ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 721–730
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 721–730
पृष्ठ 721
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ६५ ९ • रण्यानि' जनशून्यानि भवन्ति । तथा ह' तादृशेन संभाविताङ्गवैकल्ययुक्तेनानुष्ठानेन यज- मानः ‘ प्रमायुको भवति’ अपमृत्युना म्रियत इत्यर्थः ॥ विपक्षे बाधकमुक्त्वा स्वपक्षं निगमयति- तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातः सवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति ॥ ४ ॥
हिन्दी—( अब अपने पक्ष को कह रहे हैं— ) तेन इसी कारण असंत्वरमाणाः सञ्चरेयुः शीघ्रता न करते हुए ( सम्पादन ) करना चाहिए। यथा प्रातःसवने जैसे प्रातः सवन में करें एवं माध्यन्दिने इसी प्रकार माध्यन्दिनसवन में और एवं तृतीयसवने उसी प्रकार तृतीयसवन में करना चाहिए। एवमु यजमानः इस प्रकार यजन करने वाला अप्रमायुकः भवति अपमृत्यु का भागी नहीं होता । अथ त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरं ध्वन्याधिक्यं विधत्ते— ( त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरध्वन्याधिक्यविधानम् ) स एतमेव शस्त्रेणानु पर्यावर्त्तेत; यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति, तस्मान्मन्द्रया वाचा प्रातः सवने शंसेद्, अथ यथाऽभ्येत्यथ बलीयस्तपति, तस्माद् बलीयस्या वाचा मध्यंदिने शंसेद्, अथ यदाभितरामेत्यथ बलिष्ठतमं तपति तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेद्, एवं शंसेद् यदि वाच ईशीत; वाग्घि शस्त्रं; यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय, तया प्रतिपद्येतैतत्सुश- स्ततममिव भवति ॥ ५ ॥
1.हिन्दी- ( अब तीनों सवनों में शस्त्र के शंसन में क्रमश ध्वनि की अधिकता को दिखला रहे हैं— ) सः वह होता एतमेव अनु इस ( सूर्य) का अनुसरण करते हुए शस्त्रेण पर्यावर्तेत (क्रमशः आदित्य के उत्तरोत्तर तपने के अनुसार) ध्वनि की अधिकता को बढ़ाते हुए शस्त्र से शंसन करे । यदा वै एषः प्रातः उदेति जब यह सूर्य प्रातःकाल उगता है अथ मन्द्रं तपति तब मन्द्ररूप से तपता है। तस्मात् इसी कारण प्रातः सवने प्रात: सवन में मन्द्रया वाचा शंसेत् मन्द ध्वनि से शंसन करे। अथ यथा अभ्येति इसके बाद जैसे ही मध्याह्नकाल की ओर जाता है अथ बलीयः तपति तब तीव्र रूप से तपता है तस्मात् इसी कारण मध्यन्दिने माध्यन्दिनसवन में बलीयसा वाचा शंसेत् ऊँची ध्वनि ने शंसन • करे। अथ इसके बाद यदा अभितरामेति पश्चिमाभिमुख मनुष्यों के सम्मुख आता है अथ बलिष्टतमं तपति तब अत्यधिक उग्र रूप से तपता है तस्मात् इसी कारण तृतीयसवने तृतीयसवन में बलिष्टतमया वाचा शंसेत् अत्याधिक ऊँची ध्वनि में शंसन करे । यदि
पृष्ठ 722
पाठ पढ़ें पाठ छिपाएँ
