ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 711–720
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 711–720
पृष्ठ 711
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ६४९मर्थ्यमिति वाच्यम्। यस्माद् ' अग्निरेव स्वर्गस्य लोकस्याधिपतिः । अग्नी ह्यग्नि-ष्टोमादिकर्माण्यनुष्ठाय स्वर्गं प्राप्नुवन्ति। 'तं' स्वर्गद्वारनिरोधनमग्निमष्टौ वसवः 'प्रथमाः ’ पुरोगामिनो भूत्वागच्छन् ‘ प्राप्तवन्तः । प्राप्य च 'एनम्' अग्निं ' ते ' वसव एवमब्रुवन् -– हे अग्ने त्वं ‘नः ’ अस्मान् ‘ अत्यर्जसि' ' त्वदीयां ज्वालामतिलङ्घ्य ' अर्जयितुं' स्वर्गं प्रापयितु-मर्हसि, ‘ नः ’ अस्माकं तत्प्रात्प्यर्थम् ' आकाशं' त्वदीयज्वालाशमनेनावकाशं कुर्विति। ततः ' सः ' अग्निरेवमब्रवीत् – युष्माभिरस्तुतोऽहं 'नातिस्रक्ष्ये' द्वारवरोधं न परित्यक्ष्यामि । तस्मादवरोधपरिहाराय ' नु' क्षिप्रमेव 'मा' मामग्निं ' स्तुत' स्तोत्रं कुरुतेति। 'ते ' वसवस्तथे-त्यङ्गीकृत्य त्रिवृन्नामकेन स्तोमेनाग्निम् अस्तुवन्॥ तस्य च त्रिवृत् स्तोमस्तोत्रस्य विधायकं छन्दोगब्राह्मणमेवमाम्नायते— ' तिसृभ्यो हिंकरोति स प्रथमया, तिसृभ्यो हिंकरोति स मध्यमया, तिसृभ्यो हिंकरोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः ' इति। अस्यायमर्थ- 'उपास्मै गायता नरः' इति यः प्रथमस्तृच: ' दविद्युतत्या रुचेति' यो द्वितीयस्तृचः, 'पवमानस्य ते कवे ' इति यस्तृतीयस्तृचः, एतेषु त्रिषु तृचात्मकेषु सूक्तेषु' विद्यमानानां नवानामृचां त्रिभिः पर्यायैर्गानं कर्तव्यम्। तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वा-द्यास्तिस्र ऋचो गातव्याः । द्वितीये पर्याये मध्यमा ऋचो गातव्याः । तृतीयपर्याये उत्तमा ऋचो गातव्याः । ‘तिसृभ्यः ’ द्वितीये पर्याये मध्यमा ऋचो 'हिंकरोति’— इत्यनेन गानमुपलक्ष्यते । सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्याद्या ' विष्टुतिः' स्तुतिप्रकारविशेषः । तस्या विष्टुतेः ‘ उद्यती’ इत्येवं नामधेयमिति । ईदृशेन स्तोमेन स्तुतोऽग्निः तान् वसून् 'अत्यार्जत ' निरुद्धं द्वारमतिलङघ्य स्वर्गमध्ये प्रापितवान्। 'ते' च वसवो देवा 'यथालोकं' स्वस्य स्वस्योचितं लोकं स्थानविशेषमनतिक्रभ्य तत्रांगच्छन्॥ ' अथ पञ्चदशस्तोमेन स्तुतिं दर्शयति- ( पञ्चदशस्तोमद्वारा स्तुतिः ) तं रुद्रा आगच्छंस्त एवमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति; स नास्तुतोऽतिस्त्रक्ष्य इत्यब्रवीत्, स्तुत न मेति, तथेति, तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान् स्तुतोऽत्यार्जत, ते यथालोकमगच्छन् ॥ २ ॥
हिन्दी—( अब पञ्चदश नामक स्तोम से स्तुति को दिखला रहे हैं— ) तब रुद्राः तम् आगच्छन् रुद्रगण उस ( अग्नि ) के पास आये और ते एनम् अब्रुवन् उन्होनें उस ( अग्नि ) से कहा कि (हे अग्नि )! नः अत्यर्जसि तुम हम लोगों को ( अपनी ज्वालाओं का अतिक्रमण करके स्वर्गलोक को प्राप्त कराने में ) समर्थ हो अतः नः आकाशं कुरु हम लोगों के लिए ( अपनी ज्वालाओं का अतिक्रमण करके ) अवकाश को प्रदान करो । सः अब्रवीत् उस ( अग्नि ) ने कहा कि अस्तुतः न अतिस्त्रक्ष्ये ( तुम लोगों द्वारा ) बिना स्तुति ( ) ( ) १ ता०ब्रा० २.१.१। २ उ०आ० १.१.१-३ । ऐ.ब्रा. पू- ४१
