ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 701–710

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 701–710

पृष्ठ 701

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 701 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६३ ९ पानरूपं व्रतप्रदानम्। अग्निज्र्ज्योतिर्ज्योतिरग्निः स्वाहा' - इति यथा स्वाहाकारेणाग्निहोत्र- होम:, तथा ‘ते नः पान्तु, ते नोऽवन्तु, तेभ्यो नमस्तेभ्यः स्वाहा' इति स्वाहाकारेण दीक्षितो व्रतप्रदानमाचरति । अतो व्रतगतस्वाहाकारमेवानुसृत्याग्हिोत्रस्याग्निष्टोमप्राप्तिः॥ अग्निष्टोमगतप्रायणीयेष्टिसादृश्येन दर्शपूर्णमासयोरग्निष्टोमप्राप्तिं दर्शयति— ( दर्शपूर्णमासयोरग्निष्टोमप्राप्तिः )

पञ्चदश प्रायणीये सामिधेनीरन्वाह, पञ्चदश दर्शपूर्णमासयोः ।

FIS प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः ॥४ ॥

हिन्दी—( अग्निष्टोमगत प्रायणीयोष्टि की समानता से दर्शपूर्णमास के अग्निष्टोम की प्राप्ति को दिखला रहे हैं - ) प्रायणीये प्रायणीयेष्टि में पञ्चदश सामिधेनी: अन्वाह पन्द्रह सामिधेनियों का शंसन करता है और पञ्चदश पूर्णमासयोः पूर्णमास याग में भी पन्द्रह ( सामिधेयनियाँ) होती हैं। इस प्रकार प्रायणीयम् अनु प्रायणीय इष्टि के समान दर्शपूर्णमासौ अपि दर्शपूर्ण मास भी अग्निष्टोमम् इतः अग्निष्टोम को प्राप्त करता है। सा० भा० - प्रायणीयकर्मणि धाय्यारहितत्वात् सामिधेन्यश्चोदकप्राप्ताः पञ्चदशैव, तथा प्रकृतिभूतयोर्दर्शपूर्णमासयोरपि॥ अग्निष्टोमगतसोमद्वारा लौकिकानामपि सर्वेषामौषधीनामग्निष्टोमप्राप्तिं दर्शयति- ( सर्वेषामौषधीनामग्निष्टोमप्राप्तिः ) सोमं राजानं क्रीणन्ति। औषधो वै सोमो राजा, औषधिभिस्तंTHE 3 भिषज्यन्ति यं भिषज्यन्ति, सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपि यन्ति ॥५ ॥ - हिन्दी–( अग्निष्टोमगत सोम द्वारा सभी लौकिक ओषधियों के अग्निष्टोम प्राप्ति को

दिखला रहे हैं— ) सोमं राजानं क्रीणन्ति वे राजा सोम का क्रय करते हैं । औषधः वै सोमः राजा राजा सोम औषधि रूप हैं । यं भिषज्यन्ति जिसकी वे चिकित्सा करते हैं, तम् ओषधिभिः भिषज्यन्ति उसकी ओषधियों द्वारा ही चिकित्सा करते हैं । यानि कानि च भेषजानि जो कुछ औषधियाँ हैं सोमं राजानं क्रीयमाणम् सोम राजा के खरीदने से तानि सर्वाणि वे सभी अग्निष्टोमम् अपि यन्ति अग्निष्टोम को ही प्राप्त करती हैं । सा ० भा०– लोके ' यं' व्याधिग्रस्तं चिकित्सकाः 'भिषज्यन्ति' चिकित्सन्ते, 'तं ' पुरुषम् ‘ औषधिभिः ’ अमृतवल्ल्यादिभिश्चिकित्सन्ते । सोमस्याप्यौषधत्वात् तमनु सर्वा- प्यौषधान्यग्निष्टोमं प्राप्नुवन्ति। ( १ ) ‘ पयो ब्राह्मणस्य व्रतं, यवागू राजन्यस्यामिक्षा वैश्यस्याथो सौम्येऽप्यध्वर एतद् व्रतं ब्रूयात्' - इति तै० आ ० २.८.१ । . ( ) ( ) २ तै ०ब्रा० २.१.१० । ३ तै ० सं ० १.२.३ ।

पृष्ठ 702

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 702 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ६४० ऐतरेयब्राह्मणम् १४.२ तृतीयपञ्चिकायां अग्निष्टोमगतातिथ्यकर्मद्वारा चातुर्मास्ययागानां तत्प्राप्तिं दर्शयति-- ( चातुर्मास्ययागानामग्निष्टोमप्राप्तिः ) अग्निमातिथ्ये मन्थन्ति । अग्निं चातुर्मास्येषु । आतिथ्यमेवानु चातु- र्मास्यान्यग्निष्टोममपि यन्ति ॥ ६ ॥

