ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 761–770
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 761–770
पृष्ठ 761
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६ ९९ वयवत्वात् तदात्मिकाया वाग्देवातायाः स्त्रीरूपाया अधिकाक्षररूपौ 'स्तनौ' संपद्येतते; यदेतत् लोके सत्यवदनं, यच्चानृतवदनं, तदुभयमपि वाचः स्तनरूपम्; अतोऽधिकाक्षरायाः सत्यानृतरूपत्वम्॥ उक्तार्थवेदनं प्रशंसति— अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद ॥७ ॥
हिन्दी— यः एवं वेद जो इस प्रकार जानता है, एनम् इस (जानने वाले ) की सत्यम् अवति सत्य रक्षा करता है औरऔर एनम् अनृतं न हिनस्ति इसको अनृत विनष्ट नहीं करता । - स० भा०-——एनं' वेदितारं सत्यवाक् पालयति, सुकृतोत्पादकत्वात्। अनृतवाक् न हिनस्ति, दुरितस्यानुदयात् ॥. ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः प्रथमाध्याये ( षोडशाध्याये ) प्रथमः खण्डः ॥१ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय के प्रथम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा० भा०--षोळशिशस्त्रं विधाय षोळशिस्तोत्रनिष्पादकं सामविशेषं विधत्ते- ( षोडशिस्तोत्रनिष्पादकसामविशेषविधानम् ) गौरिवीतं षोळशिसाम कुर्वीत तेजस्कामा ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं, तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान् गौरिवीतं षोळशिसाम कुरुते ॥१ ॥
हिन्दी – ( षोडशीशस्त्र का विधान करके अब षोडशी स्तोत्र के निष्पादक साम का विधान कर रहे हैं— ) तेजस्कामः ब्रह्मवर्चसकामः तेज की कामना करने वाला और ब्रह्मवर्चस की कामना करने वाला गौरिवीतं षोडशिसाम कुर्वीत (गौरिवीत नामक ऋषि द्वारा दृष्ट) गौरिवीत नामक षोडशिसामं का प्रयोग करें । तेजः वै ब्रह्मवचसं गौरिवीतम् गौरिवीत साम तेज और ब्रह्ममवर्चस् रूप है । अतः यः एवं विद्वान् जो इस प्रकार जानने वाला गौरिवीतं षोडशिसाम कुरुते गौरिवीत नामक षोडशीसाम का 'प्रयोग करता है वह तेजस्वी ब्रह्मवर्चसी भवति तेज और ब्रह्ममवर्चस् से सम्पन्न हो जाता है।
पृष्ठ 762
पाठ पढ़ें पाठ छिपाएँ
: [ ७०० ऐतरेयब्राह्मणम् १६.२ चतुर्थपञ्चिकायां सा० भा० — केनचिन्महर्षिणा गौरिवीतनाम्ना दृष्टत्वात् सामापि गौरिवीतनामकम्। तत्तु ‘ अभि प्र गोपित गिरा’ इत्यस्यामृच्युत्पन्नं', तदत्र षोळशिस्तोत्रे साम कुर्वीत। ’ ‘ तेज: ’ शरीरकान्तिः । ‘ब्रह्मवर्चसं ' श्रुताध्ययनसंपत्तिः ॥ सामान्तरं विधत्ते- ( सामान्तरविधानम् ) नानदं षोळशिसाम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्; तमस्मै प्राहरत्, तमभ्यहनत्, सोऽभिहतो व्यनदत्, यद् व्यनदत् तन्नानदं सामाभवत् तन्नानदस्य नानदत्वम्; अभ्रातृव्यां वा एतद् भ्रातृव्यहा साम सन्नानदम् ॥ २ ॥
