ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 671–680

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 671–680

पृष्ठ 671

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 671 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः दशमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६० ९ तयोमध्ये स्वपाठं विधाय शाखान्तरपाठं निषेधति— ( ऋचायांः शाखान्तरस्य पाठनिषेधः ) इति बूयान्नाभि न इति; अनभिमानुको हैष देवः प्रजा भवति ॥ ५ ॥

हिन्दी–( मन्त्र में प्रयुक्त ‘त्वं नो वीरो ' के स्थान पर शाखान्तर में प्रयुक्त ' अग्नि नो वीरो' के शंसन का निषेध कर रहे हैं - ) (प्रस्तुत मन्त्र के तृतीय पाद में 'त्वं नो वीरो' ) इति ब्रूयात् इसे ही ( शंसन के समय) कहना चाहिए, ' अभि न' इति न यह ( शाखान्तर में प्रयुक्त ) नहीं कहना चाहिए; क्योंकि ऐसा करने से एषः देवः यह देवता ( रुद्र ) प्रजा अनभिमानुकः भवति प्रजा का अभिभूत करने वाला नहीं होता । सा० भा ० – इत्यनेन पूर्वोक्तेन प्रकारेण 'त्वं नो वीरः ' इति पाठमेव शंसनकाले ब्रूयान्नाभि न इति पाठं । ब्रूयात् । त्वं नो वीर इति पाठे सत्येषु ' देवः प्रजा अनभिमानुको भवति' । अभिमानुकोऽभि ' न इति पाठान्तरेऽभिशब्दस्य विद्यमानत्वात्। पुत्रादिकाः प्रजा

अभिलक्ष्य ताः श्रयिष्यामीति रुद्रो मनुते। त्वं न इति पाठे तु न तथेत्यर्थः॥

चतुर्थपादेऽपि स्वाभिमतपाठविधिपूर्वकं पाठान्तरं विधत्ते— 'प्र जायेमहि रुद्रियं प्रजाभिः ' इति ब्रूयान्न रुद्रेति एतस्यैव नाम्नः परिहृत्यै ॥ ६ ॥

हिन्दी– ( मन्त्र के चतुर्थ पाद में अपने अभिमत के अनुसार पाठ की विधि के कहने के साथ पाठान्तर का भी विधान कर रहे हैं- ) 'प्र जायेमहि रुद्रिय प्रजाभिः ' अर्थात् हे रुद्र सम्बन्धी भृत्य! प्रजाभिः प्रजायेमहि ('तुम्हारे अनुग्रह से' ) हम लोग (पुत्रादि) प्रजाओं के साथ ( अनेक होकर ) उत्पन्न होवे -इति ब्रूयात् इस प्रकार ( शंसन में) कहना चाहिए एतस्य नाम्नः परिहृत्यै इस (रुद्र ) के नाम के परिहार के लिए रुद्र इति न ( रुद्रिय के स्थान पर) रुद्र नहीं कहना चाहिए । सा० भा०-–हे रुद्रिय रुद्रसम्बन्धिभृत्य त्वदनुज्ञया वयं प्रजाभिः प्रजायेमहि पुत्रपौत्रादिरूपेणोत्पद्येमहि। अस्मिन् पादे रुद्रियेत्येतमेव पाठं ब्रूयान्न तु रुद्रेति पाठम्। एत-स्यैव रुद्रनाम्न उग्रस्य परिहाराय रुद्रियेतिपाठादरः '॥ ( १ ) ' यदा ह्यभिशब्दः प्रयुज्यते तदाभिशब्दस्याभिमुख्यवृत्तित्वादाभिमुख्यस्य च मनन- रूपत्वादभि क्षमेत इति पदद्वयस्याभिमन्यमानः क्षमेत इत्यर्थः स्यात्। ततो देवोऽस्य प्रजा अभिमन्येत ममैताः सन्त्विति । ततश्चायज्ञियाः स्युः अस्य प्रजा अभिवृद्धिशीलाश्च। अभि- शब्दाभावे तु शंसने नाभिमानुको भवति अभिमननशीलवान् न भवति प्रजासु' – इति भट्टभास्करः । ( २ ) अत्र ' क्षमेत ’— इत्येव मुद्रितसंहितापाठः, ऐतरेयकविहितस्तु ‘ क्षमेथा: ’ - इत्यपि ज्ञेयम्। ( ३ ) ' ननु रुद्रिय इत्यप्युच्यमाने समान एवायं दोष इति चेत्, अयमभिप्रायः —आ रुद्रार्थस्य

