ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 661–670

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 661–670

पृष्ठ 661

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 661 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः अष्टमः खण्डः ( सौमीयाज्याप्रशंसनम्सायणाचार्यकृतभाष्योपेतम्) ५ ९९ घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति, तस्यैतामनुस्तरणीं कुर्णन्ति, - यत्सौम्यः; पितृभ्यो वा अनुस्तरणीं, तस्मात् सौम्यस्य पितृमत्या यजति ॥ २ ॥

हिन्दी—( सौमी याज्या की प्रशंसा कर रहे हैं- ) यद् अभिषुण्वन्ति जो (इस सोम का) अभिषव करते हैं, एतत् सोमं हनन्ति वे इस सोम को विनष्ट करते हैं । तस्य उस (सोम) के लिए यत्सौम्यः जो सोमचरु है, एताम् अनुस्तरणीं कुर्वन्ति इस ( सोमचरु ) को अनुस्तरणी करते हैं जैसे कि लोक में पितृभ्यः अनुस्तरणीम् मृत पिता इत्यादि के लिए अनुस्तरणी ( शव को जलाते समय वृद्ध गाय का हनन करके उसके अङ्गों को मृतक अङ्गों पर) रखते हैं । तस्मात् इसी कारण सौम्यस्य सोम याग में पितृमत्या पितृशब्द से युक्त ( मन्त्र) से यजति याज्या करता है। सा ० भा ० — ऋत्विजः सोममभिषुण्वन्तीति यदस्ति, सोऽयं सोमस्य वध एव । तत्र यः सौम्यश्चरुरस्ति, एतां सौम्यचरुरूपां तस्य मृतस्य सोमस्यानुस्तरणीं कुर्वन्ति । मृतस्य दीक्षितस्य दहनकाले कांचिद् वृद्धां गां हत्वा दीक्षितावयवेषु गोरवयवानस्थाप्य दहेत्। सेयं गौर्मृतं दीक्षितमनु मृतत्वाद्धिंसितत्वाच्त्वानुस्तरणीत्युच्यते। यस्मात् सा पितृभ्यो योग्या तस्मात् पितृमत्या याज्यया सोमयागस्य हविर्यजेत् ॥ घृतयागसहितं सौम्यं चरुं संगृह्य प्रशंसति— ( घृतयागसहितं सौम्यचरुप्रशंसनम् ) अवधिषुर्वा एतत् सोमं यदभ्यसुषवुः, तदेनं पुनः संभावयन्ति ॥ ३ ॥

हिन्दी—( घृतयाग के साथ सौम्यचरु को संगृहीत करके प्रशंसा कर रहे हैं— ) यद् अभ्यसुषवुः जो सोम का सवन करते हैं तो एतत् सोमम् अवधिषुः एव यह सोम को मार डालते हैं तत् इससे एनम् इस ( सोम ) को पुनः सम्भावयन्ति पुन: उत्पन्न करते हैं । ( १ ) (क ) ‘ अनुस्तरणीङ्गामजां वैककर्णां कृष्णामेके सव्ये बाह्रौ बध्वानुसङ्कालयन्ति । अनुस्तरण्या वपामुत्खिद्य शिरो मुखं प्रच्छादयेदग्नेर्वर्म परि गोभिर्व्ययस्व (ऋ ० १०.१६.७ ) इति' – इति आश्व ० गृह्य ० ४.२,३ । (ख) ' अनुस्तरणी चेत् पश्चात् कर्णमाहत्य हस्तयोर्वृक्कौ। अङ्गेष्वङ्गानीति जातूकर्णः । न वास्थिसन्देहात्। वपया मुखमवच्छाद्याग्निभिरादीपयन्ति'- इति कात्या० श्रौ० २५.७.३४-३७। (ग) कर्णप्रदेशस्य पश्चाद्भागे ' आहननं' प्रहारं कृत्वा मारयित्वा तस्याः कुक्षिगोलको मृतस्य हस्तयोर्निषेयौ' — इत्यादि च तद् व्याख्यानं कर्काचार्यकृतम्। (घ) द्र ० पार० गृह्य० ३.११ । (ङ ) 'तस्मात् पुरुषाय पुरुषायानुस्तरणी क्रियते ’ — इति षड्० ब्रा० १.७। तु० तत्र सा० भा० –'तस्मात्' अत एव लोके 'पुरुषाय- पुरुषाय' सर्वस्यै मृताय ‘ अनुस्तरणी क्रियते' वैतरणीनद्युत्तारिका गौः दीयते — इति ।

पृष्ठ 662

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 662 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६०० ऐतरेयब्राह्मणम् १३.८ तृतीयपञ्चिकायां सा० भा ० — अभ्यमुषवुरभितः सोमं सुतवन्त इति यदस्ति, एतेन सोममवधिषुर्वै, ऋत्विजो हतवन्त एव तस्माद् 'एनं ' व्यथितं सोमं घृतचरुभ्यां व्यथापरिहाराय संभावयन्ति॥ संगृह्य प्रशस्य देवताद्वारा पुनर्विस्तरेण प्रशंसां दर्शयति— पुनराप्याययन्त्युपसदां रूपेण उपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति ॥४ ॥