: [ ६६० ऐतरेयब्राह्मणम् १४.६ तृतीयपञ्चिकायां वाचः ईशीतः यदि (होता का) वाणी पर अधिकार हो तो एवं शंसेत् (जिस ध्वनि से तृतीयसवन का प्रारम्भ करता है ) उसी प्रकार ( वाली ध्वनि ) से ( सभी सवनों में) शंसन करे क्योंकि वाग् हि शस्त्रम् वाणी ही शस्त्र है अतः उत्तरोत्तरिष्या उत्तरोत्तर बढ़ाते हुए यया तु वाचा जिस वाणी से समापनाय उत्सहेत् समापन के लिए समर्थ होवे, तया एव प्रतिपद्येत् उसी ( ध्वनि ) से ही प्रारम्भ करना चाहिए । एतत् सुसस्ततमम् इव भवति यह ( शस्त्र का शंसन) अत्यधिक प्रशंसनीय होता है । सा० भा० I-'सः ' होता 'एतमेव ' आदित्यमनुसृत्य ' शस्त्रेण पर्यावर्त्तेत' यथा यथा- दित्य उत्तरोत्तराधिक्येन तपति तथा तथैवोत्तरोत्तरध्वन्याधिक्येन होता शंसेत्। 'यदा वै’ इत्यादिना तदेव स्पष्टीक्रियते । यस्मिन्नेव काल 'एष: ' आदित्यः प्रातरुदेति' प्रातः- कालमभिव्यञ्जयितुमुदितो भवति, ' अथ' तदानीं ' मन्द्रम्' अल्पं यथा भवति तथा तपति; तस्मादादित्यमनुवर्तमानो होता प्रातःसवने ' मन्द्रमया' स्वल्पध्वन्युपेतया वाचा शंसेत्। ' अथ ’ प्रातःकालादूर्ध्वं सूर्यो ‘ यदाऽभ्येति' मध्याह्नकालं निष्पादयितुमाभिमुख्येनोर्ध्व गच्छति, ' अथ’ तदानीं सूर्यो ‘ बलीयः ’ प्रबलं यथा भवति तथा तपति, तस्माद्धोताऽपि ' बलीयस्या ’ प्रबलध्वनियुक्तया वाचा माध्यंदिने सवने शंसेत्। ' अथ ' मध्याह्नादूर्ध्वं यदा सूर्यः ' अभितरामेति' पश्चिमाभिमुखानां पुरुषाणामत्यन्तमाभिमुख्येन गच्छति, ' अथ' इदानीमादित्यो 'बलिष्ठतमं तपति' मध्याह्नतापाद् अपि अत्यन्तप्रवलस्तापो भवति; भूमौ दिक्षु चोष्णत्वबाहुल्यात्। तस्मात् तदानीं होता माध्यंदिनसबनध्वनेरप्यधिकध्वनियुक्तया वाचा तृतीयसवने शंसेत् । यद्ययं होता वाचः ‘ ईशीत' ईश्वरो भवेत् तस्य वाक् यदि श्लेष्मादिदोषेण ध्वनेर्मान्द्यं न प्राप्नुयात्, तदानीं येन ध्वनिना तृतीयसवने प्रारम्भः कृतः, एवं' तेनैव ध्वनिना शंसेत्। किमर्थ ध्वन्याधिक्यमिति? तदुच्येत- यस्माद् ' वागेव शस्त्रं' वाङ्निष्पाद्यत्वात् तस्माद् ‘ यया तु’ यादृशध्वनियुक्तयैव वाचा ' उत्तरोत्तरिण्या ' उत्तरोत्तराभिवृद्धिभाजा ‘ समापनायो-त्सहेत' शस्त्रं समापयितुमुत्साहवान् भवेत् । ' तया ' तथाविधध्वन्युपेतया वाचा शस्त्रं 'प्रति-पद्यते ' प्रारभेत, – न तु श्रान्त्या नीचध्वनिर्भवेत् । तदेतदुक्तलक्षणोपेतं शस्त्रं ‘ सुशस्ततममिव भवति' श्रुतिवैकल्यराहित्यन्तं शस्तमेव भवति॥ ननु तृतीयसवने त्वरामन्तरेण शनैः शंसेदिति पूर्वत्रोक्तं, तथा सति कालस्याल्पत्वने समापनात्प्रागेव सूर्योऽस्तमियात्? इत्याशङ्क्य वस्तुतोऽस्तमयाभावान्नास्ति दोष इत्यभि-प्रेत्याह— स वा एष न कदाचनास्तमेति नोदेति ॥ ६ ॥
हिन्दी-सः वा एषः वह यह ( सूर्य ) न कदाचन अस्तम् एति न तो कभी अस्त होता है और न उदेति न उगता ही है ( अतः तृतीयसवन में सूर्य के अस्त होने की शंका से शीघ्रता नहीं करना चाहिए ।
पृष्ठ 723
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ६६१ सा० भा ० – ‘ अस्तमयः' सूर्यस्वरूपनाशः, 'उदयः '. सूर्योत्पत्तिः; न हि सूर्यस्य कदाचिदपि स्वरूपनाशोत्पत्ती विद्येते॥ कथं तर्हि जनानां सूर्यास्तमयव्यवहारः? इत्याशङ्क्याह— तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाथात्मानं विपर्यस्यते, - रात्रीमेवावस्तात् कुरुतेऽहः परस्तात् ॥७ ॥
