ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 771–780

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 771–780

पृष्ठ 771

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 771 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] ७० ९ प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम्: समीचीनं पन्थानं परिगच्छेत्, एवमत्रापि पूर्वोक्तरीत्या कृत्रिमा अनुष्टुभः शस्त्वा पश्चादेतासां स्वतःसिद्धानामनुष्टुभां शंसनं द्रष्टव्यम्॥ पूर्वत्र सामविशेषमुपजीव्य विहृताविहृतयोः शस्त्रविशेषयोर्व्यवस्था दर्शिता । इदानीं पुरुषविशेषमुपजीव्य तां व्यवस्थां दर्शयति— ( सामविशेषमुपजीव्य विहृताविहृतयोर्व्यवस्था ). स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृच्छादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद् विहृतं षोळशिनं शंसयेद्, व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलमपहन्ति ॥ ५ ॥

हिन्दी—( पहले सामविशेष को उपजीव्य बनाकर विहृत और अविहृत दोनों शस्त्र- विशेषों की व्यवस्था को दिखला कर अब पुरुषविशेष को उपजीव्य बनाकर उस व्यवस्था को दिखला रहे हैं ) यः जो (व्यक्ति) व्याप्त गतश्रीः इव ( पुत्र- पौत्रादि से व्याप्त तथा प्राप्त श्री वाला ( श्रीसम्पन्न ) मन्येत अपने को समझे जो कि सः वह ( व्यक्ति) छन्दसां कृच्छ्रात् नेत् अपवद्यै ( पूर्वोक्त गायत्री इत्यादि) छन्दों के विहरण क्लेश से आपत्ति की प्राप्ति न होने के लिए अविहृतं षोडशिनं अविहृत षोडशी का शंसयेत् ( होता द्वारा ) शंसन करावे । अथ यः और जो पाप्मानम् अपजिघांसुः स्यात् पाप को विनष्ट करने की कामना करने वाला हो ( तो वह ) विहृतं षोडशिनं शंसयेत् ( होता द्वारा) विहृत षोडशी का शंसन करावे । पुरुषः पाप्मना व्यतिषक्त इव (वस्तुतः ) पुरुष पाप से मिश्रित हुआ ही होता है तत् इस (शंसन) से अस्मै इस ( यजमान ) के लिए पाप्मानं शमलम् पाप रूप दोष को व्यतिषक्तमेव विनष्ट ही कर देता है । सा ० भा ० — ‘सः’ लोकप्रसिद्ध:, यः पुरुषः पुत्रपौत्रादिभिः व्याप्तो ‘ गतश्रीरिव’ प्राप्त- श्रीवत् समृद्धधन एवाहमिति मन्येत, स पुमान् ' अविहृतं ' विहरणरहितं षोळशिनं 'शंसयेत्' अविहृते शस्त्रे होतारं प्रेरयेत् । तस्य कोऽभिप्राय? इति स उच्यते -'छन्दसां कृच्छ्रात्' पूर्वोक्तानां गायत्र्यादीनां विहरणक्लेशात् ' अवपद्यै’, अवपत्तिमापदं प्राप्नुयां तन्मा भूदिति विहरणप्रयुक्तिभीतिद्योतनार्थो ' नेत्' – इति शब्दः । ' अथ य: ' पुमान् पुत्रधनराहित्यरूप 'पा-प्मानम्' ‘ अपजिघांसुः ' अपहन्तुमिच्छन् स्यात् स पुमान् विहृते शस्त्रे होतारं प्रेरयेत्। अयं पुरुषो दारिद्र्यादिरूपेण ' पाप्मना' ' व्यतिषक्त इव वै ' मिश्रित एव । तस्माद् विहृतप्रयोगेण पापरूपं ' शमलं' मालिन्यहेतुं ' व्यतिषक्तं' दारिद्र्यादिसम्बद्धमपहन्ति॥ वेदनं प्रशंसति— अप पाप्मानं हते य एवं वेद ॥ ६ ॥

हिन्दी -(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता

पृष्ठ 772

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 772 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७१० ऐतरेयब्राह्मणम् १६.४ चतुर्थपञ्चिकायां है वह पाप्मानम् अपहते पाप से मुक्त हो जाता है । सा ० भा ० — अथ शस्त्रसमापनीयां कांचिद् ऋचं विधत्ते— ( षोडशीशस्त्रस्य परिधानीयायाः विधानम् ) ' उद्यद् ब्रध्नस्य विष्टपम्' इत्युत्तमया परिदधाति, स्वर्गों वै लोको ब्रध्नस्य विष्टपं, स्वर्गमेव तल्लोकं यजमानं गमयति ॥७ ॥

