ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 81–90

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 81–90

पृष्ठ 81

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 81 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् १ ९ ऋचौ' तयोर्मध्ये धाय्याभिधेये ऋचौ प्रक्षेप्तव्ये। तथाच आश्वलायन: - ' दीक्षणीयायां धाय्ये विराजौ' इति। तत्र ‘ पृथुपाजा अमत्यों " इत्येका ' तं सबाधों यतस्रुचः " इति द्वितीया । एतच्च प्रयोगसंग्रहकारेणोदाहृतम्— ' अथ दीक्षणीयायां धाय्ये भवतः शोचिष्केशस्तमीमहों पृथुपाजास्तं सबाधः ' इति । ' अग्नये समिध्यमानायानुब्रूहि' " इत्येवमध्वर्युणा प्रेषितो होता" सामिधेनीः सप्तदशानुब्रूयात् ॥ तामेतां संख्यां प्रशंसति— ( सप्तदशसंख्याप्रशंसन् ) सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवो हेमन्त-... शिशिरयोः समानेन तावान् संवत्सरः संवत्सरः प्रजा- पतिः ॥१४ ॥

हिन्दी– ( सत्रह संख्या की प्रशंसा कर रहे हैं - ) सप्तदशः वै प्रजापतिः प्रजापति सत्रह ( अवयवों वाले) हैं । द्वादश मासाः बारह महीने और हेमन्तशिशिरयोः समानेन हेमन्त तथा शिशिर ऋतु के समान होने के कारण पञ्चऋतवः पाँच ऋतुएँ ( इस प्रकार यह संख्या सत्रह ) हैं । तावान् संवत्सरः उतने काल वाला ही संवत्सर होता है । संक्त्सरः प्रजापतिः ( उचित वर्षा इत्यादि का निष्पादन करके प्रजा का पालन करने से ) संवत्सर ही प्रजापति है ॥ सा ० भा ० — सप्तदश चावयवा यस्य प्रजापतेः सोऽयं सप्तदशस्तस्मिन्नर्थे वैशब्दोक्तप्रसिद्धिर्द्वादशेत्यादिना स्पष्टीक्रियते । चैत्राद्या मासा द्वादश प्रसिद्धाः । यद्यपि षड् वा ( १ ) समिध्यमाना ऋक् ( तै ० ब्रा० ३.५.२ ) नवमसामिधेनी ऋ० ३.२७.४ । समिद्धवती ऋक् तु (तै० ब्रा० १.३.५.२ ) दशमसामिधेनी-ऋ ० ५.२८.५ । तथा चाश्वलायनः “ अथ सामिधेन्यः ” —इत्युपक्रम्याह- ' समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति” –इति आश्व०श्रौ ० १.२.७। ( २ ) सामिधेन्य ऋच एकादशैव। तासु प्रथमस्या अन्तिमायाश्च त्रिस्त्रिः पाठेन पञ्चदशसङ्ख्या पूरणीया भवति । सप्तदशसंख्यायाः पूरणीयत्वे तु पृथुपाजेत्याद्यपरर्ग द्वयस्य तासु प्रक्ष- पोऽपि विधीयते । एवमेकविंशतित्वे सम्पादनीये षण्णामप्यृचां प्रक्षेपणीयता विहिताः । ताः प्रक्षेपणीयर्च एव धाय्या उच्यन्ते ( ऐ० ब्रा० ३.२.७ ) । तत्र धाय्ययोर्धाय्यानां वा प्रक्षे - पस्तु समिध्यमानसमिद्धवत्योर्मध्ये एव भवति । ते च ऋचौ सामिधेनीषु दशम्येकादश्यौ। ऋ० ३.२७.५ ।(( ३ )) आश्व ० श्री० ४.२.११ (( ४ )) ५ ऋ० ३.२७.६। ६ शत ० ब्रा ० १.३.५.२।( ७ ) “ अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति” –इति आप०श्र ० २.१२.१ । 'होतेति० शेष: ' इति, ब्रूहीत्युकारः प्लावयितव्यः ' –इति च तट्टीका । 'ब्रूहिप्रेष्यश्रौषड्वौषडावहान- मादे:'-इति च पा० सू० ८.२.९ १।