हिन्दी- तम् उस ( सूर्य ) को यद् अस्तम् एति जो अस्त हो रहा है— इति मन्यन्ते ऐसा लोग मानते हैं तद् अह्वे एव अन्तम् इत्वा तो दिन में ही (अपने को समाप्त करके अथ आत्मानं विपर्यस्यते तब अपने को विपर्यस्त करते हैं। इस प्रकार अवस्थाद् रात्रीम् एव कुरुते अतीत देश में रात्रि करते हैं और परस्तात् अहः आने वाले देश में दिन करते हैं । सा ० भा ० – ‘ यद्’ यदा प्राणिनः सूर्योदयादूर्ध्वं यामचतुष्टयानन्तरं सूर्योऽस्तमेतीति ‘ तं ' सूर्यमस्तमितं मन्यन्ते, 'तत्' तदानीं सूर्यस्तत्प्राणियुक्ते देशे प्रकाशरूपस्याह्न एव 'अन्तमित्वा समाप्तिं प्राप्य ' अथ' अनन्तरं स्वात्मानं विपर्यस्यते' विपर्यस्तं करोति। कथं विपर्यास इति? तदुच्यते—' अवस्ताद्' अतीते देशे रात्रिमेव कुरुते, ' परस्तात्' आगामिनि देशेऽहः कुरुते । अयमर्थः – मेरोः प्रदक्षिणं कुर्वन्नादित्यो यद्देशवासिनां प्राणिनां दृष्टिपथमा- गच्छति, तद्देशवासिभिरयमुदेतीति व्यवह्नियते। यद्देशवासिनां प्राणिनां दृष्टिपथमागच्छति, तद्देशवासिभिरयमुदेतीति व्यवह्नियते । यद्देशवासिनां दृष्टिपथमतिक्रम्य सूर्ये गते सति सूर्योऽस्तमेतीति तद्देशवासिभिर्व्यवह्नियते । अतः तस्मिन् देशे रात्रिर्भवति। आदित्येन गन्तव्ये देशान्तरे तद्देशवासिभिः प्राणिभिः सूर्यस्य दृष्टत्वाद् अहर्भवति। एवं च सति सूर्यस्य विनाशरूपोऽस्तमयः कदाचिदपि नास्तीति सिद्धम्। अनेनैव न्यायेन सूर्यस्य स्वरूपोत्पत्तिलक्षणोदयाभावं दर्शयति— अथ यदेनं प्रातरुदेतीति मन्यन्ते, रात्रेरेव तदन्तमित्वाथात्मानं विप- र्यस्यतेऽहरेवावस्तात् कुरुते रात्रिं परस्तात् ॥ ८ ॥
हिन्दी— ( इस न्याय के अनुसार सूर्य के स्वरूप की उत्पत्ति रूप उदित होने के अभाव को दिखला रहे हैं - ) अथ एनं प्रातः उदेति तो जो इस सूर्य को प्रातः काल उगता है— इति मन्यन्ते ऐसा मानते हैं तद् रात्रेः एव अन्तम् इत्वा वह रात्रि को ही समाप्त करके अथ आत्मानं विपर्यस्यते तब अपने को विपर्यस्त करता है। अवस्तात् अहः एव कुरुते इस प्रकार वह (सूर्य) व्यतीत प्रदेश में दिन ही करते हैं और परस्तात् रात्रिम् अपने ( १ ) ‘ अह्नो दिनार्हत्रिंशन्नाडिकाख्यस्य कालस्यान्ते समाप्तौ। कित्त्वादगुणः । इत्वा गत्वा’ - इति षड्गुरुशिष्यः ।
पृष्ठ 724
पाठ पढ़ें पाठ छिपाएँ
: [६६२ ऐतरेयब्राह्मणम् १४.६ तृतीयपञ्चिकायां
आने वाले प्रदेश में रात्रि कुरुते करते हैं ।
सा० भा०-–पूर्ववद् व्याख्येयम्॥
परमार्थतोऽस्तमयस्याभावं निगमयति- स वा एष न कदाचन निम्रोचति ॥९ ॥
हिन्दी— ( परमार्थ रूप से अस्तमय स्वभाव का निगमन कर रहे हैं — ) सः वै एषः
वह यह ( सूर्य ) कदाचन कभी भी न निम्रोचति अस्त नहीं होता है ।
सा ० भा० — निम्रोचनमस्तमयः । एतस्योपलक्षणत्वान्न कदाचिदुदेतीत्यपि द्रष्टव्यम्॥
वेदनं प्रशंसति— न ह वै कदाचन निम्रोचत्येतस्य ह सयुज्यं सरूपतां सलोकतामश्नुते य एवं वेद, य एवं वेद ॥१० ॥
हिन्दी- ( इस ज्ञान की प्रशंसा कर रहे हैं - ) वह ( सूर्य) कदाचन कभी भी न निम्रोचति अस्त नहीं होता, यः एवं वेद जो इस प्रकार जानता है, वह एतस्य इस सूर्य के सायुज्यं सरूपतां सलोकताम् सहवास, समानरूप और समान लोक को अश्नुते प्राप्त करता है। सा ० भा ० — वेदितुरस्तमयाभावो नामापमृत्युराहित्यम्, इह जन्मनि तादृशो भूत्वा पश्चादेतस्यादित्यस्य सहवास- समानरूपत्व - समानलोकत्वानि प्राप्नोति। न च सहवासेनैव समानलोकत्वं सिध्यतीति वाच्यम् । कदाचिदपि स्वेच्छया पृथगवस्थानेऽपि तल्लोकभ्रंशो