पृष्ठ 672

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 672 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ६१० ऐतरेयब्राह्मणम् १३.१० तृतीयपञ्चिकायां आ ते पितरित्यास्यस्या ऋच: स्थाने काञ्चिदन्याभृचं विधत्ते— ( प्रस्तुतर्चः स्थानेऽन्यच विधानम् ) तदु खलु ‘ शं नः करतीत्येव शंसेच्छमिति प्रतिपद्यते, सर्व 'शान्त्यै, ' नृभ्यो नारिभ्यो गवे' इति, पुमांसो वै नरः, स्त्रियो नार्यः, सर्वस्मा एव शान्त्यै ॥७ ॥

' हिन्दी —(' आते पति:' इस ऋचा के स्थान पर किसी अन्य ऋचा का विधान कर रहे हैं— ) तदु खलु अथवा (उस ऋचा के स्थान पर) ' शं नः करति ' इत्येष शंसेत् इस ( ऋचा ) का शंसनं करे। शम् इति प्रतिपद्यते (यह ऋचा कल्याण वाचक शं शब्द होने के कारण ) कल्याण ही करती है। नृभ्यः पुरुषों के लिए नादिभ्यः स्त्रियों के लिए और गवे गायों के लिए इति यहाँ पुमांसः वै नरः सर्वस्मै शान्त्यै एव पुरुष ही नर है इन सभी की शान्ति के लिए है और स्त्रियः नार्यः स्त्रियाँ नारी हैं इन सर्वस्मै शान्त्यै सभी की शान्ति के लिए ( यह ऋचा है ) । सा ० भा० — ' तदु खलु' तत्रैव पूर्वामृचं परित्यज्य तस्या एवं स्थाने ' शं नः करत्यर्वते’ ” इत्येतामृचं शंसेत्। तथा सति को लाभ इति, तदुच्यते - तस्या ऋच आदौ यच्छमित्यनेन पदेन प्रतिपद्यते प्रारम्भः क्रियते; तस्य पदस्य शान्तिवाचकत्वात् सर्वस्मै सर्वस्यापि स्वकीयस्य वस्तुनः शान्तिर्भवति। सर्वस्मा इत्यस्य व्याख्यानं नृभ्य इत्यादि।

तस्यापि व्याख्यानं पुमांस इत्यादि । सर्वस्मा एव शान्त्या इत्युपसंहारः ॥

प्रकारान्तरेण तामृचं प्रशंसति— सोऽनिरुक्ता रौद्री शान्ता, सर्वायुः सर्वायुत्वाय ॥८ ॥

हिन्दी -( प्रकारान्तर से इस ऋचा की प्रशंसा कर रहे हैं - ) सः वह ऋचा रौद्री रुद्र देवता से सम्बन्धित किन्तु अनिरुक्ता देवता का अभिधान न करने वाली और शान्ता शान्तिप्रद है । यह सर्वायुः सम्पूर्ण आयुस्वरूप है अतः सर्वायुत्वाय सम्पूर्ण आयु प्राप्ति के लिए शंसनीय है । सा ० भा ० – 'सो' साऽप्यृगनिरुक्ता रुद्रवाचकपदाभावादस्पष्टदेवताका । अत एव तद्धितार्थं प्रत्युपसर्जनत्वान्न प्राधान्यम्, तद्धितार्थस्य प्राधान्येन प्रतिपाद्यत्वात्। तत्र रुद्र- भावाहें त्वमस्मिन्नर्थे छान्दसो घप्रत्ययः । यद्वा, ये देवेन सृष्टा: शतं रुद्रास्तेषा पितॄत्वेन भव:, तेषु वा साधुः, तेभ्यो वा हितो रुद्रियः भवाद्यर्थे छान्दसो धः । एतस्यां व्युत्पत्तौ विनेतुर्देवस्य वाचकं यद् रुद्रपदं तदेतस्मिन् पदे वर्जनतयापि न प्रयुज्यते इति तत्परिहार- सिद्धि:' - इति भट्टभास्करः । ( १ ) ऋ० १.४३.६। ( २ ) ( i ) द्र० ' कदुद्राय नव रौद्राम्' इति ऋक्सर्वानुक्रमणी ( १४३ ) ।

पृष्ठ 673

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 673 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ]: तृतीयोऽध्यायः एकादश खण्ड सायणाचार्यकृतभाष्योपेतम् ६११ रौद्री रुद्रदेवताका सत्यपि घोरार्थवाचकरुद्रपदाभावाद् इयं शान्ता, तां शंसेद्धोता सर्वायु- र्भवति। तच्च यजमानस्य सर्वायुत्वाय सम्पद्यते॥ वेदनं प्रशंसति- सर्वमायुरेति य एवं वेद ॥९ ॥

हिन्दी – ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है । पुनरपि प्रकारान्तरेण प्रशंसति— सो गायत्री", ब्रह्मवै गायत्री ब्रह्मणैवैनं तं नमस्यति ॥ १० ॥