हिन्दी—( अग्निष्टोमगत आतिथ्यकर्म द्वारा चातुर्मास्य यागों के अग्निष्टोम-प्राप्ति को दिखला रहे हैं— ) आतिथ्ये आतिथ्य इष्टि में अग्निम् मन्थन्ति अग्नि का मन्थन करते हैं और चातुर्मास्येषु अग्निम् चातुर्मास्यों में अग्निमन्थन ( करते हैं ) आतिथ्यम् अनु आतिथ्य इष्टि के समान चातुर्मास्यानि अपि चातुर्मास्य इष्टियाँ भी अग्निष्टोमं यन्ति अग्निष्टोंम को प्राप्त करती हैं । सा ० भा ० — आतिथ्यायाम् अग्निमन्थनं विहितम्, चातुर्मास्यपर्वस्वपि मन्थनं विहितम्; उभयत्र मन्थनधर्मसाम्यादातिथ्यसदृशानि चातुर्मास्यान्यप्यग्निष्टोमं ‘ यन्ति ' प्राप्नुवन्ति॥ प्रवर्ग्यसाम्येन दाक्षायणयज्ञस्याग्निष्टोमप्राप्तिं दर्शयति— ( दाक्षायणयज्ञस्याग्निष्टोमप्राप्तिः ) पयसा प्रवर्गे चरन्ति । पयसा दाक्षायणयज्ञे । प्रवर्ग्यमेवानु दाक्षायण- यज्ञोऽग्निष्टोममप्येति ॥७॥

हिन्दी- (प्रवर्ग्य की समानता के कारण दाक्षायण इष्टि के अग्निष्टोम की प्राप्ति को प्रवर्गे चरन्ति दूध से प्रवर्ग्य में होम करते हैं और पयसा दिखला रहे हैं - ) पयसा( ) ( ) 2दाक्षायणयज्ञे दूध से ही दर्शपूर्णमास के गुणविकृति रूप दाक्षायण नामक यज्ञ में भी (होम करते हैं ) । प्रवर्ग्यमेव अनु प्रवर्ग्य के समान ही दाक्षायणयज्ञः दाक्षायण ( नामक ) यज्ञ अग्निष्टोमम् अपि एति अग्निष्टोम को भी प्राप्त करता है । सा ० भा ० – दर्शपूर्णमासयोरेव गुणविकृतिरूपः कश्चिद् दाक्षायणाख्यो यज्ञः । तथा च शाखान्तरे दर्शपूर्णमाससंनिधौ श्रूयते - 'दाक्षायणयज्ञेन स्वर्गकामो यजेत' ' इति । तस्य ( १ ) दाक्षायणेन दृष्टो यज्ञो दाक्षायणयज्ञः । स च शतपथब्राह्मणे “ आजि वा एते धावन्ति, ये दर्शपूर्णमासाभ्यां यजन्ते ” — इत्याद्यभिधाय ( ११.१.२.१० ) तत्सन्निधावेव 'यद्यु दाक्षा- यणयज्ञी स्यादथो अपि पञ्चदशैव वर्षाणि यजेत”– इत्याद्याम्नातमिति दर्शपूर्णमासतो नान्यत्कर्मेति सिद्धान्तितं कातीयसूत्रे “गुणविधानं वा सन्निधिसम्पद् वचनाभ्याम्’ – इति ( श्रौ ० ४.४.२ ) । “त्रिशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेतः पञ्चदश दाक्षायणयज्ञी ' इत्यादि च पार्थक्यं द्रष्टव्यम् (कात्या० श्रौ० ४.२.४७, ४८ )। दाक्षायणयज्ञेन सुवर्ग- कामः — इत्यारभ्य ‘“सन्तिष्ठते दाक्षायणयज्ञः ' इत्यन्त आपस्तम्बीयग्रन्थश्चैवमर्थकः (श्रौ० ३.१७.४-११ ) इत उत्तरमेव तत्रोक्तम् “एतेनेळादधः सार्वसेनियज्ञो वसिष्ठयज्ञः शौनकयज्ञश्च व्याख्याता: ” – इति ( १२ सू० )।

पृष्ठ 703

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 703 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६४१ च प्रवर्ग्यस्य च क्षीरद्रव्यसाम्येन प्रवर्ग्यसदृशो दाक्षायणयज्ञोऽप्यग्निष्टोममेति॥ पशुबन्धानामग्निष्टोमप्राप्ति दर्शयतिं— ( पशुबन्धानामग्निष्टोमप्राप्तिः ) पशुरुपवसथे भवति । तमेवानु ये के च पशुबन्धास्ते सर्वेऽग्निष्टोम- मपि यन्ति || ८ || हिन्दी– ( अब पशुबन्धों के अग्निष्टोम प्राप्ति को दिखला रहे हैं— ) उपवसथे ( सुत्या दिन के पहले दिन ) उपवसथ (नामक दिन ) में पशुः भवति ( अग्नि और सोम देवता से सम्बन्धित) पशु होता है। तमेव अनु उसी के अनुसार ये के च पशुबन्धाः जो कोई भी पशुबन्ध होते हैं, ते सर्वे अपि वे सभी भी अग्निष्टोम यन्ति अग्निष्टोम को प्राप्त करते हैं सा ० भा ० — सुत्यादिवसात् पूर्वो दिवस उपवसथाख्यः । तस्मिन्नग्नीषोमीयः पशुरनु- ष्ठीयते। तद् विकृतिरूपा वेदोक्ताः सर्वे पशुबन्धाः । पशुद्रव्यसाम्याद् अग्नीषोमीयसदृशाः सर्वे पशुबन्धा अप्यग्निष्टोमं यन्ति॥ इळादधनामकस्य यज्ञान्तरस्याग्निष्टोमप्राप्तिं दर्शयति- ( इळादधस्याग्निष्टोमप्राप्तिः ) इळादधो नाम यज्ञक्रतुः । तं दध्ना चरन्ति; दध्ना दधिघर्मे । दधिधर्म- मेवान्विलादधोऽग्निष्टोममप्येति ॥ ९ ॥

