ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 751–760
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 751–760
पृष्ठ 751
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ६८ ९ सा० भा० — ' अह' - इत्ययं शब्दोऽन्यत्र निषेधार्थोऽप्यत्र विकल्पार्थः, निपाता- नामनेकार्थत्वात्। तान्युक्थस्तोत्राणि 'प्रमंहिष्ठीयेन' साम्ना प्रणयेत्, ‘ अहैव' अथवा ' साम- कश्वेन' साम्ना प्रणयेत्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः पञ्चमाध्याये (पञ्चदशाध्याये ) पञ्चम: खण्ड: ॥५ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के पञ्चदश अध्याय के पञ्चम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० — उक्थस्तोत्रेषु सामविशेषं विधाय उक्थशस्त्रेषु सूक्तविशेषान् विधातुमादौ मैत्रावरुणशस्त्रे किचित् सूक्तं विधत्ते- ( उक्थशस्त्रेषु सूक्तविशेषविधानम्) ( तत्र मैत्रावरुणशस्त्रे प्रयुक्तसूक्तविधानम् ) ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त, सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद् वरुणस्तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसतीन्द्रश्च हि तान् वरुणश्च ततो नुदेताम् ॥ १ ॥
हिन्दी— ( उक्थस्तोत्रों में सामविशेष का विधान करके उक्थशस्त्रों में सूक्त -विशेषों का विधान करने के लिए पहले मैत्रावरुणशस्त्र में सूक्त का विधान कर रहे हैं — ) ते • । सुराः उन असुरों ने मैत्रावरुणस्य उक्थम् अनयन्त मैत्रावरुण के उक्थ का आश्रय ले लिया । तब सः इन्द्रः अब्रवीत् उस इन्द्र ने कहा कि कः च अहं च कौन देवता और मैं मिलकर इमान् असुरान् इन असुरों को इत: नोत्स्यावहै इस (मैत्रावरुण उक्थ) से निकालने में समर्थ होगे । तब वरुणः अब्रवीत् वरुण ने कहा कि अहम् च मैं ( और तुम) । तस्मात् इसी कारण तृतीयसवने तृतीयसवन में मैत्रावरुणः मैत्रावरुण (नामक होत्रक ) ऐन्द्रावरुणं शंसति इन्द्र और वरुण देवता वाले ('इन्द्रावरुणा युवमध्वराय न:' इस दंश ऋचाओं वाले ) सूक्त का शंसन करता है जिससे इन्द्रः च वरुणः च इन्द्र और वरुण (दोनों मिलकर ) तान् उन ( असुरों ) को ततः उस (मैत्रावरुणशस्त्र ) से नुदेताम् निकाल देवें। सा० भा ० — उक्थ्यस्य क्रतोरग्निष्टोमविकृतित्वात्' अतिदिष्टमग्निष्टोमप्रयोगमनुष्ठाय तत ऊर्ध्वमुक्थ्यपर्यायास्त्रयोऽनुष्ठेयाः । तथा च आपस्तम्ब आह— 'उक्थ्यश्चेदग्निष्टोम ( १ ) तदुक्तम् आपस्तम्बेन –' उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकाराः, तेषाम् अग्निष्टोमवत् कल्प: ' -- इति १४.१.१,३
पृष्ठ 752
पाठ पढ़ें पाठ छिपाएँ
: [६ ९ ० ऐतरेयब्राह्मणम् १५.६ तृतीयपञ्चिकायां चमसानुन्नयंस्त्रिभ्यश्चमसगणेभ्यो राजानमति रेचयति " इति। तत्र प्रथमे चमसगणे मैत्रा-वरुणस्य यच्छस्त्रमस्ति, उक्थस्तोत्रेषु साम्ना निराकृतास्त एव असुराः ' इदं ' मैत्रावरुण-शस्त्रमश्रयन्त ‘ तत्’ तदानीं तत्रावस्थितः स इन्द्र इतर देवान् प्रत्येवमब्रवीत् –असुराणामपनोदने मम सहायोऽपेक्षितः, ततो हे देवाः! युष्माकं मध्ये कश्चाहं च ‘ इमान्' असुरान् ‘ इतः ’ मैत्रावरुणशस्त्रात् ‘ नोत्स्यावह' अपनोदं करिष्याव इति । देवेष्ववस्थितो वरुणः ' अहं च' इत्यब्रवीत्; हे इन्द्र, त्वं चाहं चेत्यर्थः । यस्मादेवं तस्मादुभयोमेंलनेन तेषामसुराणामपनोद-नार्थम् ‘ऐन्द्रावरुणं’ सूक्तं तृतीयसवने ‘ मैत्रावरुणः ’ एतन्नामक ऋत्विक् शंसेत् । ‘इन्द्रावरुणा युवमध्वराय नः ' इत्येतद्दशर्चं सूक्तम्' ऐन्द्रावरुणम्; तेन तुष्ट इन्द्रश्च वरुणश्च ‘ तान्’ असुरान् ‘ततः ’ शस्त्रात् ‘ अपनुदेतां’ निराकुर्याताम् ॥ द्वितीये चमसगणे किञ्चित्सूक्तद्वयं विधत्ते— ( ब्राह्मणच्छंसिनः सूक्तद्वयविधानम् ) ते वै ततोऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त; सोऽब्रवीद् इन्द्रः कश्चाहं चेमानितोऽसुरान् नोत्स्यावहा इत्यहं चेत्यब्रवीद् बृह- स्पतिस्तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्रश्च हि तान् बृहस्पतिश्च ततो नुदेताम् ॥ २ ॥
हिन्दी – ( अब द्वितीय चमसगण में दो सूक्तों का विधान कर रहे हैं - ) ततः अपहताः ते असुराः उस ( मैत्रावरुण उक्थ) से निकाले गये उन असुरों ने ब्राह्मणच्छंसिनः उक्थम् अश्रयन्त ब्राह्मणच्छंसी उक्थ का आश्रय ग्रहण किया। तब सः इन्द्रः अब्रवीत् इस इन्द्र ने कहा कि कः च अहं च कौन देवता और मैं (मिलकर ) इमान् असुरान् इन असुरों को इतः नोत्स्यावहै इस (ब्राह्मणाच्छंसी उक्थ) से निकाल सकेंगे। तब बृहस्पतिः अब्रवीत् बृहस्पति ने ( इन्द्र से) कहा कि अहम् च मैं (और तुम ) । तस्मात् इसी कारण तृतीयसवने तृतीयसवन में ब्राह्मणच्छंसी ब्राह्मणच्छंसी (नामक होत्रक ) ऐन्द्राबाई- स्पत्यम् शंसति इन्द्र और बृहस्पति देवता वाले (क्रमशः ' अच्छा म इन्द्रं मतय: ' ) इस इन्द्र देवताक और ‘ उदप्रतो न वयो रक्षमाणा:' इस बृहस्पति देवताक सूक्त ) का शंसन करता है। इससे इन्द्रः च बृहस्पतिः च इन्द्र और बृहस्पति ( मिल कर) तान् उन ( असुरों) को ततः उस (ब्राह्मणच्छंसी उक्थ) से नुदेताम् निकाल देवे । सा ० भा ० – ‘ततः ’ मैत्रावरुंणशस्त्रान्निराकृता असुरा ब्राह्मणाच्छंसिनः शस्त्रमाश्रि- तवन्तः । ‘उदप्रुतो न वयो रक्षमाणाः ' इत्येतद् बृहस्पतिदेवताकं द्वादशर्चं सूक्तम्। ' ‘ अच्छा म’इन्द्रं मतयः स्वर्विदः' इत्येकादशर्चमैन्द्रं सूक्तम्। तदुभयं मिलितं सदैन्द्राबार्हस्पत्यं (संपद्यते) । तदेतद् ब्राह्मणाच्छंसी ब्रूयात्(। अन्यत्) पूर्ववद् व्याख्येयम्( )॥ १ आपप००श्रौ० १४.१.६। २ ऋ० ७.८२। ३ ऋ० १०.६८ ।
पृष्ठ 753
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ६ ९ १ तृतीये चमसगणे सूक्तं विधत्ते— ( अच्छावाकस्य सूक्तविधानम् ) ते वै ततोऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त; सोऽब्रवीद्- इन्द्रः कश्चाहं चेमानितोऽसुरान् नोत्स्यावहा इत्यहं चेत्यब्रवीद् विष्णु- स्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्रश्च हि तान् विष्णुश्च ततो नुदेताम् ॥ ३ ॥
