ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 731–740
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 731–740
पृष्ठ 731
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६६ ९ ( यज्ञे वर्ज्यब्राह्मणविधानम् ).. त्रीणि ह वै यज्ञे क्रियन्ते, -जग्धं गीर्णं वान्तम् ॥ १ ॥
हिन्दी –( यज्ञ में वर्जनीय ब्राह्मण के विषय में विधान कर रहे हैं - ) जग्धं गीर्णं वान्तम् जग्ध ( भोजन पात्र में अवशिष्ट भोजन को खा लेने वाला), गीर्ण ( निगल जाना) और वान्त ( वमन किये हुए भोजन को खा लेना )- त्रीणि ये तीन (कार्य) यज्ञे क्रियन्ते यज्ञ में दुर्बुद्धि वाले लोगों द्वारा किया जाता है ( अर्थात् यज्ञ में ये तीन कार्यवर्जनीय हैं ) । सा० भा० -'जग्धं भक्षितावशिष्टं भोजनपात्रे स्थितम्; ' गीर्णम्' उदरे प्रविष्टम्;। ‘ वान्तं’ सकृदुदरे प्रविश्य पुनर्निर्गतम्; तान्येतानि 'त्रीणि' दुर्बुद्धिभिर्यज्ञे क्रियन्ते; जग्धादि- स्थानीयादि त्रीणि वर्ज्यानीत्यर्थः ॥ तत्र जग्धस्थानीयं दर्शयित्वा निषेधति– ( जग्घस्थानीयब्राह्मणनिर्देशनम् ) तद्धैतदेव जग्धं - यदाशंसमानमात्र्त्विज्यं कारयत उत वा मे दद्याद् उत वा मा वृणीतेति; तद्ध तत्पराङेव यथा जग्धं, न हैव तद् यजमानं भुनक्ति ॥ २ ॥
हिन्दी – (उनमें से जग्धस्थानीय को दिखला कर उसका निषेध कर रहे हैं— ) उत वा मे दद्यात् ( यह यजमान) मुझको कुछ ( धन ) देगा अथवा उत वा मा वृणीत वह मुझ (प्रयोगाभिज्ञ) को वरण करेगा– इति यदा आर्त्विज्यम् आशंसमाना कारयत् इस प्रकार जब ऋत्विजत्व की कामना करते हुए ( अपने को स्वयं ही) समर्पित करे तो तद् एतद् एव जग्धम् वह यह जग्ध है। तद् ह तत् उस (याग) में वह ( लम्पट का ऋत्विक् होना ) पराङ् एव उसी प्रकार निकृष्ट होता है यथ जग्धम् जिस प्रकार ( लोक में ) जूठा भोजन करने वाला । तत् उस प्रकार ( वाला आर्तिजत्व) यजमानं नैव ह भुनक्ति यजन करने वाले का निश्चित रूप से पालन नहीं करता ( क्योंकि यज्ञवैकल्य- दोष वाला हो जाता है ) । सा० भा० — कश्चिद्ब्राह्मण आर्त्विज्यम् ' आशंसते' कामयते । केनाभिप्रायेणेति? तदुच्यते—— आर्त्विज्यार्थं यज्ञशालां मयि गते सति यजमानो 'मे' मह्यम् ' उत वा दद्यात्' किचिद्धनं वा प्रयच्छेत् ‘ उत वा मा वृणीत' अथवा प्रयोगाभिज्ञं मां दृष्ट्वा त्वमात्र्त्विज्यं कुर्विति वृणीते ‘ इति ’ एवं धनार्जनलम्पटः सन्ननुष्ठानतात्पर्यरहितो निरन्तरमात्र्त्विज्यं कामयते । तादृशं कामयामानं पुरुषं यजमान आत्र्त्विज्यं कारयत इति यदस्ति, तदेव 'जग्धम्' -यथा लोके ‘जग्धं ’ पात्रस्थितं भक्षितावशिष्टर्मुच्छिष्टत्वादितरैरस्पृश्यम्, तथा। ‘ तद्ध’ तस्मिन्नेव ( १ ) जग्धमास्ये तु विक्षिप्तं गीर्णं स्याज्जठरे गतम् । उदरस्यं छदितेन निष्क्रान्तं वान्तमुच्यते ॥ - इति षड्गुरुशिष्यः ।
पृष्ठ 732
पाठ पढ़ें पाठ छिपाएँ
: [.६७० ऐतरेयब्राह्मणम् १५.२ तृतीयपञ्चिकायां यागे ‘ तत्’ लम्पटस्यात्र्त्विज्यं ‘ पराङेव' निकृष्टमेव, ' तत्' तादृशमात्र्त्विज्यं यजमानं ‘ न भुनक्ति' न पालयति, यज्ञो विकलो भवतीत्यर्थः ॥ गीर्णमुदाहृत्य निषेधति— ( गीर्णस्थानीयब्राह्मणनिर्देशनम् ) अथ हैतदेव गीर्णं, - यद् बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशसं कुर्यादिति; तव्द्ध तत्पराङेव यथा गीर्णं, न हैव तद् यजमानं भुनक्ति ॥३ ॥