हिन्दी— ( अब शस्त्र के समापन वाली ऋचा का विधान कर रहे हैं - ) 'उद्यद् ब्रध्नस्य विष्टपम्' इत्युत्तमया परिदधाति इस अन्तिम ऋचा से शस्त्र का समापन करता है । स्वर्गः वै लोकः ब्रध्नस्य विष्टमम् स्वर्गलोक ही आदित्य का स्थान है। तत् इसके ( शंसन ) से.स्वर्गमेव लोकम् स्वर्गलोक को ही यजमानं गमयति यजमान को प्राप्त कराता है। सा० भा० –अस्यामृचि ‘ब्रध्नस्य विष्टपम्' ' -इति श्रूयते, – आदित्यो 'ब्रध्न' शब्द-वाच्यः, ‘ असौ वा आदित्यो ब्रध्नः ' इति श्रुत्यन्तरात् । तस्य 'विष्टपं' स्थानं स्वर्गलोकः, अतः तत्पाठेन यजमानं स्वर्गं प्राययति ॥ शस्त्रयाज्यां विधत्ते— ( याज्याविधानम् ). ' अपाः पूर्वेषां हरिव सुतानाम् - इति यजति ॥८ ॥

हिन्दी —( शस्त्र की याज्या का विधान कर रहे हैं - ) 'आपः पूर्वेषां हरिवः सुतानाम्’ अर्थात् हे इन्द्र! ( षोडशी से ) पहले ही सवन किये गये ( सोम) को पीते हो - इति यजति इस ( ऋचा ) से ( शस्त्र की ) याज्या करता है । सा० भा ० — 'हरिवः ' हे, इन्द्र षोळशिनः पूर्वेषां ' सुतानां ' सोमानां, रसमिति शेषः । ' अपा: ' पीतवानसीति प्रथमंपादस्यार्थः ॥ तमिमं पादं प्रशंसति— सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी, तद् यद् ' अपाः पूर्वेषां हरिवः सुतानाम्' - इति यजति, पीतवद्वै प्रातःसवनं, प्रातःसवनादेवैनं तत्संनिर्मिमीते ॥ ९ ॥

हिन्दी—(‘ अपाः पूर्वेषां ’ इस ऋचा के पूर्वोक्त प्रथम पाद की प्रशंसा कर रहे हैं-) यत् षोडशी जो षोडशी हे, एषः यह सर्वेभ्यः सवनेभ्यः वै सभी सवनों से संन्निर्मितः ( १ ) ऋ० ८.६ ९.७। ( २ ) ऋ० १०.९ ६.१३ ।

पृष्ठ 773

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 773 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] ७११ प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम्: सम्यक् रूप से निर्मित है। तद् यत् तो जो ' अपाः पूर्वेषां हरिवः सुतानाम्' इति यजति इस (ऋचा ) से याज्या करता है, तो पीतवद् वै प्रातः सवनम् प्रातः सवन ( इन्द्र द्वारा ) पान किया गया ही हो जाता है । तत् इस (याज्या ) से प्रातः सवनादेव प्रातः सवन से ही एनम् इस ( षोडशी ) को सन्निर्मिमीते सम्यक् रूप से निर्मित करता है । सा० भा० - यः षोळशी विद्यते, एष सर्वेभ्यः सवनेभ्यः सम्यनिर्मित इत्येवं संपादनीयम्। तथा सति तद् यद् ' अपाः पूर्वेषाम्' इति पादं पठेत्, तदानीं तत्र प्रांत: सवनं ‘ पीतवत्’ इन्द्रेण पीतमेवेत्ययमर्थः प्रतीयते । तस्मात् 'एनं' षोडशिनं प्रातः सवनादेव निर्मित- वान् भवति॥ तस्या ऋचो द्वितीयपादमनूद्य व्याचष्टे— 'अथो इदं सवनं केवलं त' इति, माध्यंदिनं वै सवनं केवलं, माध्यंदिनादेवैनं तत्सवनात् संनिर्मिमीते ॥ १० ॥