हिन्दी – ( तृतीयचमसगण विषयक सूक्त का विधान कर रहे हैं— ) ततः अपहताः ते असुराः उस (ब्राह्मणच्छांसी उक्थ) से निकाले गये उन राक्षयों ने अच्छावाकस्य उक्थम् अच्छावाक (नामक ऋत्विक्) के शस्त्र का आश्रयन्त आश्रय ले लिया। तब सः इन्द्रः अब्रवीत् उस इन्द्र ने कहा किया कि कः च अहं च कौन देवता और मैं (मिलकर ) इमान् असुरान् इन असुरों को इतः नोत्स्यावहै इस. ( अच्छावाक के उक्थ ) से निकाल सकेंगे। तब विष्णुः अब्रवीत् विष्णु ने कहा कि अहम् च मैं ( और तुम ) । तस्मात् इसी कारण तृतीयसवने तृतीयसवन में अच्छावाकः अच्छावाक (नामक ऋत्विक) ऐन्द्रावैष्णवं शंसति इन्द्र और विष्णु युगल देवता वाले (' सं वां कर्मणा समिषा' इस आठ ऋचाओं वाले सूक्त का शंसन करता है । जिससे इन्द्रः च विष्णुः च इन्द्र और विष्णु मिलकर तान् उन ( असुरों) को ततः उस ( अच्छावाक शस्त्र से नुदेताम् निकाल देवे।. सा ० भा ० — ‘ सं वां कर्मणा समिषा' - इत्यष्टर्चमैन्द्रावैष्णवं सूक्तम् ।' अन्यत् पूर्ववद् व्याख्येयम्॥ सूक्तानां द्विदेवताकत्वं प्रशंसति-. ( सूक्तानां द्विदेवताकत्वप्रशंसनम् ) द्वन्द्वम् इन्द्रेण देवताः शस्यन्ते; द्वन्द्वं वै मिथुनं, तस्माद् द्वन्द्वान् मिथुनं प्रजायते, प्रजात्यै ॥४ ॥
हिन्दी – ( सूक्तों के द्विदेवताक होने की प्रशंसा कर रहे हैं - ) इन्द्रेण इन्द्र के साथ द्वेवताः द्वन्द्व शस्यन्ते युगल रूप से देवता शंसन किये जाते हैं । द्वन्द्वं वै मिथुनम् द्वन्द्व ही मिथुन (स्त्री और पुरुष ) है । तस्मात् इसी कारण ( लोक में) द्वन्द्वात् मिथुनं प्रजायते द्वन्द्व से ( सन्तान रूप ) मिथुन ( पुत्र और पुत्री ) उत्पन्न होता है। अतः प्रजात्यै ( देवताद्वन्द्व का शंसन यजन करने वाले के ) सन्तानोत्पादन के लिए होता है। सा० भा०--- इन्द्रेण सह ' द्वन्द्वं' युग्मं वरुणबृहस्पतिविष्णुदेवताः क्रमेण शस्यन्ते। द्वन्द्वं च लोके स्त्रीपुरुषरूपं ‘मिथुनं' तादृशान् मिथुनाद् अपत्यरूपं ‘ मिथुनं’ प्रजायते । ततो ( १ ) ऋ० ६.६ ९।
पृष्ठ 754
पाठ पढ़ें पाठ छिपाएँ
: [६ ९ २ ऐतरेयब्राह्मणम् १५.६ तृतीयपञ्चिकायां द्वन्द्वशंसनं यजमानस्य प्रजात्यै भवति ॥ वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥५ ॥
हिन्दी—( इस ज्ञान की प्रशंसा कर रहे हैं - ) य एवं वेद जो इस प्रकार जानता है, वह प्रजया पशुभिः प्रजायते प्रजा और पशुओं से समृद्ध होता है। सा० भा०-० - शस्त्रिणां त्रयाणां होत्रकाणां सूक्तानि विधाय पोतुर्नेष्टुश्च मन्त्रान्तराणि विधत्ते- ( पोतुः नेतुश्च मन्त्रान्तराणि ) अथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षकृचः ॥ ६ ॥
हिन्दी–( अब पोता और नेष्ट्रा के मन्त्रान्तरों को कह रहे हैं— ) अथ ह एते अब इन पोत्रीयाः च नेष्ट्रीयाः च पोता और नेष्ट्रा से सम्बन्धित चत्वारः ऋतुयाजाः चार ऋतुयाजों और षड् ऋचः (पोता की तीन तथा नेष्ट्रा के तीन प्रस्थित याज्या इस प्रकार) छः ऋचाओं को ( कहा जा रहा है ) । सा० भा ० – प्रैषग्रन्थे पञ्चमे सूक्ते ' होता यक्षत्' – इत्यादिकौ द्वितीयाष्टमौ मन्त्रौ पोतुर्द्वावृतुयाजौ, तथा तत्रैव तृतीयनवमौ मन्त्रौ नेष्टुर्द्वावृतुयाजौ, एवं चत्वार ऋतुयाजाः, ते मिलित्वा पोतृसंबन्धान्नेष्टृसंबन्धाच्च ' पोत्रीयाः नेष्ट्रीयाश्च' भवन्ति। तथा प्रस्थितयाज्या: पोतु-स्तिस्रं ऋचः, नेष्टुश्च तिस्र ऋच: ', इत्येवं 'षकृच: ' भवन्ति' ॥ तदेतन्मन्त्रदशकं प्रशंसति— ( मन्त्रदशकप्रशंसनम् ) सा विराड्दशिनी, तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति, प्रतिष्ठा- •पयन्ति ॥७॥