पृष्ठ 712
पाठ पढ़ें पाठ छिपाएँ
: [ ६५० ऐतरेयब्राह्मणम् १४.४ तृतीयपञ्चिकायां किये मैं ( स्वर्ग के बन्द द्वार को अतिक्रमित) करूँगा। अतः स्तुत नु मा तुम शीघ्र ही मेरी स्तुति करो । तथा इंति तब (रुद्रों ने उसे स्वीकार करते हुए कहा कि ठीक है । उन रुद्रों ने पञ्चदशेन स्तोमेन पञ्चदश (नामक ) स्तोम से तम् अस्तुवन् उस ( अग्नि ) की स्तुति किया । स्तुतः स्तुति किये गये ( अग्नि) नेने तान् अत्यर्पत उन (रुद्रों ) को ( निरुद्ध द्वार का उलङ्घन करके ) अतिक्रमण कराया जिससे ते यथालोकम् अगच्छन् वे ( रुद्रगण) अपने अभीष्ट लोक (स्वर्गलोक ) के प्राप्त किये । सा ० भा ० — पञ्चदशनामकस्य स्तोमस्य स्वरूपं छन्दोगैरेवमाभ्नायते— 'पञ्चभ्यो हिं-करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः ' ' इति । अस्यायमर्थः - तृचात्मकमेकं सूक्तं त्रिरावर्तनीयम्। तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः,
तृतीयावृत्तावुत्तमायाः । सोऽयं पञ्चदशस्तोम इति। अन्यत् पूर्ववद् व्याख्येयम्॥
अथ सप्तदशस्तोमेन स्तुतिं दर्शयति— ( सप्तदशस्तोमेन स्तुतिः ) तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति; स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्, स्तुत नु मेति, तथेति; तं ते सप्तदशेन स्तोमेनास्तुवंस्तान् स्तुतोऽत्यार्जत; ते यथालोकमगच्छन् ॥ ३ ॥
हिन्दी – (अब सप्तदश नामक स्तोम से स्तुति को दिखला रहे हैं— ) आदित्याः तम् आगच्छन् पुनः आदित्यगण उस ( अग्नि) के समीप आये । ते एनम् अब्रुवन्उन्होंने उस ( अग्नि) से कहा कि नः अत्यर्जति तुम हम लोगों को ( अपनी ज्वालाओं का अतिक्रमण करके स्वर्गलोक को प्राप्त कराने में) समर्थ हो। अतः नः आकाशं कुरु हमारे लिए अवकाश प्रदान करो । सः अब्रवीत् उस ( अग्नि) ने कहा कि अस्तुतः न अतिस्रक्ष्ये ( तुम लोगों द्वारा) स्तुति किये बिना मैं (स्वर्ग के बन्द द्वार को ) नहीं अतिक्रमण करूँगा । अतः स्तुत नु मां शीघ्र मेरी स्तुति करो । तथेति तब आदित्यों ने स्वीकार करते हुए कहा कि) ठीक है । ते उन ( आदित्यों) ने तम् उस ( अग्नि ) की सप्तदशेन स्तोमेन सप्तदश ( नामक ) स्तोम से अस्तुवन् स्तुति किया। स्तुतः (आदित्यों द्वारा ) स्तुति किये गये ( अग्नि) ने तान् अत्यार्जत् उन ( आदित्यों) को ( निरुद्ध स्वर्गद्वार का) अतिक्रमण कराया जिससे ते वे ( आदित्यगण) यथालोकम् अगच्छन् ( अपने) अभीष्ट लोक (स्वर्गलोक) को गये । सा ० भा ० — सप्तदशस्तोमस्य स्वरूपं छन्दोगैरेवमाम्नायते— ' पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः 'R इति। अत्र प्रथमावृत्तौ प्रथमायास्त्रिरभ्यासः, ( ) ( ) १ ता०ब्रा० २.४.१ । २ ता० ब्रा० २.७.१ ।
पृष्ठ 713
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ६५१द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ मध्यमोत्तमयोः । सोऽयं सप्तदशस्तोम इति। अन्यत् पूर्ववत् व्याख्येयम्॥ एकविंशस्तोमेन स्तुतिं दर्शयति— ( एकविंशस्तोमेन स्तुतिः ) तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति; स नास्तुतोऽतिस्त्रक्ष्य इत्यब्रवीत्, स्तुत नु मेति; तथेति; तं त एकविंशेन स्तोमेनास्तुवंस्तान् स्तुतोऽत्यर्जत, ते यथालोकम- गच्छन् ॥४ ॥