हिन्दी – ( अब गीर्ण को कहकर उसका निषेध कर रहे हैं - ) उत वा मा न बाधेत यह मुझे मार न डाले उत वा मे यज्ञवेशसं न कुर्यात् अथवा मेरे यज्ञ में बाधा न डाले- इति इस प्रकार विभ्यत् आर्त्विजं कारयते डरता हुआ (यजन करने वाला ज्ञान से रहित व्यक्ति को) ऋत्विक् नियुक्त करता है, एतदेव गीर्णम् यही गीर्ण है । तद् ह उस (याग ) में तत् पराङ् एव उस (ऋत्विक् का होना) उसी प्रकार निकृष्ट है यथा गीर्णम् जिस प्रकार (लोक में) गीर्ण (निगल कर खाना) है। तद् यजमानं ह नैव भुनक्ति वह (ऋत्विक्) यजमान का पालन नहीं करता है । सा ० भा ० — यजमानो यस्मिन् ग्रामे यजते, तत्र कश्चिद् ब्राह्मणे ‘ ग्रामणीः’ प्रभुर्भूत्वा प्रयोगकौशलरहितोऽवतिष्ठते । तमात्विज्ये वर्जयितुमयं यजमानो बिभेति। केनाभिप्रायेणेति? तदुच्यते— अयमंत्र प्रभुर्मयि द्वेषं कृत्वा कालान्तरे मां बाधेत । अथवेदानीमेव 'यज्ञवेशसं ’ यज्ञविघातं कुर्यात्। तदुभयं मा भूदित्यनेनाभिप्रायेण तस्माद्भीतिं प्राप्नुवन्नात्र्त्विज्यं तेन प्रभुणा कारयत इति यदस्ति, तदेतद् ' गीर्णम्' – यथा लोके ' गीर्णम्' उदरस्थं पुनर्भोगयोग्यं न भवति, तथा। ‘ तद्ध’ तस्मिन् यागे तद् गीर्णं भीतिमात्रप्रयुक्तमात्र्त्विज्यं ‘ पराङेव’ निकृष्टमेव। ‘ तत्’ तादृशं प्रयोगकौशलरहितेन प्रभुणा कृतमात्र्त्विज्यं यजमानं न पालयति॥ वान्तं दर्शयित्वा निषेधति— ( वान्तस्थानीयब्राह्मणनिर्देशनम् ) अथ हैतदेव वान्तं, - यदभिशस्यमानमार्त्विज्यं कारयते; यथा ह वा इदं वान्तान् मनुष्या बीभत्सन्त, एवं तस्माद् देवास्तद्ध तत्पराङेव यथा वान्तं, न हैव तद् यजमानं भुनक्ति ॥४ ॥
हिन्दी– ( अब वान्त को दिखला कर उसका निषेध कर रहे हैं— ) यद् अभिशस्यमानम् आर्त्विजं कारयते जो ( प्रयोग में कुशल किन्तु किसी पापाचरण से निन्दित ) अभिशस्त हुए को ऋत्विक् नियुक्त करता है तो एतदेव वान्तम् यह वान्त है। यथा ह वै जिस प्रकार वान्ताद् मनुष्याः बीभत्सन्ते वमन से मनुष्य लोग घृणा करते हैं एवं तस्माद् देवाः उसी
पृष्ठ 733
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६७१ प्रकार उस (ऋत्विक्) से देवता लोग घृणा करते हैं। तद् ह उस ( याग) में तत् पराङ् एव उस (ऋत्विक् का होना ) उसी प्रकार निकृष्ट है यथा वान्तम्जिस प्रकार वान्त (वमन किये गये को पुनः खाना है) । तद् यजमानं न ह एव भुनक्ति वह (ऋत्विक्) यजन करने वाले का पालन नहीं करता है। सा ० भा ० — कश्चित्पुरुषः प्रयोगकुशलोऽपि केनचित्पातित्यापवादेन सर्वैर्निन्द्यते, ता- दृशम् ‘ अभिशस्यमानं’ यजमानः स्वकीयबन्धुत्वादिदाक्षिण्याभिमानेनापवादपरिहारार्थमा- त्र्त्विज्यं कारयत इति यदस्ति, तदेतद् 'वान्तम्' । तत्रेदं निदर्शनमुच्यते-ते—यथा लोके मनुष्यः ‘ वान्ताद्’” ‘ बीभत्सन्ते ’ वान्तं दृष्ट्वा कश्मलमेतदिति निष्ठीवनं कुर्युः, एवं देवाः ' तस्माद्'. अभिशस्यमानकृतार्त्विज्यात् सर्वे बीभत्सन्ते। ततो यथा लोके ‘वान्तम्' अतिनिकृष्टं तथा