नास्तीति विवक्षया समानलोकत्वमुच्यते । अभ्यासोऽध्यायसमाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः चतुर्थाध्याये ( चतुर्दशाध्याये ) षष्ठः खण्डः ॥ ६ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्दश अध्याय के षष्ठ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ || इतिं श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश' -नामभाष्ये ऐतरेयब्राह्मणस्य तृतीयपञ्चिकायाः चतुर्थोऽध्यायः (चतुर्दशोऽध्यायः ) समाप्त ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्दश अध्याय की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 725
पाठ पढ़ें पाठ छिपाएँ
अथ तृतीयपञ्चिकायाम् पञ्चमोऽध्यायः [ अथ पञ्चदशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— अग्निष्टोमः सर्वयज्ञक्रतूनां योनित्वेनास्तूयत प्राक्परश्च ।
देवैः स्तोमैः संस्तुतो यञ्चतुर्भिर्वाचां मन्दैर्मध्यमैरुत्तमैश्च ॥१ ॥
अथेष्टिसंस्थादिकं वक्तव्यम्; तत्र दीक्षणीयेष्टेः संस्थामाख्यायिकया दर्शयति— ( इष्टिसंस्थादिकथनम् ) ( तत्र दीक्षणीयेष्टेः संस्थाया आख्यायिका ) यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्, ते देवा अब्रुवन् - यज्ञो वै नोऽ- न्नाद्यमुदक्रमीदन्विमं यज्ञमन्नमन्विच्छामेति; तेऽब्रुवन्- कथमन्वि- च्छामेति; ब्राह्मणेन च च्छन्दोभिश्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयं- स्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्हि दीक्षणी- यायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति, तमनुन्याय- मन्ववायन् ॥ १ ॥
हिन्दी – ( अब इष्टिसंस्था इत्यादि को कहने के लिए दीक्षणीया इष्टि की संस्था के विषय में आख्यायिका को दिखला रहे हैं - ) अन्नाद्यं यज्ञः देवेभ्यः उदक्रामत् अन्नाद्यरूप यज्ञ देवताओं से (किसी कारण ) अपरक्त होकर निकल गया। ते देवाः अब्रुवन् उन देवताओं ने परस्पर कहा कि अन्नाद्यं यज्ञः नः उदक्रमीत् अन्नाद्यरूप में यज्ञ हम लोगों से निकलकर चला गया है, इमम् अन्नं यज्ञम् अन्विच्छाम हम लोग इस अन्नरूप यज्ञ का अन्वेषण करें किन्तु ते अब्रुवन् उन देवताओं ने कहा कि कथम् अन्विच्छाम हम लोग किस प्रकार खोजेगे? पुनः अब्रुवन् उन्होंने (निर्णय करके ) कहा कि ब्राह्मणेन छन्दोभिः च (ऋत्विक् और यजमान रूप) ब्राह्मण और छन्दों द्वारा (उनको खोजें) । तब ते उन (देवताओं) ने ब्राह्मणं छन्दोभिः दीक्षयन् ब्राह्मण को छन्दों ( दीक्षणीयेष्टि) द्वारा दीक्षित (संस्कृत ) किया । यजमानरूप तस्य यज्ञम् उस (यजमान ब्राह्मण) के (दीक्षणी-येष्टिरूप) यज्ञ को अन्तम् अतन्वत समाप्तिपर्यन्त (उन देवताओं ने ) सम्पादित किया अथ पत्नीः समयाजयन् और पत्नीयसंयाजा को भी सम्पादित किया। तस्माद् ह इस ( देवताओं
पृष्ठ 726
पाठ पढ़ें पाठ छिपाएँ
: [६६४ ऐतरेयब्राह्मणम् १५.