( १ ) 'प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इति शस्त्रिणो होत्रकाः ' - इति आश्व० श्री० ५.१०.१०. ( २ ) तथा चोक्तम्- 'मरुतो यस्य हि क्षये (ऋ० १.८६.१ ) अग्ने पत्नीरिहावह (ऋ० १.२२.९ ) इति प्रातः सवनिक्यः प्रस्थितयाज्याः', 'अर्वाङेहि सोमकामं त्वांहु: (ऋ ० १.१०४.९ ) तवायं सोमस्त्वमेह्यर्वाङ् (ऋ ० ३.३५.६ ) इति माध्यंदिन्यः, ‘आ वो वहन्तु सप्तयो रघुष्पदं ( ऋ ० १.८५.६ ) अमेव नः सुहवा आहिगन्तन (ऋ ० २.३६.३ ) इति तार्तीयसवनिक्यः’-आश्व ० श्रौ० ५.५.१८-१९ । ( ३ ) उक्थ्यस्याग्निष्टोमविकृतित्वात् अग्निष्टोमे विहितानि प्रायः सर्वाण्येवाङ्गकार्याण्यत्रादि- श्यन्ते, तदपवादभूता विशेषविधय एवेह पञ्चमषष्ठखण्डयोः समाम्नाताः, तथा आश्वला- यनेनापि ‘ उक्थे तु होत्रकाणाम् इत्यन्त उक्थ्यः ' इति ( आश्व० श्रौ ० ६.१ ) उक्थाश्रिता विशेषविधय एवोक्ताः ।
पृष्ठ 755
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ६ ९ ३ हिन्दी– (इन दशों मन्त्रों की प्रशंसा कर रहे हैं - ) सा विराड् दर्शिनी वे दश (ऋचाएँ) विराट् (छन्द वाली हैं ) । तत् उस ( मन्त्रों की दश संख्या) से दशिन्यां विराजि दश संख्या से सम्पन्न विराट् में यज्ञं प्रतिष्ठापयन्ति यज्ञ को प्रतिष्ठापित करते हैं। सा० भा०--'सा' पूर्वोक्ता मन्त्रसमष्टिः 'दशिनी' दशसंख्यायुक्ता सती विराट्छन्दः संपद्यते; दशाक्षरा विराड्' -– इति श्रुत्यन्तरात्। ' तत्' तेन दशसंप्रयोगेण ' दशिन्यां' दश- संख्योपेतायां विराजि यज्ञमृत्विजः प्रतिष्ठापयन्ति।' अभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः पञ्चमाध्याये (पञ्चदशाध्याये ) षष्ठः खण्डः ॥ ६॥
॥ इस प्रकार ऐतरेयब्राह्मण के पञ्चदश अध्याय के षष्ठ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश'-नामभाष्ये ऐतरेयब्राह्मणस्य तृतीयपञ्चिकायाः पञ्चमोऽध्यायः (पञ्चदशोऽध्यायः ) समाप्त ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के पञ्चदश अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
ग्रहोक्थमेकादश । देवविशस्त्रयोदश सोमो वै राजामुष्मिंश्चतुर्दश 1।
देवा वा असुरैः षट् । यज्ञो वै देवेभ्यः षट् ॥
(इस पञ्चिका में ) 'ग्रहोक्थम्' से प्रारम्भ ग्यारह खण्डों वाला प्रथम अध्याय, ‘ देवविशः ' से प्रारम्भ तेरह खण्डों वाला द्वितीय अध्याय, ' सोमो वै राजामुष्मिन्' से प्रारम्भ चौदह खण्डों वाला तृतीय अध्याय, ' देवा वा असुरैः' से प्रारम्भ छः खण्डों वाला चतुर्थ
अध्याय और ' यज्ञो वै देवेभ्यः ' से प्रारम्भ छः खण्डों वाला पञ्चम अध्याय है ।
ग्रहोक्थं, सौर्या वै, इन्द्रो वै, वैश्वदेवं शंसति, इति नु दश ॥
इस पञ्चिका में ‘ ग्रहोक्थम्' से प्रारम्भ खण्डों का प्रथम दशक, ' सौर्या वै' से प्रारम्भ द्वितीय दशक, ‘ इन्द्रो वै ' से प्रारम्भ तृतीय दशक, 'वैश्वदेवं शंसति' से प्रारम्भ चतुर्थ दशक और ‘ इति नु ' से प्रारम्भ पञ्चम दशक है । इस प्रकार तृतीय पञ्चिका में कुल पचास खण्ड हैं ॥। इति तृतीयपञ्चिका ॥ ॥ इस प्रकार तृतीयपञ्चिका की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ' अग्निष्टोमं वै’ —– इत्याद्यारब्धम् उक्थ्यक्रतुप्रकरणमिहैव समाप्तम्( ५६५ – ५७१ पृ० ) ‘उक्थ्येन पशुकामो यजेत्’— इति तु आप० श्रौ० १४.१.२।