हिन्दी -( अब इडादध नामक अन्य यज्ञ के अग्निष्टोम-प्राप्ति को दिखला रहे हैं— ) इडादधः नाम यज्ञक्रतुः इडादध नामक यज्ञेष्टि होती है । तं दध्ना चरन्ति उसका दधि से सम्पादन करते हैं और दध्ना दधिघमें (अग्निष्टोन के ) दधि घर्म (नामक कर्म ) में दधि से अनुष्ठान करते हैं। दधिधर्ममेव अनु दधिधर्म समान ही इडादयः इडादध अग्निष्टोमम् अपि ऐति अग्निष्टोम ही को प्राप्त करता है। सा ० भा ० – दर्शपूर्णमासविकृतिरूप एव कश्चिद् इळादधनामको यज्ञोऽस्ति। ' अत एव आपस्तम्बो दर्शपूर्णमाससंनिधवेवमाह– “एतेनेळादधः सार्वसेनियज्ञो वसिष्ठयज्ञः शौनकयज्ञश्च व्याख्यातः ” इति । दधिघर्मनामकस्त्वग्निष्टोमगतः कश्चिद्' दधियागः, तेन माध्यन्दिने चरन्ति, इळादधोऽपि दधिद्रव्यकः । अतः तयोरुभयोर्दधिद्रव्येण साम्यम्, दधि-धर्मसदृश इळादधोऽपि अग्निष्टोममेति॥ ( १ ) ' प्राजापत्य इळादधः ' - इति आश्र० श्रौ० २.१४.११ । ( २ ) आप ० श्रौ ० ३.१७.१२ । ( ३ ) ‘किश्चद् दधियागः इत्यादि पाठः आनन्दाश्रममुद्रितपुस्तके त्रुटितः ।

पृष्ठ 704

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 704 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६४२ ऐतरेयब्राह्मणम् १४.३ तृतीयपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः चतुर्थाध्याये ( चतुर्दशाध्याये ) द्वितीयः खण्डः ॥२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्दश अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः — — सा० भा० क्रत्वन्तराणामग्निष्टोमप्राप्तिं दर्शयति ( अग्निष्टोमोत्तराणां क्रत्वन्तराणामग्निष्टोमप्राप्तिः ) इति नु पुरस्ताद् । अथोपरिष्टात् । पञ्चदशोक्थ्यस्य स्तोत्राणि, पञ्चदश शस्त्राणि। स मासो, मासधा संवत्सरो विहितः, संवत्सरोऽग्नि- र्वैश्वानरः, अग्निरग्निष्टोमः, संवत्सरमेवानूक्थ्योऽग्निष्टोममप्येति ।

उक्थ्यमपि यन्तमनु वाजपेयोऽप्येति । अत्युक्थ्यो हि स भवति ॥ १ ॥

हिन्दी—( अग्निष्टोम के परवर्ती अन्य क्रतुओं की अग्निष्टोम प्राप्ति को दिखला रहे हैं— ) इति नु पुरस्तात् इस प्रकार ( पूर्व खण्ड में अग्निष्टोम के ) पहले के कर्मों को कह दिया गया है। अथ उपरिष्टात् अब ( अग्निष्टोम के ) बाद वाले (उक्थ इत्यादि ) कर्मों को कह रहे हैं उक्थ्यस्य पञ्चदशः स्तोत्राणि उक्थ्य के पन्द्रह स्तोत्र और पञ्चदश शस्त्राणि पन्द्रह शस्त्र होते हैं। सः वह (स्तोत्र और शस्त्र मिलकर संख्या की समानता से ३० दिन वाले) मास होते हैं तथा मासधाः मासों से संवत्सरः विहितः संवत्सर सम्पादित होता है। संवत्सरः वैश्वानरः अग्निः संवत्सर वैश्वानर अग्नि रूप है तथा अग्निः अग्निष्टोमः अग्नि अग्निष्टोमरूप है। इस प्रकार संवत्सरमेव अनु संवत्सर द्वारा ही उक्थयः उक्थ्य .अग्निष्टोमम् अप्येति अग्निष्टोम को प्राप्त करता है । यन्तम् अपि उक्थम् अनु ( उस अग्निष्टोम को) प्राप्त उक्थ्य के द्वारा वाजपेयः अपि वाजपेय भी अप्येति ( अग्निष्टोम को) प्राप्त करता है; क्योंयि सः वह (वाजपेय) उक्थ्यः अति भवति उक्थ्य का अतिक्रमण करके होता है । सा० भा०--' इति नु' पूर्वखण्डोक्तप्रकारेणैव 'पुरस्तात्' अग्निष्टोमात् प्राचीनस्य कर्मजातस्याग्निष्टोमप्रवेशः, उक्त इति शेषः । 'अथ' अनन्तरमुपरिष्टाद् अग्निष्टोमादितरेषां . क्रतूनां' तत्प्रवेश उच्यते। तत्र योऽयम्‘उक्थ्यः ' क्रतुः तस्य पञ्चदशसंख्याकानि स्तोत्राणि; अग्निष्टोमविकृतित्वात् तदीयानि द्वादश स्तोत्राण्यतिदिश्यन्ते । तत ऊर्ध्वं त्रीण्युक्थसंज्ञकानि ( १ ) ज्योतिष्टोमसंस्थाविशेषाणामिति यावत्। तदाहापस्तम्बः -'उक्थ्यः षोडश्यतिरात्रोऽ- प्तोर्यामश्चाग्निष्टोमस्य गुणविकारा: ' - इति (आप० श्रौ ० १४.१.१ )।