तस्मिन् यज्ञे तदात्र्त्विज्यं निकृष्टम्। तच्च यजमानं सर्वथा न पालयति॥
वर्ज्यत्वेनोक्तं त्रिविधमुपसंहरति— स एतेषां त्रयाणामाशां नेयात् ॥ ५ ॥
हिन्दी– ( अब उपसंहार कर रहे हैं - ) सः उस (यजन करने वाले ) को एतेषां त्रयाणाम् इन तीनों ( जग्ध, गीर्ण और वान्त के ऋत्विक् कर्म) की आशां न इयात् उआशा नहीं करनी चाहिए । सा० भा०-- 'सः' यजमान 'एतेषां पूर्वोक्तानां धनलम्पटभयहेत्वभिशस्तानां त्रया- णामार्त्विज्यार्थं मनस्यपेक्षामपि न कुर्यात्॥ अथ प्रमादकृतस्य प्रायश्चित्तं दर्शयति- ( वर्ज्यब्राह्मणविषये कृतप्रमादस्य प्रायश्चितम्) तं यद् एतेषां त्रयाणामेकंचिदकाममभ्याभवेत् तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिः ॥६ ॥
हिन्दी-(इन तीनों प्रकार के ऋत्विजों के विषय में प्रमाद हो जाने पर उसके प्रायश्चित्त को दिखला रहे हैं - ) यद् एतेषां त्रयाणाम् यदि इन तीनों से तम् एकंचित् उस एक का भी अकामम् अभ्याभवेत् भूल से (ऋत्विक् के रूप में) वरण हो जाय तो तस्य उस विषय में वामदेव्यस्य स्तोत्रे वामदेव द्वारा दृष्ट स्तोत्र (साम ' कया नश्चित्र आभुवत् इस तृच) में प्रायश्चित्तिः अस्ति प्रायाश्चित है । त्रयाणां मध्ये वर्तमानं तं सा० भा ० — यदि कदाचित् ' एतेषां' धनलम्पटादीनां पुरुषम् ‘ एकंचित्’ एकमपि ‘अकामम्' अबुद्धिपूर्वम् अभ्याभवेत् अभिलक्ष्यात्र्त्विज्यं भवेत्, तदानीं ‘तस्य’ वैकल्यस्य प्रायश्चित्तिरस्ति। कुत्रास्तीति, तदुच्यते— ‘ वामदेव्यस्य स्तोत्रे ’ ( १ ) ' जुगुप्साविराम' पा० सू० १.४.२४ वा, इत्यपादानत्वम्।
पृष्ठ 734
पाठ पढ़ें पाठ छिपाएँ
: [६७२ ऐतरेयब्राह्मणम् १५.२ तृतीयपञ्चिकायां वामदेवमहर्षिणा दृष्टं साम वामदेव्यं ' कया नश्चित्र आभुवत्' इत्येतस्यामृच्युत्पन्नम् । तच्च साम तृचे गायन्त उद्गातारः पृष्ठस्तोत्रमनुतिष्ठन्ति । तत्र कश्चित्प्रयोगविशेषः प्रायश्चित्तिः॥ उक्तं साम· प्रशंसति— इदं वा इदं वामदेव्यं, यजमानलोकोऽमृतलोकः स्वर्गो लोकः ॥७ ॥
हिन्दी—( अब वामदेव साम 'कया नश्चित्र' की प्रशंसा कर रहे हैं - ) यजमानलोकः अमृतलोकः स्वर्गलोकः यजमान लोक ( पृथिवीलोक ), अमर लोक ( मुक्तिलोक ) और स्वर्ग लोक (देवलोक ) इदम् यह लोक त्रय इदं वामदेव्यम् यह वामदेव्य ( स्तोत्र) है। सा० भा ० —' यजमानस्य लोकः पृथिवी । ' अमृतलोकः ' मुक्तिपदम् । ‘ स्वर्गो ' देव- लोकः । ‘ इदं वै ’ उक्तलोकत्रयमिदं सर्वमपीदं वामदेव्यम्' । 'कया नश्चित्रः’ इत्यास्यामृच्यु- त्पन्नमिदं समागानां प्रसिद्धं वामदेव्याख्यं साम॥५ तस्मिन् साम्नि कर्तव्यं प्रायश्चित्तप्रकारं दर्शयति— तत् त्रिभिरक्षरैर्न्यनं, तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति ॥ ८ ॥