पृष्ठ 82

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 82 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ २० ऐतरेयब्राह्मणम् १.१ प्रथमपञ्चिकायां `ऋतव' इति श्रुत्यन्तराल्लोकप्रसिद्धेश्च वसन्ताद्याः षट्संख्याकास्तथाऽपि शीतत्वसाम्येन हेमन्तशिशिरावेकीकृत्य पञ्चसंख्योच्यते । द्वादशभिर्मासैस्तन्मेलनात्मकपञ्चतुभिश्च यावान्कालो भवति तावान्कालः संवत्सर इत्युच्यते । स च संवत्सरस्तदृतूचितवर्षादिनिष्पादनेन प्रजानां पालकत्वात् प्रजापतिस्तदीयत्वेन सप्तदशसंख्या प्रशस्तेत्यर्थः ॥ सप्तदशसंख्यावेदनं प्रशंसति— ( सप्तदशसङ्ख्यावेदनप्रशंसनम् ) प्रजापत्यायतनाभिरेवाऽऽभी राघ्नोति य एवं वेद ॥ १५ ॥

हिन्दी– ( सत्रह संख्या के ज्ञान की प्रशंसा कर रहे हैं — ) यः एवं वेद जो इस प्रकार (इस तथ्य ) को जानता है, वह प्रजापत्यायतनाभिः एव प्रजापति के आयतन स्वरूप ( अर्थात् आश्रयभूत सामिधेनियों) से अभि राध्नोति समृद्धि को प्राप्त करता है । सा ० भा० - संवत्सरात्मकः प्रजापतिरायतनमाश्रयो यासां साभिधेनीनां ताः प्रजापत्यायतनास्तदीयसंख्योपेतत्वात्तदायतनत्वं तादृशीभिराभि: सामिधेनोभिर्वेदिता राध्नोति समृद्धो भवति । सति वेदने तदनुष्ठानप्रवृत्तेः फलप्राप्तिसमृद्धिरुपपद्यते । अत्र मीमांसोदाह्रियते । पञ्चमाध्यायस्य चतुर्थपादे द्वयं चिन्तितम् “दर्शादीष्ट्वा सोमयागः क्रमोऽयं नियतो न वा । उक्तेराद्यो न सोमस्याऽऽधानानन्तरताश्रुतेः ” ॥ ’ दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेति क्त्वाप्रत्ययेनावगम्यमानः क्रमो नियतः इति चेत्, मैवम् । ‘ सोमेन यक्ष्यमाणोऽग्नीनादधीत' इत्याधानानन्तरताया अपि श्रवणात् । तस्मादिष्टि- सोमयोः पौर्वापर्यं न नियतम् ॥ “विप्रस्य सोमपूर्वत्वं नियतं वा न वाऽग्रिमः उत्कर्षतो मैवमग्नीषोमीयस्यैव तच्छ्रुतेः ” ॥ ‘ इष्टिपूर्वत्वं सोमपूर्वत्वं च विकल्पितम्' इति यदुक्तं तत्र ब्राह्मणस्य सोमपूर्वत्वं नियतम् । कुतः, उत्कर्षश्रवणात् । ' आग्नेयो वै ब्राह्मणो देवतया । स सोमेनेष्ट्वाऽग्नीषोमीयो भवति । यदेवादः पौर्णमासं हविः, तत्तर्ह्यनुनिर्वपेत् । तर्हि स उभयदेवतो भवति " इति । अस्यायमर्थः - ‘ प्रजापतेर्मुखादग्निर्ब्राह्मणश्चेत्युभावुत्पन्नौ।६ ततो ब्राह्मणस्याग्निरेक एव ( ) ( ) १ ऐ०ब्रा० ३.१.६ २ जै ० वि० न्या ० ५.४.९-१० अधि० ३ । ( ३ ) तै ० सं ० २.५.६ । ( ४ ) यः सोमेन यक्ष्यमाणोऽग्नीनादधीत, नर्तुं स प्रतीक्षेन्न नक्षत्रम्-इति तत्पूर्णपाठः । ( ) ( ) ५ तै० सं० ५.५.१। ६ तै ० सं ० ७.१.२.४ ।