हिन्दी —– ( अब एकविंश नामक स्तोम से स्तुति को दिखला रहे हैं - ) विश्वे -देवाः तम् आगच्छन् पुनः विश्वे देवा उस (अग्नि ) के समीप गये। ते एनम् अब्रुवन् उन्होंने उस ( अग्नि ) से कहा कि नः अत्यर्जसि हम लोगों को तुम ( अपनी ज्वालाओं का अतिक्रमण करके स्वर्गलोक को प्राप्त कराने में समर्थ हो अतः नः आकाशं कुरु हम लोगों के लिए अवकाश बनाओ। सः अब्रवीत् उस (अग्नि) ने कहा कि अस्तुतः न अतिस्रक्ष्ये ( तुम लोगों द्वारा) स्तुति किये बिना मैं (स्वर्ग के निरुद्ध द्वार का ) अतिक्रमण नहीं करूँगा। अतः स्तुत नु मा ( तुम लोग) मेरी शीघ्र स्तुति करो । तथा इति तब (विश्वे देवों ने स्वीकार करते हुए कहा कि) अच्छा । ते उन ( विश्वे देवों) ने तम् उस ( अग्नि) की एकविंशेन स्तोमेन एकविंश ( नामक ) स्तोम से अस्तुवन् स्तुति किया। स्तुतः स्तुति किये गये ( अग्नि ) ने तान् उन ( विश्वे देवो ) को अत्यर्जत् ( निरुद्ध स्वर्गद्वार का ) अतिक्रमण कराया जिससे ते यथालोकम् अगच्छन् वे ( विश्वे देवा) अपने अभीष्ट लोक (स्वर्गलोक ) को गये । सा० भा ० — एकविंश॒स्तोमस्य स्वरूपं छन्दोगैरेवमाम्नायते — ' सप्तभ्यो हिंकरोति स तिसृभिः स तिसृभिः स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः, सप्तभ्यो हिंकरोति स तिसृभिः स एकया स तिसृभिः ' इति। प्रथमपर्याये तृचस्योत्तमाया ऋचः सकृत्पाठः । द्वितीयपर्याये प्रथमायाः सकृत्पाठः, तृतीयपर्याये मध्यमायाः सकृत्पाठः । अथ शिष्टानां तु त्रिरावृत्तिः । सोऽयमेकविंशस्तोम इति । अन्यत् पूर्ववद् व्याख्येयम् ॥ स्तोमचतुष्ट्यमुपसंहरति— ( स्तोमचतुष्टयस्योपसंहारः ) एकैकेन वै तं देवाः स्तोमेनास्तुवंस्तान् स्तुतोऽत्यार्जत; ते यथा- लोकमगच्छन् ॥ ५ ॥
( १) ता०ब्रा० २.१४.१ ॥
पृष्ठ 714
पाठ पढ़ें पाठ छिपाएँ
: [६५२ ऐतरेयब्राह्मणम् १४.४ तृतीयपञ्चिकायां हिन्दी—( अब चारों स्तोमों का उपसंहार कर रहे हैं - ) इस प्रकार देवाः देवताओं तम् उस ( अग्नि ) की एकैकेन स्तोमेन एक-एक स्तोम से अस्तुवन् स्तुति किया। स्तुतः ( देवताओं द्वारा) स्तुति किये गये (उस अग्नि ) ने तान् उन (देवताओं) को अत्यार्जत ( अपनी ज्वालाओं का) अतिक्रमण कराया जिससे ते उन ( देवताओं) ने यथालोकम् अगच्छन् ( अपने ) अभीष्ट लोक (स्वर्गलोग ) को प्राप्त किया । सा ० भा ० — अग्निष्टोमप्रयोगे चतुर्णाम् उक्तानां स्तोमानां विकल्पशङ्काव्यावृत्त्यर्थं समुच्चयं विधत्ते अथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते ॥ ६ ॥
हिन्दी–( अग्निष्टोम प्रयोग में उपर्युक्त चारों स्तोमों के विकल्प की शङ्का की व्यावृति के लिए उनके समुच्चय का विधान कर रहे हैं - ) य: यजते जो यजन करता है, एषः यह एतैः सर्वैः स्तोमैः एव इस सभी (उपर्युक्त) स्तोमों से ही एनम् इस ( अग्नि) की स्तौति स्तुति करता है । सा० भा०-–अर्थवादवैलक्षण्येन विधित्वं द्योतयितुम् ' अथ' शब्दः,– योऽग्निष्टोमेन यजते, स एतैश्चतुर्भिरपि स्तोमैः स्तुवीत॥ अनुष्ठातुः स्वर्गप्राप्तिफलस्य सिद्धत्वात् तेन सह समुच्चित्य वेदितुरपि तत्फलं दर्शयति— यश्चैनमेवं वेदाती तु तमर्जातै ॥७ ॥