हिन्दी –( सामान्तर का विधान कर रहे हैं - ) षोडशिसामे षोडशि साम में नानदं कर्त्तव्यम् (‘ प्रत्यस्मै पिपीषते' इस ऋचा पर उत्पन्न ) नानद (नामक साम-विशेष) का (प्रयोग) करना चाहिए— इत्याहुः ऐसा कुछ लोग कहते हैं; क्योंकि इन्द्रः वै वृत्राय वज्रम् उदयच्छत् इन्द्र ने वृत्र ( को मारने ) के लिए वज्र को उठाया और तंम् उस ( वज्र ) को अस्मै इस ( वृत्र को मारने ) के लिए प्राहरत् प्रहार किया। तम् अभ्यहनत् उस ( वृत्र ) को घायल कर दिया । अभिहितः सः व्यनदत् घायल हुआ वह ( वृत्र ) बड़े जोर से चिल्लाया। यद् व्यनदत् जो ( वृत्र ने ) जोर से चिल्लाया तत् नानदं साम अभवत् वह नानद (नामक ) साम हो गया। तद् नानदस्य नानदत्वम् वही नानद (नामक साम) का नानद नाम वाला होना है। यद् नानदं साम जो नानद नामक साम है एतत् वह अभ्रातृव्यम् शत्रुरहित है; क्योंकि भ्रातृव्यहा वह शत्रु को विनष्ट करने वाला है । सा ० भा ० — नानदाख्यं किंचित्साम; तत्तु 'प्रत्यस्मै पिपीषते ' इत्यस्यामृच्युत्पन्नं '; तदेतत्साम षोळशिस्तोत्रे ' कर्तव्यमित्यन्ते केचिदाहुः । ' तस्य नानदत्वं कथमिति, तदुच्यते— वज्रप्रहारेणाभिहतो वृत्रो ‘व्यनदद्' विशिष्टमुच्चैर्ध्वनिं नादं कृतवान्। स च ध्वनिर्नानदसामा- कारेण संपन्नः । ततो नानदोत्पन्नत्वान्नानदमिति नाम। तत्साम भ्रातृव्यरहितम् —तत्परिशी- लनवन्तः सर्वेपि मैत्रीमेव प्रतिपद्यन्ते, न तु कश्चिदपि द्वेषम्। के चैतत्साम ‘ भ्रातृव्यहा ' पूर्वं विद्यमानस्य शत्रोर्घातकम्॥ वेदनं प्रशंसति- ( १ ) ऋ० ८.६ ९.४ । छ०आ० २.२.३.४; गे ० गा ० ५.१.२० । ( २ ) उ०आ ० ३.१.२२.१-३; ऊ० गा० ३ १.२; ता० ब्रा० १२.१३.९। ( ३ ) छ० आ० ४.२.२.११ मे० या० ९.२.१३ । (४ ) उ०आ० १.१.१८.१-३ । ऊ० गाः २.२.१८ । ( ५ ) ' गोपालपुत्र उपोदितिर्नाम ऋषिरुवाच'- इति ता०ब्रा० १२.१३.११ सा० भा० ।
पृष्ठ 763
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७०१ अभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशिसाम कुरुते ॥ ३ ॥
हिन्दी—(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं विद्वान् जो इस प्रकार जानने वाला नानदं षोडशिसाम कुरुते नानद नामक षोडशिसाम का प्रयोग करता है, वह अभ्रात्यव्यः भ्रातृव्यहा भवति शत्रु से रहित और शत्रु का विनाश करने वाला होता है। सा० भा०-- गौरिवीतं नानदं वा सामेत्येवं पक्षद्वयं संपन्नम्। तयोः पक्षयोः शस्त्रविशेषव्यवस्थां विधत्ते— तद् यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्योऽविहृतासु हि तासु स्तुवते; यदि गौरिवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते ॥४ ॥
हिन्दी – ( अब गौरिवीत और नानद नामक दोनों सामो के पक्ष में शस्त्र-विशेष की व्यवस्था का विधान कर रहे हैं - ) तत् यदि नानदं कुर्युः उन दोनों में से यदि नानद (नामक साम ) का प्रयोग करें तो षोडशी अविहृतः शंसव्यः षोडशी को अविहृत ( परस्पर व्यतिषङ्ग से रहित) शंसन करना चाहिए; क्योंकि अविहृतासु हि. तासु स्तुवते ( सामगायकों द्वारा) वे अविहृत रूप में स्तुत किये जाते हैं। यदि गौरिवीतम् यदि गौरिवीत (नामक साम ) का प्रयोग करे तो षोडशी विहृतः शंसव्यः षोडशी को विहृत ( व्यतिषङ्गपूर्वक ) शंसन करना चाहिए; क्योंकि विहृतासु तासु स्तुवते (सामगायकों द्वारा ) वे विहृत रूप से स्तुत किये जाते हैं। सा० भा ० — अविहृतरूपः परस्परव्यतिषङ्गरहितो यथाधीतपाठः; सोऽयं नानदपक्षे कर्तव्यः । यतः सामगा अपि ' अविहृतासु' व्यतिषङ्गरहितास्वृक्षु नानंदसाम्ना