रह्मणा हि तानि धृतानि॥ २ ॥
हिन्दी- ( अन्य उदाहरण द्वारा पर्याहाव की प्रशंसा कर रहे हैं - ) यथा वै पुरुषः (लोक में ) जैसे पुरुष होता है एवं वैश्वदैवम् उसी प्रकार वैश्वदेवशस्त्र है । यदा तस्य अवान्तरम् अङ्गानि जिस प्रकार उस ( पुरुष ) के अवान्तर अङ्ग होते हैं एवं सूक्तानि उसी प्रकार ( वैश्वदेवशस्त्र में) सूक्त होते हैं । यथा पर्वाणि जिस प्रकार ( पुरुष में अङ्गों की) सन्धियाँ हैं, एवं घाय्याः उसी प्रकार धाय्या है । तत् इससे धाय्याम् उभयतः धाय्या के दोनों ओर पर्याह्वयते पर्याहाव किया जाता है। तस्मात् इसी कारण पुरुषस्य शिथिराणि पर्वाणि पुरुष की शिथिल पर्व (सन्धियाँ) दृणानि सन्ति दृढ होती है; क्योंकि ब्रह्मणा हि ( आहावरूप ) ब्रह्म के द्वारा तानि घृतानि ( धाय्या रूप ) वे ( सन्धियाँ ) धारण ( दृढ़ ) की गयी हैं। स० भा ० — लोके यथा पुरुषो हस्तपादादिमान्, मनुष्यदेहः, तद् इदं वैश्वदेव- ‘ शस्त्रम्। ‘तस्य ' शरीरस्य ‘ अवान्तरम्' अभ्यन्तरप्रदेशम् ' अङ्गानि' अवयवा यथा वर्तन्ते, एवं शस्त्रस्याभ्यन्तरे सूक्तानि निविष्टानि। यथा तेषामवयवानां संधयः, एवमेता धाय्याः शस्त्रे प्रयत्नेन धारितानि दृढानि संपद्यन्ते। 'ब्रह्म वा आहावः ' इति श्रुतत्वाद् आहावरूपेण ब्रह्मणैव धाय्यारूपाणि पर्वाणि धृतानि भवन्ति॥
पृष्ठ 655
पाठ पढ़ें पाठ छिपाएँ
: ]:तृतीयोऽध्यायः सप्तमः खण्ड सायणाचार्यकृतभाष्योपेतम् ५ ९ ३ अथ धाय्यानां शस्त्रयाज्यानां च प्रकृतौ विकृतौ चान्यत्वं निराकृत्यैकरूपत्वं विधत्ते— मूलं वा एतद् यज्ञस्य यद्वाय्याश्च याज्याश्च तद् यदन्या अन्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद् यज्ञं कुर्युस्तस्मात् ताः सामान्य एव स्युः ॥३ ॥
हिन्दी— ( धय्या और शस्त्रयाज्यों के प्रकृत और विकृत में अन्यत्व का निराकारण करके एकरूपता कर विधान कर रहे हैं - ) यद् धाय्या च याज्या च जो धाय्या और याज्या है एतत् यह यज्ञस्य मूलम् यज्ञ का मूल हैं। तत् तो यद् अन्या धाय्या च अन्या याज्या च कुर्युः जो अन्य धाय्या और अन्य याज्या को करता है तत् उससे यज्ञम् उन्मूलम् एव कुर्युः यज्ञ रूप ( वृक्ष ) को मूलरहित करता है । तस्मात् इसी कारण ते वे दोनों सामान्ये एव स्युः समान प्रकार वाले ही करने चाहिए । सा० भा ० — धाय्यानां शस्त्रयाज्यानां वृक्षमूलवद् यज्ञमूलता । तत्प्रकृतिगताः परि- त्यज्य विकृतावन्यस्वीकारे यज्ञरूपो वृक्ष उन्मूलितः स्यात्। तस्मात् प्रकृतौ याः सन्ति, ता एव विकृतावित्युभयत्र ' समान्य एव' एकविधा एव कर्तव्याः ॥ वैश्वदेवशस्त्रमवयवशः प्रशस्य समुदायाकारेण प्रशंसति— पाञ्चजन्यं वा एतदुक्थं यद् वैश्वदेवम्; सर्वेषां वा एतत् पञ्च- जनानामुक्थं, – देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां च; एतेषां वा एतत् पञ्चजनानामुक्थं; सर्वं एनं पञ्चजना विदुः ॥४ ॥