हिन्दी -( पुन: प्रकारान्तर से इस ऋचा की प्रशंसा कर रहे हैं - ) सः गायत्री वहं (ऋचा ) गायत्री छन्द वाली है। ब्रह्म वै गायत्री गायत्री ब्रह्म (ब्राह्मण अथवा मन्त्र) है अतः ब्रह्मणा एव ब्रह्म के द्वारा ही एनं तम् उस इस (यज्ञ) को नमस्यति नमस्कार करता है।

सां० भा०-'-'सो' सा च ऋग्गायत्रीछन्दस्का। गायत्री च 'ब्रह्म वै' ब्राह्मणजातिरेव ।

उभयोः प्रजापतिमुखजत्वात्। अतो 'ब्रह्मणैव' ब्राह्मणेनैवैनं रुद्रं नमस्करोति ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये (त्रयोदशाध्याये ) दशम: खण्ड: ॥१० ॥

॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के दशम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ एकादशः खण्डः सा ० भा ० — अथ ‘वैश्वानराय पृथुपाजसे विप: ' इत्यनेन सूक्तेन' आग्निमारुतशस्त्रस्य प्रारम्भं विधत्ते- ( आग्निमारुतशस्त्रस्य प्रारम्भविधानम् ) वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते; वैश्वानरो वा एतद् रेतः सिक्तं ( ii ) ‘ कथमवगम्यते इयं रौद्रीति। अत एव वचनात् इति चेत्, कस्मात् पुनः कारणादेवमृषिराह। अयमभिप्रायः– शङ्करोतीत्याभ्यां पदाभ्यां शङ्करोऽस्या देवतेति गम्यत एव। तमैवाभिप्रायेण खल्वस्या ऋचो वैशिष्ट्यं प्रतिपादयितुं शमिति प्रतिपद्यत इति ब्रवीति। न हि शंशब्दगात्रत्त्वमस्या वैशिष्ट्यहेतुः शङ्करणशालिदेवोपक्रमशीलमेव। तादृशश्च देवो रुद्र एवेति रौद्रीयं भवत्यनिरुक्ता' - इति भट्टभास्करः । ( १ ) ऋ० ३.३.१-११।

पृष्ठ 674

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 674 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६१२ ऐतरेयब्राह्मणम् १३.११ तृतीयपञ्चिकायां प्राच्यावयत्, तस्माद् वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते ॥ १ ॥

हिन्दी— ( अब ‘वैश्वानराय पृथुपाजसे ' सूक्त से अग्निमारुतशस्त्र के प्रारम्भ करने का विधान कर रहे हैं— ) वैश्वानरीयेण ( वैश्वानरस्य पृथुपाजसे - इस ) वैश्वानर देवता वाले सूक्त से अग्निमारुतं प्रतिपद्यते अग्निमारुतशस्त्र का प्रारम्भ करता है। क्योंकि वैश्वानरः एव वैश्वानर ने ही एतत् सिक्तं रेतः इस सिञ्चित वीर्य को प्राच्यावयत् ( पिण्डीभूत) किया था । तस्मात् इसी कारण वैश्वानरीयेण वैश्वानर से सम्बन्धित ( सूक्त ) से अग्निमारुतं

प्रतिपद्यते अग्निमारुतशस्त्र को प्रारम्भ करता है।

सा० भा ० -– रेतसः प्रच्यावनं काठिन्यापादनम्॥

तस्मिन् वैश्वानरीयसूक्ते कंचिद्विशेषं विधत्ते— ( वैश्वानरीयसूक्ते विशेषविधानम् ) अनवानं प्रथम ऋक् शंस्तव्या। अग्नीन् वा एषोऽर्चीप्यशान्तान्

प्रसीदन्नेति य आग्निमारुतं शंसति । प्राणेनैव तदग्नींस्तरति ॥ २ ॥

हिन्दी—(उस वैश्वानरीयसूक्त में कुछ विशेष विधान कर रहे हैं— ) अनवानं प्रथम शंस्तव्या निरन्तर (विराम किये बिना) प्रथमा ऋचा का शंसन करना चाहिए । यः अग्निमारुतं शंसति जो आग्निमारुतशस्त्र का शंसन करता है, एषः अशान्तान् अग्नीन् अर्चीषि वह अशान्त अग्नि को ज्वालाओं को प्रसीदन् एति प्रसन्न करता है। तत्इस ( निरन्तर शंसन करने ) से प्राणेन एव प्राण (वायु ) के द्वारा ही अग्नीन् तरति अग्नियों को शान्त करता है। सा ० भा० – अवानशब्देनोच्छ्वासनिश्वासावुच्येत । तौ यथा न भवतस्तथा प्रथमा, ऋक्शंस्तव्या । ' तथा सति सर्वानग्नीन् वै ज्वालारूपानग्नीनेवैष होताऽशान्तान् कृत्वा प्रसीदन् प्रसादं कुर्वन्नेति गच्छति। यः पुमानाग्निमारुतशस्त्रं शंसति, तस्य प्रसादहेतुत्वं कथम्? इति तदुच्यते-उच्छ्वासनिश्वासनिरोधाद् अनवानं शंसन् प्राणवायुनैव तानग्नी-स्तरत्युल्लङ्घयति, अग्निकृतमुपद्रवं शमयतीत्यर्थः ॥ शंसनकाले प्रामादिकस्य वर्णादिलोपरूपस्यापराधस्य प्रतीकारं दर्शयति- ( शंसनकाले प्रामादिकापराधस्य प्रतीकारविधानम्) अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्, तमेव तत् सेतुं कृत्वा तरति॥ ३ ॥