पृष्ठ 705

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 705 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६४३ स्तोत्राणि। एवं पञ्चदश संपद्यन्ते। शस्त्रेष्वप्ययं न्यायो योज्यः । तानि स्तोत्राणि शस्त्राणि च मिलित्वा मासगतां रात्रिसंख्यां प्राप्नुवन्ति। अतः सोऽयं स्तोत्रशस्त्रसमूहो मास: संपद्यते । ‘ मासधा’१ मासप्रकारेण मासावृत्त्या संवत्सरो 'विहितः' संपादितो भवति। स च संवत्सरो वैश्वानराग्निरूपः । गर्भप्रविष्टस्य पुरुषस्य संवत्सरमात्रेण वैश्वानराख्यस्योदर्याग्नेः पाटव- संभवात् । अग्निश्चाग्निष्टोमस्वरूप:; पूर्वोक्तया रीत्या श्रेणित्रयरूपेणानीकत्रयरूपेण चाग्नेरेवाग्निष्टोमरूपेणाविर्भूतत्वात्। एवं सति स उक्थ्याख्यः क्रतुः स्तोत्रशस्त्रादिपरम्परय़ा संवत्सरमेवानुप्रविश्य तद्द्वाराऽग्निष्टोमं प्रविशति। तं विशन्तमुक्थ्यमनु वाजपेयाख्योऽपि क्रतुरग्निष्टोममपि ‘ एति’ प्राप्नोति। 'सः ' हि वाजपेयोऽत्युक्थ्यो भवति। उक्थ्याख्यं क्रतु- मतिक्रम्य वर्तमानत्वात्। उक्थ्ये यानि पञ्चदश स्तोत्राणि, तत ऊर्ध्वं वाजपेये स्तोत्रद्वयं,

सोऽयमुक्थ्यातिक्रमः । तस्मादुक्थ्यंद्वारा वाजपेयस्य तत्प्राप्तिः ॥

अथातिरात्राप्तोर्यामयोः क्रत्वोरग्निष्टोमप्रवेशं दर्शयति— ( अतिरात्राप्तोयामयोरग्निष्टोमप्रवेशः ) द्वादशरात्रेः पर्यायाः, सर्वे पञ्चदशाः, ते द्वौ द्वौ संपद्य त्रिंशद् । एकविंशं षोळशिसाम त्रिवृत् संधिः । सा त्रिंशत्। स मासः त्रिंश- न्मासस्य रात्रयो मासधा संवत्सरो विहितः, संवत्सरोऽग्निर्वैश्वानरः, अग्निरग्निष्टोमः, संवत्सरमेवान्वतिरात्रोऽग्निष्टोममप्येति । अतिरात्रमपि

यन्तमन्वप्तोर्यामोऽप्येति। अत्यतिरानो हि स भवति ॥ २ ॥

हिन्दी – ( अतिरात्र और आप्तोयाम क्रतु के अग्निष्टोम में प्रवेश को दिखला रहे हैं— ) रात्रेः द्वादश पर्यायाः ( अतिरात्र याग में) रात्रि के बारह पर्याय होते हैं । सर्वे पञ्चदश सभी मिलकर पन्द्रह स्तोम हैं। ते द्वौ द्वौ त्रिंशत् सम्पद्ये वे पन्द्रह स्तोम दो -दो होकर तीस हो जाते है । षोडशिसामः एकविंशम् (षोडशीस्तोत्र में ) षोडशीसाम इक्कीस होते हैं और त्रिवृत सन्धिः सन्धिसाम त्रिवृत् (= नौ) होते हैं । सा त्रिंशत् वह ( सभी २१ + ९ मिलकर) तीस हो जाते हैं। सः मासः वह मास स्वरूप है । मासस्य त्रिंशत् रात्रयः मास में तीस रात्रियाँ होती हैं। मासधा संवत्सरः विहितः मास से संवत्सर सम्पादित होता है। संवत्सरः वैश्वानरः अग्निः संवत्सर वैश्वानर अग्नि रूप है। अग्निः अग्निष्टोमः अग्नि ही अग्निष्टोमरूप है। संवत्सरमेव अनु संवत्सर से ही अतिरात्रः अतिरात्र क्रतु अग्निष्टोमम् अप्येति अनिष्टोम में प्रवेश करता है। यन्तम् अतिरात्रम् अपि अनु ( अग्निष्टोम में ) प्रविष्ट हुए अतिरात्र से अप्तोयामः आप्तोयाम अन्वेति ( अग्निष्टोम ( १ ) ‘ वीप्सायां छान्दसो धाप्रत्ययः, मासो मासः, अनेके मासाः सम्भूय संवत्सरो विहितः'— इति भट्टभास्करः । (२ ) तु० तै ० सं ० २.२.५ ।