हिन्दी— (उस ऋचा के द्वितीय पाद को कह कर उसका व्याख्यान कर रहे हैं- ) ‘ अथो इदं सवनं ' केवलं ते अर्थात् ( हे इन्द्र) यह ( माध्यन्दिन) सवन केवल तुम्हारा ही है' — इति यह (ऋचा का द्वितीय पाद है ) । माध्यन्दिनं वै सवनं केवलम् माध्यन्दिन सवन केवल तुम्हारा है ' (-यह अर्थ है ) । तत् इस (शंसन ) से माध्यन्दिनाद् एव सवनात् माध्यन्दिन सवन से ही एनम् इस (षोडशी ) को सन्निर्मिमीते सम्यक्प्रकार से निर्मित करता है। सा० भा०--' अथो' अपि च हे इन्द्र, 'इदं' माध्यदिनं सवनं 'ते केवलं' तवैव सर्वम्। अस्मिन् पादे केवलं सवनमपीन्द्रस्येत्येतदुपपन्नम्, इन्द्रेण पुरो द्वारं वृण्वता माहेन्द्रं ग्रहं माध्यदिनं सवनानां निष्केवल्यादीनां स्वार्थमेव कृतत्वात्। अत एतत्पादपाठेन माध्यंदिन-सवनात् षोडशी निर्मिता भवति ॥ तृतीयपादमनूद्य व्याचष्टे— ' ममद्धि सोमं मधुमन्तमिन्द्रेति' मद्वद्वै तृतीयसवनम्, तृतीयसवनादेवैनं तत्संनिर्मिमीते ॥ ११ ॥

हिन्दी – (ऋचा के तृतीयपाद को कह कर उसका व्याख्यान कर रहे हैं - ) ' ममद्धि सोमं मधुमन्तमिन्द्र' अर्थात् हे इन्द्र! मधुरतायुक्त सोम का ( पान करके ) प्रसन्न होवो' इति यह (ऋचा का तृतीय पाद है ) । मद्वद् वै तृतीयसवनम् तृतीयसवन ही मद् शब्द से सम्पन्न है । तत् इस ( पाद के शंसन) से तृतीयसवनाद् एव एनम् सन्निर्मिमीते तृतीयसवन से ही इस (षोडशी ) को सम्यक् प्रकार से निर्मित करता है। सा० भा ० — हे इन्द्र, 'मधुमन्तं' माधुर्यरसोपेतं सोमं पीत्वा 'ममद्धि' मदं हर्षं प्राप्नुहि ।

पृष्ठ 774

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 774 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७१२ ऐतरेयब्राह्मणम् १६.४ चतुर्थपञ्चिकायां अस्मिन् पादे मदिधात्वर्थः श्रूयते। तृतीयसवनमपि 'मद्वद्वै' मदिधातूपेतम्' निवित्पदेषुः

मदिधातोर्विद्यमानत्वात्। तस्मादेतत्पादपाठेन षोडशी तृतीयसवनान्निर्मितो भवति॥

चतुर्थपादमनूद्य व्याचष्टे— ' सत्रा वृषञ्जठर आ वृषस्व' इति वृषण्वद्वै षोळशिनो रूपम्, सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी; तद् यद् ‘ अपाः पूर्वेषां हरिवः सुतानाम्' इति यजति, सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते ॥ १२ ॥