पृष्ठ 83

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 83 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् २१ देवतेत्याग्नेय एव ब्राह्मणः । न तु सौम्यः, सोमस्य तद्देवतात्वाभावात्। यदा स ब्राह्मणः सोमेन यजेत तदा सोमोऽप्यस्य देवतेत्यग्नीषोमीयो भवति। तस्याग्नीषोमीयस्य ब्राह्मण- स्यानुरूपं पौर्णमासमग्नीषोमीयपुरोडाशरूपं हविः सोमादूर्ध्वमनुनिर्वपेत्। तदा स ब्राह्मणे देवताद्वयसम्बन्धी भवति' इति । यद्यप्यत्र कर्मान्तरं किचिद् विधीयते इति कश्चिन् मन्यते, तथाऽपि ‘ पौर्णमासं हविः ' इति विस्पष्टप्रत्यभिज्ञानान्न कर्मान्तरं किन्तु दर्शपूर्णमासयोः सोमादूर्ध्वमुत्कर्षः । तस्माद् विप्रस्य सोमपूर्वत्वमेव नियतमिति प्राप्ते, ब्रूमः नात्र दर्शशब्दः पूर्णमासशब्दो वा कश्चिद् यागवाची श्रूयते। पौर्णमासमित्येतत्तद्धितान्तं हविर्विशेषणत्वेनो- पन्यस्यते '। तच्च हविरग्नीषोमीयपुरोडाशरूपमिति देवताद्वयेन संस्तवादवगम्यते । तस्मादेक- स्यैव हविष उत्कर्षः, न तु कृत्स्नयोर्दर्शपूर्णमासयोः । तथा सति ब्राह्मणस्यैकस्मिन्त्रे- वाग्नीषोमीयपुरोडाशे सोमपूर्वत्वनियमः । इतरत्र क्षत्रियवैश्ययोरिवास्यापीष्टिपूर्वत्वसोम- पूर्वत्वे विकल्प्येते ॥ तृतीयाध्यायस्य षष्ठे पादे चिन्तितम्—

“सामिधेनी: सप्तदश प्रकृतौ विकृतावुत ।

पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद् विकल्प्यते ॥

विकृतौ साप्तदश्यं स्यात् प्रकृतौ प्रक्रियाबलात् ।

' ’ पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तता ॥ २

अनारभ्य श्रूयते - ' सप्तदश सामिधेनीरनुब्रूयात्' इति । 'प्र वो वाजा ' इत्याद्या अग्निसमिन्धनार्था ऋच: सामिधेन्यः । तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्, यदि प्रकृतौ ‘पञ्चदश सामिधेनीरन्वाहेति विधिः स्यात् तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेया-तामिति प्राप्ते, ब्रूमः — विकृतावेव साप्तदश्य निविशते प्रकृतौ पाञ्चदश्यावरुद्धायां सामि- धेनीनां संख्याकाङ्क्षाया अभावात् । न च पाञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादव-रोधाभावः - इति शङ्कनीयं पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात् । तस्मान्मित्रविन्दाध्वर-कल्पादिविकृतौ साप्तदश्यमवतिष्ठते ।' न चात्र पूर्वन्यायोऽस्ति, साप्तदश्यस्य चोदकप्राप्त्य-भावेन पुनर्विधानदोषाभावात् । ( १ ) ' सन्धिवेलाघृतुनक्षत्रेभ्योऽण्' इति पा० सू० ४.३.१६ पौर्णमासं हविरिदमेषामपि' इति स्फुटम् तै ० ब्रा० ३.७.४.४ । ( २ ) जै ० न्या ० वि० ३.६.९.३-४ । ( ३ ) तै०ब्रा० ३.५.२.१-१२ । ( ४ ) तै० सं ० २.५.८.२ । ( ५ ) मित्राविन्देष्टिः वाजसनेयके श्रूयते । शत० ब्रा० ११.४.३.२० । सांख्या० श्रौ० ३.७.१ । का ० श्रौ० ५.१२.१ । अध्वरकल्पस्तु हविर्यज्ञविशेषः । सोऽपि वाजसनेयके एव । शत०ब्रा० १.१.४.७, ६.६.१.४ ।