हिन्दी –( वैश्वदेवशस्त्र की अवयव रूप से प्रशंसा करके समुदाय रूप से प्रशंसा कर रहे हैं— ) यद् वैश्वदेवम् जो वैश्वदेवशस्त्र है, एतत् पाञ्चजन्यं वै उक्थम् यह पाँच प्रकार के लोगों से सम्बन्धित शस्त्र है। एतत् सर्वेषां पञ्चजनानाम् उक्थम् यह सभी पाँच प्रकार के लोगों का शस्त्र है। देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणं च देवों, मनुष्यों, गन्धर्व- अप्सराओं, सर्पों और पितरों- एतेषां पञ्चजनानाम् इन पञ्चजनों का एतद् उक्थम् यह शस्त्र है, अतः सर्वे पञ्चजनाः सभी पञ्चजन एनम् इस ( शस्त्र के शंसन करने वाले होता ) को विदुः जानते हैं । सा० भा०-- यद् वैश्वदेवनामकम् ' उक्थं' शस्त्रमस्ति, तदेतत् ' पाञ्चजन्यं वै ' पञ्च- विधानां जनानां संबन्ध्येव । स एवार्थः सर्वेषामित्यादिना स्पष्टीक्रियते, —ये पञ्चविधा जनाः सन्ति, तेषां सर्वेषामेव संबन्ध्येतच्छस्त्रम्। पञ्चविधत्वमेव मनुष्याणामित्यादिनोच्यते -, अग्नीन्द्रादिदेवगण एको वर्गः ब्रह्मक्षत्रियादिमनुष्यगणो द्वितीयो वर्गः, गन्धर्वाणामप्स- रसां वर्गस्तृतीयः, सर्पाणां वर्गश्चतुर्थः, पितॄणां वर्गः पञ्चमः। ' एतेषां पञ्चविधानां जनानां ( १ ) ‘ गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके, चत्वारो वर्णा निषादः पञ्चमः इत्यौपमन्यवः’— इति निरु० ३.२.२।
पृष्ठ 656
पाठ पढ़ें पाठ छिपाएँ
: · [५ ९४ ऐतरेयब्राह्मणम् १३.७ तृतीयपञ्चिकांयांतुष्टिहेतुत्वात् तदीयमेतच्छस्त्रम्। ' एनं ' वैश्वदेवशस्त्रस्य शंसितारं होतारं सर्वे पञ्चजनाः ‘विदुः’ जानन्ति, तेष्वस्य कीर्तिः प्रसरतीत्यर्थः ॥ वेदनं प्रशंसति एनं पञ्चिन्यै जनतायै हविनो गच्छन्ति, य एवं वेद ॥५ ॥
हिन्दी–(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह एनम् इस (ज्ञाता ) के समीप हविनः हविष प्रदान करने वाले लोग पश्चिन्ये जनताये इन पञ्चजनों को प्रसन्नता के लिए गच्छन्ति जाते हैं । सा० भा० — जनानां देवमनुष्याणां समूहो 'जनता' । सा च पञ्चसंख्योपेतत्वात् 'पञ्चिनी ' तस्यै, तत्प्रीत्यर्थं ‘ हविनः ’ होतुं कुशलाः पुरुषाः ' एनं ' वेदितारमागच्छन्ति॥ अथ शंसनपूर्वकाले दिग्ध्यानं विधत्ते— ..( वैश्वदेवशस्त्रस्य शंसनकाले दिग्ध्यानविधानम्) सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति, सर्वा दिशो ध्यायेच्छंसिष्यन्, सर्वास्वेव तद् दिक्षु रसं दधाति ॥ ६ ॥