हिन्दी— ( पुन: देवता द्वारा प्रशंसा कर रहे हैं - ) उपसदां रूपेण पुनः आप्याय- यन्ति ( उस मृत सोम को) उपसद के रूप में पुन: बढ़ाते हैं; क्योंकि उपसदां वै ताद्रूपम् उपसद् का वही ( सोम का ) रूप है। यद् अग्निः सोमः विष्णुः जो अग्नि, सोम, विष्णु तीन एताः देवताः ये देवता (उपसद् उन्हीं के रूप ) हैं । सा ० भा ० — योऽयं हतः सोमंः, तं सोममुपसदां रूपेण संपादितेन पुनराप्याययन्ति। अग्निः सोमो विष्णुरिति या एतास्तिस्रो देवताः, तदेतदुपसदामेव स्वरूपं तत्राप्येतस्य देवतात्रयस्य विद्यमानत्वात्॥ अथ होतुराज्यावेक्षणं विधत्ते— ( होतुराज्याववेक्षणविधानम् ) प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत ॥ ५ ॥

हिन्दी– ( अब होता के आज्य को देखने का विधान कर रहे हैं- ) सौम्यं प्रतिगृह्य ( अध्वर्यु द्वारा दिये गये हुतशेष) सोमचरु को लेकर होता होता छन्दोगेभ्यः पूर्वः अवेक्षेत उद्गाताओं से पहले देख लेवे । सा० भा०-- हुतशेषं सौम्यं चरुमध्वर्युणा दत्तं होता, प्रतिगृह्य चरुमध्ये सिक्ते बहुले घृते ‘छन्दोगेभ्य: ’ उद्गातृभ्यः स्वयं पूर्वभावी सन् स्वकीयां देहच्छायामवेक्षेत ॥ अत्र पूर्वपक्षमुत्थाप्य दूषयति- तं हैके पूर्वं छन्दोगेभ्यो हरन्ति, तत् तथा न कुर्यात्, वषट्कर्ता प्रथमः सर्वभक्षान् भक्षयतीति ह स्माऽऽह तेनैव रूपेण । तस्माद् वषट्कर्तेव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति ॥ ६ ॥

हिन्दी—(उस विषय में पूर्वपक्ष को कह कर उसे दूषित कर रहे हैं ) एके कुछ (होता) तम् उस ( सोमचरु) को पूर्वम् पहले छन्दोगेभ्यः हरन्ति उद्गाताओं के लिए देते हैं, किन्तु तत् तथा न कुर्यात् वैसा नहीं करना चाहिए । तेनैव रूपेण उसी प्रकार वषट्कर्त्ता प्रथमः सर्वभक्षान् भक्षयति वषट्कार करने वाला (होता) सर्व प्रथम भक्ष्यों (हुतशेषों) का भक्षण करता है- इति ह स्म आह इस प्रकार (ऋषि ने कहा है। तस्मात् · उसी प्रकार वषट्कर्ता एव वषट्कार करने वाला (होता) ही पूर्वः अवेक्षेत पहले देखे

पृष्ठ 663

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 663 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६०१ अथ इसके बाद छन्दोगेभ्यः हरन्ति उद्गाताओं को देते हैं । सा० भा ० — केचन याज्ञिका होतुराज्यावेक्षणात् पूर्वमेव तं घृतयुक्तं सौम्यं चरुं छन्दोगेभ्यः समर्पयन्ति। तत्समर्पणं तथा न कुर्यात्। हविःशेषभक्षणेषु वषट्कर्ता होता प्रथमः पूर्वभावी सन् हविःशेषान् भक्षयति। इत्येवमभिज्ञो महर्षिराह स्म। तस्मात्कारणात् तेनैव रूपेण भक्षणक्रमेणैवावेक्षणेऽपि होतैव प्रथमो भूत्वाऽवेक्षेत। अनन्तरमेवैनं सौम्यं चरुं छन्दोगेभ्यः समर्पयेयुः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये (त्रयोदशाध्याये ) अष्टमः खण्डः ॥८॥

॥। इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के अष्टम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ नवमः खण्डः सा ० भा ० — अथाग्निमारुतशस्त्रं वक्तव्यं तदर्थमादावुपाख्यानमाह— ( अग्निमारुतशस्त्रविधानम् ) ( तत्राख्यायिका ) प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत्, दिवमित्यन्य आहुः, उषसमित्यन्ये, तामृश्यो भूत्वा रोहितं भूतामभ्यैत्, तं देवा अपश्यन् । अकृतं वै प्रजापतिः करोतीति ते तमैच्छन्, य एनमारिष्यत्येतमन्योस्मिन्नाविन्दन्, तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरन् ताः संभृता एष देवोऽभवत् तदस्यैतद् भूतवन्नाम ॥ १ ॥