१ तृतीयपञ्चिकायां द्वारा किये जाने ) के कारण एतर्हि दीक्षणीयायाम् इष्टौ अपि इस दीक्षणीयेष्टि में भी यज्ञम् यज्ञ को अन्तमेव तन्वते समाप्ति-पर्यन्त ही सम्पादित किया जाता है, अपि पत्नीः संयाजयन्ति पत्नी संयाजको को करते हैं । तम् अनु न्यायम् उस ( देवताओं ) के नियम का अनुसरण करते हुए अन्ववायन् ( मनुष्यों ने भी ) बाद में ( उसका ) सम्पादन किया है । सा० भा ० — पुरा कदाचिद् ‘ यज्ञः ' ज्योतिष्टोमाख्यः केनापि निमित्तेनापरक्तः सन् ‘देवेभ्यः ’ सकाशाद् ‘उदक्रामन्' निष्क्रान्तवान्। तस्मिन्नुत्क्रान्ते तत्फलरूपम् ‘ अन्नाद्यम्’ अप्युदक्रामत्। ततो देवाः परस्परमिदमब्रुवन्—– यदेतदुभयमस्मदीयमुदक्रामीत् तदेतदुभयं सर्वत्र ‘ अन्विच्छाम’ अन्वेषणं करवाम। तत्र कथमन्वेषणमित्युपायं विचार्य, ब्राह्मण-मृत्विग्यजमानरूपं, गायत्र्यादिच्छन्दांसि च तदन्वेषणोपायत्वेन निश्चित्य, तैश्छन्दोभिः 'ब्रा- ह्मणां’ यजमानम् ‘ अदीक्षयन्' दीक्षणीयेष्ट्या संस्कृतवन्तः । ' तस्य' ब्राह्मणस्य ‘ यज्ञं’ दीक्षणीयेष्टिरूपम् ‘ अन्तं’ समाप्तिपर्यन्तम् ' अतन्वत' विस्तारितवन्तः । तं यज्ञमनुष्ठाय ‘ पत्नी: ’ तन्नामिका देवता अपि' ' समयाजयन्' पत्नीसंयाजानुष्ठानमपि कृतवन्त इत्यर्थः । यस्मादेवं देवैः कृतम्, तस्मादेव कारणादिदानीमपि दीक्षणीयायामिष्टौ चोदकप्राप्तं यज्ञं समाप्तिपर्यन्तमनुतिष्ठन्ति। पत्नीसंयाजानप्यनु तिष्ठन्ति। उत्तरकालीनाङ्गव्यावृत्तये पत्नीसंयाजग्रहणम्। पत्नीसंयाजैरेव समाप्तिरित्यभिप्रेत्य ‘ अन्तम्' इत्युक्तम्। ‘तं’ देवैः कृतम् ‘ अनुन्यायम्' अनुक्रमगतमनुष्ठानम्, ' अनु' पश्चान्मनुष्या अपि ' अन्ववायन्' अवगतवन्तः, अनुष्ठितवन्त इत्यर्थः । ‘ तमनुन्यायम्' - इति वाक्यमुत्तरशेषत्वेन वा योज्यम्॥ दीक्षणीयेष्टेः पत्नीसंयाजेषु समाप्तिं दर्शयित्वा प्रायणीयेष्टेः शंयुवाके समाप्तिं दर्शयति— ( प्रायणीयेष्टेः शंयुवाकेन समाप्तिकथनम् ) ते प्रायणीयमतन्वत, तं प्रायणीयेन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त, तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति, तमनुन्यायमन्ववायन् ॥२ ॥
हिन्दी – ( दीक्षणीयेष्टि की पत्नी संयाजों में समाप्ति दिखला कर प्रायणीयेष्टि का शंयुवाक् में समाप्ति दिखला रहे हैं— ) ते प्रायणीयम् अतन्वत उन (देवताओं ) ने प्रायणीय इष्टि का विस्तार किया तथा प्रायणीयेन प्रायणीयेष्टि द्वारा तं नेदीयः अन्वागच्छन् उस ( अग्निष्टोमरूप यज्ञ) की समीपता को प्राप्त किया ( अर्थात् व्यवधानरहित प्रायणीयेष्टि का सम्पादन किया ) । ते उन (देवताओं ) ने कर्मभिः (प्रायणीयेष्टि के अङ्गभूत ) कर्मों के द्वारा समत्वरन्त शीघ्रता किया तथा तत् शंयु अन्तम् अकुर्वन् उसको शंयुवाक् पर्यन्त समापन किया। तस्मात् इसी ( देवताओं द्वारा किये जाने ) के कारण एतर्हि इस समय भी प्रायणीयं शंय्वन्तमेव भवति प्रायणीयेष्टि शंयुपर्यन्त किया जाता है। तम् अनुन्यायम् ( १ ) निरु० १२.४.१०,११ । निघ ० ५.६.३१ ।
पृष्ठ 727
पाठ पढ़ें पाठ छिपाएँ
]:पञ्चमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६६५ उस ( देवताओं के ) नियम के अनुसार अन्ववायन् ( मनुष्यों ने भी ) उसका सम्पादन किया । सा ० भा० - ' ते' देवाः प्रायणीयाख्यं कर्मानुष्ठितवन्तः । ‘प्रायणीयेन ' कर्मणा ‘तं ’ पूर्वोक्तं दीक्षणीयेष्टिरूपं ज्योतिष्टोमरूपं वा यज्ञं 'नेदीयः' अत्यन्तसमीपे यथा भवति तथैव ‘ अन्वगच्छन्’ अनुष्ठितवन्तः । दीक्षणीयेष्टेरूर्ध्वं चिरं व्यवधानमकृत्वा प्रायणीयमनुष्ठित-वन्त इत्यर्थः । ‘ ते’ देवाः ‘कर्मभिः ’ प्रायणीयेष्टेरूपैः ‘ समत्वरन्त' सम्यक् त्वरां कृतवन्तः । दीक्षणीयेष्टिवत् पत्नीसंयाजपर्यन्तं नान्वतिष्ठन्, किंतु त्वरां कृत्वा पत्नीसंयाजेभ्यः पूर्वमेव