हिन्दी— (अब वैश्वदेवशस्त्र के शंसन के समय होता द्वारा किये जाने वाले दिग्ध्यान का विधान कर रहे हैं— ) यः वैश्वदेवं शंसति जो वैश्वदेवशस्त्र का शंसन करता है, एषः होता वह होता सर्वदेवत्यः वै सभी देवताओं से ही सम्बन्धित होता है। अतः शंसिष्यन् सर्वा दिशः ध्यायेत् (वैश्वदेवशस्त्र का ) शंसन करने हुए सभी दिशाओं का ध्यान करे । तत् इस ( सभी दिशाओं के ध्यान ) से सर्वासु दिक्षु सभी दिशाओं में रसं दधाति रस को प्रतिष्ठापित करता है । . सा ० भा०- ' यः' होता ' वैश्वदेवं' शस्त्रं शंसति, ' एषः ' ' सर्वदेवत्यो वै ' सर्वा देवता अस्येति, तत्परितोषहेतुरित्यर्थः। अतः सोऽयं शंसितुमुद्युक्तः सर्वा दिशो मनसा ध्यायेत्, तेन शंसनेन सर्वास्वेव तद्दिक्षु रसं दधाति॥ क्वचिद् ध्यानं विधत्ते— ( होतुः ध्यानकाले विशेष: ) यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेत्, अनुहायैवास्य तद्वीर्यमादत्ते॥७ ॥
हिन्दी— ( होता के दिग्ध्यान करने के विषय मे विशेष बतला रहे हैं— ) यस्यां दिशि जिस दिशा में अस्य इस ( होता) का द्वेष्यः स्यात् शत्रु हो तां न ध्यायेत् उस दिशा का ध्यान नहीं करना चाहिए। तत् इससे अनुहाय (इस शत्रु के ) पीछे जाकर अस्य वीर्यम् इस ( शत्रु) के बल को आदत्ते ले लेता है ।
पृष्ठ 657
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५ ९५ सा० भा०--'अस्य' हेतुः 'द्वेष्यः' शत्रुर्यस्यां दिशि वसति, तामेकां दिशं न ध्यायेत्। तथा सति, ‘ अनुहायैव’ द्वेष्यस्य पृष्ठतो गत्वैव तदीयं वीर्यं सर्वं स्वीकरोति ॥ शस्त्रस्यं परिधानीयामृचं विधत्ते— ( वैश्वदेवशस्त्रस्य परिधानीयविधानम् ) ‘ अदितिर्द्यौरदितिरन्तरिक्षम् ' इत्युत्तमया परिदधाति। इयं वा अदिति- रियं द्यौरियमन्तरिक्षम् ॥८ ॥
हिन्दी –( वैश्वदेवशस्त्र की परिधानीय ऋचा का विधान कर रहे हैं— ) ' अदिति- द्यौरदितिरन्तरिक्षम्' अर्थात् अदिति ही द्यौ है और अदिति ही अन्तरिक्ष हैं ' इति उत्तमया परिदधाति ( सूक्त की ) इस अन्तिम (ऋचा ) से (कर्म की ) समाप्ति करता है। इयं वै अदितिः यह ( पृथिवी ) ही अदिति है इयं द्यौ यह (अदिति) द्यौ है और इयम् अन्तरिक्षम् वह ( अदिति) अन्तरिक्ष भी है। सा ० भा० – अखण्डितत्वाद् अदीनत्वाद् वा भूमिरेवादितिरित्युच्यते । सेयं भूमिरेव द्युलोकरूपाऽन्तरिक्षरूपा च; अस्यां भूमौ कर्म कृत्वा तत्तल्लोकप्राप्तेः संपादयितुं शक्यत्वात्॥ द्वितीयपादमनूद्य व्याचष्टे—.