स्तुवते, तस्मादविहृतत्वमेवात्र योग्यम्। ' यथा वाव स्तोत्रमेवं शस्त्रम् - इति न्यायात्। गौरिवीतीपक्षे शस्त्रमपि परस्परव्यतिषङ्गेण विहृतं पठनीयम्, सामगैः विहृतासु' व्यतिषक्तास्वृक्षु गौरि- वीतसाम्ना स्तूयमानत्वात्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकाया: प्रथमाध्याये ( षोडशाध्याये ) द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) 'देशभेदेन चानयोर्व्यवस्थेत्यपि ज्ञापिता' – ता०ब्रा० १२.१३.११ सा० भा० ।
पृष्ठ 764
पाठ पढ़ें पाठ छिपाएँ
: [७०२ ऐतरेयब्राह्मणम् १६.३ चतुर्थपञ्चिकायां अथ तृतीयः खण्डः सा० भा ० – अंथ विरहणप्रकारं विधत्ते- ( षोडशिशस्त्रे विहरणप्रकारविधानम्) ( तत्र गायत्रीपङ्क्त्योर्विहरणप्रकारः ) अथातश्छन्दांस्येव व्यतिषजति; ' आ त्वा वहन्तु हरय', 'उपो षु शृणुही गिर' इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति, गायत्रो वै पुरुषः, पाङ्क्ताः पशवः, पुरुषमेव तत्पशुभिर्व्यतिषजति, पशुषु प्रतिष्ठापयति, यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ, तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैति ॥ १ ॥
हिन्दी— ( अब विहरण प्रकार का विधान कर रहे हैं - ) अथातः अथ यहाँ से छन्दांसि व्यतिषजति ( परस्पर विलक्षण) छन्दों को व्यतिषक्त करता ( मिलाता) है। 'आ त्वा वहन्तु हरयः ’ और ‘ उपो षु शृणुही गिर' इति गायत्रीः च पंक्तिः च (क्रमश: इन तीन- तीन) गायत्री छन्दस्क और पंक्ति छन्दस्क (ऋचाओं) को व्यतिषजति मिलाता है। गायत्रः वै पुरुषः पुरुष गायत्री छन्दस्क है और पाङ्क्ताः पशवः पशु पंक्ति संख्या वाले हैं । तत् इस ( मिलाने ) से पुरुषमेव ( गायत्री छन्द रूप) पुरुष को पशुभिः (पंक्ति छन्द वाले) पशुओं से व्यतिषजति मिलाता है और पशुषु प्रतिष्ठापयति ( पुरुष को ) पशुओं में प्रतिष्ठित करता है। यद् गायत्री च पंक्ति च जो गायत्री और पंक्ति है, ते द्वे अनुष्टुभौ वे ( मिलकर ) दो अनुष्टुप् होते हैं। तेन उ उस (दोनों के मिश्रण) से वाचः रूपात् वाणीरूप से, अनुष्टुभः रूपात् अनुष्टुप् रूप से और वन्ज्ररूपात् वज्ररूप से न ऐति अलग नहीं होता । सा ० भा ० — ‘ अथ’ सामद्वयविधानानन्तरम् ‘ अतः ' गौरिवीतपक्षे विहृतस्यापेक्षित-त्वात् तदुच्यत इति शेषः। स्वस्वस्थानाद् विभज्यान्यत्र नयनं 'विहरणम्'। तच्च समानच्छन्दस्कयोरेव भवति, तद् व्यावृत्त्यर्थमुच्यते—' छन्दांस्येव व्यतिषजति’ –इति। परस्परविलक्षणानि च्छन्दांस्येव व्यतिषक्तानि कुर्युरिति। तत्र कस्य च्छन्दसः केन छन्दसा सह व्यतिषङ्ग इति, तदेतदुदाहरणपूर्वकं प्रदर्श्यते—' आ त्वा वहन्तु '– इत्यादिकास्तिस्र ऋचः गायत्रीछन्दस्काः, ‘उपोषु’ ’ – इत्येका 'सृसंदृशम्' 1- इति द्वे; एतास्तिस्रः पङ्क्तिछन्दस्का:, ता उभयीः परस्परं व्यतिषजन् मिश्रयेत् । गायत्र्याः प्रथमपादमुक्त्वा तेन सह पङ्क्तेः प्रथम पादमुच्चारयेत् । सोऽयं प्रकारोऽस्माभिः पूर्वमेवोदाहृतः। लोके ‘'पुरुषो गायत्रः' उप नीतेनं ( १ ) ऋ ० १.१६.१-३। ( २ ) ऋ० १.८२.१। ( ३ ) ऋ० १.८२.३,४
पृष्ठ 765