हिन्दी— ( अब चतुर्थपाद को कह कर उसका व्याख्यान कर रहे हैं— ) ‘ सत्रा वृषञ्जठर आ जुषस्व' अर्थात् हे वर्षणशील ( इन्द्र ) सोमपानरूप सत्र में अपने उदर में ( सोम रस की) वृष्टि करो' – इति यह (ऋचा का चतुर्थ पाद है ) । वृषण्वद् वै षोडशिनः रूपम् ‘ वृषन्' शब्द से सम्पन्न षोडशी का रूप है। तो यत् षोडशी जो षोड़शी है, एष: यह सर्वेभ्यः वै सक्नेभ्यः सभी सवनों से ही सन्निर्मितः- सम्यक् प्रकार से निर्मित है। तत् तो ‘ अपाः पूर्वेषां हरिवः सुतानाम्' इति यद् यजति इस (ऋचा ) से जो याज्या करता है तत् उस ( याज्या ) से सर्वेभ्यः सवनेभ्यः सभी सवनों से एनम् इस ( षोडशी) को सन्निर्मिमीते सम्यक् प्रकार से निर्मित करता है । सा० भा ० — हे ‘ वृषन्' वर्षणसमर्थ! ' सत्रा ' सोमयागरूपे सत्रे 'जठरे' स्वकीय उदरे ‘ आ वृषस्व ' समन्तात् सोमरसवृष्टिं कुरु । अत्र चतुर्थपादे 'वृषन्' - शब्दो विद्यते, षोडशि-स्वरूपमपि ‘वृषण्वद् वर्षणोपेतम् तृप्तिहेतुत्वात् । यः षोडशी विद्यते, सोऽयमुक्तेन प्रकारेण सर्वेभ्यः सवनेभ्यो हि निर्मितः, तस्माद् ' अपाः ' पूर्वेषाम्' – इति याज्यापाठेन सर्वसवनेभ्य एवैनं निर्मितवान् भवति ॥ वेदनं प्रशंसति— सर्वेभ्यः सवनेभ्य संनिर्मितेन षोळशिना राध्नोति य एवं वेद ॥ १३ ॥

हिन्दी -( इस ज्ञान की प्रशंसा कर रहे हैं - ) य एवं वेद जो इस प्रकार जानता है, वह सर्वेभ्यः सवनेभ्यः सभी सवनों से सन्निर्मितेन षोडशिना सम्यक् प्रकार से निर्मित षोडशी के द्वारा राध्नोति समृद्धि को प्राप्त करता है । अस्या याज्यायाः पादेषु पूर्ववदुपसर्गान् विधत्ते— ( याज्यायाः पादेषूपसर्गविधानम् ) महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषुः सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत्वोळशी; तद् यन्महानाम्नीनां पञ्चा- ( १ ) ' अस्य मदे' - इत्यादिषु (निवि० ११.१-१६ ) ।

पृष्ठ 775

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 775 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ७१३ क्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु, सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते ॥ १४ ॥

हिन्दी— (इस याज्या के पादों में पूर्ववर्ती के समान उपसर्गों का विधान कर रहे हैं— ) महानाम्नीनाम् महानाम्नी से सम्बन्धित (पुरीष पदों के ) पञ्चक्षरान् उपसर्गान् पाँच अक्षरों वाले ( ' एवा ह्यवैवा' ) उपसर्गों को एकादशाक्षरेषु पादेषु ' याज्या के ' ग्यारह अक्षर वाले पादों में उपसृजति जोड़ता है। इस प्रकार यत् षोडशी जो षोडशी है, एषः यह सर्वेभ्यः एव छन्दोभ्यः सभी ही छन्दों से सन्निर्मितः सम्पक् प्रकार से निर्मित हो जाती है । तद् यत् तो जो महानाम्नीनाम् महानाम्नी के ( पुरीषपदों के ) पञ्चक्षरान् उपसर्गान् पाँच अक्षरों वाले (' एवा ह्यवैवा' ) उपसर्गों को एकादशाक्षरेषु पादेषु ग्यारह अक्षरों वाले पादों में उपसृजति मिलाता है, तत् इससे सर्वेभ्यः एव छन्दोभ्यः सभी छन्दों. से ही एनम् इस ( षोडशी ) को सन्निर्मिमीते सम्यक् रूप से निर्मित करता है । सा ० भा० — महानाम्नीनामृचां संबन्धिनस्तदीयानुवाके समाम्नाताः ‘ एवा ह्यवैवा इत्यादयः पञ्चाक्षरा उपसर्गाः, तानेकादशाक्षरेषु चतुर्ष्वपि पादेषु संयोजयेत्; तथा सति चतुःषष्ट्यक्षरत्वाद् अनुष्टुब्द्वयं संपद्यते । एवं सति यः षोळषी सर्वेभ्यश्छन्दोभ्यो निर्मातव्यः, सोऽयमेतत् संयोजनेन तथैव निर्मितो भवति॥ वेदनं प्रशंसति— सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद ॥ १५ ॥

हिन्दी — ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वेभ्यः छन्दोभ्यः सभी छन्दों से सन्निर्मितेन षोडशिना सम्यक् प्रकार से निर्मित षोडशी के द्वारा राध्नोति समृद्धि को प्राप्त करता है ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः प्रथमाध्याये ( षोडशाध्याये ) चतुर्थः खण्डः ॥४॥