हिन्दी - ( अनुष्ठान कर्त्ता के स्वर्ग फल की सिद्धि होने के कारण उसी के साथ समुच्चय करके उसके ज्ञाता के भी उसी फल को दिखला रहे हैं - ) यः च एवं वेद जो ( यजन करने वाला) उस (स्तोमों) को इस प्रकार जानता है तम् उस (ज्ञाता) को अर्जातै ( स्वर्गद्वार के निरोधन का) अतिक्रमण करके (स्वर्ग लोक को प्राप्त हो जाता है) । सा ० भा ० – यजमानो येन प्रकारेण यजते, अनेनैव प्रकारेण ‘ एनम्' अग्निष्टोमं ‘ यश्च’ वेदाती तमपि वेदितारं द्वारनिरोधनमतिलङ्घ्य ' अर्जातै' ' प्रापयत्येव। ‘ अती तु ’— इति दीर्घश्छान्दसः ॥ वेदनामात्रेणानुष्ठानसमानफलं दृढयितुं पुनरप्याह— अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद ॥ ८ ॥
हिन्दी–( ज्ञानमात्र से अनुष्ठान के समान फल को दृढ़ करने के लिए ही पुनः कह ( १ ) (i ) ‘ अतिलङ्घ्याज्जातै एव' इति आनन्दाश्रममुद्रितपाठः । ( ii ) ' अर्जेलेंटे । ' आत ऐ’ ( पा ० सू० ३.४.९ ५ ), ‘ वैतोऽन्यत्र' (पा० सू० ३.४.९ ६ ) अर्जेत ' दुःखमतिक्रम्य सुखं प्रवेशयेत्' – इति षड्गुरुशिष्यः ।
पृष्ठ 715
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६५३रहे हैं ) यः एवं वेद जो इस प्रकार जानता है वह एनम् इस (स्वर्गलोक के निरुद्ध द्वारा) का अति अर्जते अतिक्रमण कर जाता है और स्वर्गं लोकम् अभि स्वर्गलोक को प्राप्त करता है। सा० भा० - वेदनमात्रेण सिद्धेऽपि फले 'कर्मभूयस्त्वात् फलभूयस्त्वम्' इति न्यायेनानुष्ठनवैयर्थ्यं नास्ति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः चतुर्थाध्याये ( चतुर्दशाध्याये ) चतुर्थ: खण्ड: ॥४ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्दश अध्याय के चतुर्थ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा० भा ० – अथाग्निष्टोमादिशब्द निर्वचनतः प्रशंसति— ( अग्निष्टोमादिशब्दस्य निर्वचनेन प्रशंसनम् ) ( तत्रग्निष्टोमनिर्वचनम्) स वा एषोऽग्निरेव यदग्निष्टोमः, तं यदस्तुवंस्तस्मादग्निस्तोमः, तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण, परोक्षप्रिया इव हि देवाः ॥ १ ॥
हिन्दी—( अब अग्निष्टोम इत्यादि शब्दों की निर्वचन द्वारा प्रशंसा कर रहे हैं। उनमें अग्निष्टोम का निर्वचन ~ ) यद् अग्निष्टोमः जो अग्निष्टोम है, सः एषः अग्निः एव वह यह अग्नि ही है । तम् उस (क्रतुरूप अग्नि ) की यद् अस्तुवन् जो ( देवताओं ने स्तोमों से ) स्तुति किया तस्मात् इसी कारण अग्निस्तोमः वह अग्निस्तोम ( नाम वाला) हुआ । अग्निस्तोमं सन्तं तम् अग्नि स्तोम नाम वाला होते हुए उसको परोक्षेण अग्निष्टोमः इत्याक्षते परोक्षरूप से अग्निष्टोम नाम से कहते हैं; क्योंकि परोक्षप्रियाः हि देवाः देवता परोक्षप्रिय होते हैं । सा० भा ० — योऽयमग्निष्टोमोऽस्ति स एष साक्षात् ' अग्निरेव' स्वशरीरमेव; त्रिभिश्छन्दोभिस्त्रिभिः सवनैश्च विभज्य क्रतोर्निष्पादितत्वात्। ' तं' क्रतुरूपमग्निं ' यद्' यस्मात् कारणाद् देवा अस्तुवन्, तस्मादग्निविषयस्तुतियुक्तत्वादयं क्रतुः ' अग्निस्तोमः ' इत्ये- नामकः । तन्नामयुक्तं क्रतुं परोक्षनाम्ना व्याहर्तुं सकारतकारयोः षकारटकारावादिश्य ' अग्नि- ष्टोमः ' इति वैदिका आचक्षते। वर्णान्तरेण व्यावहितत्वात् शीघ्रप्रतीतिरहितं नाम परोक्षमि-