हिन्दी- ( अब अग्निमारुतशस्त्र के विधान करने के लिए उपाख्यान को कह रहे हैं— ) प्रजापति वै प्रजापति ने स्वां दुहितरं अपनी पुत्री को देखकर ( पत्नी के रूप में ) अभ्यध्यायत् ध्यान किया। इस ( पुत्री ) को अन्ये कुछ (ऋषि) दिवम् इत्याहुः द्युलोक का देवता कहते हैं और अन्ये कुछ उषसम् इति उषा (कहते हैं) । रोहितं भूतां ताम् रोहित (हिरणी अथवा ऋतुमती ) हुई उस (पुत्री ) के समीप ऋष्यः भूत्वा हिरण होकर ( प्रजापति ) अभ्यैत् अभिगत हुए ( मिथुन धर्म को प्राप्त किये ) । देवाः देवताओं ने तम् अपश्यन् उस ( पुत्रीगामी प्रजापति) को देख लिया । ' प्रजापतिः अकृतं करोति प्रजापति निषिद्ध कर्म को ( १ ) 'होताग्रे भक्षयेदिति गौतमः '- इति आश्व० श्रौ० ५.६.२२। ( २ ) तु० आप० श्रौ० १३.१३.२२; १४.१-२ । ऐ.ब्रा.पू- ३८

पृष्ठ 664

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 664 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६०२ ऐतरेयब्राह्मणम् १३.९ तृतीयपञ्चिकायां करता है ’— इति ऐसा (विचार करके ) ते उन ( देवताओं) ने तम् उस ( व्यक्ति) की ऐच्छन् कामना किया, यः जो एनम् इस (प्रजापति ) को आरिष्यति मारने में समर्थ हो। किन्तु एतम् इस ( मारने वाले पुरुष ) को ( देवतागण) अन्योन्यस्मिन् अपने लोगों में से किसी को न अविन्दन् नहीं प्राप्त कर सके । तब तेषाम् उन ( देवताओं ) में या घोरतमा तन्वः आसन् जो उग्रतम शरीरांश था, ताः एकधा सम्भरन् उसको (उन लोगों ने ) एक जगह एकत्रित किया। सभृताः ताः एकत्रित हुए वे ( शरीरांश) एषः देवः अभवत् यह (रुद्र) देवता हुए। तत् इसी कारण अस्य इस (उत्पन्न रुद्र देवता) का भूतवद् नाम भूत शब्द से सम्पन्न ( भूतपति) नाम हुआ। सा० भा ० — पुरा कदाचित् प्रजापतिः स्वकीयां दुहितरमभिलक्ष्य भार्यात्वेन ध्यानम- करोत्। ' तस्यां दुहितरि महर्षीणां मतभेदं आसीत्। अन्ये केचन महर्षयो दिवं द्युलोक- देवतां ध्यातवान् इत्याहुः। अपरे तु महर्षय ' उषसम्' उषःकालदेवतां ध्यातवान् इत्याहुः । ऋश्यो मृगविशेषः । तथाचाभिधारकार आह— ' गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ’ इति । स प्रजापतिः तथाविध ऋश्योऽभूत्। सा च दुहिता 'रोहितं ' लोहितं ' भूता' प्राप्ता, ऋतुमती जातेत्यर्थः । तादृशीं तां दुहितरम् ' अभ्यैत्' अभिगतवान् मिथुनधर्मं प्राप्तवान् इत्यर्थः । ‘ तं’ दुहितृगामिनं प्रजापतिं देवाः परस्परमिदमब्रुवन् - अयं प्रजापतिः ‘ अकृतं वै ’ अकर्तव्यमेव निषिद्धाचरणं करोतीति विचार्य यः पुरुषः 'एनं' प्रजापतिम् ' अरिष्यति'' आर्तिं प्रापयितुं क्षमः, तादृशं पुरुषमैच्छन्नन्वेषणं कृतवन्तः, कृत्वा चान्योन्यस्मिन् तेषां मध्ये ' तं' प्रजापतिघातकं ‘ नाविन्दन् न अलभन्त-- त्वं हन्तुं शक्नोषि त्वं हन्तुमिति परस्परं पृष्द्दैकैकस्य शक्तिराहित्यं निश्चितवन्तः । सर्वेषु देवेषु या एव कश्चिद् घोरतमास्तन्वोऽत्युग्राणि शरीराण्यासन्, ताः सर्वाः ‘एकधा समभरन्’ मेलयित्वैकं शरीरं कृतवन्तः, ‘ ता: ’ घोरतमास्तन्वः ‘ संभृताः’ एकत्वेन संपादिताः सत्यः 'एष देवोऽभवत्' एष इति हस्तेन प्रदर्श्य रुद्रोऽभिधीयते। तत् तस्मादेव कारणाद् अस्य रुद्रस्यैतल्लोकप्रसिद्धं ' भूतवद्' भूतशब्दोपेतं नाम संपन्नम्।