पृष्ठ 84

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 84 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ १.१ प्रथमपञ्चिकायां २२: ऐतरेयब्राह्मणम् पूर्ववच्चेन्न“ साप्तदश्यं तु वैश्यस्यसङ्कोचान्नित्यनैमित्तिकोक्तिःविकृतौ प्रकृतावुत ॥। · गोदोह प्रणयेत्कामीत्येतदुदाहरत् । || ” ” भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः ' सप्तदशानुब्रूयाद् वैश्यस्य' इति स्थितं वैश्यनिमित्तकं साप्तदश्यं पूर्वन्यायेन विकृतिगतमिति चेत्, मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्तविषयतया सङ्कोचनीयत्वात् । नित्यं सामान्यरूपतया सावकाशत्वेन दुर्बलम् । नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् । तस्माद् वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते । अत्र भाष्यकारोऽन्यदुदाजहार — चमसेनापः प्रणयेद् गोदोहनेन पशुकामस्येति । तत्र प्रकृतेश्चमसेनावरुद्धत्वाद् गोदोहनं विकृताविति पूर्वः पक्षः । कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया सङ्कोचनीयत्वाद् प्रकृतावेव गोदोहनमिति राद्धान्तः । दशमाध्यायस्याष्टमपादे चिन्तितम्— “ सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः । संहृतिर्वोपकारस्य क्लृप्त्याऽऽद्योऽस्त्वाज्यभागवत् ॥ सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे । ” पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदितम् ॥४ अनारभ्य किञ्चिदाम्नायते — ‘ सप्तदश सामिधेनीरनुब्रूयात्' इति । तथा वैमृधे ऽध्वर- कल्पायां, पशो चातुर्मास्येषु, मित्रविन्दायामाग्रयणेष्ट्यादौ च पुनः साप्तदश्यं विहितम् । यद्यप्यनारभ्याधोतानां प्रकृतिगामित्वं न्याय्यं तथाऽपि श्रुतेन पाञ्चदश्येनावरुद्धत्वाद् विकृति- ष्वेव निविशते । तथा सति वैमृधादिषु विकृतिष्वनारभ्यत्वादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोपकारत्वेनेतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वकर्मतां गमयन्ति । साप्तदश्यं त्वनारभ्यवादप्राप्त- मनूद्यत इति प्राप्ते, ब्रूमः वैमृधादिषु सामिधेन्य आज्यभागवन्न विधियन्ते, किन्तु चोदकप्राप्ता अनूद्य साप्तदश्यं विधीयते । तच्च साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासु- चिदेव विकृतिषु प्राप्तमनारभ्यवादेन तु सर्वासु विकृतिषु तत्रानारभ्यवादी विलम्बते प्रथमं ( १ ) जै० न्या०वि० ३.६.१०.५-६ । ( २ ) तै० सं ० २.५.१.२ । ( ३ ) मीमांसाभाष्यकारः शबरस्वामी । जै ० सू० ३.६.१० (४ ) जै ० न्या० वि० १०.८- ९, १७-१९ । ( ५ ) वैमृधेष्टिः तै० सं ० २.५.२.४ । शत० ब्रा० ९.५.२.५ ।

पृष्ठ 85

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 85 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] ‘: द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् २३ विधेयस्य साप्तदश्यस्य सामधेनी सम्बन्धमवबोध्य तत्सम्बन्धान्यथानुपत्या क्रतुप्रवेशं परिकल्प्य प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु निवेशः क्रियत इति विलम्बः । प्राकरणि- कैर्विधिभिः सामधेनीसम्बन्ध एव बोधनीयः । विकृतौ तद्विशेषे च प्रवेशो न कल्पनीयः प्रत्यक्षप्रकरणपाठेनैव तत्सिद्धेः । तत्र साप्तदश्यस्य वैमृधादिविकृतिविशेषसम्बन्धे सहसा प्रतितन्ने सति तद्विरोधात् सर्वप्रकृतिसंबन्धों न कल्पयितुं शक्यः । अनारभ्यवादस्तु चोदकप्राप्तस्य पाञ्चदश्यस्य घाघकः । सर्वथाऽपि चतुर्धाकरणवदुपसंहारो न त्वाज्यभागवदपूर्वं कर्म ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण- भाष्यस्य प्रथमाध्याये प्रथमः खण्डः || १ || ॥ इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय के प्रथम खण्ड की ''शशिप्रभा' नामक हिन्दी व्याख्या समाप्तं ॥ अथ द्वितीयः खण्डः सा० भा० — दीक्षणीयेष्टि निरूप्य तत्प्रशंसार्थमिष्टिशब्दनिर्वचनं दर्शयति— ( इष्टि शब्दनिर्वचनम् ) यज्ञो वै देवेभ्य उद्द्वामत् तमिष्टिभिः प्रैषमैच्छन्यदिष्टिभिः प्रैषमैच्छंस्तदिष्टीनामिष्टित्वं तमन्वबिन्दन् ॥ १ ॥

हिन्दी —( दीक्षणीयेष्टि का विधान करके उसकी प्रशंसा करने के लिए इष्टि शब्द के निर्वचन को दिखला रहे हैं - ) यज्ञं वै देवेभ्यः उदक्रामत् यज्ञ देवताओं से दूर चला गया । तम् उस ( यज्ञ ) को ( देवताओं ने ) इष्टिभिः ( दीक्षणीया और प्रायणीया इत्यादि ) इष्टियों द्वारा प्रैषम् ऐच्छन् खोजने की इच्छा किया। यद् इष्टिभिः प्रैषम् इच्छन् जो ( देवताओं ने ) इष्टियों द्वारा खोजने की इच्छा किया तद् इष्टीनाम् इष्टित्वम् वही इष्टियों का इष्टित्व है । तम् अन्वविन्दन् (उन देवताओं ने इष्टियों द्वारा ) उस ( यज्ञ ) को क्रमशः प्राप्त कर लिया । सा ० भा ० – ज्योतिष्टोमाभिमानी यज्ञपुरुषः केनापि निमित्तेनापरक्तो देवेभ्योऽपक्रान्त-वान् । तं यज्ञं देवा दीक्षणीयाप्रायणीयादिभिरिष्टिभिः प्रैषमन्वेष्टुमैच्छन् । इच्छन्ति यज्ञमाभिरितीष्टिशब्दव्युत्पत्तिः । यजतिधातोरिष्टिभिशब्दः सर्वत्र प्रसिद्धः । अत्र त्विच्छति-धातोरिति विशेषः । ' अन्विष्य तं यज्ञमनुक्रमेण लब्धवन्तः । ( १ ) ' श्रुयजीषिस्तुभ्यः करणे' -इति पा सू० ३.३.९ ४ वा० १। अमरकोष ३.४.४१ । ( २ ) ' मन्त्रे वृषेषयचमनविदभूवीरा उदात्तः ' इति पा० सू० ३.३.९ ६ ।