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७०३ गायत्र्या अनुष्ठेयत्वात् ‘ पशवश्च पाङ्क्ताः' चतुर्भिः पादैर्मुखेन च पञ्चसंख्योपेतत्वात्। तत्र गायत्रीपङ्क्त्योर्मेलनेन पुरुषस्य पशूनां च मेलनं भवति । अतः पुरुषं पशुषु प्रतिष्ठापयति । किं च यद्रूपेणैव कारणेन गायत्री च पङ्क्तिश्च मिलिते सत्येते द्वे अनुष्टुभौ सपंद्येते । गायत्र्यास्त्रिपादत्वात्, पङ्क्तेश्च पञ्चपादत्वात्, मिलित्वाऽष्टानां पादानां विद्यमानत्वात् ‘तेनो ’ तेनैव मेलनेन कारणेनायं गुरुषो वाग्रूपादनुष्टुब् रूपाद् वज्ररूपाच्च. ' नैति' कदाचिदपि वियुक्तो न भवति । शस्त्रस्याक्षरात्मकत्वेन वाग्रूपत्वम्, अष्टपादसंपत्तावनुष्टुब्वयरूपत्वम्, षोडशिनः पश्वादिनियामकत्वेन वज्ररूपत्वम्, अतो नास्ति त्रिविधवियोगम्॥ छन्दोन्तरयोर्विहरणं विधत्त--- ( उष्णिग्बृहत्योर्विहरणप्रकारः ) ' यदिन्द्र पृतनाज्ये ' ' अयं ते अस्तु हर्यतः ' इत्युष्णिहश्च बृहतीच... व्यतिषजत्यैष्णिहो वै पुरुषो, बार्हताः पशवः, पुरुषमेव तत्पशुभि- व्यतिषजति, पशुषु प्रतिष्ठापयति; यदुष्णिक् च बृहती च ते द्वे अनुष्टुभौ, तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैति ॥ २ ॥
हिन्दी— ( अन्य छन्दों के विहरण का विधान कर रहे हैं— ) ' यदिन्द्र पृतनाज्ये ' और ‘ अयं ते अस्तु' इति उष्णिहः च बृहतीः च क्रमश: इस ( तीन ) उष्णिक् और ( तीन ) बृहती ( छन्दस्क ऋचाओं) को व्यतिषजति मिलाता है। उष्णिहः ह पुरुषः पुरुष उष्णिक् है और बृहतीः पशवः और पशु बृहती (छन्दस्क ) है । तत् इस ( मिलाने ) से पुरुषमेव पुरुष को ही पशुभिः व्यतिषजति पशुओं से मिलाता है। पशुषु प्रतिष्ठापयति ( पुरुष को ) पशुओं में प्रतिष्ठापित करता है । यद् उष्णिक्च बृहती च जो उष्णिक् और बृहती हैं ते द्वे अनुष्टुभौ वे ( मिल कर ) दो अनुष्टुप् होते हैं । तेन उस ( दोनों के मिश्रण) से वाचः रूपात् वाणी रूप से, अनुष्टुभः रूपात् अनुष्टुप् रूप से और वज्ररूपात् वज्ररूप से न एति ( यजमान) अलग नहीं होता । सा० भा ० — ‘ यदिन्द्र' ' इत्यादिकास्तिस्र उष्णिक्छन्दस्का ऋच:, ' अयं ते अस्तु''-इत्यादिकास्तिस्रो बृहतीछन्दस्काः । उपनीतः पुरुषो व्याहृत्यक्षरचतुष्टयोपेतां चतुर्विंशत्यक्षरां गायत्रीं व्यतिषजति, उष्णिक् चाष्टाविंशत्यक्षरा ततः पुरुषस्यौष्णिहत्वम्, पशूनां बार्हतत्वं शाखान्तरे श्रुतम्– ' छन्दांसि पशुष्वाजिमयुस्तान् बृहत्युदयजत्; तस्माद् बार्हताः पशव उच्यन्ते ' ' इति । बृहती च षट्त्रिंशदक्षरा, तस्या उष्णिग्योगे सति चतुःष्ट्यक्षरसंपत्तेरनुष्टुब्द्वयम्॥ छन्दोन्तरयोर्विहरणं विधत्ते- fers frá feums & fu farw ( १ ) ऋ० ८.१२.२५-२७। (२ ) ऋ० ३.४४.१-३ ।( ) ( 9) ३ तै ० सं ० ५.३.२.३ । १४.४६.०
पृष्ठ 766
पाठ पढ़ें पाठ छिपाएँ
: [७०४ ऐतरेयब्राह्मणम् १६.३ चतुर्थपञ्चिकायां ( द्विपदात्रिष्टुभोर्विहरणप्रकारः ) ' आ धूर्ध्वस्मै' ' ब्रह्मन् वीर ब्रह्मकृति जुषाण' इति द्विपदां च त्रिष्टुभं च व्यतिषजति; द्विपाद वै पुरुषो वीर्यं त्रिष्टुप् पुरुषमेव तद्वीर्येण व्यतिषजति, वीर्ये प्रतिष्ठापयति, तस्मात् पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप् च, ते द्वे अनुष्टुभौ, तेनो वाचोरूपाद् अनुष्टुभोरूपाद् वज्ररूपान्नेति ॥ ३ ॥