भूतपतिरिति भूतवन्नाम। तच्च तस्य भवत्यर्थानुगमाद्युक्तम्॥

एतन्नामवेदनं प्रशंसति— भवति वै स योऽस्यैतदेवं नाम वेद ॥ २ ॥

( १ ) मन्त्रश्चास्ति 'पिता यत् स्वां' 'कामं कृण्वान ' इत्यापि (ऋ ० १०.६१.७-६ ) । ( २ ) 'दुहितृशब्दस्य सम्बन्धि शब्दत्वादेव स्वत्वसिद्धौ स्वग्रहणमौपचारिकव्युदासेन साक्षाद् दुहितृत्वप्रतिपत्यर्थम्। प्रजापतेः साक्षादेव सर्वपितृत्वात्। तच्च दोषातिशयख्यापनार्थम्'– इति भट्टभास्करः । ( ३ ) अमरकोश २.५.१० । ( ४ ) ‘ आरिष्यत्' इति भट्टभास्करीयपाठः । तथा च तद् व्याख्या- ' आरिष्यत् आर्तिं प्रापयिष्यत् प्रापयेत् । अर्तेराङ्पूर्वादन्तर्णीतण्यर्थाल्लृङ्। यद्वा, रिष्यतेस्तादृशाल्लेटि रूपम्।'

पृष्ठ 665

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 665 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६०३ हिन्दी—( इन नाम के जानने की प्रशंसा कर रहे हैं - ) एवं इस प्रकार यः जो (व्यक्ति) अस्य इस ( रुद्र ) के एतद् नाम वेद इस नाम को जानता है सः वै भवति वह ( भूतिमान्) हो जाता है । सा० भा ० — वेदिता ' भवति वै ' भूतिमानेव संपद्यते । अथ तेन रुद्रेण सह देवानां संवादं दर्शयति— ( रुद्रेण सह देवानां संवादकथनम् ) तं देवा अब्रुवन् । अयं वै प्रजापतिरकृतमकरिमं विध्येति, स तथेत्य- ब्रवीत् स वै वो वरं वृणा इति; वृणीष्वेति; स एतमेव वरमवृणीत, - पशूनामाधिपत्यं, तदस्यैतत् पशुमन्नाम ॥ ३ ॥

हिन्दी–( उस रुद्र के साथ देवताओं के संवाद को कह रहे हैं - ) देवाः तं अब्रुवन् देवताओं ने उस रुद्र से कहा कि अयं वै प्रजापतिः इस प्रजापति ने अकृतम् अकः अकर्म किया है अतः इमं विध्य इसको मार डालो। तब सः उस (रुद्र) ने अब्रवीत् कहा कि तथा वैसा ही करेंगे (जैसा तुम लोगों ने कहा है ), किन्तु वः वरं वृणे हम तुम लोगों से वर माँगते हैं । वृणीष्व इति ( तब देवताओं ने कहा कि ) वर माँगो । सः उस (रुद्र ) ने (देवताओं से ) एतमेव वरम् अवृणीत इसी वर का वरण किया कि पशूनाम् आधिपत्यम् पशुओं के स्वामित्व को ( मैं प्राप्त करूँ ) । तत् इसी कारण अस्य इस ( रुद्र ) का पशुमत् नाम पशु शब्द से सम्पन्न ( पशुपति) नाम हुआ । सा० भा० - 'तं' रुद्रं देवा एवमब्रुवन् – हे रुद्र! अयं प्रजापतिः ‘ अकृतम् अकः’ निषिद्धाचरणं कृतवांस्तस्मादिमं 'विध्य' बाणेन प्रहरेति । स रुद्रस्तदङ्गीकृत्योत्कोचत्वेन पशूनामाधिपत्यं कृतवान्। तस्मात् कारणादस्य रुद्रस्यैतल्लोकप्रसिद्धं पशुपतिरित्येतादृशं पशुशब्दोपेतं नाम संपन्नम्॥ तद्वेदनं प्रशंसति—' पशुमान्भवति योऽस्यैतदेवं नाम वेद ॥४ ॥

हिन्दी- य: जो अस्य इस (रुद्र ) के एवं नाम वेद इस प्रकार वाले (पशुपति ) नाम को जानता है, वह पशुमान् भवति वह पशुओं से सम्पन्न हो जाता है । अथ रुद्रप्रजापत्योर्वृतान्तं दर्शयति— ( रुद्रप्रजापत्योः वृत्तान्तकथनम् ) तमभ्यायत्याविध्यत् स विद्ध ऊर्ध्व उदप्रपतत्, तमेतं मृग इत्या- चक्षते, य उ एव मृगव्याथः स उ एव सः, या रोहित् सा रोहिणी, यो एत्रिकाण्डा सो एवेषुत्रिकाण्डा ॥ ५ ॥