पृष्ठ 716
पाठ पढ़ें पाठ छिपाएँ
: [६५४ ऐतरेयब्राह्मणम् १४.५ तृतीयपञ्चिकायां त्युच्यते । यस्माल्लोके ‘देवाः ’ आचार्यादयः परोक्षनामप्रिया एव, तस्मान् क्रतोरपि तदयुक्तम् ॥ नामान्तरस्य निर्वचनं दर्शयति— ( चतुष्टोमनामनिर्वचनम्) तं यच्चतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण, परोक्षप्रिया इव हि देवाः ॥२ ॥
हिन्दी—( अग्निष्टोम के अन्य नाम का निर्वचन दिखला रहे हैं —) तम् उस (क्रतुरूप अग्नि ) की यद् चतुष्टया देवाः जो चार प्रकार वाले ( वसु इत्यादि) देवताओं ने चतुर्भिः स्तोमैः चार प्रकार ( त्रिवृत् इत्यादि) वाले स्तोमों से अस्तुवन् स्तुति किया तस्मात् इसी कारण चतुस्तोम वह चतुस्तोम नाम वाला हुआ। चतुस्तोमं सन्तं तम् चतुस्तोम नाम वाला होते हुए उसको परोक्षेण चतुष्टोमः इत्याचक्षते परोक्षरूप से चतुष्टोम ( नाम से ) कहते हैं; क्योंकि परोक्षप्रियाः वै देवाः देवतापरोक्ष प्रिय होते हैं । सा० भा ० — 'चतुष्टया:' चतुर्विधाः,–वसवो रुद्रा आदित्या विश्वे देवाश्चेति। स्तोमाश्च त्रिवृतपञ्चदशः सप्तदश एकविंश इत्येवं चत्वारः । चतुष्टोमनामनिर्वचनं पूर्ववद् योजनीयम्॥ ज्योतिष्टोमनामनिर्वचनं दर्शयति— ( ज्योतिष्टोमनामनिर्वचनम् ) अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण, परोक्षप्रिया इव हि देवाः ॥३ ॥
हिन्दी - (ज्योतिष्टोम नाम का निर्वचन कर रहे हैं- अथ इसके बाद ऊर्ध्वं सन्तमेनम् जो ( भूमि से लेकर द्युलोक तक ) ऊपर विद्यमान इस ज्योतिर्भूतान् ज्योतिर्भूत ( अग्नि ) की अस्तुवन् ( देवताओं ने ) स्तुति किया तस्मात् इसी कारण ज्योतिस्मोमम् उसका ज्योतिस्तोम ( नाम पड़ा) । ज्योतिस्तोमं सन्तं तम् ज्योतिस्तोम नाम वाले ( उसको) परोक्षेण परोक्ष रूप से ज्योतिष्टोमम् इत्याक्षते ज्योतिष्टोम कहा जाता है परोक्षप्रिया इव हि देवाः क्योंकि देवता परोक्ष प्रिय होते हैं । सा० भा० — ‘ अथ' नामद्वयकथनानन्तरं, तृतीयं नाम कथ्यत इति शेषः । अयम् अग्निर्भूमिमारभ्य द्युलोकपर्यन्तमूर्ध्वावस्थितः, तथा प्राकाशमानत्वाज्ज्योतिर्भूतः । तं तादृशं देवा अस्तुवन्, ‘तस्माज्ज्योतिस्तोमः '। ज्योतिषः ‘स्तोमः' स्तुतिः यस्मिन् क्रतौ, स
क्रतुर्ज्योतिस्तोमः । अन्यत् पूर्ववत्॥
नामनिर्वचनेन प्रशस्य पुनरप्याद्यन्तराहित्येन प्रशंसति— ( आद्यन्तराहित्येनाग्निष्टोमप्रशंसनम्) स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोम-
पृष्ठ 717
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६५५ स्तस्य यथैव प्रायणं तथोदयनम् ॥४ ॥