हिन्दी—(उस स्तोत्र में किये जाने वाले प्रायश्चित के प्रकार को दिखला रहे हैं - ) तत् वह (वामदेवस्तोत्र ) त्रिभिः अक्षरैः न्यूनम् तीन अक्षरों से न्यून है । तस्य स्तोत्रे उस स्तोत्र के ( गान के ) समय उपसृत्य वहाँ जाकर आत्मानं पुरुषः आत्मवाचक 'पुरुष' त्रेधा विगृहणीयात् तीन भागों में-( पु, रु, और ष, इस प्रकार ) विभाजित कर लेना चाहिए ( और तीनों अक्षरों को तृच के न्यून अक्षर वाले पादों में क्रमशः प्रक्षेप करके पाठ करना चाहिए )। सा० भा०-- ' तद्' वामदेव्यं साम 'त्रिभिरक्षरैर्न्यनम्' – 'कया नश्चित्र' इत्यादिक- स्तृचो गायत्रीछन्दस्कः; तस्य च च्छन्दसस्त्रिषु पादेषु प्रत्येकमष्टावक्षराण्यपेक्षितानि। ‘ अभी षु णः, इत्येतस्यां तृतीयस्यामृचि यस्मात् प्रतिपादं सप्तैवाक्षराणि, अतस्त्रिभिरक्षरैर्न्यून- त्वम्( )।७' ‘ तस्य' वामदेव्यस्य' साम्नः संबन्धिनि ' स्तोत्रे '.('उपभृप्य) ' समीपं' प्रक्रम्य ‘ आत्मानं’ १ वामदेवाड्यड्यौ इति पा ० ४.२.९। २ ऋ० ४.३१.१ । ( ३ ) छ० आ ० २.२.३.५; गे० गा० ५.१.२५ ।: ( ४ ) उ० आ ० १.१.१२.१-३; ऊ० गा० १.१.५ । ' यो वै सत्रस्य सवेद सद्भवति वामदेव्यं वै साम्नां सद्’ — इत्यादीनि च तद्ब्राह्मणवचनानि (ता० ब्रा० ४.८.१० )। ( ) ( ) ५ गे ० गा ० ५.१.२५ । ६ ऋ० ४.३१.१-३ । (७ ) तथा च ऋक्सर्वानुक्रमणी परि० ४.४, द्र० ४.३१ । ( ८ ) ' गानम्' इति ऐ ० सो ० मुद्रितपाठः ।
पृष्ठ 735
पाठ पढ़ें पाठ छिपाएँ
:पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६७३ स्ववाचकं ‘ पुरुष: ' इति शब्दं 'त्रेधा विगृह्णीयात्' प्रत्यक्षरं विभज्यैकैकस्मिन् पादे प्रक्षिपेत्। तद्यथा— ' अभी षु णः सखीनः पु, अविता जरितॄणां रु; शतं भवास्यूतिभिः ष: ' इति प्रक्षिप्य गायेत्॥१ उक्तप्रकारेणाऽऽत्विज्ये वैकल्यपरिहारं दर्शयति— स एतेषु लोकेष्वात्मानं दधात्यस्मिन् यजमानलोकेऽस्मिन्नमृतलोकेऽ- स्मिन् स्वर्गे लोके सर्वा दुरिष्टिमत्येति ॥ ९ ॥
हिन्दी - ( पूर्वोक्त प्रकार से ऋत्विग्वरण में हुए दोष के परिहार को दिखला रहे हैं— ) अस्मिन् यजमानलोके इस यजमान के लोक में, अस्मिन् अमृतलोके इस अमर लोक में और अस्मिन् स्वर्ग लोके इस स्वर्ग लोक में इस प्रकार एतेषु लोकेषु इन तीनों लोकों में सः वह (प्रायश्चित करने वाला ) आत्मानं दधाति अपने को प्रतिष्ठित करता है तथा सर्वा दुरिष्टिम् अत्येति सम्पूर्ण दोष से सम्पन्न ( यज्ञ) का अतिक्रमण कर जाता है। सा० भा०.--'सः ' कृतप्रायश्चित्तो यजमानः 'एतेषु' लोकेषु स्वात्मानं स्थापयति। त एव त्रयो लोका अस्मिन्नित्यादिना स्पष्टीक्रियन्ते। ' सः ' यजमानः सर्वा दुरिष्टिं दोषोपेतं यज्ञम् ‘ अत्येति’ अतिक्रामति । एवं नैमित्तिकमक्षरत्रयप्रक्षेपं विधाय नित्यप्रयोगेऽपि तं विधत्ते— अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्माहाथ हैतज्जपेदेवेति ॥ १० ॥
हिन्दी - ( इस प्रकार प्रायश्चित के प्रयोजनवशात् तीन अक्षरों के प्रक्षेप का विधान करके अब नित्यप्रयोग में भी उसका विधान कर रहे हैं - ) अपि यदि समृद्धा इव ऋत्विजः स्युः और यदि ऋत्विक् समृद्ध ( अर्थात् पूर्वोक्त जग्ध इत्यादि दोषों से रहित) भी हो अथ एतद् जपेद् एव तो भी इसका (प्रक्षेप करके ) जप करना चाहिए— इति ह स्म आह ऐसा ऋषि ने कहा है। सा ० भा ० — होत्रादयः ‘ऋत्विज: ' यद्यपि ' समृद्धा इव' धनलाम्पट्यादिपूर्वोक्तवैकल्य- रहिता एव स्युः, तथापि ‘ एतत्' पुरुष इत्यक्षरत्रयं स्तोत्रे जपेदेवेत्यैतरेयो मुनिराह स्म॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयन्ब्राह्मणभाष्ये तृतीयपञ्चिकायाः पञ्चमाध्याये ( पञ्चदशाध्याये ) द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के पञ्चदश अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) उ० आ० १.१.१२.३ । ( २ ) 'दुरिष्टिं दुष्टत्विग्गाननिमित्तं दोषम्’ — इति षड्गुरुशिष्यः ।