पृष्ठ 666

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 666 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६०४ ऐतरेयब्राह्मणम् १३.९ तृतीयपञ्चिकायां हिन्दी— ( अब रुद्र और प्रजापति के वृतान्त को कह रहे हैं— ) सः उस (रुद्र) ने तम् उस ( प्रजापति) को अभ्यायत्य अविध्यत् (बाणयुक्त धनुष को) खींच कर मारा । विद्धः मारा गया (वह प्रजापति ) ऊर्ध्व उदप्रपतत् ऊपर की ओर उछल गया । तम् एतम् उस (ऊपर की ओर उछले हुए) इस (प्रजापति) को मृगः इत्याचक्षते अभिजन मृग ( मृगशिरा नक्षत्र ) कहते हैं । यः उ एव मृगव्याधः जिसने ( इस ) मृग को मारा था। सः उ एव सः वह ( मारने वाला रुद्र ) वह ( मृग को मारने वाला मृगव्याध कहलाया) । या रोहित् जो ( प्रजापति की पुत्री ) लाल वर्ण वाली ( हरिणी थी ) सा रोहिणी वह रोहिणी (नक्षत्र ) कहलायी । यः त्रिकाण्डा इषुः जो तीन धारों वाला बाण था, सः एव त्रि-काण्डा इषुः वह तीन धारों वाला बाण हुआ । सा ० भा ० — स रुद्रोऽभ्यायत् य बाणयुक्तं धनुरभित आकृष्य तं प्रजापतिमविध्यत्। ऋश्यमृगरूपः स प्रजापतिर्विद्धः सन्नूर्ध्वमुख उदप्रपतत् प्रकर्षेणोत्पतनमकरोत्। तमेत- मुत्पतितमृश्यमृगरूपं प्रजापतिमाकाशे दृष्ट्वा सर्व एव ते जना मृग इत्याचक्षते, रोहिण्या-र्द्रयोर्नक्षत्रयोर्मध्येऽवस्थितं मृगशीर्षनक्षत्रं कथयन्ति, नक्षत्ररूपेण निष्पन्न इत्यर्थः । ‘य उ एव' यस्तु रुद्रो ‘ मृगव्याधो' मृगघाती स रुद्र आकाशे दृश्यमानः स उ एव लोकप्रसिद्धो मृगव्याध आसीत्। या दुहिता रोहिता रोहिद् रक्तवर्णा मृगी सेयमाकाशे रोहिणीनक्षत्र- मभूत् । यो एव या तु रुद्रेण प्रेरितेषुस्त्रिकाण्डाऽनीकं शल्यस्तेजनमित्यवयवत्रयोपेता सो एव सैव लोकप्रसिद्धा काण्डत्रयोपेतेषुर्बाणोऽभवत्॥ अथ मनुष्योत्पत्तिं दर्शयति— ( मनुष्योत्पत्तिकथनम् ) तद्वा इदं प्रजापते रेतः सिक्तमधावत्, तत्सरोऽभवत्, ते देवा अब्रुवन्, मेदं प्रजापते रेतो दुषदिति, यदब्रुवन्, मेदं प्रजापते रेतो दुषदिति, तन्मादुषमभवत्, तन्मादुषस्य मादुषत्वं, मादुषं ह वै नामैतद् यन्मानुषं तन्मादुषं सन्मानुषमित्याचक्षते परोक्षेणः परोक्षप्रिया इव हि देवाः ॥५ ॥

हिन्दी— ( अब मनुष्य की उत्पत्ति को दिखला रहे हैं - ) प्रजापतेः इदं सिक्तम् रेतः जो ( मृगरुप ) प्रजापति का यह ( मृगीरूप अपनी पुत्री में ) सिञ्चित किया गया वीर्य था, तद् अधावत् वह ( अधिक होने के कारण भूमि पर गिर कर ) प्रवाहित होने लगा और तत् सरः अभवन् वह ( एकत्रित होकर) सरोवर हो गया। तब ते देवाः उन देवताओं ने अब्रुवन् परस्पर कहा कि प्रजापतेः इदं रेतः प्रजापति का यह वीर्य मा दुषत् दूषित न होवे । यद् अब्रुवन् जो ( देवताओं) में यह कहा कि प्रजापतेः इदं रेतः मा दुषत् प्रजापति का यह वीर्य दूषित न होवे, तद् मादुषम् अभवत् वह मादुष ( दोषरहित) नाम वाला हुआ।

पृष्ठ 667

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 667 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:तृतीयोऽध्यायः दशमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६०५ तद् मादुषस्य मादुषत्वम् वही मनुष्य की मादुषता ( दोष से रहितता है) । यद् मानुषम् जो मनुष्य नाम है, एषः मादुषं ह वै वह मादुष ही है। परोक्षेण परीक्षरूप से तद् मादुषु सन् वह ( वीर्य) मादुष होकर मानुषम् इत्याचक्षते मानुष कहलाता है, क्योंकि परोक्षप्रियाः एव हि देवाः देवता परोक्षप्रिय होते हैं । सा० भा०- मृगरूपेण प्रजापतिना यद् रेतो मृग्यां सिक्तं तदेतदतिबहुत्वाद् भूमौ पतितं सत्प्रवाहरूपेणाधावत्। तच्च क्वचिन्निम्न देशेऽवस्थाय प्रौढं सरोऽभूत्। ते देवा एवमब्रुवन्—–प्रजापतेरिदं रेतो ‘ मा दुषद्' दुष्टमस्पृश्यं मा भूदिति । यस्मान्मा दुषदित्यवदंस्त-स्माद् दोषरहितस्य रेतसो ‘ मादुषमिति' नाम संपन्नम्। जनास्तु दकारस्थाने नकारं प्रक्षिप्य ' मानुषमिति' ब्राह्मणक्षत्त्रियादिशरीरमाचक्षते। तद् वस्तुतो दैवाचारेण दोषरहितत्वान्मा- दुषमेव । तथा सति मादुषनामयोग्यमपि तच्छरीरं परोक्षेण नाम्ना व्यवहर्तव्यमित्यभिप्रैत्य वर्णव्यत्ययेन मानुषमित्याचक्षते। यस्माल्लोके देववत्पूज्या उत्तमाः पुरुषाः ' परोक्षप्रिया इव हि’ प्रत्यक्षे मातापितृनिर्मिते देवदत्तादिनाम्नि न प्रीतिं कुर्वन्ति, किन्तु उपाध्यायाचार्यस्वामी- त्यादिके मातापित्रादीनामक्लृप्तत्वेन परोक्षे नाम्नि प्रीतिं कुर्वन्ति । तस्मात् परोक्षत्वाय नकार- प्रक्षेपो युज्यते॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये (त्रयोदशाध्याये ) नवमः खण्डः ॥ ९॥

॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के नवम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ दशमः खण्डः सा ० भा ० – अथाऽऽदित्यादिदेवतोत्पत्ति दर्शयति— ( अथादित्यादिदेवतोत्पत्तिकथनम् ) तदग्निना पर्यादधुः, तन्मरुतोऽधून्वन्, तदग्निर्न प्राच्यावयत्, तदग्निना वैश्वानरेण पर्यादधुः, तन्मरुतोऽधून्वन्, तदग्निर्वैश्वानरः प्राच्यावयत्, तस्य यद् रेतसः प्रथममुददीप्यत तदसावादित्योऽ भवत्, यद् द्वितीय- मासीत् तद् भृगुरभवत्, तं वरुणो न्यगृह्णीत, तस्मात् स भृगुर्वारुणिः, अथ यत् तृतीयमदीदेदिव त आदित्या अभवन्, येऽङ्गारा आसंस्तेऽ- ङ्गिरसोऽभवन्, यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद् बृहस्पतिर- ( १ ) 'मा दुष्टपरिणामं लोकगर्हितमभूत्’ – इति भट्टभास्करः ।

पृष्ठ 668

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 668 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६०६ ऐतरेयब्राह्मणम् १३.१० तृतीयपञ्चिकायां भवत् ॥ १ ॥

हिन्दी— ( अब आदित्य इत्यादि देवताओं की उत्पत्ति को दिखला रहे हैं— ) तत् ( देवतओं ने ) उस ( दोष - रहित वीर्य) को अग्निना पर्यादधुः अग्नि द्वारा चारों ओर से परिवेष्टित कर दिया । तद् मरुतः अधून्वन् उसको मरुतों ने ( शुष्क करने के लिए) वायु से संयुक्त किया । तद् वैश्वानरः अग्निः प्राच्यावयत् किन्तु वैश्वानर अग्नि ने उसे प्रकृष्ट रूप से प्रच्युत किया। तस्य रेतस्यः उस ( पिण्डीभूत वीर्य ) का यद् प्रथमम् उद्दीप्यत जो प्रथम ( पिण्डरूप ) उद्दीप्त हुआ तद् असौ आदित्यः अभवत् वह यह (अन्तरिक्ष में दृश्यमान) आदित्य हुआ और यद् द्वितीयम् आसीत् जो द्वितीय था, तद् भृगुः अभवत् वह भृगु हुआ। तम् उस ( भृगु) को वरुणः न्यगृह्णीत् वरुण ने (पुत्र के रूप में ) स्वीकार कर लिया, तस्मात् उसी कारण सः भृगुः वे भृगु वारुणि: वरुण के पुत्र हुए । अथ इसके बाद यत् तृतीयम् अदीदेत् जो तृतीय भाग अत्यन्त दीप्त था ते अदित्याः वे अदिति के पुत्र (देव- विशेष ) अभवन् हुए। ये अङ्गाराः आसन् जो ( दग्ध पिण्ड के ) अङ्गारे थे ते अङ्गिरसः अभवत् वे अङ्गिरस हुए । यद् अङ्गारा पुनः अवशान्ताः जो अङ्गारे पुनः शान्तिरहित होकर उददीप्यन्त उदीप्त हुए तद् बृहस्पतिः अभवत् वे बृहस्पति हुए। सा ० भा ० — प्रजापतेः संबन्धि यद् रेतो देवैर्दोषरहितं कृतं तद् रेतो देवा अग्निना पर्यादधुः परितो वेष्टितवन्तः । सरोरूपेणावस्थितस्य रेतसो दाहेन द्रवीभावं निवारयितुं परि-तोऽग्निं प्रज्वलितवन्त इत्यर्थः । यदाऽग्निः प्रज्वलितस्तदा मरुतो वायवस्तद्रेतोऽधून्वशोषणाय वायुसंयुक्तमकुर्वन्। सोऽग्निस्तत् रेतो न प्राच्यावयत्। द्रवीभावात् प्रच्युतं नाकरोत्। द्रव-बाहुल्यात् पिण्डाकारं कर्तुं नाशक्नोदित्यर्थः । वैश्वानरो नाम कश्चिदग्निविशेषः प्राणिनामुदरे प्रविश्यान्नपानादिकं पाचयति । तथा च भगवतोक्तम्'– “ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्त पचाम्यन्नं चतुर्विधम् ॥ ” इति । तेन वैश्वानरनामकेनाग्निविशेषेण तद् रेतः पूर्ववत् पर्यादधुः । देवैरग्नौ परिक्षिप्ते सति मरुतस्तद् रेतः पूर्ववद् अधून्वन्। सोऽयं वैश्वानरोऽग्निस्तद् रेतो द्रवीभावात् प्रच्युतमकरोत्। तस्य पिण्डीभूतस्य रेतसो यत्प्रथमं पिण्डरूपमुददीप्यतोद्दीप्तमभूत् तद्रूपमसौ दिवि दृश्य- मान आदित्योऽभवत्। द्वितीयं यत्पिण्डरूपमासीत्, तदृषिर्भृगुरभवत्, तं भृगुं वरुणो न्यगृह्णीत निगृह्य स्वपुत्रत्वेन स्वीकृतवान् । तस्मात् स भृगुर्वारुणिरित्युच्यते । वरुणस्यापत्यं वारुणिः । एतदेवाभिप्रेत्य तैत्तिरीया आमनन्ति—' भृगुर्वै वारुणिः । वरुणं पितरमुपससार ' ' इति । अथा-नन्तरं तृतीयं पिण्डरूपम् ‘ अदीदेदिव' अतिशयेन दीप्तमेवासीत्। 'त आदित्या' अदितेः पुत्रा देवविशेषा मण्डलवर्ती ( ) ‘ अभवन्’ । पूर्वमादित्यशब्देन( ), १ गीता १५.१४। २ तै ० आ० ९.१ सूर्यतै ० उपउक्तः० । २.१अत्रादितेः। पुत्रा इतरे देवा