हिन्दी– ( अन्य छन्दों के विहरण का विधान कर रहे हैं - ) ' आ धूर्ध्वस्मै' और ‘ ब्रह्मन् वीर ब्रह्मकृति जुषाण' इति द्विपदां च त्रिष्टुभं च क्रमश: इन दो पादों वाली और त्रिष्टुप् छन्दस्क (ऋचाओं ) को व्यतिषजति मिलाता है। द्विपाद् वै पुरुषः पुरुष दो पादों वाला होता है, और वीर्यं त्रिष्टुप् त्रिष्टुप् वीर्य ( बल) रूप है । तद् इस (मिलाने ) से पुरुषमेव पुरुष "को ही वीर्येण व्यतिषजति बल से मिलाता है और वीर्ये प्रतिष्ठापयति ( पुरुष को) बल में प्रतिष्ठित करता है । तस्मात् इसी कारण पुरुषः पुरुष सर्वेषां पशूनाम् वीर्यवत्तमः सभी प्राणियों में सर्वशक्तिमान होता है । यदु द्विपदा च विंशत्यक्षरा जो ( बीस अक्षरों वाली) द्विपदा और त्रिष्टुप् च (चौवालिस अक्षरों वाला) त्रिष्टुप् है ते द्वे अनुष्टुभौ वे दो अनुष्टुप् हैं । तेन उस (मिलाने ) से ( यजमान) वाचः रूपात् वाणी रूप से, अनुष्टुभः रूपात् अनुष्टुप् रूप से और वज्ररूपात् वज्र रूप से न ऐति अलग नहीं होता । सा० भा० --' आ धूर्ध्वस्मै '१ इत्येषा पादद्वयोपेता, 'ब्रह्मन् वीरं ' इत्येषा त्रिष्टुप्छन्द-स्का; पुरुषस्य द्विपात्त्वं प्रसिद्धम्, त्रिष्टुभो वीर्यहेतुत्वाद् वीर्यत्वं, ' तस्मादुभयमेलनेन पुरुषं वीर्ये प्रतिष्ठापयति। तस्माल्लोकेऽपि सर्वेषां द्विपदां चतुष्पदानां पशूनां मध्ये पुरुषस्य शक्त्याधिक्यात् पुरुषो वीर्ये प्रतिष्ठितः । द्विपदा चेयं विंशत्यक्षरा; अष्टाक्षरे प्रथमे पादे संयुक्ताक्षरयोर्विभागेन पञ्चाक्षरत्वे सति दशसंख्यापूर्तेः । एवं पञ्चाक्षरैस्त्रिष्टुभश्चतुर्णा पदानां संधातम्। त्रिष्टुप्चतुःचत्वारिंशदक्षरा । मिलित्वा चतुःषष्टिसंपत्त्याऽनुष्टुब्द्वयं संभवति ॥ छन्दोन्तरयोर्विहरणं विधत्ते- ( द्विपदाजगत्योर्विहरणप्रकारः ) ' एष ब्रह्मा', ' प्र ते महे विदथे शंसिषं हरी' इति द्विपदाश्च जगतीश्च व्यतिषजति; द्विपाद् वै पुरुषो जागताः पशवः, पुरुषमेव तत् पशु- भिर्व्यतिषजति, पशुषु प्रतिष्ठापयति; तस्मात् पुरुषः पशुषु प्रतिष्ठितः, अत्ति चैनान् अधि च तिष्ठति, वशे चास्य; यदु द्विपदा च षोळशाक्षरा ( ) जगती च, ते द्वे अनुष्टुभौ( ), तेनो वाचो रूपादनुष्टुभो रूपाद् वज्र- १ ऋ० ७.३४.४ । २ ऋ ० ७.२ ९.२श
पृष्ठ 767
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७०५ रूपान्नैति ॥४ ॥
हिन्दी – ( अन्य छन्दों के विहरण को कह रहे हैं— ) 'एष ब्रह्मा' और 'प्र ते महे विदथे शंसिषं हरी ' इति द्विपदाः च जगती च क्रमश: इन ( तीन) द्विपदा और ( तीन ) जगती (ऋचाओं ) को व्यतिषजति मिलाता है। द्विपाद् वै पुरुषः पुरुष दो पादों वाला होता है और जागताः पशवः पशु जगती से सम्बन्धित होते हैं। तत् इस (मिलाने ) से पुरुषमेव पुरुष को ही पशुभिः व्यतिषजति पशुओं से मिलाता है और पशुषु प्रतिष्ठा- पयति ( पुरुष को ) पशुओं में प्रतिष्ठापित करता है। तस्मात् इसी कारण पुरुषः पशुषु प्रतिष्ठितः पुरुष पशुओं में प्रतिष्ठित होकर एनान् अत्ति इन ( पशुओं के दुग्धादि ) का भक्षण करता है और अधि च तिष्ठति इनका नियमन करता है । वशे च अस्य इस मनुष्य के वश में ( सभी पशु रहते हैं )। यदु षोडशाक्षरा द्विपदा