पृष्ठ 756
पाठ पढ़ें पाठ छिपाएँ
अथ चतुर्थपञ्चिकायाम् प्रथमोऽध्यायः [ अथ षोडशोऽध्यायः ] प्रथमः काण्डः संस्थेष्टीनां वाग्यमश्चर्त्विजां चसायणभाष्यम्—— यागा देवीदेवीकानां विशेषा: । संस्थोक्थ्यस्य स्तोत्रशस्त्रप्रक्लृप्तिः शस्त्राण्याहुः शस्त्रिणां होत्रकाणाम् ॥१ ॥
ज्योतिष्टोमभेद उक्थ्यः समापितः; अथ षोडश्युच्यते; तद्विषयं शंसनं विधत्ते— ( षोडशिक्रतुविधानम् ) ( तत्राख्यायिका ) देवा वै प्रथमेनाह्वेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नाऽसिञ्चस्तं तृतीये- नाह्ना प्रायच्छंस्तं चतुर्थेऽहन् प्राहरत् तस्माच्चतुर्थेऽहन् षोळशिनं शंसति ॥१ ॥
'हिन्दी – ( अब षोडशीविषयक शंसन का विधान कर रहे हैं - ) देवाः वै देवताओं ने प्रथमेन अह्ना ( पृष्ठ षडह ) के प्रथम दिन ( के सोमप्रयोग) से इन्द्राय वज्रं समभरन् इन्द्र के लिए वज्र का सम्पादन किया। द्वितीयेन अह्ना द्वितीय दिन (के प्रयोग) से तम् असिञ्चन् उस ( वज्र ) क़ो ( तेज करने के लिए ) सिञ्चित किया । तृतीयेन अह्ना तृतीय दिन ( के प्रयोग ) से तं प्रायच्छन् उस ( वज्र) को ( शत्रुओं पर करने के लिए) दिया । चतुर्थे हन् चतुर्थ दिन तं प्राहरत् ( इन्द्र ने ) उस (वज्र ) को ( शत्रुओं पर किया। तस्मात् इसी कारण चतुर्थे अहन् चतुर्थ दिन षोडशिनं शंसति ( होता 'असावि सोम इन्द्र ते' इत्यादि ) षोडशी (नामक शस्त्र ) का शंसन करता है। सा ० भा ० — अग्निष्टोमोक्थ्यादिसंस्थाविशेषः स्वतन्त्रः क्रतुत्वाद्' यथा पृथगनुष्ठातुं योग्यस्तथा षोडशी न स्वतन्त्रः क्रतुः । तथा च शाखान्तरे पठन्ति—'न वै षोडशी नाम यज्ञोऽस्ति; यद्वाव षोडश स्तोत्रं षोडश शस्त्रं तेन षोडशी' इति। तथा सत्ययं संस्थाविशेषः ( १ ) ‘ अग्निष्टोमोक्थ्यादिसंस्था संस्थाविशेषः; स्वतन्त्रः क्रतुत्वात्' –इति वा पाठः । (२ ) तै० सं० ६.६.११.१। "
पृष्ठ 757
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६ ९ ५ पृष्ठ्यषडहचतुर्थेऽहनि प्रयुज्यते। अतस्तत्रैवैतच्छंसनविधानम्। देवाः पुरा पृष्ठ्यषडहे ‘ प्रथमेनाह्ना' प्रथमदिवसनिष्पाद्येन सोमप्रयोगेण इन्द्रार्थं वज्रं ' समभरन्' संपादितवन्तः । अत्र सर्वत्राहः शब्दोऽह्ना निष्पाद्यं सोमप्रयोगमभिधत्ते। तत्र संपादितं वज्रं द्वितीयेनाह्ना ' असिञ्चन्' । सेचनं नाम लोहमयानां शङ्खकुठारादीनां तीक्ष्णत्वाय दाय चाग्नौ प्रताप्य यथोचितं नीरे स्थापनं, तदिदं सेचनं वज्रे कृतवन्तः । कृत्वा च तृतीयेनाह्ना 'तं' वज्रमिन्द्राय 'प्रायच्छन्’ दत्तवन्तः । स चेन्द्रस्तं वज्रं चतुर्थेऽहनि शत्रोरुपरि प्राहरत्। तस्मात् पृष्ठ्यषडहस्य चतुर्थाहः प्रयोगे षोळशिनं शस्त्रं शंसेत्। ' असावि सोम इन्द्र ते ' इत्यादिकं' षोळश्याख्यं शस्त्रम् । तथा च आश्वलायन आह ‘ अथ षोळश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ ' ' इति॥ षोळशिशंसनं प्रशंसति— ( षोडशिशंसनप्रशंसनम् ) वज्रो वा एष यत्रोळशी; तद् यच्चतुर्थेऽहन् षोळशिनं शंसति, वज्रमेव तत्प्रहरति, द्विषते भ्रातृव्याय वधं, योऽस्य स्तृत्यस्तस्मै स्तर्तवै ॥ २ ॥