पृष्ठ 669

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 669 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः दशमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६०७ उच्यन्ते । ' ये ' रेतःपिण्डा दग्धाः सन्तोऽङ्गारा अभवन्, ते सर्वेऽप्यङ्गिरोनामका ऋषयोऽ- भवन् । पुनरपि तत्र यदङ्गारा ये केचिदङ्गारा 'अवशान्ताः ' शान्तिरहितः सन्त ‘ उददीप्यन्त ’ उत्कर्षेण दीप्ताः, तत्सर्वं ' बृहस्पतिरभवत्' ॥ अथ पशुसृष्टिदर्शयति- ( पशुसृष्टिकथनम् ) यानि परिक्षाणान्यासंस्ते कृष्णाः पशवोऽभवन् या लोहिनी मृत्तिका ते रोहिताः, अथ यद् भस्मासीत् तत्परुष्यं व्यसर्पद् गौरो गवय ऋश्य उष्ट्रो गर्दभ ये चैतेऽरुणाः पशवस्ते च ॥ २ ॥

हिन्दी – ( अब पशुसृष्टि को दिखला रहे हैं - ) यानि परिक्षणानि आसन् ( शान्त अङ्गारों में) जो बुझे हुए ( कृष्ण वर्ण वाले ) कोयले थे, ते कृष्णाः पशवः अभवन् वे कृष्ण वर्ण वाले पशु हुए। या लोहिनी मृतिका जो लाल वर्ण वाली मिट्टी थी ते रोहिताः वे लाल वर्ण वाले ( पशु हुए)। अथ इसके बाद यद् भस्म आसीत् जो भस्म थी, तत् परुष्यं वह कठोर होकर व्यसर्पत् इधर- उधर प्रसर्पण करने लगी। वह (कठोर शरीर वाले ) गौरः गवयः ऋश्यः उष्ट्रः गर्दभः भैसा, नील गाय, बारहसिंहा, ऊँट और गर्दभ हुए और ये च अरुणाः पशवः जो लाल वर्ण वाले पशु थे ते च वे भी (प्रसर्पण करने लगे ) । सा० भा ० - अङ्गारेषु शान्तेषु यानि कृष्णवर्णान्यासन् काष्ठानि ते कृष्णवर्णाः १ पशवोऽभवन् । अग्निदाहेन भूमौ या लोहिनी रक्तवर्णा मृत्तिका तिष्ठति ते रोहिता रक्तवर्णाः ’ पशवोऽभवन्। अत्राग्निस्थाने यद् भस्मासीत्, तत्परुष्यं परुषशरीरजातं भूत्वा व्यसर्पत्, विविधमरण्यादावगच्छत्। किं तत्परुष्यमिति? उदेवोच्यते- गौरो गवय ऋश्य इत्येतेऽरण्य-मृगाः । उष्ट्रगर्दभौ प्रसिद्धौ । एवमादिकं परुषशरीरम् । येऽप्येतेऽरुणाः पशवस्ते च व्यसर्पन्॥ एवमुपाख्यानेनाऽऽग्निमारुतशस्त्रस्योपोद्धातमभिधाय तस्मिञ्शस्त्रे शंसनीयामेकामृचं विधत्ते— ( आग्निमारुतशस्त्रे शंसनीयच विधानम् ) तान् वा एष देवोऽभ्यवदत्, मम वा इदं मम वै वास्तुहमिति तमेत- र्चा निरवादयन्त यैषा रौद्री शस्यते ॥ ३ ॥