हिन्दी - ( शंसन करते समय प्रमाद के कारण हुए उच्चारण-ग-दोष के प्रतीकार को ( १ ) आश्व० श्र० ५.२०.१-५ / ( २ ) ‘ अर्चीषि ज्योतिर्भूतान् अशान्तान् प्रज्वलितान् प्रसीदन् 'प्रशमयन् एति निर्वहति'’ – इति षड्गुरुशिष्यः ।

पृष्ठ 675

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 675 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ]: तृतीयोऽध्यायः एकादश खण्ड सायणाचार्यकृतभाष्योपेतम् ६१३ दिखला रहे हैं - ) अधीयन् शंसन करता हुआ ( होता ) उपहन्यात् यदि उपघात (वर्ण- लोपादि अपराध ) करे ( तब वह ) अन्यं विवक्तारम् इच्छेत् किसी अन्य विवेचन करके बोलने में समर्थ ( व्यक्ति) को ( इङ्गित करने के लिए ) समीप में अवस्थित करे । तत् इस (इङ्गित करने वाले पुरुष को अवस्थापित करने ) से तमेव सेतुं कृत्वा मानो उस ( पुरुष ) को ही ( अपराध से पार करने का ) सेतु के रूप में अवस्थापित करके तरति (आग्नि- मारुतशस्त्र) रूपी नहीं को पार कर लेता है । सा ० भा ० –अधीयन्नधीयानः शंसनं कुर्वन् होता यद्युपहन्यादुपघातं वर्णलोपं कुर्यात्, तदानीमन्यं कञ्चित्पुरुषं विवक्तारं विविच्य वक्तुं समर्थमिच्छेत् समीपेऽवस्थाप- येत् । तदानीं तमेव पुरुषमपराधतरणोपायं सेतुं कृत्वा तमपराधमुल्लङ्घयति। अयं पक्षोऽ- नुकल्पः ॥ मुख्यपक्षं दर्शयति— तस्मादाग्निमारुते न व्युच्यम्, एष्टव्यो विवक्ता ॥४ ॥

हिन्दी - ( अब मुख्य पक्ष को दिखला रहे हैं - ) तस्मात् इसी कारण आग्नि- मारुते आग्निमारुतशस्त्र में न व्युच्यम् ( बाद में ) सुधार नहीं करना चाहिए प्रत्युत विवक्ता एष्टव्यः दोष सुधार करके शंसन करने वाले ( होता) को प्रयत्नपूर्वक ( दोष - रहित) शंसन करना चाहिए । सा० भा० -यस्मात् प्रमादं कृत्वा विवक्तृपुरुषसंपादनं न मुख्यं तस्मादाग्निमारुते शस्त्रे न व्यच्यं न पश्चाद् विवक्तव्यं किन्तु प्रथमेव विवक्ता विवच्य वक्तुं समर्थो होता, एष्टव्यः प्रयत्नेन सम्पादनीयः ॥ अथ ‘ प्रत्वक्षसः प्रतवसः ’ इत्येतन्मरुद्देवताकं सूक्तं विधत्ते— ( मरुद्देवताकान्यसूक्तशंसनम् ) मारुतं शंसति, मरुतो ह वा एतद् रेतः सिक्तं धून्वन्तः प्राच्यावयन, तस्मान्मारुतं शंसति ॥ ५ ॥

हिन्दी—( अब ‘प्रत्वक्षसः प्रतवस:' इस मरुत् देवता वाले सूक्त के शंसन का विधान कर रहे हैं— ) मारुतं शंसति मरुत् देवता वाले ('प्रत्वक्षसः प्रतवस: ' इस सूक्त का) ( १ ) ( i ) 'वि सुष्ठु वक्तारं स्वाध्यायदक्षमिच्छेत्। भ्रेषशान्तये' —इति षड्गुरुशिष्यः । ( ii ) विवक्तारं महते ख्यापयितारं विरुद्धमादिनमिच्छेत्। न तु स्वयं विब्रूयात् उपहति न ख्यापयेत्— इति भट्टभास्करः । (२ ) 'वि सृष्ठु वचनन कार्यम् । वचेर्भावे क्यप्' – इति षड्गुरुशिष्यः । (३ ) ऋ० १.८७.१-६ ।