॥ इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय के चतुर्थ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ (१) आर० ४.१.१०. - १५। ( २ ) षोडशिसंस्थस्य ज्योतिष्टोमस्य विशेषविधय एवेषु प्रथमादिचतुःखण्डेषु विहिताः, एभ्योऽग्निष्टोमवत्। आश्वलायनेनापि ' अथ षोळशी ' – इत्यारभ्य ‘ भजजपः ’ - इत्यन्तेन ग्रन्थेन ( ६.२.३ ) तथैवोक्तः । ' षोडशिना वीर्यकाम: ' इति च आपस्तम्बीय विधिसूत्रम् ( १४.१.२ )। ऐ.ब्रा. पू- ४५

पृष्ठ 776

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 776 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ' [ ७१४ ऐतरेयब्राह्मणम् १६.५ चतुर्थपञ्चिकायां अथ पश्चमः खण्डः सा ० भा ० — षोडशी समाप्तः, अथातिरात्रो वक्तव्यः; तत्रेन्द्रस्य च्छन्दसां च प्राधान्यं कथयितुमितिहासमाह— ( अतिरात्रविधानम् ) ( तत्र छन्दसामिन्द्रस्य प्राधान्यं कथितुमितिहासः ) अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त, सोऽब्रवीद् इन्द्रः - कश्चाहं चेमानितो असुरान् रात्रीमन्ववेष्याव इति; स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्वाप्येतर्हि नक्तं यावन्मात्रमिवैवापक्रम्य विभेति; तम इव हि रात्रिर्मुत्युरिव ॥ १ ॥

हिन्दी– ( अब अतिरात्र का कथन करने के लिए उसमें इन्द्र के छन्द की प्रधानता के निमित्त इतिहास को कह रहे हैं - ) देवाः अहः वै देवताओं ने दिन का और रात्रीः असुराः असुरों ने रात्रि का आश्रयन्त आश्रय लिया । ते समावद्वीर्याः आसन् वे ( देवता और असुर) समान बल वाले थे, अतः न व्यावर्तन्त अलग- अलग नहीं किये जा सके । तब सः इन्द्रः अब्रवीत् उस इन्द्र ने कहा कि कः च अहं च कौन और मैं (मिलकर) इमान् असुरान् इन असुरों को इतः रात्रीम् इस रात्रि से अन्ववेष्यावः अलग कर सकेंगे। सः उस ( इन्द्र) ने देवेषु न प्रत्यविन्दत् देवताओं में किसी को नहीं प्राप्त किया; क्योंकि रात्रेः मृत्योः तमसः अबिभयू ( वे देवता) रात्रि के भय के समान अन्धकार से भयभीत हो गये । तस्मात् इसी कारण एतर्हि आज भी नक्तम् एतावद् मात्रम् अपक्रम्य रात्रि में थोड़ा भी दूर जाकर विभेति लोग भयभीत हो जाते हैं; क्योंकि रात्रिः तमः इव रात्रि अन्धकार के समान और मृत्युः इव मृत्यु के समान होती है । सा० भा० – पुरा कदाचिदहोरात्रयोर्मध्ये देवा अहरेवाश्रितवन्तः, असुराश्च रात्रि- माश्रितवन्तः । ‘ ते ’ देवाश्च अंसुराश्च समानबला एवासन्; बलाधिक्येन वर्गान्तराद् व्यावृत्तमितरवर्गस्थानं प्राप्नुवन्। तदानीम् इन्द्रो देवान् प्रत्यब्रवीत्-- मम सहायोऽपेक्षितः, हे देवाः! भवता मध्ये कश्चाहं च 'इमान्' असुरान् रात्रीमनुगतान् ‘इतः ’ रात्र्या ‘ अवेष्यावः ’ अपसारयिष्यावः? इति । ततो विचार्य स इन्द्रो देवेषु मध्ये तादृशं शूरं कमपि प्रतीक्ष्य १ ‘ नाविन्दत्’ न लब्धवान्। रात्रेः संबन्धि यत्तमो मृत्युसदृशं, तस्मात्तमसो मृत्योरिव सर्वे देवाः ‘ अबिभयुः’ भीता अभवन्। यस्माद्देवानां भीतिः, तस्माद् इदानीमपि ‘ यावन्मात्रमिवैव’ यत्किं- चिदपि वा दूरं रात्रौ गृहादपक्रम्य सर्वः पुरुषो ' बिभेति' ' तम इव हि' तमरूपैव रात्रिः, तस्मान्मृत्युरिव भयहेतुः ॥