पृष्ठ 86

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 86 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [२४ ऐतरेयब्राह्मणम् १.२ प्रथमपञ्चिकायां तल्लाभवेदनं प्रशंसति— अनुवित्तयज्ञो राध्नोति य एवं वेद् ॥ २ ॥

हिन्दी— ( इसके वेदन के फल को दिखला रहे हैं— ) यः एवं वेद जो इस प्रकार { इस तथ्य की ) जानता है वह अनुवित्तयज्ञः राध्नोति (उस अनुष्ठान से ) यज्ञ को प्राप्त कर समृद्ध हो जाता है । सा० भा०—– पुनरपि दीक्षणीयादीष्टिप्रशंसार्थं तास्विष्टिषु विद्यमानानामाहुतीनां वाचकं शब्दं निर्वक्ति— ( आहूतिशब्दनिर्वचनम् ) आहूतयो वै नामैता । यदाहुतय एताभिर्वै देवान् यजमानो ह्वयति तदाहुतीनामाहूतित्वम् ॥ ३ ॥

हिन्दी—( आहुति शब्द का निर्वचन — ) वस्तुत: आहूतयः ( दीर्घ तकारयुक्त ) आहूति ( आह्वान करना ) को आहुतयः नाम आहुति कहा जाता है। यद् एताभिः जो इन ( आहुतियों ) से यजमानः यजमान देवान् ह्वयति देवताओं को बुलाता है, तद् आहुतीनाम् आहूतित्वम् वही आहुतियों का आहूतित्व ( आहुति कहलाना) है । सा० भा ० — आहुतय इत्युकोरण ह्रस्वेनाऽऽहूतय इत्येवं दीर्घेण युक्तं द्रष्टव्यम् । ह्वयत्याभिरिति तदूव्युत्पत्तिः । जुहोतिधातोरुत्पन्नः शब्दः पूर्वं प्रसिद्धः । अयं तुतु ह्वयति- धातोरुत्पन्न इति विशेषः ॥ . इष्टीराहुतीश्च मिलित्वा प्रकारान्तरेण प्रशंसति— ( ऊतिशब्दनिर्वचनम्) ऊतयः खलु वै ता नाम याभिर्देवा यजमानस्य हवमायन्ति, ये वै पन्थानो याः स्रुतयस्ता वा ऊतयस्त उ एवैतत्स्वर्गयाणा यजमानस्य भवन्ति ॥४ ॥

हिन्दी— याभिः देवाः जिनके द्वारा देवतागण यजमानस्य यजमान के हवम् आयन्ति आह्वान को ( सुनकर आते हैं और ताः वै नाम ऊतयः वे ही ऊतियाँ कहलाती हैं । ये वै पन्थानः जो भी मार्ग हैं, और याः वै स्रुतयः जो (इस मार्ग की अवयव रूप ) आहुतियाँ हैं ताः वै ऊतयः वे दोनों ही ऊतियाँ कही गयी हैं । ते एव एतत् वे ( १ ) ' तृन्विधावृत्विक्षु चानुपसर्गस्येति वक्तव्यम्' इति पा० सू० ३.२.१३५ वा० १। ' नप्तृ- नेष्ट्रव' – इतिउणा० २५२ । ' जुहोतेत्यौर्णवाभ:' इति निरु ० ७.१५ । ( २ ) ह्वातव्य:' -इति, ' होतारं ह्रातारम्' - इति च निरु ० ४.४.५; ७.१५ ।