पृष्ठ 736
पाठ पढ़ें पाठ छिपाएँ
: [. ६७४ ऐतरेयब्राह्मणम् १५.३ तृतीयपञ्चिकायां अथ तृतीयः खण्डः सा ० भा ० — पूर्वत्र यज्ञो ब्राह्मणेन च्छन्दोभिश्च सयुग् भूत्वा हव्यं बहतीत्युक्तम्; तत्र ब्राह्मणयुक्तो वक्तव्यविशेषोऽभिहितः; अथ च्छन्दः प्रयुक्तं विशेषमाह— ( देविकानां पञ्चहविषां निर्वपनविधानम्) छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्थे यज्ञस्य तिष्ठन्ति, यथाऽश्वो वाऽश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतं मैत्रावरुणं पशु- पुरोळाशमनु देविका हवींषि निर्वपेत् ॥ १ ॥
हिन्दी— ( ब्राह्मणयुक्त वक्तव्यविशेष को कह कर अब छन्दप्रयुक्त विशेष को कह रहे हैं ) देवेभ्यः हव्यं ऊढ्वा देवताओं के लिए हविष् का वहन करके छन्दांसि श्रान्तानि श्रान्त हो गये । छन्द यज्ञस्य जघनार्थे यज्ञ के पिछले आधे भाग में तिष्ठन्ति उसी प्रकार स्थिर हो गये यथा जिस प्रकार ऊहिवान् भार वहन करने हुए अश्वः वा अश्वतरः वा अश्व अथवा अश्वतर ( खच्चर) तिष्ठेत् (श्रान्त होकर) रुक जाता है । एवं इसी प्रकार तेभ्यः उन ( श्रान्त छन्दों ) के लिए एतं मैत्रावरुणम् इस मित्र और वरुण ( संयुक्त ) देवता से सम्बन्धित पशुपुरोडाशम् अनु पशु से सम्बन्धित पुरोडाश के बाद देविका हवींषि निर्वपेत् ( श्रम- परिहार के लिए यज्ञ के अन्त में ) देविका नामक हविषों का निर्वपन करना चाहिए । सा ० भा ० — गायात्र्यादीनि ' च्छन्दांसि' ' देवेभ्यो हव्यमूढ्वा ' देवार्थं हव्यवहनं कृत्वा श्रमं प्राप्य यज्ञस्य ‘ जघनार्धे ' पश्चिमभागे क्वचित्तूष्णीं तिष्ठन्ति। यथा लोके कश्चिदश्वो वा, गर्दभाश्वसांकर्येण जातो ‘ अश्वतरो' वा 'ऊहिवान्' भारवहनं कृतवान् सन् दूरदेशे वहनेन श्रान्तस्तिष्ठेत्, एवमेतानि च्छन्दांस्यपि; 'तेभ्यः ' श्रान्तेभ्यः श्रमपरिहारार्थं हवींषि निर्वपेत्।' ‘ देविका: ’ इति तेषां हविर्विशेषाणां नाम। कस्मिन् काले निर्वाप इति, तदुच्यते– यज्ञस्या-वसाने योऽयं ‘पशुः’ अनूबन्ध्याख्यः पशुबन्धः तस्य पशोः सम्बन्धी मित्रावरुणदेवताको यः पुरोडाशः, तम् ‘ अनु ’ तस्मिन्ननुष्ठिते पश्चान्निर्वपेत् ॥ तत्र प्रथमं हविर्विधत्ते— ( तत्र प्रथमहविर्विधानम् ) धात्रे पुरोळाशं द्वादशकपालं, यो धाता स वषट्कारः ॥२ ॥
हिन्दी— (उनमें प्रथम हवि का विधान कर रहे हैं - ) धात्रे द्वादशकपालं पुरोडाशम् ( १ ) ' पशुपुरोडाशममन्वनूबन्ध्यस्य देविका हवींषि निर्वपति यजप्रैषाणि’ — इति कात्या ० श्रौ ० १८.६.२०१
पृष्ठ 737
पाठ पढ़ें पाठ छिपाएँ