हिन्दी—( नाम के निर्वचन द्वारा प्रशंसा करके पुनः आद्यन्त-विहीनता के कारण प्रशंसा कर रहे हैं— ) यद् अग्निष्टोमः जो अग्निष्टोम है सः वै एषः वह यह (अग्निष्टोम) यथा रथचक्रम् अनन्तमेव जिस प्रकार रथ का चक्का ( सर्वदा घूमते रहने के कारण अनन्त ( आदि और अन्त से रहित) है एवं उसी प्रकार अपूर्वः अनपरः पूर्व और पर ( अर्थात् आदि और अन्त ) से रहित यज्ञक्रतुः यथा एव प्रायणम् जिस प्रकार उसका प्रारम्भ होता है तथा एव उदयनम् वैसे ही समापन भी होता है । सा ० भा ० – ‘ स एषः ' अग्निष्टोमः पूर्वापररहितः, पूर्वः ' आदिः, 'अपरः ' अन्तः, आद्यन्तरहितो यज्ञक्रतुः । यथा लोके 'रथचक्रमनन्तं' पुनः पुनः परिवर्तमानस्य रथचक्रस्य अयमादिरयमन्त इति विभागः कर्तुं न शक्यते, तस्मादिदमन्तरहितम्। आदिरहित- स्याप्येतदुपलक्षणम् । एवं क्रतुरपि । ननु प्रायणीयेष्टिरादिः, उदयनीयेष्टिरन्त इति चेत्? मैवम् योऽग्निष्टोमोऽस्ति, तस्य यादृशं प्रायणीयं कर्म, तादृशमेवोदयनीयं कर्म; तयोः यागधर्मसाम्यात्। अतो विवेक्तुमशक्यत्वाद् आद्यन्तरहितः क्रतुः ॥ उक्तमर्थं मन्त्रोदाहरणेन द्रढयति- तदेषाऽभि यज्ञगाथा गीयते- ' यदस्य पूर्वमपरं तदस्य, यद्वास्यापरं तद्वास्य पूर्वम्। अहेरिव सर्पणं शाकलस्य च विजानन्ति यतरत् परस्तादिति ॥५ ॥
हिन्दी– ( उक्त अर्थ को मन्त्र के उदाहरण से दृढ़ कर रहे हैं - ) तत् उस ( अग्निष्टोम के आदि और अन्त से रहितता के ) विषय में एषा यज्ञगाथा यह यज्ञ-विषयक गाथा गीयते कही गयी है— यद् अस्य पूर्वम् जो इस (अग्निष्टोम) का आदि वाला (उपक्रम ) है तद् अस्य अपरम् वही इसका समापन (का उपक्रम) है। यद्वा अस्य अपरम् अथवा जो इसके समापन वाला (उपक्रम) है तद्वा अस्य पूर्वम् वही इसका प्रारम्भ वाला (उपक्रम ) है। शाकलस्य अहेः सर्पणम् इव शाकल (नामक ) सर्प (विशेष) के सर्पण के समान न विजानन्ति लोग नहीं जान पाते हैं कि यतरत् परस्तात् इसका मुखं कौन है और पुच्छ कौन है । सा० भा० । -– सर्वैरपि सुभाषितत्वे गीयत इति 'गाथा' यज्ञविषया गाथा। 'तत्' प्रायणीयोदनीययोरेकविधत्वे काचिदेषा 'यज्ञगाथा' ' अभिगीयते ' तस्मिन्नग्निष्टोमस्याद्यन्तयोःसर्वतः पठ्यते। यदस्येत्यादिगाथा। ' अस्य' अग्निष्टोमस्य यत् ' पूर्वम्' उपक्रमरूपं कर्मास्ति, तदेवास्य ‘ अपरं’ समाप्तिरूपं कर्म। 'यदु ' यदेवास्य ' अपरं' समाप्तिरूपम्, ‘ तदु’ तदेवास्य ‘ पूर्वम्’ उपक्रमरूपम् । आदित्यः प्रायणीयश्चरुरादित्य उदयनीयश्चरुरिति द्रव्यदेवतयोरुभ- यत्रैकविधत्वात् तयोरेकत्वोपचारः । आद्यन्तयोरपरिज्ञाने पूर्वब्राह्मणे रथचक्रदृष्टान्तो दर्शितः ।
पृष्ठ 718
पाठ पढ़ें पाठ छिपाएँ
: [६५६ ऐतरेयब्राह्मणम् १४.५ तृतीयपञ्चिकायां मन्त्रे त्वन्यो दृष्टान्त उच्यते। ' ‘ शाकल' शब्द: सर्पविशेषवाची । शाकलनाम्नः ‘ अहे.’ सर्पविशेषस्य यथा ‘ सर्पणं’ गमनम्, तथैवायमग्निष्टोमः । स च सर्पणकाले मुखेन पुच्छस्य दंशनं कृत्वा वलयाकारो भवति, तत्र किं मुखं किं वा पुच्छमिति न ज्ञायते; एवमत्राप्यदितिदेवातकस्य चरोः साम्ये सति प्रायणीयोदयनीययोः ‘ यतरम्’ ‘ परस्तात्’ पश्चाद्भावि, यतरच्च पूर्वभावि किमपि न विजानन्ति ॥ अस्य गाथायास्तात्पर्यं संक्षिप्य दर्शयति— यथा ह्येवास्य प्रायणमेवमुदयनमसदिति, ॥ ६ ॥
हिन्दी—( गाथा के तात्पर्य को संक्षिप्त करके दिखला रहे हैं - ) यथा हि एव अस्य प्रायणम् जिस प्रकार इस (अग्निष्टोम) का प्रारम्भ होता है एवम् उदयनम् असत् उसी प्रकार समापन भी होता है । सा ० भा ० — ' अस्य' अग्निष्टोमस्य प्रायणं प्रारम्भो यादृशः, एवम् 'उदयनं' समाप्तिः ' असत्' अस्ति, भवतीत्यर्थः ॥ अत्र कंचिदाक्षेपमुद्भावयति— तदाहुर्यत्रिवृत्प्रायणमेकविंशमुदयनं, केन ते समे इति ॥७ ॥