पृष्ठ 777

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 777 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ७१५ प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् अथ च्छन्दसामिन्द्रसहकारित्वं दर्शयति— छन्दसामिन्द्रसहकारित्वकथनम् ) तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्वायंस्तस्मादिन्द्रश्चैव न्दांसि च रात्री वहन्ति; न निविच्छस्यते, न पुरोरुङ्, न धाय्या, नान्याच्छ- · देवतेन्द्रश्च; ह्येव च्छन्दांसि च रात्रीं वहन्ति ॥ २ ॥

हिन्दी -( अब छन्दों के इन्द्र के सहयोगी होने को दिखला रहे हैं— ) तम् उस ( असुरों के निराकरण में प्रवृत्त इन्द्र) का छन्दांसि एव छन्दों ने ही अन्वपायम् अनुसरण ( सहयोग ) किया । यत् छन्दांसि अन्ववायन् जो छन्दों ने अनुसरण किया तस्मात् इसी कारण इन्द्रः च छन्दांसि च इन्द्र और छन्द ( मिलकर ) रात्रीं वहन्ति (रात्रिप्रयोग) का निर्वहन करते हैं । ( वहाँ रात्रि प्रयोग में) न निविच्छस्यते न विवित् का प्रयोग किया जाता है, न पुरोरुक् न पुररुक्, न धाय्या न तो धाय्या और न अन्या देवता न ( इन्द्र से ) अन्य देवता ( शंसित किये जाते हैं ) क्योंकि इन्द्रः च ह छन्दांसि च इन्द्र और छन्द ही रात्रीं वहन्ति रात्रि ( प्रयोग ) का वहन करते हैं । सा०भा०--'तं वै' असुरनिराकरणाय प्रवृत्तं तमेवेन्द्रमेकं गायत्र्यादिच्छन्दांस्येव ‘ अन्ववायन्’ अनुगम्य निराकर्तुं गताः । यस्मादेवं तस्मादिन्द्रच्छन्दांस्येवाङ्गतया अतिरात्र- प्रयोगे ' रात्री वहन्ति' रात्रिप्रयोगंस्य निर्वाहकाणि भवन्ति। इन्द्रविषयच्छन्दांस्येव तत्र श- स्यन्ते, न तु निविद्वा पुरोरुग्वा, धाय्या वा, देवतान्तरं वा, किंचिच्छस्यते। तस्मादिन्द्रः छन्दांसि चेत्येतावन्त एव निर्वाहकाः । तेषामिन्द्रच्छन्दसाम् असुरान् निराकरणसाधनं दर्शयति— ( इन्द्रच्छन्दसामसुरान् निराकरणसाधनम् ) - तान् वै पर्यायैरेव पर्यायमनुदन्तः यत्पर्यायैः पर्यायमनुदन्त, तत्पर्यायाणां पर्यायत्वम् ॥ ३ ॥.

हिन्दी-(उन इन्द्र सम्बन्धी छन्दों में असुरों के निराकरण के साधन को दिखला रहे हैं— ) तान् उन ( रात्रि को आश्रय बनाये हुए राक्षसों) को पर्यायैः एव पर्यायों (चमसों के क्रमानुष्ठानों) द्वारा पर्यायम् अनुदन्त (यज्ञ भूमि में ) घूम- घूम कर निकाल दिया। यत् पर्यायैः पर्यायम् अनुदन्त जो पर्यायों द्वारा घूम- घूम कर निकाला तत् पर्यायाणां पर्यायत्वम् वही पर्यायों का पर्याय नाम वाला होना है। सा० भा ० –'तान्' वै रात्रिमाश्रितान् असुरान् पर्यायैः चमसगणानां क्रमानुष्ठानैरेव पर्यायैः, तत्र तत्र यतमाना यागभूमौ परीत्य ‘ अनुदन्त' निराकृतवन्तः । यत्र यन्त्रासुराः सुप्ता अदस्थिताः तत्र तत्र प्रयत्नेनावेक्ष्य निःसारितवन्तः । द्वादशानां चमसगणानामनुष्ठानाय त्रयः