हिन्दी– ( अब अग्निमारुत शस्त्र की भूमिका को कहकर उस शस्त्र में शंसनीय एक ऋचा का विधान कर रहे हैं - ) एषः देवः इस (रुद्र ) देवता ने तान् अभ्यवदत उन ( १ ) तप्तं शान्तं कृष्णरूपं परिक्षाणं तु कथ्यते। कृष्णवर्णास्तु पशवो वराह महिषादयः । इति षड्गुरुशिष्यः । ( २ ) 'रक्तवर्णास्तु पशवः सिंहशार्दूलकादयः ' इति षड्गुरुशिष्यः । ( ३ ) ' गौरादिरूपं तद्भूद् रक्ताश्चैव वृकादयः ' इति षड्गुरुशिष्यः ।

पृष्ठ 670

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 670 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६०८ ऐतरेयब्राह्मणम् १३.१० तृतीयपञ्चिकायां (पशुओं ) कों अभिलक्षित करते कहा कि मम वै इदम् यह मेरा है, इदं वास्तुहं मम यह यज्ञभूमि में छिपा हुआ ( सब कुछ) मेरा है। या एषा रौद्री शस्यते जो यह रुद्र देवता वाली (ऋचा ) का शंसन किया जाता है, एतया ऋचा उस ऋचा से तम् उस ( भाग) को निवारयन्त निवारित कर दिया । सा ० भा० — तान् वै तानेव पशून् सर्वानभिलक्ष्यैष रुद्रं इदं सर्वं ममैवेत्यब्रवीत्। तत्रोपपत्तिं चोक्तवान्। ‘ वास्तुहं’ वास्तौ यज्ञभूमौ हीनं यद्द्द्रव्यमस्ति तत्सर्वं ममेति' श्रुत्य-न्तरेऽपि प्रसिद्धम्। तथा च तैत्तिरीया रुद्रवाक्यमामनन्ति— 'यद्यज्ञवास्तौ हीयते मम वै तत्’ ’ इति। तं रुद्रं सर्वान् पशूनभिगच्छन्तमेतया वक्ष्यमाणयच निवारयन्त निरपेक्षमकुर्वत। तया तुष्टो रुद्रः पश्चपेक्षां परित्यजति स्म । का सर्गिति सोच्यते । यैषा रौद्री रुद्रदेवताका शस्यते साऽवगन्तव्या॥ तस्या ऋचः ' पादत्रयं पठति—

' आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।

त्वं नो वीरो अर्वति क्षमेथाः ' ॥४ ॥

हिन्दी--(उस रुद्र देवता वाली ऋचा के तीन पादों को कह रहे हैं - ) मरुतां पित हे मरुतों के पिता (रुद्र )! ते सुम्नम् तुम्हारे (द्वारा प्रदत्त ) सुख आ एतु ( हमारे पास ) आवे । नः सूर्यस्य संदृशः (हम लोगों को ) सूर्य के दर्शन से मा युयोथाः रहित मत करो। वीरः त्वम् हे वीर! तुम नः अर्वति हमारे (पश्वादि ) वस्तुओं पर क्षमेथाः सहिष्णु होवो । सा० भा ० — मरुतां देवानां पितः हे रुद्र ते तव सुम्नं मुखमैत्वागच्छतु । नोऽस्मान् सूर्यस्य संदृशः सूर्यावलोकनान्मा 'युयोथाः ' मा वियोजय दृष्टियुक्तान् कुर्वित्यर्थः । किंच हे रुद्र वीरस्त्वं नोऽस्माकमर्वति पश्वादिवस्तुनि ' क्षमेथाः ' सहिष्णुर्भव । अस्मदीयान् पश्वादि- वस्तूनि मा विवंसयेत्यर्थः ॥ तृतीयपादस्य ‘ त्वं नो वीरः ' इत्यत्रत्यः पाठः । ‘ अभि नो वीरः ' इति शाखान्तरपाठः "। ( १ ) तथा च मनुः - ' यो यज्जयतिः तस्य तत्' ( ७.५६ )। ( २ ) तै ० सं ० ३.१: ९: ५ । ( ३ ) ऋ ० २.३३.१ । ( ४ ) ‘ अत्रेतिहासं कथयन्ति विप्रा यथा रुद्रो मरुतां वै पितासीत्' इत्यादि ऋक्सर्वानुक्रमणी- वृत्तौ वेदार्थदीपिकायाम्; तथा ऐतरेयब्राह्मणस्य सुखप्रदायामपि द्रष्टव्यम् । मरुतां रुद्रपुत्र- त्वं यद्यपि रामायणादौ न दृश्यतेऽथापि तेषां रुद्रानुगृहीतत्वं ब्रह्मपुराणे गौतमीमाहात्म्ये (अ० ५४ ) उपलभ्यते। ( ५ ) मुद्रितसंहितापाठस्तु इत्येव दृश्यते—

आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।

अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः । ऋ० २.३३.१ ॥

आश्व० श्रौ० ३.८.१; ऋग्वि ० १.३० ।