पृष्ठ 676

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 676 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: {६१४ ऐतरेयब्राह्मणम् १३.११ तृतीयपञ्चिकायां शंसन करता है। मरुतः ह् वै मरुत् ही एतत् सिक्तं रेतः इस सिञ्चित वीर्य को धून्वन्तः प्राच्यावयन् स्पन्दित करते हुए प्रच्युत (कठोर) किया था । तस्मात् इसी कारण मारुतं

शंसति मरुत् देवता वाले ( सूक्त ) का शंसन करता है ।

सा० भा ० – मरुतां धूननेन प्रजापतिरेतःशोषणं पूर्वमेवोक्तम्॥

अथ प्रगाथद्वयं विधत्ते- ( आग्निमरुत्वतीयशस्त्रे प्रगाथद्वयविधानम् ) ' यज्ञा यज्ञा वो अग्नये ' 'देवो वो द्रविणोदः ' इति मध्ये योनिं चानुरूपं च शंसति । तद्यन्मध्ये योनिं चानुरूपं च शंसति; तस्मान्मध्ये योनिधृता ॥ ६ ॥

हिन्दी–( अब दो प्रगाथों का विधान कर रहे हैं— ) 'यज्ञा यज्ञा वो अग्नये' और 'देवो वो द्रविणोदः' इति मध्ये इन (प्रगाथों) के मध्य में योनिं च अनुरूपं च योनि (मध्य में पढ़े जाने वाले मन्त्र ) और अनुरूप का शंसति शंसन करता है । तद् तो यत् मध्ये (प्रगाथों के ) मध्य में जो योंनि च अनुरूपं च योनि का और अनुरूप का शंसति शंसन करता है तस्मात् इसी कारण ( लोक में ) मध्ये योनिधृताः ( शरीर के ) मध्य में ही योनि होती है। सा ० भा ० —‘ यज्ञायज्ञा वः' इत्येकः प्रगाथ: ' । ' देवो वः ' इति द्वितीय: । तत्र प्रथमे प्रगाथे तृचः संपद्यते। सोऽयं स्तोत्रियः, तस्मिन् तृचे सामगैः स्तूयमानत्वात् । अत एवासौ द्वयोर्मध्ये प्रथमभावित्वाद् ‘ योनिः ' इत्युच्यते। द्वितीयप्रगाथे समुत्पन्नस्तृचोऽनुरूपः । यादृशः स्तोत्रियः, तादृशत्वमनुरूपत्वम्। तदेतदुभयं शस्त्रमध्ये शंसनीयम्, न तु शस्त्रान्तरेष्विव स्तोत्रियानुरूपयोरादौ शंसनीयम् । तथा सति यस्मादत्र सूक्तमध्ये योनेरनुरूपस्य च शंसनं, तस्माल्लोकेऽपि नारीणां शरीरमध्ये योनिर्धृता*॥ ( शस्त्रयोर्मध्ये तयोः स्थानविशेषविधानम् ) यदु द्वे सूक्ते शस्त्वा शंसति, प्रतिष्ठयोरेव तदुपरिष्टात् प्रजननं दधाति, प्रजात्यै ॥७ ॥

( १ ) उ०आ० १.१.१०.१,२ (ऋ ० ६.४८.१ )। ( २ ) उ०आ ० १.१.२०.१,२ (ऋ ० ७.१६.११ ) । ( ३ ) ‘ यज्ञायज्ञा इति प्रगाथौ स्तोत्रियानुरूपौ’- इतिकल्पशाखानुरोधादेवेद्दैवं व्याख्यानमिति ध्येयम्। शस्त्रमध्ये तयोः स्थानविशेषं दर्शयति-- द्र० आश्व० श्रौ० ५.२०.६ । ( ४ ) ‘ यज्ञा योनिद्वर्वृचतृचो देवादिरनुरूपकः । अयं द्व्यृचतृचो मध्येशस्त्रास्यास्येति गृह्यताम्॥' – इति षड्गुरुशिष्यः ।