हिन्दी - ( षोडशी शस्त्र के शंसन की प्रशंसा कर रहे हैं - ) यत् षोडशी जो षोडशी है, एषः वज्रः वै यह वज्ररूप ही है ।। तद् तो यत् चतुर्थे अहन् षोडशिनं शंसति जो चतुर्थ दिन (होता) षोडशी (नामक शस्त्र ) का शंसन करता है तत् उस ( शंसन ) से वज्रमेव प्रहरति वज्र का ही प्रहार करता है । यः अस्य स्तृत्यः जो इस ( यजमान ) का हिंसनीय है, तस्मै द्विषते भ्रातृव्याय उस द्वेष करने वाले शत्रु को स्तर्तवे मारने के लिए वधम् ( यह षोडशी ) वधरूप है । सा ० भा० - षोळशिनो वज्रस्वरूपत्वाद् 'य: ' पुमान् ' अस्य' यजमानस्य ‘ स्तृत्यः ’ हिंसनीयः ‘ तस्मै स्वर्तवै ' तस्य हिसार्थं वधहेतुं वज्रमेव भ्रातृव्याय प्रहरति॥ तस्य शस्त्रस्य कालं विधत्ते- ( षोडशिशस्त्रस्य कालविधानम् ) वज्रो वै षोळशी पशव उक्थानि; तं परस्तादुक्थानां पर्यस्य शंसति ॥ ३ ॥
हिन्दी - ( उस शस्त्र के काल का विधान कर रहे हैं - ) वज्रः वै षोडशी षोडशी वज्ररूप है और पशवः उक्थानि उक्थ पशुरूप है। उक्थानां परस्तात् पर्यस्त (उन तीन) उक्थों के ऊपर रख कर तं शंसति उस (षोडशी नामक शस्त्र ) का शंसन करता है। ( १ ) ऋ० १.८४.१-२० । (२ ) आश्व० श्रौ० ६.२.१,२।
पृष्ठ 758
पाठ पढ़ें पाठ छिपाएँ
: [ ६ ९ ६ ऐतरेयब्राह्मणम् १६.१ चतुर्थपञ्चिकायां सा ० भा ० — यथा पूर्वत्राग्निष्टोमप्रयुक्तानां द्वादशशस्त्राणामुपरि त्रीण्युक्थ्यशस्त्राणि प्रयुक्तानि, तथात्रापि त्रयाणामुक्थशस्त्राणां ' परस्तात्' उपरि पर्यस्य षोळशिनमेव शंसेत्॥ उक्थानां पशुरूपत्वात् षोळशिनो वज्ररूप वाच्चायं क्रम उपपन्नः, तामेतामुपपत्तिं प्रकटयति- तं यत्परस्ताद् उक्थानां पर्यस्य शंसति, वज्रेणैव तत्वोळशिना पशून् परिगच्छति, तस्मान् पशवो वज्रेणैव षोळशिना परिगता मनुष्या- नभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेऽत एव वाचाऽभिषिद्ध उपावर्त्तते, वज्रमेव षोळशिनं पश्यन् वज्रेणैव षोळशिना परिगतो वाग्धि वज्रो वाक्षोळशी ॥४ ॥
हिन्दी — (उक्थों के पशुरूप होने और षोडशी के वज्र रूप होने को कह कर यह क्रम उपपन्न हुआ है । उस क्रम की उपपत्ति को प्रस्तुत कर रहे हैं - ) तम् उस ( षोडशी नामक शस्त्र को यद् उक्थानां परस्तात् पर्यस्य उक्थों के ऊपर रख कर शंसति ( होता) शंसन करता है । तत् इस ( शंसन ) से षोडशिना वज्रेण वै इस षोडशीरूप वज्र से ही पशून् परिगच्छति (उक्थरूप ) पशुओं को सभी ओर से घेर लेता है । तस्मात् इसी कारण षोडशिना वज्रेणैव परिगता पशवः षोडशीरूप वज्र से ही नियमित हुए पशु मनुष्यान् अभ्युपावर्तन्ते मनुष्यों को अभिलक्षित करके लौट आते हैं। तस्मात् इसलिए अश्वः वा पुरुषः वा गौः वा हस्ती वा अश्व, पुरुष, गौ, हस्ती स्वयमेव परिगतः स्वयं ही नियमित होते हैं अत एव अतः (षोडशी रूप वज्र से नियमित होने के कारण) वाचा अभिषिद्धः ( शीध्र आओं इत्यादि) वाणी से सभी ओर से बँधे हुए होकर आत्मने उपावर्तते अपने (स्थान ) पर लौट आते हैं । षोडशिनं वज्रमेव पश्यन् षोडशीरूप वज्र को ही देखते हुए षोडशिना वज्रेणैव षोडशीरूप वज्र द्वारा परिगतः नियमित होता है; क्योंकि वाग् हि वज्रः वाणी ही वज्र है और वाक् षोडशी वाणी षोडशी है। सा ० भा ० – ‘ तं’ षोळशिनं ‘ यद्' यस्मात्कारणाद् उक्थशस्त्राणां