पृष्ठ 87

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 87 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् २५ ही ये यजमानस्य यजमान के लिए स्वर्गयाणाः भवन्ति स्वर्ग को प्राप्त कराने का मार्ग होते हैं । सा० भा०-- हूयन्ते देवा अस्मिन्निति हवोऽत्र सोमयागो याभिरिष्टिभिस्तत्र ताभि- राहुतिभिश्च निमित्तभूताभिर्देवा यजमानस्य यज्ञमागच्छन्ति ता इष्टय आहूतयश्चोतय इत्ये- तन्नाम प्रतिपद्यन्ते । खलुशब्दो वैशब्दश्च प्रसिद्ध्यर्थः । अवन्ति रक्षन्तीत्यवतेर्धतोरूतिशब्दः प्रसिद्धः । आयन्त्यागच्छन्ति याभिरित्याङ्पूर्वस्यायतिधातोर्वा वर्णविकारेणोतिशब्दः । यद्वा तस्मादेव धातोः स्वर्गप्रापकत्वाभिप्रायेण शब्दो व्युत्पाद्यते । ये केचित् पन्थान इष्टिरूपाः, स्वर्गस्य प्रौढमार्गाः सन्ति याश्च स्रुतयस्तन्मार्गावयवरूपा आहुतयः सन्ति ता द्विविधा ऊतय इत्युच्यन्ते । त उ एवैतत्त एवैते द्विविधा अपि मार्गा यजमानस्य स्वर्गयाणाः स्वर्गप्रापका भवन्ति ॥ पुनरपीष्टिप्रशंसार्थं तदङ्गभूतयोर्याज्यानुवाक्ययोर्वक्तरि प्रयुज्यमानं होतृशब्दं निर्वक्तुं ब्रह्मवादिनां प्रश्नमवतारयति— ( होतृशब्दनिर्वचनम् ) तदाहुर्यदन्यो जुहोत्यथां योऽनु चाऽऽह यजति च कस्मात् तं होतेत्याचक्षत इति ॥ ५॥

हिन्दी -( होतृ शब्द के निर्वचन के लिए ब्रह्मवादियों के प्रश्न की अवतारणा कर रहे हैं— ) तदाहुः यत् उस विषय में कुछ ब्रह्मवादी प्रश्न करने हैं कि अन्यः जुहोति ( होता से ) अन्य ( अध्वर्यु) आहुति देता है अथ तब यः च अनु आह जो अनुवाक्या पढ़ता है और जो यजति च याज्या करता है तम् उस ( अनुवाक्या और याज्या पढ़ने वाले ) को कस्मात् किस कारण से होता इति आचक्षते होता कहा जाता है । सा ० भा ० – तत्तास्विष्टिषु किञ्चिच्चोद्यमाहः । "यद्यस्मात् कारणाद्धोतुरन्योऽध्वर्यु- र्जुहोति तस्मात् तत्कारणात् तद्धातुनिष्पन्नो होतृशब्दस्तस्याध्वर्योर्युक्तः । याज्ञिकास्तु तमध्वर्युं होतेति नाऽऽचक्षते । अथ यः पुमान् अनु चाऽऽह पुरोनुवाक्यां चानुब्रूते यजति च याज्यां च पठति तं पुमांसमनुवक्तेति यष्टेति चानभिधाय कस्मात् कारणाद्धोतेत्याचक्षते । इतिशब्दः प्रश्नसमाप्त्यर्थः ॥ अभिज्ञानामभिप्रेतं प्रश्नस्यो॒त्तरं दर्शयति— यद्वाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तदेव होतुर्होतृत्वं होता भवति ॥ ६ ॥

हिन्दी— ( होता शब्द का निर्वचन करते हुए उत्तर दे रहे हैं - ) यद् वावर जो वह ( होता) तत्र वहाँ ( याग में) यथाभाजनम् यथायोग्य देवताः देवताओं को अमुम् ( १ ) ' ऊति:' निघ० ४.२.१५; 'ऊतिरवनात्' इति च निरु ० ५.१.३ । ऐ.ब्रा. पू- २

पृष्ठ 88

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 88 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ २६ ऐतरेयब्राह्मणम् १.३ प्रथमपञ्चिकायां आवह अमुम् आवह अमुक ( देवता ) को बुलाओ, अमुक ( देवता ) को बुलाओ इति यह कह कर आवाहयति बुलाता है, तदेव होतुः होतृत्वम् वही होता का होतृत्व ( होता होने. का गुण) है । अतः होता भवति ( वह ) होता ( बुलाने वाला) है । सा ० भा ० — ‘ यद्वाव' यस्मादेव कारणाद्याज्यानुवाक्योर्वक्ता स पुमांस्तत्र यागे यथा- भाजनं यथास्थानं सर्वा देवता आवाहयति- अमुमग्निमावह, अमुं सोममावहेति तदेव तस्मादेव कारणाद्याज्ञिकप्रसिद्धस्य होतुस्तन्नाम सम्पन्नम् । अत्र ण्यन्तस्य वहधातोश्छान्दस्या प्रक्रियया होतृशब्दनिष्पत्तिर्न तु जुहोतिधातोस्तस्माद्धोकर्तृत्वाभावेऽप्यावाहयितृत्वसद्भावा- द्धोतृत्वमुपपन्नमित्ययं याज्यानुवाक्ययोर्वक्ताऽपि होता भवत्येव ॥ होतृत्ववेदनं प्रशंसति— होतेत्येनमाचक्षते य एवं वेद ॥७ ॥