पृष्ठ 677

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 677 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ]:: तृतीयोऽध्यायः द्वादश खण्ड सायणाचार्यकृतभाष्योपेतम् ६१५ हिन्दी— ( आग्निमारुतशस्त्र के मध्य में योनि और अनुरूप के स्थान-विशेष को दिखला रहे हैं— ) यदु द्वे सूक्ते शस्त्वा जो (वैश्वानर और मरुत् देवता वाले ) दो सूक्तों का शंसन करके शंसति ( बाद में इन स्तोत्रिय योनि और अनुरूप का ) शंसन करता है, तत् इस (बाद में शंसन) से प्रतिष्ठयोः एव दो पादों के मध्य में प्रजननं दद्याति प्रजनन (वाली इन्द्रिय ) को प्रतिष्ठापित करता है। प्रजात्यै यह सन्तानोत्पत्ति के लिए होता है। सा ० भा ० –‘ यदु' यस्मादेव कारणाद् वैश्वानरीयं मारुतं चेति ‘ द्वे सूक्ते ' शस्त्वा पश्चादेतौ स्तोत्रियानुरूपौ शंसति, तस्मात् कारणाद् द्वित्वसंख्योपेतयोः 'प्रतिष्ठयोः स्थिति- हेत्वोः पादयोरेव ‘ उपरिष्टाद्' ऊर्ध्वदेशे 'प्रजननं” प्रजोत्पादकमिन्द्रियं दधाति । तच्च 'प्रजात्यै ' प्रजोत्पादनाय संपद्यते॥ वेदनं प्रशंसति- प्रजायते प्रजया पशुभिर्य एवं वेद ॥८ ॥

हिन्दी- (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह प्रजया पशुभिः प्रजायते सन्तान और पशुओं से समृद्धि को प्राप्त करता है । ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मण- ' भाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये ( त्रयोदशाध्याये ) एकादश: खण्ड: ॥११ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के एकादश खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वादशः खण्डः सा० भा ० — अथ ‘प्र तव्यसीम्' इत्येतज्जातवेदोदेवताकं सूक्तं विधत्ते'— ( जातवेदोदेवताकसूक्तविधानम् ) जातवेदस्यं शंसति ॥१ ॥

हिन्दी—( अब जातवेददेवताक सूक्त का विधान कर रहे हैं— ) जातवेदस्यं शंसति जातवेद देवता से सम्बन्धित सूक्त का शंसन करता है । तदेतत्प्रशंसति— ( १ ) ऋ ० १.१४३.१-८। (२ ) आश्व० श्रौ० ५.२०.६ ।

पृष्ठ 678

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 678 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६१६ ऐतरेयब्राह्मणम् १३.१२ तृतीयपञ्चिकायां ( जातवेदोदेवताकसूक्तप्रशंसनम् ) प्रजापतिः प्रजा असृजत, ताः सृष्टाः पराच्य एवायन्, न व्यावर्तन्त, ता अग्निना पर्यगच्छत्, ता अग्निमुपावर्तन्त, तमेवाद्याप्युपावृताः, साऽब्रवीज्जाता वै प्रजा अनेनाविदमिति, यदब्रवीज्जाता वै प्रजा अनेनाविदमिति, 1 तज्जातवेदस्यमभवत् तज्जातवेदसो जातवेद- स्त्वम् ॥२ ॥

हिन्दी—( इस सूक्त की प्रशंसा कर रहे हैं - ) प्रजापतिः प्रजाः असृजत् प्रजापति ने प्रजा ( सृष्टि ) का सर्जन (रचना ) किया। सृष्टाः ताः पराच्यः एव आयन् सृजित वे पराङ्मुख होकर चले गये और न व्यावर्तन्त वापस नहीं आये। ताः अग्निना पर्यगच्छत् (प्रजापति ने ) उन प्रजाओं को अग्नि के द्वारा घेर दिया। तब ताः अग्निंम् उपावर्तन्त वे (प्रजाएँ) अग्नि के समीप गयीं। अतः अद्यापि आज भी तमेव उपावृताः उस ( अग्नि ) के ही समीप ( शीतादि से व्याकुल होकर ) जाती हैं। सः अब्रवीत् तब उस ( सन्तुष्ट प्रजापति) ने कहा कि जाताः वै प्रजाः उत्पन्न हुई इन प्रजाओं को अनेन अविदम् इस ( अग्नि ) द्वारा ही ( मैंने ) जाना है। तो यद् अब्रवीत् जो (प्रजापति ) ने कहा कि जाताः वै प्रजाः उत्पन्न हुई प्रजाओं को अनेनैव अविदम् इस ( अग्नि ) के द्वारा ही ( मैंने ) जाना है तत्जातवेदस्यम् अभवत् वह जातवेद से सम्बन्धित हुआ । तत् जातवेदसः जातवेदस्त्वम् वही जातवेदस् का जातवेदस्त्व जातवेद नाम वाला होना है। सा० भा ० — पुरा प्रजापतिना सृष्टाः प्रजाः प्रजापतिः पृष्ठतः कृत्वा पराङ्मुखत्वेनै-वागच्छन् न पुनरावृत्ताः । तदानीं प्रजापतिस्ताः प्रजा अग्निना ' पर्यगच्छत' परितोऽग्निप्राकारं कृतवान्। अतः ‘ ता’ प्रजा दूरं गन्तुमशक्ता अग्निमुपेत्य पुनरावर्तन्त । यस्मादेवं तस्मादद्यापि शीतार्ताः प्रजाः ‘ तमेव’ अग्निम् ' उपावृत्ताः ' परितो गच्छन्त्योऽप्यग्निं दृष्ट्वा समीपे कृत्वा सेवितुमावर्तन्ते। ततः ‘सः ’ सृष्टः प्रजापतिरेनमब्रवीत्—' जाताः ’ उत्पन्ना याः प्रजास्ताः सर्वा अहम् ‘ अनेन’. अग्निना ' अविदं' लब्धवानस्मि, ज्ञातवानस्मीति वा। यस्माज्जाता अविदमनेनेत्युक्तवान्, तस्मादग्निसंबन्धं जातदेवस्य सूक्तमभवत्। जातवेदसोऽग्नेरपि जातान् वेत्त्यनेनेति व्युत्पत्त्या तन्नाम संपन्नम्॥ ' ‘ आपो हि ष्ठा मयोभुवः ' इत्यादिकं तृचं' विधत्ते— ( जातवेदस्यामूर्ध्वमापोहिष्ठीयतृचशंसनविधानम् ) ता अग्निना परिगता निरुद्धाः शोचत्यो दीध्यत्योऽतिष्ठन् ता अद्भि-( ) रभ्यषिञ्चत्. तस्मादुपरिष्टाज्जातवेदस्यस्यापोहिष्ठीयं( ) शंसति ॥३ ॥ १ निरु० ७.५ १। तु० बृहद्दे ० २.३० । २ ऋ० १०.९.१-३ ।