पृष्ठ 778

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 778 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७१६ ऐतरेयब्राह्मणम् १६.५ चतुर्थपञ्चिकायां पर्यायाः एकैकस्मिन् पर्याये चत्वारो गणा अनुष्ठीयन्ते । यस्मात् परितो गत्वा गत्वा चमस- पर्यायैर्निराकृतवन्तः, तस्मात् परिगम्य निराकरणसाधत्वात् पर्यायत्वं संपन्नम्॥ क्रमेण निराकरणप्रकारं दर्शयति- ( निराकरणप्रकारकथनम्) तान् वै प्रथमेनैव पर्यायेव पूर्वरात्रादनुदन्त, मध्यमेन मध्यरात्राद् उत्तमेनापररात्रात् ॥४ ॥

हिन्दी—( अब क्रम से निराकरण-प्रकार को दिखला रहे हैं— ) प्रथमेन एव पर्यायेण प्रथम पर्याय द्वारा तान् उन (राक्षसों ) को पूर्वरात्राद् रात्रि के पूर्वभाग से, मध्यरात्रात् मध्यम ( पर्याय) द्वारा रात्रि के मध्यभाग से और उत्तमेन पररात्रात् अन्तिम ( तृतीय पर्याय ) द्वारा रात्रि के अन्तिम भाग से अनुदन्त निकाल दिया । सा ० भा ० दश दश घटिका एकैको भागः, इत्येवं रात्रेस्त्रयो भागाः, चत्वारश्च-मसंगणा एकः पर्यायः, इत्येवं द्वादशानां चमसगणानां त्रयः पर्यायाः; तैः क्रमेण रात्रिभाग- त्रयाद् असुरान् अपानुदन्त॥ तस्मिन्निराकरणे छन्दसां सौकर्याधिक्येन प्रशंसां दर्शयति— अपिशर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपरायंस्तदपिशर्वरा- णामपिशर्वरत्वम् ॥ ५ ॥

हिन्दी –(उस निराकरण में छन्दों के सौकर्यातिशयता से प्रशंसा कर रहे हैं - ) शर्वर्याः (हे इन्द्र)! सम्पूर्ण रात्रि से ( राक्षसों को निकालने के लिए) अपि अनु मि हम लोग भी ( तुम्हारा ) अनुगमन करके स्थित हैं — इति अब्रुवन् इस प्रकार (छन्दों ने इन्द्र से) कहा । ( ऐसा सुनकर ऐतरेय ऋषि ने ) एतानि छन्दांसि इन छन्दों को अपिशर्वराणि अपिशर्वरी— इति ह स्म आह इस नाम से कहा है; क्योंकि रात्रेः मृत्योः तमसः रात्रि के मृत्युरूप अन्धकार से विभ्यतम् इन्द्रम् भयभीत इन्द्र को एतानि इन ( छन्दों) ने अत्यपरायन् अतिशयरूप से पार लगाया। तद् अपिशर्वराणम् अपिशर्वरत्वम् यही अपिशर्वरियों का अपिशर्वरी नाम वाला होना है। सा ० भा ० — हे, इन्द्र वयमपि ‘ शर्वर्याः ’ कृत्स्नाया रात्रेः सकाशाद् असुरान् अपसार-यितुं त्वामनुगम्य ‘ स्मसि' तिष्ठामः, इत्येवं छन्दांस्यब्रुवन्। तदेतद् वाक्यमैतरेयः श्रुत्वा तदानीमेवैतानि च्छदांसि ‘ अपिशर्वराणि' एवेति नाम्ना व्यवहृतवान्। एतच्च युक्तम् ( १ ) ‘ अपिशर्वरे — शर्वरीमुखेऽग्निविहरणकाले '– इति ऋ ० ३.९.७ । अपिशर्वरे — शर्वरी रात्रिमपिगतः कालः अपिशर्वर: ' -इति च (ऋ० ८.१.२ ९ ) सा० भा ० ।