शंयुवाकपर्यन्तं कृत्वोपरताः । तस्माद्धेत्यादि पूर्ववत्॥
अथातिथ्येष्टेरन्तं दर्शयति- ( अतिथ्येष्टेः समापनकथनम् ). त आतिथ्यमतन्वत; तमातिथ्येन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्व- रन्त; तदिळान्तमंकुर्वंस्तस्माद्धाप्येतर्ह्यातिथ्यमिळान्तमेव भवति, तम- नुन्यायमन्वन्यायन् ॥३ ॥
हिन्दी – ( अब आतिथ्येष्टि के समापन को दिखला रहे हैं - ) ते आतिथ्यम् अतन्वत उन ( देवताओं) ने आतिथ्येष्टि का विस्तार किया। आतिथ्येन तं नेदीयः अन्वागच्छन् ( उन देवताओं ने ). आतिथ्येष्टि द्वारा उस ( अग्निष्टोमरूप यज्ञ ) की समीपता को प्राप्त किया। ते कर्मभिः समत्वरन्त उन ( देवताओं ) ने ( आतिथ्येष्टि के अङ्गभूत) कर्मों द्वारा शीघ्रता किया और तद् इडान्तम् अकुर्वन् उस (आतिथ्येष्टि ) को इडापर्यन्त समापन किया। तस्मात् इसी कारण एतर्हि इस समय भी आतिथ्यम् इडान्तमेव भवति आतिथ्येष्टि इडापर्यन्त होती है। तम् अनुन्यायम् उस ( देवताओं ) के नियम के अनुसार अन्ववायन् ( मनुष्यों ने भी ) उसे सम्पादित किया । सा० भा०--अनुयाजेभ्यः पूर्वं यदिडोपाह्वानं, तदन्तमेवातिथ्येष्टिरूपं कर्म कृत्वो-परताः । अन्यत् पूर्ववद् व्याख्येयम्॥ अथोपसत्स्वनुष्ठेयं दर्शयति— ( उपसत्स्वनुष्ठेयकर्मकथनम् ) त उपसदोऽतन्वत; तमुपसद्धिर्वेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त, ते तिस्रः सामिधेनोरनूच्य तिस्रो देवता अयजंस्तस्माद्वाप्येतर्ह्यपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति, तमनुन्यायमन्व- वायन् ॥४ ॥
' हिन्दी— ( अब उपसद् में अनुष्ठेय कर्म को दिखला रहे हैं-- ) ते उपसदः अतन्वत उन ( देवताओं) ने उपसद् का सम्पादन किया । उपसद्धिः तं नेदीयः अन्वागच्छन् उपसदों ऐ.ब्रा. पू- ४२
पृष्ठ 728
पाठ पढ़ें पाठ छिपाएँ
: [ ६६६ ऐतरेयब्राह्मणम् १५.१ तृतीयपञ्चिकायां के द्वारा उस ( अग्निष्टोम रूप यज्ञ) की समीपता को प्राप्त किया । ते कर्मभिः समत्वरन्त उन ( देवताओ ) ने (उपसद् के अङ्गभूत ) कर्मों के द्वारा शीघ्रता से सम्पादन किया । ते तिस्रः सामिधेनीः अनूच्य उन ( देवताओं) ने तीन सामिधेनियों का अनुवाचन करके तित्र देवताः अयजन् तीन देवताओं ( अग्नि, सोम और विष्णु) का यजन किया । तस्मात् इस (देवताओं द्वारा किये जाने ) के कारण एतर्हि आज भी उपसत्सु उपसदों में तिस्रः एव सामिधेनीः अनूच्य तीन सामिधेनियों का अनुवाचन करके ही तिस्रः देवताः यजन्ति तीन दवेताओं का यजन करते हैं । तम् अनुन्यायम् उसी नियम के अनुसार अन्वयायन् (मनुष्यों में भी) बाद में उस ( उपसद्) को किया। सा ० भा ० — तिस्रः सामिधेन्य आश्वलायनेन दर्शिताः - ' उपसद्याय मीह्ळुष इति तिन एकैकां त्रिरनवानं ताः सामिधेन्यः १ इति । अग्निः सोमो विष्णुश्चेत्येतास्तिस्रो देवताः। स्पष्टमन्यत्॥ अथाग्नीषेमीयपशावनुष्ठेयं.दर्शयति— ( आग्नीषोमीयपशावनुष्ठेयकर्मकथनम् ) त उपवसथमतन्वत; तमुपवसथ्येऽहन्याप्नुवंस्तमाप्त्वान्तं यज्ञमतन्व- तापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्यपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति ॥ ५ ॥