' अदितिर्माता स पिता स पुत्रः ' इति । इयं वै मातेयं पितेयं पुत्रः ॥ ९ ॥
हिन्दी -(ऋचा के द्वितीय पाद को कह कर उसका व्याख्यान कर रहे हैं - ) अदितिर्माता अदिति माता है सः पिता वह (अदिति) ही पिता है और सः पुत्रः वह (अदिति ) ही पुत्र भी है । इयं वै माता यह (पृथिवी ) ही माता है इयं पिता यही ( पृथिवी ) पिता है और इयं पुत्रः यह ( पृथिवी ही ) पुत्र है। सा० भा ० — येयमदितिर्भूमिः, सैव माता; सोऽदितिरूप एव पिता, सोऽदितिरूप एव पुत्रः । ‘ इयं वा’ इत्यादिनोक्तार्थप्रसिद्धिरुच्यते - सत्यां भूमौ मातापितृपुत्रादिभिरव- स्थातुं शक्यत्वात् तेषामदितिरूपत्वं प्रसिद्धमित्यर्थः ॥ तृतीयपादमनूद्य व्याचष्टे- 'विश्वे देवा अदितिः पञ्च जना' इत्यस्यां वै विश्वे देवा अस्यां पञ्चजनाः ॥ १० ॥
हिन्दी–(ऋचा के तृतीय पाद को कहकर उसका व्याख्यान कर रहे हैं— ) ‘ विश्वेदेवा अदितिः पञ्चजनाः’ अर्थात् अदिति ही सम्पूर्ण देवता और पञ्चजन है। अस्यां वै (१ ) ऋ० १.८ ९.१० । ( २ ) द्र ० अदितिरदीना—इति निरु ० ४.४.१; ११.३.२ ।
पृष्ठ 658
पाठ पढ़ें पाठ छिपाएँ
: [५ ९ ६ ऐतरेयब्राह्मणम् १३.७ तृतीयपञ्चिकायांविश्वेदेवाः इस ( पृथिवी) पर ही सम्पूर्ण देवता और अस्याम् पञ्चजनाः इस ( पृथिवी) पर ही पञ्चजन निवास करते हैं ) । सा ० भा ० — विश्वेषां देवानां भूमौ मनुष्यैः पूज्यमानत्वात् पञ्चजनानां देवमनुष्यादीनां भूमाववस्थानाद् अदितेस्तद्रूपत्वम्॥ चतुर्थपादमनूद्य व्याचष्टे—
' अदितिर्जातमदितिर्जनित्वम्' इति । इयं वै जातमियं जनित्वम् ॥ ११ ॥
हिन्दी–(ऋचा के चतुर्थ पाद को कह कर उसका व्याख्यान कर रहे हैं— ) ‘ अदितिर्जातमदितिर्जनित्वम्' अर्थात् अदिति ही उत्पन्न हुई प्रजा है और अदिति ही पैंदा होने वाली प्रजा भी है' । इयं वै जातम् यह (पृथिवी ) ही उत्पन्न प्रजा है और इयं जनित्वम् यह (पृथिवी) ही उत्पन्न होने वाली प्रजा भी है। सा० भा०--'जातं' पूर्वमुत्पन्नं प्राणिरूपं, 'जनित्वम्' इतः परमुत्पत्स्यमानं प्राणि- रूपम्, तयोरुभयोर्भूमौ संभवाद् अदितेस्तद्रूपत्वम्॥ परिधानीयाया अस्या ऋचः शंसने प्रकारविशेषं विधत्ते— ( परिधानीयर्कंशंसने विशेषः ) द्विः पच्छः परिदधाति, चतुष्पादा वै पशवः पशूनामवरुदध्यै, सकृद- र्धर्चशः, प्रतिष्ठाया एव, द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो, यजमानमेव तद् द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ॥ १२ ॥