हिन्दी – (होतृत्व के वेदन की प्रशंसा करते हैं- ) य एवं वेद जो इस प्रकार ( होतृत्व को जानता है एनम् इस (जानने वाले ) को होता इति आचक्षते होता कहा जाता है । सा० भा०-- याज्ञिका एनं वेदितारं होतारं मुख्यो होतेति कथयन्ति । हौत्रे कर्मणि कुशलो भवतीत्यर्थः ॥ ’ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण- भाष्यस्य प्रथमाध्याये द्वितीयः खण्डः ॥२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय के द्वितीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा० भा०-— इत्थमिष्ट्याहूत्यूतिहोतृशब्दानां निर्वचनेन दीक्षणीयेष्टिं प्रशस्य तयेष्ट्या दीक्षितस्य संस्कारविशेषान् विधातुं प्रस्तौति— ( दीक्षितस्य संस्कारविधानम् ) पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति ॥ १॥

हिन्दी — ( दीक्षणीयेष्टि इत्यादि द्वारा दीक्षित के संस्कार- विशेष को कह रहे हैं - ) ( १ ) "अग्निमग्न आवह । सोममावह । अग्निमावह " इत्यादयः तै ०ब्रा ० ३.५ ३-२ । ( २ ) ' तस्य धर्म्यम्' 'अण् महिष्यादिभ्यः ' इति पा ० सू० ४.४.४७, ४८ ।

पृष्ठ 89

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 89 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् २७ यं दीक्षयन्ति जिस ( यजमान ) को (ऋत्विक् ) दीक्षित करते हैं । एतम् इस ( यजमान) को ऋत्विजः पुनर्वै गर्भं कुर्वन्ति ऋत्विक् लोग मानो पुनः गर्भ में धारण करते हैं ( अर्थात् गर्भ स्थानीय शिशु के समान उसकी रक्षा करते हैं ) ॥ सा ० भा ० — यं यजमानं दीक्षणीयेष्ट्या दीक्षितं कुर्वन्ति तं यजमानं पुरा मातापितरौ कञ्चित् कालं गर्भं कृतवन्तौ पुनरप्येनमिदानीमृत्विजो यज्ञकाले गर्भं कुर्वन्ति गर्भवदसौ संस्कारैः पालनीय इत्यर्थः ॥ एकं संस्कारं विधत्ते— ( अद्भिरभिषेचनसंस्कारः ) अद्भिरभिषिञ्चन्ति ॥ २ ॥

हिन्दी - ( अब संस्कार को कह रहे हैं । उनमें से प्रथम संस्कार में जल से अभि- षिञ्चन ~~~~) अद्भिः अभिषिञ्चन्ति जलों से अभिषिञ्चन करते हैं ॥ सा० भा ० — अप्सु स्नपयन्तीत्यर्थः । एतदेवाभिप्रेत्य तैत्तिरीया यृजमानस्य वपनादूर्ध्वं स्नानमामनन्ति – ‘ अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी ' प्रावेशयन् । अप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे' इति । यजमानस्य स्नानकर्तृत्वेऽपि ऋत्विजां स्नापयि- तृत्वमभिप्रेत्याभिषिञ्चन्तीत्युक्तम् ॥ उक्तानामपां प्रशंसामाह- अपां प्रशंसनम् ) रेतो वा आपः सरेतसमेवैनं तत्कृत्वा दीक्षयन्तिं ॥ ३ ॥