हिन्दी – ( अब अग्निषोमीय पशु में सम्पादित कर्म को दिखला रहे हैं— ) ते उपवसथम् अतन्वत उन (देवताओं) ने उपवसथ ( अग्नीषोमीयपशु) का विस्तार किया । उपवसथ्ये अहनि उपवसथ्य के दिन ( सोमयाग के पूर्ववर्ती दिन) तम् आप्नुवन् उस ( यज्ञ ) को प्राप्त कर लिया। तम् आप्त्वा उस ( यज्ञ) को प्राप्त करके अन्तयज्ञम् अतन्वत समाप्तिपर्यन्त यज्ञ का अनुष्ठान किया और पत्नीः समयाजयन् पत्नीसंयाज को किया । तस्मात् ह उस (देवताओं द्वारा किये जाने ) के कारण ही एतर्हि अब भी उपवसथे ( सोमयाग के एक दिन पहले ) उपवसथ वाले दिन आन्तमेव यज्ञं तन्वते समाप्तिपर्यन्त (उपवसथ नामक ) यज्ञ का सम्पादन किया जाता है, और पत्नीः संयाजयन्ति पत्नीसंयाज को करते हैं । सा० भा ० — उपवसथशब्देन सोमयागसमीपवासितत्वात् पूर्वस्मिन्नहन्यनुष्ठेयोऽ- ग्नीषोमीयपशुर्विवक्षितः । ‘ तं’ पशुं देवा ' उपवसथ्येऽहनि' सोमयागदिंनात् पूर्वेद्युः ‘प्राप्नुवन्' प्राप्तवन्तः। प्राप्य च ‘ तं यज्ञं’ समाप्तिपर्यन्तमनुष्ठितवन्तः । पत्नीसंयाजानप्यन्वतिष्ठन्। दीक्षणीयेष्टिवत् पत्नीसंयाजान्तत्वमेव द्रष्टव्यम्। स्पष्टमन्यत्॥ उक्तास्विष्टिषु होतुरनुवचनस्य मन्द्रस्वरं विधत्ते— ( १ ) आश्व० श्री० ४.८.५, ( ६, ११ )।
पृष्ठ 729
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६६७ ( पूर्वोक्तास्विष्टिषु होतुरनुवचनस्य मन्द्रस्वरत्वविधानम् ) तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां शनैस्तरामिवानुब्रूयात् ॥ ६ ॥
हिन्दी– ( पूर्वोक्त इष्टियों में होता के अनुवाचन में मन्द्रस्वरता का विधान कर रहे हैं— ) तस्मात् उस ( अग्नीषोमीय से पहले होने वाले दीक्षणीयादि सत्रों ) के कारण एतेषु पूर्वेषु कर्मसु इन पूर्ववर्ती कर्मों में शनैस्तरां शनैस्तराम् इव अत्यन्त नीची ध्वनि के समान अनुब्रूयात् ( होता को ) अनुवाचन करना चाहिए । सा० भा ० – यस्मादग्नीषोमीयात् पूर्वभावित्वेन उपक्रमरूपा दीक्षणीयादयः, ' तस्मात्' ‘ एतेषु पूर्वेषु ' दीक्षणीयाद्युपसदन्तेषु कर्मसु ' शनैस्तरामिव' अत्यन्तनीचस्वरेणैव होताऽ- नुब्रूयात्॥ अग्नीषोमीयपशौ होतुरनुवचनध्वनेरिच्छानुसारित्वं विधत्ते— ( अग्नीषोमीयपशौ स्वेच्छयानुवाचनम्) अनूत्सारमिव हि ते तमायंस्तस्मादुपवसथे यावत्या वाचा कामयीत, तावत्याऽनुबूयादाप्तो हि सा तर्हि भवतीति ॥७ ॥
हिन्दी – ( अग्नीषोमीयपशु के विषय में होता के अनुवाचन की इच्छानुसार ध्वनि का विधान कर रहे हैं — ) ते उन ( देवताओं ) ने तम् उस ( सोमयाग) को अनुत्सारमिव उत्तरोत्तर अनुसरण करके आयन् प्राप्त किया तस्मात् इसी कारण उपवसथे उपवसथ में यावत्या वाचा कामयीत् जिस वाणी ( ध्वनि ) से इच्छा करें तावत्या अनुब्रूयात् होता उतनी ही (ऊँची ध्वनि) से अनुवाचन करे। क्योंकि तर्हि उस (अग्नीषोमीय पशु) के समय सः वह ( सोमयाग ) आप्तः भवति प्राप्त होता है । सा० भा ० — ‘ अनूत्सारम् उत्तरोत्तरभावी सार उत्सारः, तमनुसृत्यानुसृत्येति तस्यार्थः । दीक्षणीयेष्टेः सारभूता प्रायणीयेष्टिः । तदपेक्षया सोमयागस्य समीपवर्तित्वात्। एवमाति-थ्यादिषु द्रष्टव्यम्। ईदृशमुत्तरोत्तरसारमनुसृत्य ' ते' देवाः ' तं' सोमयागम् ‘ आयन्' प्राप्त-वन्तः । तस्मादत्यन्तसारे 'उपवसथे' अग्नीषोमीये पशौ होता ' यावत्या' वाचा 'कामयीत' यावन्तमुच्चध्वनिमिच्छेत्, तावता ध्वनिनाऽनुवचनं कुर्यात्। ‘ तर्हि’ तस्मिन्नग्नीषोमीयपशु-काले ‘ सः ’ सोमयागः प्राप्तो भवतीति होतुरभिप्रायः । लोकेऽप्यभीष्टे वस्तुनि बन्धौ वा चिरकालेन प्राप्ते जाते हर्षद्योतनायोच्चध्वनिना गानं कुर्वन्ति तद्वदत्रापि द्रष्टव्यम्॥ देवानां यज्ञप्राप्त्युपायमभिधाय अन्नाद्यप्राप्त्युपायं दर्शयति— ( देवानामन्नाद्यप्राप्त्युपायकथनम् ) तमाप्त्वाऽब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति; स नेत्यब्रवीत्, कथं वस्तिष्ठे- येति; तानीक्षतैव; तमब्रुवन्-ब्राह्मणेन च नश्छन्दोभिश्च सयुग् भूत्वाऽन्नाद्याय तिष्ठस्वेति; तथेति; तस्माद्धाप्येतर्हि यज्ञः सयुग्
पृष्ठ 730
पाठ पढ़ें पाठ छिपाएँ
: [ ६६८ ऐतरेयब्राह्मणम् १५.२ तृतीयपञ्चिकायां भूत्वा देवेभ्यो हव्यं वहति, ब्राह्मणेन च च्छन्दोभिश्च॥ ८ ॥
हिन्दी—( देवताओं के यज्ञ-प्राप्ति के उपाय को कहकर अब अन्नाद्य की प्राप्ति का उपाय दिखला रहे हैं— ) तम् आप्त्वा उस (ज्योतिष्टोम यज्ञ) को प्राप्त करके अब्ब्रुवन् ( देवताओं ने ) कहा कि नः अन्नाद्याय तिष्ठस्व हमारे लिए अन्न की प्राप्ति के लिए रुको। सः अब्रवीत् न इति उस ( यज्ञ) ने कहा कि नहीं। कथं वः तिष्ठेय कैसे मैं तुम लोगों के लिए रुकूँ। तान् ईक्षत एवं (वह यज्ञ) उन पर अनुग्रह दिखलाने के लिए) उन ( देवताओं) ने तम् अब्रुवन् ( यज्ञ के अभिप्राय को जानकर) उस ( यज्ञ) से कहा कि (हे यज्ञ)! नः अन्नाद्याय भूत्वा हमारे अन्न की प्राप्ति के लिए ब्राह्मणेन छन्दोभिः सयुग् (ऋत्विक् और यजमान रूप) ब्राह्मण और छन्दों के साथ स्थित होकर तिष्ठस्व रुके रहो। तथेति ( तब यज्ञ ने स्वीकार करते हुए कहा कि ) ठीक है। तस्माद् ह इसी कारण एतर्हि इस समय भी यज्ञः ब्राह्मणेन छन्दोभिः सयुग् भूत्वा यज्ञ (ब्राह्मण और छन्दों के ) साथ स्थित होकर देवेभ्यः हव्यं वहति देवताओं के लिए हवि का वहन करता है । सा ० भा ० — 'ते' देवा: ‘ तं' ज्योतिष्टोमयज्ञं प्राप्येदमब्रुवन्– हे यज्ञ, ' नः ' अस्माकम् अन्नाद्यसिद्ध्यर्थं ‘ तिष्ठस्व’ स्थिति कुर्विति । 'सः ' यज्ञस्तद्वाक्यं निराकरोत्, अन्नाद्यनिष्पांदकं ' साधनमन्तरेण ‘ वः ' युष्मदर्थं कथं स्थितः स्यामिति स्वाभिप्रायमब्रवीत्। तेष्वनुग्रहद्योतनाय ‘ तान् ’ देवान्‘ ईक्षतैव’ पश्यन्त्रेवास्ते, न तूपेक्षां कृतवान्। ततो देवा यज्ञस्याभिप्रायं ज्ञात्वा ' ते' देवास्तं 'यज्ञमिदमब्रुवन्, हे यज्ञ 'नः ' अस्मदर्थं त्वत्साधनेन ऋत्विग्यजमानरूपेण ब्राह्मणेन तत्तन्मन्त्रगतैश्छन्दोभिश्च ' सयुग् भूत्वा' सहावस्थितो भूत्वा पश्चादन्नाद्याय ‘तिष्ठस्व ' अङ्गीकुर्विति। तथा यज्ञोऽप्यङ्गीचकार । यस्मादेवं तस्माद् इदानीमपि यज्ञो ब्राह्मणमन्त्रसहितो भूत्वा देवेभ्योऽन्नाद्यरूपं हविर्वहति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः पञ्चमाध्याये ( पञ्चदशाध्याये ) प्रथम: खण्ड: ॥१ ॥। इस प्रकार ऐतरेयब्राह्मण के पञ्चदश अध्याय के प्रथम खण्ड की
'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — दीक्षणीयादिष्वग्नीषोमीयान्तेषु होतुर्ध्वनिविशेषं विधायान्ते ब्राह्मणेन-त्र्त्विजा यज्ञनिष्पत्तिरित्युक्तम्; तत्र वर्ज्यब्राह्मणविशेषं दर्शयितुं प्रस्तौति— ( १ ) ' मम' निष्पादकं' इति ऐ ० सो० मुद्रितपाठः ।