]:पञ्चमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६७५धाता के लिए द्वादशकपाल वाले पुरोडाश का ( निर्वाप करना चाहिए) क्योंकि यः धाता जो धाता (नामक देवता) है सः वषट्कारः वह वषट्कार रूप है। सा० भा० - धातृनाम्ने देवाय द्वादशसु कपालेषु संस्कृतं ' पुरो॒ळाशं' निर्वपेत्। योऽयं धातृनामको देवः, स वषट्कारस्वरूपः; तेन पुरोळाशेन वषट्कारदेवतायाः श्रमोऽपगच्छति॥ द्वितीयं हविर्विधत्ते— ( द्वितीयहविर्विधानम् ) अनुमत्यै चरुं याऽनुमतिः सा गायत्री ॥ ३ ॥
हिन्दी—(द्वितीय हवि का विधान कर रहे हैं - ) अनुमत्यै चरुम् अनुमति ( चतुर्दशी से मिश्रित पूर्णिमा) के लिए चरु (प्रदान करना चाहिए), क्योंकि या अनुमतिः जो अनुमति (नामक देवता ) है सा गायत्री वह गायत्रीरूप है । सा ० भा ० – ' कलाहीने साऽनुमतिः पूर्णे राका निशाकरे " इत्यभिधानाच्चतुर्दशीमिश्रा पूर्णिमा 'अनुमति' - शब्दवाच्या| २ तदभिमानिन्या देवताया अपि तदेव नाम। तस्या-श्चानुमतेर्गायत्रीरूपत्वात् तदीयः श्रमोऽपगच्छति॥ तृतीयं हविर्विधत्ते— ( तृतीयहविर्विधानम्) राकायै चरुम्, या राका सा त्रिष्टुप् ॥४ ॥
हिन्दी -(तृतीय हवि का विधान कर रहे हैं— ) राकायै चरुम् राका के लिए चरु (प्रदान करना चाहिए ) क्योंकि या राका जो राका ( नामक देवता है ) सा त्रिष्टुप् वह त्रिष्टुप् रूप है । •विमर्श-( १ ) निरुक्त के अनुसार अनुमती और राका- ये दो देवपत्नियाँ है किन्तु याज्ञिकों ने इन्हें पूर्णमासी का पूर्व और उत्तर भाग माना है । पूर्णमासी का पूर्वभांग अनुमती
और उत्तर भाग राका है। (द्र० -नि० ११.३.१० ) ।
सा० भा० – पूर्ववद् व्याख्येयम्॥
चतुर्थपञ्चमे हविषी विधत्ते— ( चतुर्थपञ्चमयोः हविर्विधानम्) सिनोवाल्यै चरुं, या सिनीवाली सा जगती; कुह्वै चरुं, या कुहूः ( १ ) अमरकोश १.४.८ । ( २ ) अनुमती राकेति देवपल्याविति नैरुक्ताः, पौर्णमास्याविति याज्ञिकाः । या पूर्वा पौर्णमासी सानुमतियोंत्तरा सा राकेति विज्ञायते - इत्यादि निरु० ११.३.१० ।
पृष्ठ 738
पाठ पढ़ें पाठ छिपाएँ
: [ ६७६ ऐतरेयब्राह्मणम् १५.३ तृतीयपञ्चिकायां साऽनुष्टुप् ॥५ ॥
हिन्दी—(चतुर्थ और पञ्चम हवि का विधान कर रहे हैं -) सिनीवात्यै चरुम् सिनीवाली के लिए चरु (प्रदान करना चाहिए) क्योंकि या सिनीवाली जो सिनीवाली है सा जगती वह जगतीरूप है। कुह्वै चरुम् कुहू के लिए चरु ( देना चाहिए ) क्योंकि या कुहूः जो कुहू है सा अनुष्टुप् वह अनुष्टुप् रूप है। विमर्श—( १ ) निरुक्तकार ने सिनीवाली और कुहू को भी देवपत्नियाँ माना है किन्तु याज्ञिकों ने अमावास्या के पूर्वभाग को सिनीवाली और उत्तरभाग को कुहू कहा है । (द्र०- नि० ११.३.१० ) । सा० भा ० — ' सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः’१ इति अमावास्या- द्वैविध्यमभिहितम् । तदभिमानिदेवतायास्तदेव नामेति पूर्ववद् योजनीयम्॥ इतरेषां छन्दसां कथं श्रमपरिहार इत्याशङ्क्य सर्वेषामन्येषामुक्तच्छन्दोऽनुवर्तित्वात्। तावतैव श्रान्तिपरिहार इत्यभिप्रेत्याह— एतानि वाव सर्वाणि च्छन्दांसि, गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्व- न्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते ॥ ६ ॥