पृष्ठ 706

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 706 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६४४ ऐतरेयब्राह्मणम् १४.३ तृतीयपञ्चिकायां में) प्रवेश करता है; क्योंकि सः वह (आप्तोयाम) अत्यतिरात्रः अत्यतिरात्र का अतिक्रमण करके भवति होता है । सा ० भा० — अतिरात्रयागे द्वादशसंख्याका रात्रेः पर्यायाः। ते च आपस्तम्बेनैव स्पष्टीकृताः — ‘ अतिरात्रश्चेत्’ ' षोडशिचमसानुन्नयंस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमभिरेच-यति । षोडशिना प्रचर्य रात्रिपर्यायैः प्रचरति । होतृचसममुख्यः प्रथमो गणो मैत्रावरुणचम-समुख्यो द्वितीयो ब्राह्मणाच्छंसिचमसमुख्यस्तृतीयोऽच्छावाकचमसमुख्य श्चतुर्थः । प्रथमाभ्यां गणाभ्यामध्वर्युश्चरति, उत्तराभ्यां प्रतिप्रस्थाता, एष प्रथमः पर्यायः । एवं विहितो द्वितीय-स्तृतीयश्च' इति । अस्यायमर्थः - अतिरात्राख्यं क्रतुं यदाऽनुतिष्ठति, तदानीं चोदकप्राप्तं सर्वमनुष्ठाय अनन्तरं सायंकाले षोडशिग्रहसंबन्धिनश्चमसान् पूरयित्वा तत ऊर्ध्वं त्रयोदशचमसगणपर्याप्तं सोममवस्थाप्य षोडशिग्रहप्रचारं कृत्वा तत ऊर्ध्वं रात्रिपर्यायैः प्रचरेत्। तेषु पर्यायेषु च होतृचमसमादिं कृत्वा यश्चमसगणः प्रवर्तते, सोऽयं प्रथमः । मैत्रावरुणचमसस्यादित्वे द्वितीयश्चमसगणो भवति। ब्राह्मणाच्छंसिचमसस्यादित्वे तृतीय-श्चमसगणो भवति। अच्छावाकचमसस्यादित्वे चतुर्थश्चमसगणो भवति । तेषु चतुर्षु गणेषु प्रथमद्वितीयाभ्यां गणभ्यामध्वर्युरनुतिष्ठेत्। तृतीयचतुर्भ्यां तु प्रतिप्रस्थाताऽनुतिष्ठेत्। एवं गणचतुष्टयानुष्ठानमेकः पर्यायों भवति । पुनरपि द्वितीयतृतीयपर्यायौ तथैवानुष्ठेयो । तेषु पर्यायेषु द्वादश गणा: संपद्यन्ते । एतत् सर्वमभिप्रेत्य ' द्वादश रात्रेः पर्यायाः ' इत्युक्तम्। ते सर्वेऽपि ‘पञ्चदशाः’३ तदीयस्तोत्रेषु तृचगतानामृचामावृत्तिविशेषेण पञ्चदशस्तो-मस्य सामगैः संपादितत्वात् ते पञ्चदशस्तोमयुक्ताः द्वादशपर्यायाः सन्ति । तेषु ‘ द्वौ द्वौ ' पर्यायो ‘ संपद्य’ मिलित्वा पञ्चदशसंख्याया द्विरावृत्त्या त्रिंशत्संख्यायां ते सर्वे पर्यवस्यन्ति। किञ्च षोडशिस्तोत्रे यत्सामास्ति तदेकविंशं भवति। तदीयतृचगतानामृचामावृत्त्या सामगैरेकविंशतिस्तोमसंपादनात्।” योऽयमतिरात्रस्तस्यान्ते ‘ संधि' एतन्नामकं स्तोत्रम्, तत्र त्रिवृत्स्तोमः सामगैः पठ्यते । ' तस्य च स्तोमस्य त्रिंषु तृचेष्वावृत्तिरहितेषु निष्पन्नत्वादृचां नवत्वं संपद्यते। एकविंशतिसंख्या नवसंख्या च मिलित्वा त्रिशत्संख्या भवति। अनया त्रिंशत्संख्यया वा पूर्वोक्तत्रिंशत्संख्यया वा मासरात्रिसाम्यात् मासः संपद्यते। मासधेत्यादि पूर्ववद् योजनीयम्। एवं सति वत्सरद्वाराऽतिरात्रोऽग्निष्टोमं प्रविशति। प्रविशन्तमतिरात्रमनु तद्द्वारेणाप्तोर्यामोऽपि प्रविशति। स ह्यतिरात्रमतिलङ्घ्य स्तोत्राधिक्येन वर्तमानत्वात् ‘ अत्य- तिरात्रः’ । एकोनत्रिंशत् स्तोत्राण्यतिरात्रे, आप्तोर्या तु त्रयस्त्रिंशदित्याधिक्यम्, ( १ ) ' षोडशिनममी मुनयस्तत्र' –इति आनन्दाश्रम मुद्रितपाठः । ( २ ) आप० श्रौ० १४.३.८–१०; १४-१६। ( ३ ) ‘ स्तोमे डविधिः पञ्चादशाद्यर्थः ' - इति पा० सू० ५.१.५८ वा ८। पञ्चदशावृत्तिकः । (४ ) ता०ब्रा० २.१४-१७। ( ५ ) ता० ब्रा० ९.१.२०; ३.४ । 'त्रिवृत् सन्धिः ' २०.१.१ ।

पृष्ठ 707

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 707 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६४५ अतोऽतिरात्रद्वाराऽप्तोर्यामस्याग्निष्टोमे प्रवेशः ॥ उक्तं सर्वयज्ञक्रतुत्वान्तर्भावमुपसंहरति— ( सर्वयज्ञक्रतुत्वान्तर्भावोपसंहारः ) एतद् वै ये च पुरस्ताद्, ये चोपरिष्टाद् यज्ञक्रतवस्ते सर्वेऽग्निष्टोम- मपि यन्ति ॥ ३ ॥