हिन्दी– (इस परिधानीय ऋचा के शंसन के विषय में विशेष विधान कर रहे हैं— ) चतुष्पादाः वै पशवः पशु चार पादों वाले होते हैं अतः पशूनाम् अवरुद्धयै पशुओं की प्राप्ति के लिए द्वि पच्छः परिदधाति इस ऋचा के प्रत्येक पाद पर अवसान करके दो बार शंसन करता है । सकृद् अर्धर्चशः ( तृतीय आवृति में ) एक बार अर्धर्च पर विराम करके ( शंसन करना चाहिए) । प्रतिष्ठायै एव ( यह यजन करने वाले की ) प्रतिष्ठा के लिए होता है । द्विप्रतिष्ठः वै पुरुषः क्योंकि पुरुष दो पादों वाले होते हैं और चतुष्पादाः पशवः पशु चार पादों वाले होते हैं। तत् इससे यजमानमेव द्विप्रतिष्ठम् दो पाद वाले यजमान को चतुष्पात्सु पशुषु चार पादों वाले पशुओं में प्रतिष्ठापयति प्रतिष्ठापित करता है । सा ० भा ० —‘ त्रिः प्रथमां त्रिरुत्तमामन्वाह' – इति विधेः ' सार्वत्रिकत्वादस्याः परि- धानीयायास्त्रिरावृत्तिः प्राप्ता। तत्र द्वयोरावृत्त्योः 'पच्छः ' शंसेत् । एकैकस्मिन् पादेऽवसाया- वसाय शंसनं कुर्यात् । तत्र पादानां चतुष्टयेन पशुसाम्यात् पशुप्राप्तिर्भवति । तृतीयस्यामावृत्ता- ( १ ) तै ० सं ० २.५, ७.१ ।
पृष्ठ 659
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५ ९७ वर्धर्चशः' शंसेत्। अर्धर्चेऽवसाय पठेदित्यर्थः । तच्च प्रतिष्ठायै स्थैर्येणावस्थानार्थमेव भवति। किंच पुरुषोऽयं ‘द्विप्रतिष्ठ ’ पादद्वयोपेतः, पशवश्चतुष्पादाः, तथा सत्युभयविधशंसनेन द्विपादं यजमानमेव चतुष्पात्सु पशुषु प्रतिष्ठापयति ॥ परिधानकाले भूमिस्पर्शं विधत्ते— ( परिधानकाले भूमिस्पर्शविधानम् ) सदैव पञ्चजनीयया परिदध्यात्, तदुपस्पृशन् भूमिं परिदध्यात्, तद् यस्यामेव यज्ञं संभरति, तस्यामेवैनं तदन्ततः प्रतिष्ठापयति ॥ १३ ॥
हिन्दी – ( कर्म के समापन के समय भूमिस्पर्श का विधान कर रहे हैं - ) सदैव पञ्चजनीयया परिदध्यात् सभी ( यज्ञानुष्ठानों) में पाञ्चजन्य ( मन्त्र ) से ही समापन करता चाहिए । तदु उस ( पाञ्चजन्य मन्त्र ) से भूमिम् उपस्पृशन् भूमि का स्पर्श करते हुए परिदध्यात् समापन करना चाहिए । तत् ( इस भूमिस्पर्श ) से यस्यामेव जिस ( भूमि ) पर ही यज्ञं सम्भरति यज्ञ का सम्पादन करता है। तस्यामेव उस ( भूमि) पर ही अन्ततः अन्त में एनम् इस (यजन करने वाले) को प्रतिष्ठापयति प्रतिष्ठापित करता है। सा० भा०--'सदैव' सर्वेष्वपि यज्ञप्रयोगेषु ' पञ्चजनीयया' 'विश्वे देवा अदिति: पञ्च-जना: ’ — इत्युक्तत्वात् इयमृक् 'पञ्चजनीया', तया 'परिधानं' समापनं यदा कुर्यात् तदानीं भूमिमुपस्पृशन् परिदध्यात्। तथा सति ' यस्यामेव' भूमौ ' यज्ञं संभरति', अनुष्ठातुं यज्ञसाधनानि संपादयति, ‘ तस्यामेव ' भूमौ 'एवं' यज्ञमनेनोपस्पर्शनेनान्ततः प्रतिष्ठापयति॥ शस्त्रयाज्यां विधत्ते— ( वैश्वदेवशस्त्रस्य याज्याविधानम् ) 'विश्वे देवाः शृणुतेमं हवं में ' इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति, यथाभागं तद्देवताः प्रीणाति ॥ १४ ॥