हिन्दी – ( अन्य सभी छन्दों का गायत्री, त्रिष्टुप् जगती और अनुष्टुप् छन्दों के अनुवर्ती होने के कारण इन्हीं के द्वारा श्रान्ति परिहार हो जाने को कह रहे हैं - ) एतानि "वै सर्वाणि छन्दांसि इतने ही सभी छन्द हैं; क्योंकि अन्यानि अन्य छन्द गायत्रं त्रैष्टुभं जागतम् आनुष्टुभम् अनु गायत्री, त्रिष्टुप् जगती और अनुष्टुप् का अनुगमन करते हैं। अतः तानि वे ही ( गायत्री इत्यादि) यज्ञे यज्ञ में प्रतमाम् इव क्रियन्ते प्रचुरता के साथ प्रयोग किये जाते हैं । सा ० भा० |-– 'एतानि' एव गायत्र्यादीनि चत्वारि सर्वच्छन्दोरूपाणि, ' अन्यानि' उष्णि- गादीनि गायत्र्यादिकमनुसृत्यैव वर्त्तन्ते। यस्मादेतानि चत्वारि यज्ञप्रयोगे ‘ प्रतमामिव' प्राचुर्याति- शयेनैव ‘क्रियन्ते ' प्रयुज्यन्ते, तस्माद् एतदनुसारित्वम् इतरेषां युक्तम्॥ उक्तार्थवेदनपूर्वकमनुष्ठानं प्रशंसति— एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद॥७ ॥
( १ ) अमरकोश १.४.९। ( २ ) ‘सिनीवाली कुहूरिति देवपत्न्याविति नैरुक्ताः, अमावास्ये इति याज्ञिकाः । या पूर्वामावास्या सा सिनीवाली, योत्तरा सा कुहूरिति विज्ञायाते' – इत्यादि निरु ० ११.३.१० । द्र ० ऐ० ब्रा० ७.२.१० । ( ३ ) सुधाया ह वै वाजी सुहितो दधातीत्यग्निर्वाव वाजी ।
पृष्ठ 739
पाठ पढ़ें पाठ छिपाएँ
]::पञ्चमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६७७ हिन्दी—( पूर्वोक्त अर्थ के ज्ञान के साथ अनुष्ठान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है एतैः ह छन्दोभिः यजतः इन्हीं छन्दों से यजन करते हुए अस्य इस ( यजन करने वाले ) का सर्वैः छन्दोभिः इष्टं भवति सभी छन्दों द्वारा अनुष्ठान
सम्पन्न हो जाता है।
सा० भा० — ‘एतैः ' गायत्र्यादिभिः 'सर्वैः ' उष्णिगादिभिः॥
विद्वत्प्रसिद्ध्या छन्दांसि प्रशंसति- ( विद्वत्प्रसिद्ध्या छन्दसां प्रशंसनम् ) तद्वै यदिदमाहुः, -सुधायां ह वै वाजी सुहितो दधातीति' च्छन्दांसि वै तत्सुधायां हा एनं छन्दांसि दधति ॥ ८ ॥
हिन्दी—(विद्वानों में प्रसिद्धि के कारण से छन्दों की प्रशंसा कर रहे हैं - ) तद्वै यद् इदम् आहुः तो जो वे यह कहते हैं कि सुहितः सम्यक् प्रकार से अनुष्ठित और वाजी अन्न से युक्त ( ज्योतिष्टोम) सुधायां ह वै दधाति ( यजन करने वाले को ) अमृतरूप ( स्वर्ग) में प्रतिष्ठापित करता है, इति तत् छन्दांसि यह छन्द (के ही विषय में कहा गया ) है । क्योंकि छन्दांसि ह वै छन्द ही एनम् इस (यजन करने वाले ) को सुधायां दधति स्वर्ग में प्रतिष्ठापित करते हैं। सा ० भा ० — वाजोऽन्नं हविर्लक्षणम्, तद्युक्तो ज्योतिष्टोमो 'वाजी', स च 'सुहितः ' सम्यगनुष्ठितः ‘ सुधायाम्' अमृते स्वर्गे दधाति यजमानं स्थापयतीति शेषः। अनेन प्रकारेण ‘ तद्वै' तस्मिन्नेव यज्ञप्रतिपादके शास्त्रे 'यदिदं वचनमभिज्ञा आहुः तत्तु 'च्छन्दांसि वै' तद्वचनं यथोक्तगायत्र्यादिच्छन्दांस्येवाभिलक्ष्योक्तम्। यस्माच्छन्दांसि ' एनं' यजमानं ' सुधायां' स्वर्गे स्थापयन्ति ' तस्माच्छन्दोभिप्रायेणैतद्वचनं युक्तम्॥ वेदनं प्रशंसति- अननुध्यायिनं लोकं जयति य एवं वेद ॥ ९ ॥
हिन्दी – (इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है वह अननुध्यायिनं लोकं जयति मन से भी न ध्यान करने योग्य (जानने योग्य) लोक