पृष्ठ 679

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 679 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ]: तृतीयोऽध्यायः द्वादश खण्ड सायणाचार्यकृतभाष्योपेतम् ६१७ हिन्दी — (‘ आपो हिष्ठा' इत्यादि तृच का विधान कर रहे हैं - ) ताः अग्निना परिगताः वे अग्नि से घिरी हुई, निरुद्धाः जाने में असमर्थ, शोचत्यः शोक से व्याप्त और दीध्यतः देदीप्यमान (प्रजाएँ) अतिष्ठन् वहीं रुक गयी । ताः अद्भिः असिञ्चत् उन (प्रजाओं ) को ( प्रजापति ने ताप की शान्ति के लिए) जल से सिञ्चित किया। तस्मात् इसी कारण जातवेदस्यस्य उपरिष्टात् जातवेद सम्बन्धी ( ऋचा ) के बाद आपोहिष्ठीयं शंसति ' आपो हिष्ठा' इस ऋच का शंसन करता है । सा० भा ० — अग्निना ‘परिगता:' परितो वेष्टिताः, ' निरुद्धाः ’ गन्तुमशक्ताः, ‘ शोचत्यः ’ शोकं प्राप्नुवत्यः, ‘ दीध्यत्यः' दीप्यमानाः, ताः प्रजास्तत्रैवातिष्ठन्। प्रजापतिः 'ताः ' प्रजाः संतापपरिहाराय अद्भिरभ्यषिञ्चत्। यस्मादेवं तस्माज्जातवेदस्याख्यसूक्तस्योपरिष्टात् 'आपो हि ष्ठा' इत्यादिकं तृचं शंसेत्॥ तत्र कंचिद् विशेषं विधत्ते— ( तद्विषये विशेषविधानम् ) तस्मात् तच्छमयतेव शंस्तव्यम्, ता अद्भिरभिषिच्य निजा स्यैवामन्यत ॥ ४ ॥

हिन्दी—(उस विषय में कुछ विशेष विधान कर रहे हैं- ) तस्मात् इसी कारण तत् शमयता एव शंस्तव्यम् उस ( तृच ) का शान्त करते हुए ( धीरे - धीरे ) शंसन करना चाहिए। (उस प्रजापति ने) ताः अद्भिः अभिषिच्य उन (प्रजाओं ) को जल से सिञ्चित करके निजा एव अपना ही अमन्यत मान लिया । सा ० भा० — यस्माद् आपोहिष्ठीयं तापशमनकारणं, 'तस्मात् तच्छमयतेव ' होत्रा शंसनीयम्— यथा वह्नि शमयन् पुरुषः शनैः शनैः क्रमेण जलं सिञ्चति, एवमनेनापि शनैः शंसनं कर्तव्यम्। ततः स प्रजापतिः ताः प्रजा अद्भिरभिषिच्य ' निजा एव' ' स्वकीया एव ‘स्या’ ताः प्रजा इत्यमन्यत। स्याशब्दस्तच्छब्दपर्यायः, एकवचनान्ताऽपि बहुवचनान्तत्वेन परिणमयितव्यः । तथा सति ताः प्रजा इत्युक्तं भवति। तस्माच्छनैः शंसनेन स्वकीयत्वं संपद्यत इत्यर्थः । यद्वा, ‘ ताः ' अद्भिः ' इत्याद्यर्थवाद उत्तरशेषत्वेन योजनीयः ॥२ ( १ ) 'निजास्य नितरां 'शासयित्वा हिंसित्वैव शैत्यातिशयेन पीडयित्वैवामन्यत पीडिता मयैताः प्रतीकारः सर्वथा कर्तव्य इत्यमन्यत। आत्मीयाः प्रजाः पीडयित्वा यथा मन्तव्यं तथा मन्यत । स च प्रकारः प्रतीकारविधानकामनैवेति भावः । जासु ताडने, चौरादिकण्यन्ताल्ल्यप्। यद्वा, ताः शीतार्ताः प्रजा अनुजिघृक्षया तां तां प्रजां प्रत्येकममन्यत । स्या सैषा प्रजा निजा मदीयैव इयं च मदीयैव इति। तस्मादातें: प्रतीकारः कर्तव्यः इत्यमन्यत' – इति भट्टभास्करः । ( २ ) ‘ आपो हि ष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वापावृतशिरस्कः, इदमादि प्रति प्रतीकमाह्वानम्' – इति आश्व० श्रौ ० ५.२०.६ । ऐ.ब्रा.पू- ३ ९