जो सोलह अक्षरों वाली द्विपदा और जगती च (अड़तालिस अक्षरों वाली) जगती छन्द हैं ते द्वे अनुष्टुभौ वे दो अनुष्टुप् होते हैं । तेन उस (मिश्रण ) से ( यजमान ) वाचः रूपांत् वाणीरूप से, अनुष्टुभः रूपात् अनुष्टुप् रूप से और वज्ररूपात् वज्र रूप से न एति अलग नहीं होता ।. सा० भा०--' एष ब्रह्मा' ' इत्यादिकास्तिस्रो द्विपदा, 'प्र ते महे'' इत्यादिकास्तिस्रो जगत्यः । पशूनां जागतत्वं शाखान्तरे सोमाहरणकथायां श्रूयते - 'सा पशुभिश्च दीक्षया चागच्छत् तस्माज्जगती छन्दसां पशव्यतमा'३ इति। यस्मान्मेलनेन पुरुषं पशुषु प्रतिष्ठायति, तस्मादयं पुरुषः पशुषु प्रतिष्ठितः, तस्मिन् क्षीरादिकमत्ति च, ' ऐनान्' पशून् ' अधितिष्ठति' नियमयति च; तस्माद् ‘ अस्य' पुरुषस्य वशे सर्वे पशवो वर्तन्ते । ‘ यदु' यस्मादेव कारणादियं द्विपदा षोडशाक्षरा, जगति चाष्टाचत्वारिंशदक्षरा, तां मिलित्वा चतुःषष्टित्वचादनुष्टुब्वयत्वम्॥ छन्दोन्तरसंयुक्ताः काश्चिदृचो विधत्ते— ( अतिच्छन्दोनामनिर्वचनम् ) 'त्रिकद्रुकेषु महिषो यवाशिरम्', 'प्रो ष्वस्मै पुरोरथम्' इत्यति- च्छन्दसः शंसति, च्छन्दसां वै यो रसोऽत्यक्षरत्, सोऽतिच्छन्दसम- भ्यत्यक्षरत्, तदतिच्छन्दसोऽतिच्छन्दस्त्वं, सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत्षोडशी, तद् यदातिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते ॥५॥
हिन्दी—( अन्य छन्दों से संयुक्त कुछ ऋचाओं का विधान कर रहे हैं - ) त्रिकद्रुकेषु महिषो यवाशिरम्' और ' प्रोष्वस्मै पुरो रथम्' इति अतिच्छन्दसः शंसति इन दो अतिच्छन्दस्क ( १ ) साम ० १.४३८, २.१११८ । तै ० ब्रा० ३.७.९.५ । आश्व ० श्रौ० ६.२.६ । (२ ) ऋ० १०.९ ६; १-३ । ( ३ ) तै० सं ० ६.१.६.२ ।
पृष्ठ 768
पाठ पढ़ें पाठ छिपाएँ
: [७०६ ऐतरेयब्राह्मणम् १६.४ चतुर्थपञ्चिकायां ( तृचों ) का शंसन करता है । छन्दसाम् ( गायत्री इत्यादि) छन्दों का यः रसः जो रस अत्यक्षरत् अतिशय रूप से स्रवित हुआ, सः अतिच्छन्दसम् अभि वह अतिच्छन्द को अभिलक्षित करके अत्यक्षरत् अत्यधिक रूप से स्रवित हुआ। तत् वही अतिच्छन्दसः अतिच्छन्दस्त्वम् अतिच्छन्द का अतिच्छन्द नाम वाला होना है। यत् षोडशी जो षोडशी है, एषः सर्वेभ्यः छन्दोभ्यः यह सभी छन्दों से सन्निर्मितः सम्यक् प्रकार से निर्मित है । तत् जो यद् अतिच्छन्दसः शंसति जो अतिच्छन्द का शंसन करता है तत् इस ( शंसन) से एनम् इस (षोड़शी ) को सर्वेभ्यः छन्दोभ्यः एव सभी छन्दों द्वारा ही सन्निर्मिमीते सम्यक्रूप से निर्मित ( सम्पन्न) करता है । सा० भा० -- 'त्रिकद्रुकेषु'" इति तृचे यास्तिस्र ऋचः, ता अतिच्छन्दोयुक्ताः, तथा ‘ प्रो ष्वस्मैः’२ इति तृचोऽपि; ता उभयोः शंसेत्। 'छन्दसां' गायत्र्यादीनां यो 'रस: ’ सारः ‘ अत्यक्षरद्’ अतिशयेन: स्रवत् तदानीं स रसोऽतिच्छन्दसमभिलक्ष्यातिशयेनास्रवत् । ‘तत्’ तस्माच्छन्दोरसस्यातिशयेन स्रवणादतिच्छन्दस्त्वं नाम संपन्नम् । षोडशी चोक्तप्रकारेण सर्वेभ्यः छन्दोभ्यः सम्यङ्निर्मितः, तस्मादतिच्छन्दसां शंसनेनायं होता ' एनं' यजमानं सर्वच्छन्दोभ्यो निर्मिमीते ॥ वेदनं प्रशंसति— सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद ॥ ६ ॥