परस्तात् पर्यस्य शंसति, ‘ तत्’ तेन शंसनेन षोळशिरूपेण वज्रेणैवोक्तरूपान् पशून् ‘ परिगच्छति' परितो नियमेन याति । ‘ तस्मात्’ लोकेऽप्यरण्ये संचारार्थं गताः पशवः षोळशिना वज्रेणैव नियमित- त्वात्, सायंकाले मनुष्यान् अभिलक्ष्य तत्तद् गृहेषु उपावर्तन्ते, अन्यथा तस्मादरण्याद-रण्यान्तरमेव गच्छेयुः । न केवलं तृणचरणार्थमरण्यगतानां सायंकाले पुनरागमनाय वज्र-रूपेण नियमितत्वम्, किं तर्हि ग्रामेष्वपि। तस्मात् षोळशिवर्जनियमितत्वाद् अश्वपुरुष-गोहस्त्यादीनामान्यतमः ‘ स्वयमेव' परप्रेरणामन्तरेणैव 'परिगतः ' नियमितः, आत्मना स्वयं बन्धनाय तत्स्थाने समागच्छति। किं च ‘ अत एव' षोळशिवज्रनियमितत्वादेव ‘ वाचा’ शीघ्रमागच्छेत्यादिवाक्येन ‘ अभिषिद्धः' अभितो बद्धः पुरुषः वर्तते । यथा रज्वादि बद्धो
पृष्ठ 759
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६ ९७ बलीवर्द आनीयमान आगच्छति तद्वद् वाचा बद्धः पुरुषः । अत एवारण्यकाण्डे वक्ष्यति— ‘ तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् ” इति। वाङ्मात्रेणाऽऽगमने कारणमुच्यते— षोळशिनं वाग्वज्ररूपमेव पश्यन् षोळशिना वज्रेणैव नियमितो भवति, तद्द्वारा तस्य वज्रत्वम्। षोळशी च वाग्रूपैः सूक्तादिभिर्निषपन्नत्वात्. स्वयमपि वाग्रूपो भवति। वाचश्च वज्रत्वं लोके प्रसिद्धं, राजादीनां भर्त्सनादौ वज्रप्रहारेणैव चित्ते व्यथोदयात्। तदेवं सर्वनियामकत्वात् षोळशिनः प्रशस्तत्वं सिद्धम्॥ यदुक्तं ‘पुरस्तादुक्थानां पर्यस्य शंसत्तिः - इति, तत्रोक्थशस्त्रेभ्य उत्तरकालावस्थानमेव ' पर्यस्य' इति शब्देन विवक्षितमिति व्याख्यातम्, अथवोत्तरकालस्य परस्तादिति शब्देनैव सिद्धत्वात् पर्यस्येतिशब्देन शस्त्रगतानामृचामध्ययनपांठाद् विपर्यासोऽभिधीयते। द्विविधं षोळशिशस्त्रम्- विहृतमविहृतं च। तत्राविहृतं नामाध्ययनक्रमेणैव शंसनम्, विहृतं तु ऋचां परस्परव्यतिषङ्गः । स त्वाश्वलायनेन दर्शितः -'ऊर्ध्वं स्तोत्रियानुरूपाभ्यां तदेव शस्यं विहरेत् पादान् व्यवधायार्धर्चशः शंसेत् पूर्वासां पूर्वाणि पदानि, गायत्र्यः पङ्क्तिभिः, पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात्” इति तदेतदुदाहृत्य प्रदर्श्यते - ' इमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रं सुखतमे रथे' इत्येषा गायत्री । ' ' सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशां अनु योजा न्विन्द्र ते हरी * योऽयमध्ययन- पाठः सोऽविहृतः । विहृतपाठस्तूच्यते— ' इमा धाना घृतस्नुवः सुसंदृशं त्वा वयम्। हरी इहोपवक्षतो मघवन् वन्दिषीमहीन्द्र सुखतमे रथे प्र नूनं पूर्णन्धुरः । स्तुतो याहि वशाँ अनु
योजा न्विन्द्र ते हरीम्' इति। अनेन प्रकारेण विपर्यस्य शंसेत्॥
अथ प्रश्नोत्तराभ्यां षोळशिशब्दं निर्वक्ति— ( षोडशिशब्दनिर्वचनम् ) तदाहुः किं षोळशिनः षोळशित्वमिति? षोळशः स्तोत्राणां, षोळशः ' शस्त्राणां, षोळशभिरक्षरैरादत्ते, षोळशभिः प्रणौति, षोळशपदां निविदं दधाति, तत्वोळशिनः षोळशित्वम् ॥ ५ ॥