हिन्दी – ( वैश्वदेवशस्त्र की याज्या का विधान कर रहे हैं - ) वैश्वदेवम् उक्थं शस्त्वा वैश्वदेवशस्त्र का शंसन करके 'विश्व देवाः शृणुत हवं मे ' अर्थात् हे विश्वे देवो! मेरे आह्वान को सुनो ' – इति वैश्वदेव्या यजति इस विश्वेदेवों से सम्बन्धित ( ऋचा ) से याज्या करता है । तत् इस याज्या) से यथा भागं देवताः प्रीणाति भाग के अनुसार देवताओं को सन्तुष्ट करता है। सा० भा०--- वैश्वदेवशस्त्रशंसनादूर्ध्व ' विश्वे देवाः शृणुत्' इत्येतां वैश्वदेवीं याज्यां पठेत्। तस्यां ‘ ये अन्तरिक्षे य उपद्यविष्ठाः ' इत्यादिना भिन्नवर्गाणां देवगणानामभिधानात् ( १ ) ‘द्वि: पच्छोऽर्धर्चशः सकृद् भूमिमुपस्पृशन्' – इति आश्व० श्रौ० ५.१८.१२ । (२ ) ऋ० ६.५२.१३ ।
पृष्ठ 660
पाठ पढ़ें पाठ छिपाएँ
: [५९ ८ ऐतरेयब्राह्मणम् १३.८ तृतीयपञ्चिकायांतासां देवतानां स्वस्वभागमतिक्रम्य प्रीतिं करोति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये ( त्रयोदशाध्याये ) सप्तमः खण्डः ॥ ७। ॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के सप्तम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा ० भा ० — अथ घृतयागसौम्ययागयोर्याज्यां विधत्ते— ( घृतयागसौम्ययागयोर्याज्याविधानम् ) आग्नेयी प्रथमा घृतयाज्या, सौमी सौम्ययाज्या, वैष्णवी घृतयाज्या, त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति ॥ १ ॥
हिन्दी— ( अब घृतयाग और सोमयाग की याज्या का विधान कर रहे हैं - ) प्रथमा घृतयाज्या अग्नेयी प्रथम घृतयाग की याज्या अग्नि देवता वाली (' घृता हवनो घृतपृष्ठो ') और सौम्ययाज्या सौमी सोमयाग की याज्या सोम देवता वाली (' त्वं सोम' ) होती है। घृतयाज्या वैष्णवी (द्वितीया ) घृतयाग की याज्या विष्णुदेवता वाली ('उरु विष्णो विक्रमस्व ' ) और सौम्यस्य सोमयाग की (' पितृभिः संविदान )– इति पितृमत्या इस ' पितृ' शब्द से युक्त यजति ( याज्या ) करता है । सा० भा०-– सौम्यचरोरुभयतो घृतसाध्यौ द्वौ यागावनुष्ठेयौ । तन्त्राग्निदेवताका विष्णुदेवताका चेति द्वे याज्ये। ' घृताहवनो घृतपृष्ठो अग्निः ' इत्याग्नेयी प्रथमा याज्या' 'उरु विष्णो विक्रमस्व' इति वैष्णवी द्वितीया घृतयाज्या' । अस्ति कश्चित्सोमदेवताकश्चरुः, तस्य ‘त्वं सोमः’३ इति सौमी * याज्या; तत्र 'पितृभिः संविदानः ' इति श्रुतत्वाद् इयं पितृमती; तां याज्यां सौम्यचरौ पठेत्। तस्य चरोः पुस्तादाग्नेय्यायाज्यया घृतयागः । उपरिष्टाद् वैष्णव्या
याज्यया घृतयागः ५ । तद् याज्याद्वयम् आश्वलायनेन पठितम् ॥
सौमीं याज्यां प्रशंसति—' ( ) ( ) १ आश्व० श्रौ ० ५.१ ९.३ । २ आश्व० श्रौ० ५.१ ९.३ । ( ३ ) ऋ० ८.४८.१३ । ( ४ ) ‘ वैश्वदेवशस्त्रमुक्तं चरुः सौम्योऽथ कथ्यते' – इति षड्गुरुशिष्यः । ( ५ ) 'तं घृतयाज्याभ्यामुपांशूभयतः परियजन्ति' – इति आश्व० श्री० ५.१ ९.२। ( ६ ) आश्व ०श्री० ५.१ ९.३ ।