हिन्दी—( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता हैं, वह सर्वेभ्यः छन्दोभ्यः सभी छन्दों द्वारा सन्निर्मितेन षोडशिना सम्यक् रूप से निर्मित षोडशी से राध्नोति समृद्धि को प्राप्त करता है ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः प्रथमाध्याये ( षोडशाध्याये ) तृतीयः खण्डः ॥३ ॥
|| इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय के तृतीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा ० भा ० — अथ पूर्वोक्तानामतिच्छन्दसामनुष्टुप्संपादनाय मेलनं विधत्ते— ( महानाम्नीनामोपसर्गाणामुपसर्जनप्रकारः ) महानाम्नीनामुपसर्गानुपसृजति ॥१ ॥
( १ ) ऋ० २.२२.१-३ । ( २ ) ऋ० १०.१३३.१-३ ।
पृष्ठ 769
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ७०७ हिन्दी— ( अब पूर्वोक्त अतिच्छन्दों के अनुष्टुप्- सम्पादन के लिए उनके मिलाने का विधान कर रहे हैं— ) महामाम्नीनाम् उपसर्गान् उपसृजति महानाम्नी- सम्बन्धी ( पाँच) उपसर्गों का संयोजन करता है। विमर्श- ( १ ) ऐतरेयारण्यक के चतुर्थारण्यक के प्रथम खण्ड में नौ महानाम्नी ऋचाओं को कहा गया है । उनमें पाँच उपसर्ग प्रयुक्त है— प्रचेतन और प्रचेतय ( द्वितीय महानाम्नी ऋचा में प्रयुक्त), आयाहि पिब मत्स्व ( तृतीय ऋचा में प्रयुक्त), क्रतुच्छन्द ऋत बृहत् (षष्ठ ऋचा में प्रयुक्त) तथा सुम्न आ धेहि न वसौ ( अष्टमी ऋचा में प्रयुक्त ) । पाँचों उपसर्ग मिलकर बत्तीस अक्षरों वाले हो जाते हैं । इनसे एक अनुष्टुप् छन्द निष्पन्न हो जाता है । इन्हें कभी विच्छेद न करते हुए निरन्तर अविहृत पढ़ा जाता है और कभी विच्छेद करके अतिच्छन्दों में जोड़ा जाता है (द्र० ऐ ०आ० ४.१.१ - ९ ) । सा० भा० —-'विदा मधवन्' – इत्यस्मिन्ननुवाके प्रोक्ता ऋचो ' महानाम्न्यः ' तासां · सम्बन्धिन उपसर्गाः पञ्चविधाः । ते च आश्वलायनेन दर्शिताः -'प्र चेतन, प्र चेतया, आयाहि पिब मत्स्व, क्रतुश्छन्द ऋतं बृहत्, सुम्न आ धेहि नो वसवित्यनुष्टुप्' इति! तत्र ‘प्र चेतन- इत्येकः प्रथम उपसर्गः ', 'प्र चेतय'-इति द्वितीयः, तावभावपि द्वितीयस्यां महानाम्न्या- माम्नातौ ' आयाहि पिब मत्स्व' - इति तृतीया उपसर्गः, तृतीयस्यां महानाम्न्यामाम्नातः । 'क्रतुश्छन्द ऋतं बृहद्'- इत्ययं चतुर्थ उपसर्गः, स च षष्ठ्यां महानाम्न्यामाम्नातः । 'सुम्न आ धेहि नो वसविति' पञ्चम उपसर्गः; स चाष्टम्यां महानाम्न्यामाम्नातः । एतेषु पञ्चसूपसर्गेषु मिलित्वा द्वात्रिंशदक्षरसद्भावाद् इयमेकाऽनुष्टुबिति सूत्रस्थार्थः । इयं चानुष्टुबविहृतषोळशिनि तथैव पठनीयशः, अन्यत्र तु विहृतषोळशिनि पञ्चाप्युपसर्गान् विभज्यातिच्छन्दःसु पञ्चसु योजनीयाः । अत एवोपसृज्यमानत्वाद् उपसर्गा इत्युच्यन्ते। तदेतत्संयोजनमत्र 'उपसृजति ’ इति शब्देन विधीयते । ‘त्रिकद्रुकेषु' -इति येयं प्रथमाऽतिच्छन्दाः तस्याश्चतुःषष्ट्यक्षरत्वात् न पराण्यपेक्षते सेयमनुष्टुब्द्वयसंपत्तिः शक्येति। द्वितीयस्यामृचि तदनुष्टुब्द्वयं पूरयितुं 'प्र चेतन'- इत्यक्षरचतुष्टयं योजनीयम्, तृतीयस्यामृचि 'प्रचेतय' - इति योजनीयम्। 