हिन्दी—( अब उपसंहार कर रहे हैं - ) एतद् ये च पुरस्तात् ये जो ( अंग्निष्टोम से ) पहले और ये उपरिष्टात् जो बाद वाले यज्ञक्रतवः यज्ञक्रतु हैं ते सर्वे वे सभी अग्नि- ष्टोमम् अपि अग्निष्टोम को ही एति प्राप्त करते हैं। सा ० भा ० – ‘ एतद्वै’ एतेनैवोक्तप्रकारेणाग्निष्टोमस्य पूर्वभाविन इष्ट्यग्निहोत्रादयो ये यज्ञक्रतवः, ये चोत्तरभाविन उक्थ्यवाजपेयादयो यज्ञक्रतवः, ते सर्वेऽग्निष्टोमं प्राप्नुवन्ति॥ अथ प्रकारान्तरेणाग्निष्टोमं प्रशंसति— ( प्रकारान्तरेणाग्निष्टोमप्रशंसनम् ) तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः । सा या नवतिस्ते दश त्रिवृतः । अथ या नवतिस्ते दश । अथ या दश, तासामेका स्तोत्रियोदेति, त्रिवृत् परिशिष्यते । सोऽसावेकविंशोऽध्याहितस्तपति । विषुवान् वा एष स्तोमानाम् । दश वा एतस्मादर्वाञ्चस्त्रिवृतः । दश पराञ्चः । मध्य एष एकविंश उभयतोऽध्याहितस्तपति । तद्याऽसौ स्तोत्रियोदेति

सैतस्मिन्नध्यूह्ळा, स यजमानः । तद् दैवं क्षत्रं सहो बलम् ॥४ ॥

हिन्दी - ( अब प्रकारान्तर से अग्निष्टोम की प्रशंसा कर रहे हैं - ) संस्तुतस्य ( सामगायकों द्वारा तीनों सवन ) स्तुत किये गये तस्य उस (अग्निष्टोम) की नवतिशतं स्तोत्रियाः एक सौ नब्बे स्तोत्रिय ऋचाएँ हैं। सा या नवतिः जो ये नब्बे ऋचाएँ है ते दश त्रिष्टत् वे त्रिवृत् (नौ ) के दश गुने के बराबर है अथ याः नवतिः और जो ( दूसरा) नब्बे है ते दश वे भी ( नौ का) दश गुना है। अथ या दश तथा जो अवशिष्ट दशक है तासाम् एका स्तोत्रिया उदेति उनमें से एक जो अन्त वाला (स्तोत्रिय) है (उसे छोड़कर) त्रिवृत् परिशिष्यते नौ स्तोत्रिय अवशिष्ट बचते हैं। सः एकविंशः अध्याहितः वह इक्कीस का ( नौ) संघात होकर असौ तपति यह (सूर्य) तपता है । एषः स्तोमानां विषुवान् ( उस सत्र में विषुवत नामक मध्यम दिन त्रिवृत स्तोमों के मध्य में जो त्रिवृत् स्तोम है ) वह विषुवान् ( मध्य में स्थित) है; क्योंकि एतस्मात् इस (त्रिवृत्) से दश अर्वाञ्चम् दश पहले तथा दश पराञ्चः दश बाद में त्रिवृतः त्रिवित् (स्तोम) होता है। मध्ये एषः मध्य में यह एकविंशः इक्कीसवाँ उभयतः अध्याहितः दोनों ओर से (दश के ) संघात से तपति तपता है । तद् या असौ स्तोत्रियः उदेति तो जो यह एक अधिक स्तोत्रिय