हिन्दी—(इस विषय में किसी आक्षेप की उद्भावना कर रहे हैं— ) तदाहुः इस विषय में ( कुछ ब्रह्मवादी ) पूछते हैं कि त्रिवृत् प्रायणम् (प्रातः सवन में) त्रिवृत् स्तोम से यह प्रारम्भ होता है और एकविंशम् उदयनम् सायंसवन में एकविंश समापन वाला स्तोम है फिर केन किस प्रकार ते समे वे दोनों (प्रारम्भ और समापन) एक समान वाले होते हैं। सा० भा०-- पूर्वोदाहृतस्त्रिवृत्स्तोमः प्रातः सवनादौ प्रयोज्यत्वात् 'प्रायणम्' उपक्रम-रूपम्। एकविंशस्तोमस्तु तृतीयसवनान्ते प्रयोज्यत्वाद् ' उदयनं’ समाप्तिरूपम्। ‘ केन’ कारणेन 'ते' प्रायणोदयने ' समे' भवेतामित्याक्षेपः ॥ तत्र परिहारं दर्शयति— यो वा एकविंशस्त्रिवृद् वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात् तेनेति॥८॥
हिन्दी—( पूर्वोक्त आक्षेप का समाधान दिखला रहे हैं— ) यः वै एकविंशः जो एकविंश ( नामक स्तोम) है, सः वै त्रिवृत् वही त्रिवृत् है अथ और यद् उभौ तृचौ (दोनों स्तोमों में रहने वाले ) जो दोनों तृच हैं तृचिनौ वे तृचत्व धर्म सम्पन्न है तेन इसी कारण ( ये समान हैं)- इति ब्रूयात् इस प्रकार उत्तर देना चाहिए। सा० भा ० — योऽयमेकविशस्तोमोऽस्ति, स एव त्रिवृदवगन्तव्यः, स्तोमत्वाकारेण तयोरेकविधत्वात्। ‘ अथो ’ अपि च ‘ यत्' यस्मात्कारणात् स्तोमद्वयाश्रयभूतौ 'उभौ ' तृचौ
पृष्ठ 719
पाठ पढ़ें पाठ छिपाएँ
: ]:चतुर्थोऽध्यायः षष्ठः खण्ड सायणाचार्यकृतभाष्योपेतम् ६५७ ‘तृचिनौ’ तृचित्व धर्मयुक्तौ । तत्र त्रिवृत्स्तोमाश्रयस्य 'उपास्मै गायता नरः' इति सूक्तस्य तृचत्वधर्मः प्रसिद्ध एव। एकविंशस्तोमाश्रयस्य 'यज्ञा यज्ञा वो अग्न॒ये' इति सूक्तस्य प्रगाथत्वाद् यद्यपि तस्मिन् द्वे एव ऋचावाम्नायेते, तथाऽपि स्तोत्रकाले प्रग्रथनेन पादा-नावर्त्य तृचत्वं संपाद्यते। ' तेन' तृचत्वधर्मोपेतत्वकारणेन द्वयोः स्तोमयोरेकविधत्वमि- त्युक्तरं ब्रूयात्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः चतुर्थाध्याये ( चतुर्दशाध्याये ) पञ्चमः खण्डः ॥५॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्दश अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० — पुनरादित्यसाम्येन प्रशंसति— ( आदित्यसाम्येनाग्निष्टोमप्रशंसनम् ) यो वा एष तपत्येषोऽग्निष्टोम एष साह्रस्तं सहैवाह्ना संस्थापयेयुः, साह्रो वै नाम ॥ १ ॥
हिन्दी — ( पुनः आदित्य की समानता से अग्निष्टोम की प्रशंसा कर रहे हैं - ) यः वै एषः तपति जो यह ( सूर्य) निश्चित रूप से तपता है एषः अग्निष्टोमः एव यह अग्निष्टोम ही है क्योंकिं एषः साह्नः यह (सूर्य के समान) एक दिन में होने वाला है । तं अह्ना सहैव संस्थापयेयुः उस (अग्निष्टोम) को एक दिन में ही समाप्त करना चाहिए। अतः साह्नः वै नाम (इस ऋतु का नाम) साह्र (एकाहिक) है। सा० भा०--य एव प्रसिद्ध ' एष: ' अस्मत्प्रत्यक्ष आदित्यः तपति, ' एषोऽग्निष्टोमः ', तयोरादित्वाग्निष्टोमयोः सदृशत्वात्। कथं साम्यमिति? तदुच्यते— ‘एषः ' अग्निष्टोम आदि-त्यवत् ‘ साह्नः ' यथा आदित्योऽह्ना सह वर्तते, तथाऽयमपि। 'तम्' अग्निष्टोम एकेनाह्ना. सहैव ‘ संस्थापयेयुः ’ समापयेयुः । तस्मादादित्यस्येव ‘साह्नः' इति क्रतोर्नाम संपन्नम्॥ इदानीमग्निष्टोमानुष्ठाने त्वरां निषेधति— ( अग्निष्टोमानुष्ठाने त्वरानिषेधः ) तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातः सवन एवं माध्यंदिन एवं तृतीय- सवन एवमु ह यजमानोऽप्रमायुको भवति ॥ २ ॥