हिन्दी — ( प्रश्नोत्तर द्वारा 'षोडशीं' शब्द का निर्वचन कर रहे हैं— ) तदाहुः इस विषय में (कुछ लोग ) पूछते हैं कि किं षोडशिनः षोडशित्वम् षोडशी का षोडशी नाम होना कैसे है? ( उत्तर— ) षोडशः स्तोत्राणाम् स्तोत्रों की संख्या सोलह है और षोडशः शस्त्राणम् शस्त्रों की संख्या सोलह है। षोडशभिः अक्षरैः आदते (इस शस्त्र में होता द्वारा शंसित अनुष्टुप् के पूर्वार्ध में ) सोलह अक्षरों से अवसान करता है और षोडशभिः प्रणौति (उत्तरार्धगत ) सोलह अक्षरों से प्रणव करता है। षोडशपदां निविदं दधाति सोलह ६) ( ) ( ) १ ऐ० आ० २.१.६ । २ आश्व०श्री० ६.३२-६ ।( ) ( ) ३ ऋ० १.१६.२। ४ ऋ० १.८२.३ । ऐ.बा. पू- ४४
पृष्ठ 760
पाठ पढ़ें पाठ छिपाएँ
: [ ६ ९ ८ ऐतरेयब्राह्मणम् १६.१ चतुर्थपञ्चिकायां पदों वाले निविद का प्रक्षेप करता है। तत् षोडशिनः षोडशित्वम् यही षोडशी का षोडशित्व ( षोडशी नाम वाला होना ) है । सा ० भा ० — षोळशिशब्दो ग्रहविशेषं स्तोत्रविशेषं शस्त्रविशेषं चाभिधत्ते ' । तेषामेकैकस्वरूपवताम्। षोळशिशब्दवाच्यत्वमयुक्तम्। तच्छब्दप्रवृत्तौ निमित्तान्तरं तु न पश्याम इति ब्रह्मवादिनामभिप्रायः । षोडशसंख्यायुक्तत्वात् षोळशित्वमित्युत्तरम्। तत्र कथमिति, तदुच्यते— अग्निष्टोमसंस्थो ज्योतिष्टोमः द्वादशस्तोत्रोपेतः । तथा च शाखान्तरे श्रूयते—' द्वादशाग्निष्टोमस्य स्तोत्राणि' इति तद्गर्भित उक्थ्यसंस्थस्त्रिभिः स्तोत्रैरतिरिच्यते। तस्मात् पञ्चदश स्तोत्राणि भवन्ति । तद्गर्भितः षोळशिसंस्थ एकेन स्तोत्रेणातिरिच्यते; ततः स्तोत्राणां मध्य एतत्स्तोत्रप्रयोगः षोडशसंख्यापूरको भवति। तथा शस्त्राणां मध्येऽप्येतच्छत्र- प्रयोगः षोडशसंख्यापूरकः । किं चास्मिञ्छस्त्रे होत्रा संपादिताया अनुष्टुभः पूर्वार्धगतानि षोडशाक्षराण्युच्चार्य अवस्यति, उत्तरार्धगतानि षोडशाक्षराण्युच्चार्य ‘ प्रणौति’ प्रणवमु- च्चारयति। किं च ‘ अस्य मदे जरितः ' इत्यादिका षोडशपदोपेता निवित्' शस्त्रमध्ये प्रक्षिप्यते । अतो बहुधा षोडशसंख्यायोगाद् अयं प्रयोगः षोळशिनामोपेतः ॥ प्रकारान्तरेण षोळशिनं प्रशंसति- ( प्रकारान्तरेण षोडशिप्रशंसनम् ) द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसंपन्नस्य वाचवा तौ स्तनौ, सत्यानृते वाव ते ॥६ ॥
हिन्दी -(प्रकारान्तर से षोडशी की प्रशंसा कर रहे हैं - ) अनुष्टुभम् अभि सम्पन्नस्य अनुष्टुप् छन्द पूरा होने पर भी षोडशिनः षोडशी के द्वे अक्षरे दो अक्षर अतिरेच्येते अतिरिक्त ( अधिक) हो जाते हैं । तौ वाचः स्तनौ वे दोनों ( अधिक अक्षर) वाणी (रूप स्त्री) के दो स्तन हैं। ते सत्यानृते वे (वाणी के दोनों स्तन) सत्य और अनृत रूप वाले हैं। सा ० भा ० — योऽयं षोळशी, सोऽयं द्वंयक्षराधिकामुनुष्टुभं यदा संप्राप्तो भवति, तदानीं द्वे एवाक्षरे अधिके भवतः । तथा हि सूत्रकारः - ' विहृतस्य ' इत्युपक्रम्य शाखा- न्तरीया ‘ इन्द्र जुषस्व ' इत्यादिका ऋचः पठितवान्।” तस्याः पूर्वस्मिन्नर्धर्चे षोडशाक्षराणि, उत्तरार्धचेंऽष्टादश; ततोऽक्षरद्वयाधिक्यम्। ' वाग्वा अनुष्टुप्" इति श्रुत्यन्तरे सा वाचोऽनुष्टुब- ( १ ) 'एतत् त्रयं सह क्रियते ग्रहः स्तोत्रं शस्त्रम्' – इति शत० ब्रा ० ८.१.३४ । ( २ ) तै०ब्रा० १.२.२ । तु० ता० ब्रा० ६.३.३ । ( ३ ) निवि० ११.११-१६ । (४ ) आश्व० श्रौ० ६.३.१ । 19.3.5. s ( ५ ) तै ० सं ० ६.६.११; तु० ऐ०ब्रा० ३०.१० । 15.39.333 (0) ..