पृष्ठ 708

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 708 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६४६ ऐतरेयब्राह्मणम् १४.३ तृतीयपञ्चिकायां (ऋचा ) है सा एतस्मिन् अध्यूढा वह इस (इक्कीस के समूह) में अधिकरूप से अवस्थापित है । सः यजमानः वह यजमान है तथा तद् दैवं क्षत्रं सहः बलम् वही दिव्य, शक्ति और पराभूत करने वाली सेना है । सा० भा०--'तस्य' अग्निष्टोमस्योद्गातृभिः संस्तुतस्य ' स्तोत्रियाः ' स्तोत्रसंबन्धिन्य ऋचो नवत्यधिकं शतं संपद्यते । कथमिति? चेत् तदुच्यते— प्रातः सवने बहिष्पवमानाख्यं यत्स्तोत्रं, तस्य त्रिवृत्स्तोमः क्रियते। त्रिवृतश्चावृत्तिरहितत्वाद् विद्यमानेषु त्रिषु तृचेषु विद्य-माना नवर्चः स्तोत्रिया भवन्ति। तत ऊर्ध्वं चत्वार्याज्यस्तोत्राणि । तेष्वेकैकस्मिन्नपि विद्य-मानानां तिसृणामृचामावृत्तिविशेषेण पञ्चदशः स्तोमः संपादनीयः । तथा सत्येवैकस्मिन् स्तोत्रे पञ्चदशर्चं इत्येवं चतुर्षु स्तोत्रेषु मिलित्वा षष्टिः संपद्यते। तदेवं प्रातः सवने एकोनसप्ततिः । माध्यंदिने सवने माध्यंदिनपवमानााख्यमेकं स्तोत्रम्, तस्यापि पञ्चदशस्तोमयुक्तत्वात् स्तोत्रियाः पञ्चदश संपद्यन्ते । चत्वारि पृष्ठस्तोत्राणि । तेषु सप्तदशस्तोमे कृते सत्यष्टषष्टिसंख्याकाः स्तोत्रिया भवन्ति । उभयं मिलित्वा माध्यंदिनसवने त्र्यशीतिः संपद्यते। तृतीयसवने आर्भवपवमानस्तोत्रस्य सप्तदस्तोमोपेतत्वात् तस्मिन् सप्तदश ऋचः । यज्ञायज्ञीयस्तोत्र- स्यैकविंशस्तोमोपेतत्वात् तत्रैकविंशतिर्मिलित्वा तृतीयसवनेऽष्टात्रिंशत्। एवं सवनत्रये मिलित्वा नवत्यधिकशतसंख्याकाः १ स्तोत्रिया भवन्ति॥ तत्र या नवतिः, ते दशसंख्याकास्त्रिवृत्स्तोमा: संपद्यन्ते । एकैकस्मिन् दशकेऽन्ति- मामेकां परित्यज्य अवशिष्टानामृचां नवसंख्योपेतत्वात् त्रिवृत्स्तोमत्वम्। ततो नवसु दशकेषु नव त्रिवृत्स्तोमाः । यास्तु तेषु दशकेषु परित्यक्ता नवर्चः, स एकस्त्रिवृत्स्तोमः । एवं दशसंख्याकास्त्रिवृत्स्तोमाः । ' अथ' अनन्तरं यच्छतमस्ति, तस्मिन्नपि या नवतिः, ते पूर्वोक्त- न्यायेन दश त्रिवृत्स्तोमा गणनीयाः । अथ नवतेरूर्ध्वभाविन्यो 'या: ' ऋचो दश, 'तासां' दशानामृचां मध्य एका स्तोत्रिया ' उदेति' अतिरिच्यते। अवशिष्टासु स्तोत्रियासु त्रिवृत्स्तामः परिशिष्यते। एवं सत्येकविंशतिसंख्याकास्त्रिवृत्स्तोमाः, तेभ्योऽतिरिक्ता काचिदृगिति, एतावत्संपन्नम्। तत्रैकविंशतित्रिवृत्स्तोमसंघो योऽस्ति, स सर्वोऽपि ' असौ' मण्डले दृश्यमानः, एकविंशतिसंख्यापूरकः ‘ अध्याहित:' मण्डले स्थापित आदित्यः 'तपति' प्रकाशते । आदि- त्यस्यैकविंशतिसंख्यापूरकत्वम् अन्यत्र श्रुतम्– “द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः " इति॥ ( १ ) ‘ संख्याया अल्पीयस्याः’– इति (पा० सू० २.२.३५ वा० ) नवतेः पूर्वनिपातः । ( २ ) ' ( i ) तु ० तै० सं ० ५: १.१०.४ । ( ii ) कथं संख्यैवमिति चेच्छ्लोकौ शृणु पुरातनौ—

त्रिवृद् बहिष्पवमाने नवस्युश्चतुर्षु चाज्येषु हि षष्टिरेवम्।

माध्यंदिने पवमाने दशाथ पञ्चाधिकाः स्तोत्रियाः स्युस्तथैव ॥

चतुर्षु पृष्ठेषु तथाष्टषष्टिः सप्तार्भवे पवमाने दशाथ। अग्निष्टोमं त्वेकविंशं वदन्तीत्येवं संख्या नवतिर्वै शतं च॥ इति षड्गुरुशिष्यः ।

पृष्ठ 709

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 709 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ६४७ यत्तु सत्रं गवामयनाख्यम्, तत्र यान्येकविंशत्यहानि, तत्सादृश्यादपि यथोक्त- स्त्रिवृत्स्तोमसंबन्धः प्रशस्तः । कथं सादृश्यमिति? तदुच्यते– तस्मिन् सत्रे यन्मध्यममहः तद् विषुवन्नामकं दिवाकीर्त्यं भवति । तस्य पुरस्ताद्दशाहानि, उपरिष्टाद्दशाहानि। एवमत्रापि पूर्वोक्तरीत्या संपादितानामेकविंशतिसंख्याकानां त्रिवृत्स्तोमाद् मध्ये यस्त्रिवृत्स्तोमः, स एव विषुवान् भविष्यति। एतस्माद् विषुवद् रूपात् स्तोमाद् ‘अर्वाञ्चः' पूर्वभाविनो दश त्रिवृ- त्स्तोमाः, ‘पराञ्चः— उत्तरभाविनोऽपि दश त्रिवृत्स्तोमाः, उभयोर्दशकयोर्मध्ये एष एक- विंशतिसंख्यापूरकस्त्रिवृत्स्तोम 'उभयतोऽध्याहितः ' पार्श्वद्वये दशकव्याप्तः सन् ‘ तपति ’ आदित्यवत् प्रकाशते । तत्तत्रैकविंशतित्रिवृत्स्तोमेभ्य ऊर्ध्वं ' याऽसौ' ऋगेका स्तोत्रिया ‘ उदेति’ अतिरिक्ता भवति, सेयम् ‘ एतस्मिन्नेकविंशतिसंघे ' अध्यूहळा ' अधिकत्वेनावस्थापिता । ' स यजमानः ' अतिरिक्त स्तोत्रियारूपो यजमानत्वेनावगन्तव्यः । किञ्च ' तत्' स्तोत्रियारूपं 'दैवं क्षत्त्रं ' देवसंबन्धिनी क्षत्रियजातिरिन्द्रवरुणादिरूपा तत्क्षत्त्रं 'सहः ' पराभिभवक्षमं 'बल' सैन्यम्। एवमग्निष्टोमः स्तोत्रियद्वारा प्रशस्तः॥ उक्तार्थवेदनं प्रशंसति— अश्नुते ह वै दैवं क्षत्त्रं सहो बलम्, एतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद ॥ ५ ॥