हिन्दी - (जल की प्रशंसा- ) रेतः वै आपः जल वीर्यरूप है तत् उस ( अभिषेक ) से एनम् इस ( यजमान) को सरेतसं कृत्वा वीर्य- सम्पन्न बनाकर दीक्षयन्ति दीक्षित करते हैं!! सा० भा ० — कार्यकारणयोरभेदादपां रेतस्त्वं वैराजदेहगताद्रेतस आप उत्पन्नाः । तथा चाऽऽरण्यके सृष्टिप्रकरणे समाम्नायते— 'शिश्नाद्रेतो रेतस आप: ' इति । यद्वा, मनुष्यादि- शरीरगतं रेतोमूत्रादिकमपां कार्यम् । तच्च गर्भोपनिषद्याम्नातम्— ' अस्मिन् पञ्चात्मकें शरीरे यत्कठिनं सा पृथिवी यद् द्रवं तदापः ' इति । तत्तेनाभिषेचनेनैनं यजमानं सरेतसं पुत्रोत्पादन- समर्थं कृत्वा संस्कुर्वन्ति ॥ ( १ ) ' मुण्डनादिसंस्कारो दीक्षा, आहारादिनियमस्तपः, अप्सु स्नानेन तदुभयमव्यवधानेन प्राप्नोति- इति च तद्भाष्यं सायणीयम्। ( २ ) तै ० सं० ६.१.१ २ । ( ३ ) ऐ ० आ ० २.४.१.६ ।

पृष्ठ 90

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 90 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [२८ ऐतरेयब्राह्मणम् १.३ प्रथमपञ्चिकायां संस्कारान्तरं विधते— ( नवनीतेनाभ्यञ्जनसंस्कारः ) नवनीतेनाभ्याञ्जन्ति ॥४ ॥

हिन्दी —(द्वितीय संस्कार नवनीत से अभ्यञ्जन— ) नवनीतेन अभ्यञ्जयन्ति नवनीत से अभ्यञ्जन ( सम्पूर्ण शरीर में लेपन ) करते हैं । सा० भा ० — सर्वस्मिन्नपि शरीरेऽनुलेपयन्तीत्यर्थः ॥. नवनीतस्य गर्भस्थानीययजमानयोग्यतां दर्शयति— आज्यं वै देवानां, सुरभि घृतं मनुष्याणाम्, आयुतं पितॄणां, नवनीतं गर्भाणां तद्यन्नवनीतेनाभ्यञ्जन्ति स्वेनैवैनं तद् भागधेयेन समर्थ- यन्ति ॥५ ॥

हिन्दी - आज्यं वै देवानाम् आज्य ( पिघला घृत ) देवताओं के लिए, सुरभि घृतं मनुष्याणाम् सुरभि घृत (जमा हुआ घृत ) मनुष्यों के लिए, आयुतं पितॄणाम् आयुत ( आधा पिघला ) घी पितरों के लिए और नवनीतं गर्भाणाम् नवनीत (ताजा मक्खन) गर्भस्थ शिशु के लिए होता है । तद् यत् तो जो नवनीतेन अभ्यञ्चन्ति नवनीत से अनुलेपन करते हैं, इससे एनम् इस ( यजमान ) को स्वेन एव भागधेयेन उसके ही भाग से समर्धयन्ति समृद्ध करते हैं ॥ सा० भा० -आज्यघृतयोर्भेदः पूर्वाचार्यैरुदाहृतः – “ सर्पिविलीनमाज्यं स्याद् पनी- भूतं घृतं विदुः ” ” इति । ईषद्विलीनमायुतं सुरभि योग्यं प्रियमित्यर्थः । घृतायुतनवनीतेष्वप्येत- त्पदमनुवर्तते । ननु तैत्तिरीया घृतस्य देवप्रियत्वमामनन्ति— ' घृतं देवानामस्तु पितॄणां निष्पक्वं मनुष्याणाम्' ' इति । ईषद्विलीनं मस्तु । निःशेषेण विलीनं निष्पक्वम् । नायं दोष उभयत्र नवनीतप्रशंसारूपार्थवादत्वेन घृताज्ययोर्व्यत्ययेन पाठेऽपि विरोधाभावात् । तथा सति नवनीतस्य गर्भयोग्यत्वे सति यदि नवनीतेनाभ्यङ्गं कुर्युस्तदानीमेनं यजमानं स्वोचितेनेव भागेन समृद्धं कुर्वन्ति ॥ नेत्रयोरञ्जनेन संस्कारं विधते— ( नेत्रयोरञ्जनसंस्कारः ) आञ्जन्त्येनम् ॥६ ॥

( १ ) 'विलीनार्धमायुतं तु नवनीतो यतो घृतम्' इत्याहुः । ( २ ) सं ० ६.१.१.४ । ( ३ ) नवनीतस्य पाकजन्यस्तिस्रोऽवस्था:;-पक्वम्, ईषत्पक्वम्, निःशेषपक्वं च। द्रव्यन्तर- प्रक्षेपेण सुरभि निःशेषपक्वम् । अत एव बहृचाः पठन्ति- 'आज्यं वै देवानाम्' इति तै० ब्रा० १.१.३ इति तत्रैव सा० भा० ।