हिन्दी—( अब अग्निष्टोम के अनुष्ठान में शीघ्रता का निषेध कर रहे हैं— ) तेन उस
पृष्ठ 720
पाठ पढ़ें पाठ छिपाएँ
: [६५८ ऐतरेयब्राह्मणम् १४.६ तृतीयपञ्चिकायां ( अनुष्ठान के लिए एक दिन पर्याप्त होने) के कारण असंत्वरमाणाः सञ्चरेयुः शीघ्रता न करते हुए ( उत्तरोत्तर अनुष्ठान को) करना चाहिए। यथा एव प्रातःसवने जिस प्रकार प्रातःसवन में ( अनुष्ठन करे) एवं माध्यन्दिने उसी प्रकार माध्यान्दिन सवन में और एवं तृतीयसवने उसी प्रकार तृतीयसवन में ( करना चाहिए); क्योंकि एवं हि इस प्रकार ( शीघ्रता न करते हुए अनुष्ठान करने से) यजमानः अप्रमायुकः भवति यजन करने वाला अपमृत्यु से रहित हो जाता है । सा० भा ० — यस्मादेकमहः साकल्येनानुष्ठानाय पर्याप्तं, ‘ तेन ' कारणेन सर्वेऽ- प्यृत्विजः ‘ असंत्वरमाणाः ’ त्वरामकुर्वन्त उत्तरोत्तरानुष्ठानं सम्यक्पर्यालोचयन्तः ‘चरेयुः ’ अनुतिष्ठेयुः । यथैव प्रातःसवने मध्यरात्रादूर्ध्वमारभ्य मध्याह्नात् पूर्वकालस्यानुष्ठानाय पर्याप्तत्वान्नास्ति त्वरा, एवमुत्तरयोरपि सवनयोः । ‘ एवमु ह' अनेनैव प्रकारेण शनैरनुष्ठाने सति बुद्धिसमाधानेनाङ्गलोपाभावाद् यजमानः ‘ अप्रमायुकः ' अपमृत्युरहितो भवति॥ विपक्षे बाधकं दर्शयति— यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति, तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति, तस्माद्धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति ॥ ३ ॥
हिन्दी—( विपक्ष के विषय में बाधा को दिखला रहे हैं ) यद् ह वै यदि पूर्वयोः सवनयोः पूर्ववर्ती (प्रातः और माध्यन्दिन इन) दोनों सवनों में इदम् इस (कर्म) को असंत्वरमाणः सञ्चरन्ति शीघ्रता न करते हुए सम्पादित करते हैं तस्मात् तो इदम् यह (कर्म) प्राच्यः ग्रामता बहुला विष्टा पूर्व दिशा की ओर के ग्रामसमूह के बहुत लोगों से युक्त होता है अथ ह और यत् इदम् यदि इस कर्म को तृतीयसवने तृतीयसवन में संत्वरयाणाः सञ्चरन्ति शीघ्रता करते हुए सम्पादित करते हैं तस्मात् तो इदम् यह (कर्म) प्रत्यञ्चि दीर्घारण्यानि भवन्ति पश्चिम दिशा वाले ( ग्रामसमूह ) महान् जङ्गल (जनों से रहित ) हो जाते हैं। तथा ह इस प्रकार यजमानः प्रमायुकः भवति यजन करने वाला अपमृत्यु का भागी हो जाता है । सा० भा०-–‘यद्ध वै ’ यदि प्रथमद्वितीययोः सवनयोः कालसंकोचाभावात् असंत्व- रमाणा: ‘इदं’ कर्म ‘चरन्ति ’ अनुतिष्ठेयुः तदानीं ' तस्माद्ध' तस्मादेवाङ्गलोपाभावात् कार- णादिदं दृश्यते। किमिदमिति? तदुच्यते—' प्राच्यो ग्रामताः ' पूर्वदिग्वर्तिनो ग्रामसमूहाः ‘बहुलाविष्टाः ’ बहुभिर्जनैः संपूर्णा भवन्ति। ' अथ' तद्विपर्ययेण ‘ यद्ध ' यदि तृतीयसवने कालसंकोचमाशङ्क्य ‘ संत्वरमाणाः ' अतित्वरया युक्ताः ' इदं' कर्म 'चरन्ति' अनुतिष्ठन्ति ' तस्माद्ध' तदानीमङ्गवैकल्यसंभवादेवेदं लोके दृश्यते, – 'प्रत्यञ्चि' पश्चिमदिग्वर्तीनि ' दीर्घा-