को जीत लेता है ।
सा० भा ० — मनसाऽनुध्यातुमनर्हमित्यपूर्वं सुखोपेतं लोकं प्राप्नोति॥
अत्र कंचित्पूर्वपक्षमुद्भवयति— ( १ ) छन्दसः प्रत्ययविधाने नपुंसके स्वार्थे उपसंख्यानम्' – इत्यण् ( पा ० सू० ४.२.५५ वा० ) तमेव तत् प्रीणाति; स एनं प्रीतः प्रीणाति वसीयान् भवति इति तै० सं ० ५.५.१०.७। ( २ ) ' सुधायां मा धेहि परमे व्योमन् -इति अथर्व० १७.१.७।
पृष्ठ 740
पाठ पढ़ें पाठ छिपाएँ
: [ ६७८ ऐतरेयब्राह्मणम् १५.३ तृतीयपञ्चिकायां तब्द्धैक आहुर्धातारमेव सर्वासां पुरस्तात् पुरस्तादाज्येन परियजेत् तदासु सर्वासु मिथुनं दधातीति ॥ १० ॥
हिन्दी—(इस विषय में यहाँ पूर्वपक्ष की उद्भावना कर रहे हैं — ) तद् ह एके आहु: इस (छन्दों के श्रमपरिहार के लिए दिये गये पाँच हवियों ) के विषय में कुछ लोग कहते हैं कि सर्वासां पुरस्तात् पुरस्तात् ( अनुमति इत्यादि ) सभी (स्त्री देवताओं की आहुति से) पहले धातारमेव धाता को ही आज्येन घृत द्वारा परियजेत् एक- एक आहुति देना चाहिए । तत् इस ( धाता की आहुति ) से आसु सर्वासु इन अनुनति ( इत्यादि ) सभी में मिथुनं दधाति मिथुन को सम्पादित करता है । सा ० भा ० – ‘ तद्ध' तस्मिन्नेव च्छन्दसां श्रमपरिहारार्थे हविष्पञ्चके केचित्पूर्वपक्षिण एवमाहुः — ‘सर्वासाम्’ अनुमत्यादीनां स्त्रीदेवतानां पुरस्तात् पुरुषदेवतारूपं धातारमेवाज्य- द्रव्येण परितो यजेत्। सर्वसंग्रहार्थं पुरस्तादिति वीप्सा । ' ' तत्' तेन सर्वत्र धातृविषयप्रयोगेण ‘ आसु ’ ‘ सर्वासु ’ स्त्रीदेवतासु मिथुनं संपादयति॥ तमिमं पूर्वपक्षं दूषयति— तदु वा आहुर्जामि वा एतद् यज्ञे क्रियते, यत्र समानीभ्यामृग्भ्यां समानेऽहन् यजतीति ॥ ११ ॥
हिन्दी - (उस पूर्वपक्ष को दूषित कर रहे हैं - ) तदु वै आहुः इस विषय में कुछ लोग कहते हैं कि यज्ञे एतद् जामि वै क्रियते यज्ञ में यह विलम्ब ही किया जाता है । यत्र जिस (यज्ञ ) में समाने अहन् एक ही दिन में समानीभ्याम् ऋग्भ्याम् यजति एक समान ऋचाओं ( याज्या और अनुवाक्या ) से यजन करता है । सा० भा०--'तदु वै' तत्रैव पूर्वोक्तविषये केचिदभिज्ञा एवमाहुः, –' यत्र' यस्मिन् प्रयोगे ‘ समानीभ्याम्’ एकविधाभ्यामृग्भ्यां 'समानेऽहन्' एकस्मिन्नेवाहनि यजति, ' तदेतत्' अनुष्ठानं यज्ञे ‘ जामि वै ’ आलस्यमेव 'क्रियते ' संपाद्यते। प्रयुक्तयोरेवर्चोः पुनः प्रयोगस्य चर्वितर्चवणसदृशत्वेनानुचितत्वात्। धातृदेवताके प्रथमे पुरोडाशे ‘ धाता ददातु दाशुषे ' इति पुरोनुवाक्या। ’ ‘ धाता प्रजानाम्' इति याज्या । तत्र यद् उपरितनानामपि चतुर्णां हविषां पुरस्तादाज्येन धातारं यजेत् तदानीमिदमृग्द्वयं पुनरपि चतुर्वारम् आवर्तनीयम्। तथा सति नीरसो यज्ञः फलं दातुं समर्थो भवेदित्यर्थः ॥ कथं तर्हि मिथुनसिद्धिः स्यादित्याशङ्कय लौकिकदृष्टान्तेन तत्सिद्धिमुपपादयति— यदि ह वा अपि बहव्य इव जायाः पतिर्वाव तासां मिथुनं, तद्यदासां ( १ ) ‘नित्यवीप्सयोः ’ – पा० सू० ८.१.४ इति, द्विर्वचनम्। ( २-३ ) इमे ऋचावन्यशाखीये इत्याश्वलायनेन पठिते- द्र० आश्व० श्री० ६.१४.१६ ।