पृष्ठ 680

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 680 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ६१८ ऐतरेयब्राह्मणम् १३.१३ तृतीयपञ्चिकायां ‘ उत नोऽहिर्बुध्न्यः ' इत्यस्या ऋचः शंसनं तद्देवतास्तुतिद्वारेणोन्नयति— ( अहिर्बुध्नदेवताकर्चः शंसनविधानम् ) तासु वा अहिना बुध्न्येन परोक्षात् तेजोऽदधात्, एष ह वा अहिर्बुध्न्यो यदग्निर्गाहपत्यः । अग्निनैवासु तद् गार्हपत्येन परोक्षात् तेजो दधाति; तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति ॥ ५ ॥

हिन्दी—(उत नोऽहिर्बुध्न इस ऋचा के शंसन को उसके देवता की स्तुति द्वारा दिखला रहे हैं — ) ( प्रजापति ने ) तासु वै उन ( अभिषेचन के पश्चात् अपनी स्वीकार की गयी प्रजाओं ) में ही अहिर्बुध्न्येन अहि और बुध्न (नामक अग्नि- विशेष) के द्वारा परोक्षात् परोक्षरूप से तेजः अदधात् तेज को धारण कराया। यद् गार्हपत्यः अग्निः जो गार्हपत्य अग्नि है एषः अहिर्बुध्न्यः यह अहिर्बुध्न्य अग्नि ही है। गार्हपत्येन अग्निना एव गार्हपत्याग्नि द्वारा ही आसु इन (प्रजाओं ) में परोक्षात् परोक्ष रूप से तेजः दधाति तेज को धारण कराता है । तस्माद् आहुः इसी कारण कहते हैं कि जुह्वद् एव आहुति देता हुआ (व्यक्ति) अजुह्वतः आहुति न देने वाले ( व्यक्ति ) से वसीयान् श्रेष्ठ होता है। सा ० भा ० — ' तासु ' अभिषेकादूर्ध्वं स्वकीयत्वेन स्वीकृतासु प्रजासु, प्रजापतिः ‘ अहिना’ ' बुध्न्येन' अहिशब्दबुध्न्यशब्दद्वयनामकाग्निविशेषेण ' परोक्षात्' परोक्षरूपेण 'तेजोऽदधात्' प्रजानां संतापभीरुत्वात्। ता यथा नाग्निविशेष पश्यन्ति, तथा तास्वग्निविशेषसम्बन्धि तेजः स्थापितवान् । यो गार्हपत्योऽग्निरस्ति, एष एव अहिशब्देन बुध्न्यशब्देनाभिहितः। अतस्त- दीयायाः शंसने सति गार्हपत्येनैवाग्निना प्रजासु परोक्षत्वेन तेजः स्थापयति। यस्मादाग्नेयं तेजोऽपेक्षितं, तस्माद् ‘ अजुह्वत: ' होमरहितात् पुरुषात् 'जुह्वदेव' होमं कुर्वन्नेव ‘ पुरुषो वसीयान्' अत्यन्तं श्रेष्ठ इत्येवं जना आहुः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः तृतीयाध्याये ( त्रयोदशाध्याये ) द्वादशः खण्डः ॥१२॥

॥ इस प्रकार ऐतरेयब्राह्मण के त्रयोदश अध्याय के द्वादश खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ त्रयोदशः खण्डः सा० भा ० — अथ ‘ देवानां पत्नीरुशतीरवन्तु नः' इत्यृग्द्वयं देवपत्नीदेवताकं विधत्ते- ( १ ) ऋ० ६.५०.१४।