'प्रो ष्वस्मै' - इत्यादिषु तिसृषु अवशिष्टास्त्रय उपसर्गाः क्रमेण योजनीयाः । पादयोरवतान्त उपदध्यात्, प्र चेतनेति पूर्वस्यां, प्रचेतयेत्युत्तरस्याम्, उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्' ' इति॥ अथ महानाम्नीः प्रशंसति— ( महानाम्नीप्रशंसनम् ) अयं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयाऽसौ लोक- स्तृतीया, सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोळशी, तद् यन्महानाम्नीनामुपसर्गानुपसृजति, सर्वेभ्य एवैनं तल्लोकेभ्यः ( १ ) अश्व०श्री० ६.३.११,१२।
पृष्ठ 770
पाठ पढ़ें पाठ छिपाएँ
: [ ७०८ ऐतरेयब्राह्मणम् १६.४ चतुर्थपञ्चिकायां संनिर्मिमीते ॥ २ ॥
हिन्दी—( अब महानाम्नी ऋचाओं की प्रशंसा कर रहे हैं —— ) अयं वै लोकः प्रथमा महानाम्नी प्रथमा महानाम्नी यह (पृथिवी) लोक है, अन्तरिक्षलोकः द्वितीया द्वितीय ( महानाम्नी) अन्तरिक्ष लोक है और असौ लोकः तृतीया तृतीया ( महानाम्नी ) वह द्युलोक है, यत् षोडशी जो षोडशी है, एषः सर्वेभ्यः लोकेभ्यः सन्निर्मितः वह सभी लोकों से सम्पक् प्रकार से निर्मित है। तत् जो यद् महानाम्नीनाम् उपसर्गान् उपसृजति जो माहनाम्नी ( मन्त्रों ) से सम्बन्धित उपसर्गों को संयोजित करता है तत् उस ( संयोजन ) से एनम् इस ( षोडशी) को सर्वेभ्यः लोकेभ्यः सभी लोकों के लिए सन्निर्मिमीते सम्यक् प्रकार से निर्मित करता है। सा० भा ० — प्रथमत्वादिसाम्येन लोकत्रयरूपत्वं तृचां द्रष्टव्यं, षोडशिनो लोकत्रये निर्मितत्त्वात् । महानाम्नीनामुपसर्गेः संयोजने सति तन्निर्माणं सिध्यति॥ वेदनं प्रशंसति— सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद ॥ ३ ॥
हिन्दी - (इस ज्ञान की प्रशंसा कर रहे हैं ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वेभ्यः लोकेभ्यः सभी लोकों के लिए सन्निर्मितेन षोडशिना सम्यक् प्रकार से निर्मित षोडशी द्वारा राध्नोति समृद्धि को प्राप्त करता है । अथ विहरणनैरपेक्ष्येणाध्यापकैः प्रज्ञाताः नवानुष्टुभो विधत्ते- ( विहरणनैरपेक्षेणाध्यापकैः प्रज्ञातानां नवानामानुष्टुभां विधानम् ) प्रप्र वस्त्रिष्टुभमिषमर्चत प्रार्चत, यो व्यतींरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति, तद् यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात् तादृक् तद् यत्प्रज्ञाता अनुष्टुभः शंसति ॥४ ॥
हिन्दी—( अब विहरण की निपरपेक्षता के कारण अध्यापकों द्वारा प्रज्ञात नौ अनुष्टुप् छन्दस्क ऋचाओं का विधान कर रहे हैं - ) 'प्र प्र वस्त्रिष्टुभमिषम्’ ‘ अर्चत प्रार्चत’ और ‘ यो व्यतींरफाणयत्' इति प्रज्ञाताः आनुष्टुभः इन (तीन) अनुष्टुप् छन्द वाले प्रज्ञात ( तृचों ) का शंसति शंसन करता है। तद् यथा वह ( शंसन ) उसी प्रकार वाला है, जैसे - इह इस ( लोक ) में अपथेन चरित्वा कोई ( अनभिज्ञ) अन्य मार्गों पर चल कर पन्थानं पर्यवेयात् पुनः ( मार्ग को जानकर उस ) मार्ग पर लौट जाये । सा० भा०-- ' प्रप्र वः ' इत्येकस्तृचः प्रथमः ' अर्चत' ' -इति द्वितीयः, ' यो व्यतीन्’”-इति तृतीयः । यथा लोके कश्चिन्मार्गानभिज्ञः तत्र केनचिदपथेन चरित्वा पश्चादुन्मुखेन विज्ञाय ( १ ) ऋ० ८.६ ९.८-१० । ( २ ) ऋ ० ८.६ ९.१३-१५।