हिन्दी— (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह दैवं क्षत्रं सहः बलम् दिव्यशक्ति और पराभूत करने वाली सेना को अश्नुते प्राप्त करता है तथा एतस्य इस (दिव्यशक्ति और पराभूत करने वाली सेना) के सायुज्यं सरूपतां सलोकताम् समीपता, सरूपता और सलोकता को अश्नुते प्राप्त करता है। सा ० भा ० — उक्तार्थवेदिता पराभवसहिष्णुसैन्योपेतामिन्द्रादिदैवक्षत्त्रियजातिम् ‘ अ-श्नुते' प्राप्नोति। तत्र तेन क्षत्त्रेणेन्द्रादिना 'सायुज्यं' सहवासं ‘ सरूपतां’ समानरूपत्वं ‘ सलोकताम्’ एक्लोकावस्थितिं च प्राप्नोति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः चतुर्थाध्याये ( चतुर्दशाध्याये) तृतीयः खण्डः ॥३ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्दश अध्याय के तृतीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा० भा० - अथ त्रिवृदादिस्तोमचतुष्टयद्वारेणाग्निष्टोमं स्तोतुमाख्यायिकामाह—

पृष्ठ 710

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 710 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६४८ ऐतरेयब्राह्मणम् १४.४ तृतीयपञ्चिकायां ( अग्निष्टोमस्य प्रशंसितुमाख्यायिका ) (तत्र त्रिवृदादिस्तोमचतुष्टयद्वारा प्रशंसनम् ) देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्, सोऽग्निर्दि- विस्पृगूर्ध्व उदश्रयत, स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति, स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्, स्तुत नुमेति, तथेति, तं ते त्रिवृता स्तोमेनास्तुवंस्तान् स्तुतोऽत्यार्जत, ते यथालोकमगच्छन् ॥ १ ॥

हिन्दी— ( अब त्रिवृत इत्यादि चार स्तोमों द्वारा अग्निष्टोम की स्तुति करने के लिए आख्यायिका को कह रहे हैं- ) देवाः (अग्नि इत्यादि) देवताओं ने असुरैः विजिग्याना असुरों से विजय प्राप्त करके ऊर्ध्वाः स्वर्गं लोकम् आयन् ऊपर स्वर्गलोक को प्राप्त किया । तब सः अग्निः उस (अग्नि) ने दिविस्पृग् ऊर्ध्वः उदश्रयत् अपने ( द्युलोक के स्थान से ही) द्युलोक का स्पर्श करते हुए ऊपर की ओर उठा तथा सः स्वर्गस्य लोकस्य द्वारम् अवृणोत् उसने स्वर्गलोक के द्वार को बन्द कर दिया। अग्निः वै स्वर्गस्य लोकस्य अधिपतिः अग्नि ही स्वर्गलोक का अधिपति है। तं वसवः प्रथमाः आगच्छन् इस ( अग्नि ) के समीप सर्वप्रथम वसुगण आये औरं ते एनम् अब्रुवन् उन ( वसुगण ) ने इस ( अग्नि ) से कहा कि (हे अग्नि) नः अत्यर्जसि हम लोगों को (अपनी ज्वाला का अतिक्रमण करके स्वर्ग को प्राप्त कराने में ) तुम समर्थ हो, अतः नः आकाशं कुरु हम लोगों के लिए ( अपनी ज्वाला का शमन करके ) अवकाश प्रदान करो। सः अब्रवीत् उस (अग्नि ) ने कहा कि अस्तुतः न अतिस्त्रक्ष्ये (तुम लोगों द्वारा) बिना स्तुति किये मैं (स्वर्ग के द्वार को ) नहीं खोलूँगा। अतः स्तुत नु मा शीघ्र ही तुम मेरी स्तुति करो । तथा (तब उन लोगों ने स्वीकार करते हुए कहा कि) वैसा ही हो । ते वे ( वसुगण) तम् उस ( अग्नि ) की त्रिवृता स्तोमेन त्रिवृत् स्तोम से अस्तुवन् स्तुति किये । स्तुतः स्तुति किये गये (उस अग्नि ) ने तान् अत्यर्जत् उन ( वसुओं ) को (स्वर्ग के बन्द द्वरा को ) अतिक्रमण कराया जिससे ते यथालोकम् अगच्छन् वे ( वसु) अपने अभीष्ट लोक (स्वर्ग - लोक) को प्राप्त किये । सा० भा ० — ये देवा अग्निसहिताः पूर्वमसुरैः सह युद्धं कृत्वा 'विजिग्यानाः ’ विजयं प्राप्ताः, ते देवा ऊर्ध्वगामिनः सन्तः स्वर्गं लोकम् आयन् प्राप्नुवन्। तदानीं ‘ सोऽग्निः ’ स्वस्थान एव स्थित्वा ‘दिविस्पृक्’ द्युलोकं स्पृशन् ‘ऊर्ध्वः ’ उन्नतः सन्‘ उदश्रयत’ उपरितनं देशमाश्रितवान्, द्युलोकपर्यन्तं स्वकीयां ज्वालां वर्धितवानित्यर्थः । तत: ‘ सः ' अग्निः स्वर्ग- लोकद्वारम् ‘ अवृणोत्’ तयाच्छादितमकरोत् । न चेतरेषु देवेषु स्थितेषु कथमग्नेरीदृक्सा-