पृष्ठ 779

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 779 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ७१७ यस्मात् मृत्योरिव रात्रेस्तमसो बिभ्यतमिन्द्रम् ' एतानि' च्छन्दांसि अत्यपारयन्, यस्माद्धेतो रात्रिमतीत्य नीतवन्ति, तस्मात् कारणाच्छर्वर्याः सर्वस्मादपि पारनयनं द्योतयितुम् ‘ अपि- शर्वराणि -इति नाम च्छन्दसां युक्तम्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः प्रथमाध्याये (षोडशाध्याये ) पञ्चमः खण्डः ॥५ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा० – इन्द्रस्य च्छन्दसां च प्राधान्यमभिहितम्; अथ शस्त्रं विधातव्यम्। षोड- शिपर्यन्तं पूर्ववदनुष्ठाय षोडशिन ऊर्ध्वं रात्रिपर्यायाः शंसनीयाः । तत्र त्रयः पर्यायाः । तत्रैक- पर्यायश्चतुःशस्त्रोपेतः । होतुरेकं शस्त्रं, होत्रकाणां च त्रयाणामेकैकमिति चतुष्टयम्॥ अत्र प्रथमपर्याये होतुः शस्त्रं विधत्ते— ( रात्रिपर्यायेषु प्रथमपर्याये होतुः शस्त्रम् ). पान्त मा. वो अन्धस इत्यन्धस्वत्याऽनुष्टुभा रात्री प्रतिपद्यते ॥ १ ॥

का हिन्दी - ( प्रथम पर्याय में होता के शस्त्र का विधान कर रहे हैं - ) ' पान्त मा वो अन्धसः ' अर्थात् ( हे इन्द्र)! सोम रस का पान करो'– इति अन्यस्वत्या अनुष्टुभा.इस अन्धस् शब्द से युक्त अनुष्टुप् छन्द वाली (ऋचा ) से रात्रीं प्रतिपद्यते रात्रि (के शस्त्र) का प्रारम्भ किया जाता है। सा० भा०--'अन्धः ' शब्दो यस्यामृच्यस्ति सेयमन्धस्वती। सा चात्राष्टुप्छन्दस्का, तया ‘ रात्री' रात्रिशस्त्रं ‘ प्रतिपद्यते' प्रारभेत ॥ तस्यामृचि च्छन्दः प्रशंसति— आनुष्टुभी वै रात्रिरेतद् रात्रिरूपम् ॥ २ ॥

हिन्दी - (उस.ऋचा में छन्द की प्रशंसा कर रहे हैं- ) आनुष्टुभी वै रात्रिः रात्रि अनुष्टुप् छन्द से सम्बन्धित होतीहोती हैहै ॥ इस प्रकार एतद् रात्रिरूपम् यह ( अनुष्टुप् छन्द) रात्रि का रूप है । सा ० भा ० — गायत्रीत्रिष्टुब्जगत्यनुष्टुभां मध्ये गायत्र्यादीनां त्रयाणां सर्वनत्रयगतानाम् अहनि प्रयुक्तत्वाद् अनुष्टुभः प्रयोगाय रात्रिरेव कालः परिशिष्यते । तस्माद् रात्रेरनुष्टुप्संबद्ध-

पृष्ठ 780

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 780 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७१८ ऐतरेयब्राह्मणम् १६.६ चतुर्थपञ्चिकायां त्वाद् इयमनुष्टुब्रात्रेः स्वरूपम्॥ अथ त्रिषु पर्यायेषु शस्त्रयाज्यां विधत्ते— ( त्रिषु पर्यायेषु होतुः शस्त्रस्य याज्याविधानम् ) अन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा, यद् यज्ञेऽभिरूपं तत्समृद्धम् ॥ ३ ॥

हिन्दी— ( अब तीनों पर्यायों में शस्त्र की याज्या का विधान कर रहे हैं— ) अन्धवत्यः पीतवत्यः मदवत्यः अन्ध, पीत और मंद शब्द से युक्त त्रिष्टुभः त्रिष्टुप् छन्द वाली (ऋचाएँ) याज्याः भवन्ति ( तीनों पर्यायों के शस्त्रों की ) याज्याएँ होती हैं। यद् यज्ञे अभिरूपम् जो ( अन्ध, पीत और मद शब्द से युक्त ऋचाएँ ) यज्ञ में अनुकूल है, तत् समृद्धम् वह यज्ञ की समृद्धि है। सा० भा० - ' अन्ध:' शब्दो यास्वृक्ष्वस्ति, ताः 'अन्धस्वत्य:'; तादृश्यश्चतस्र ऋच: प्रथमपर्याये होत्रादीनां चतुर्णां शस्त्रयाज्याः कर्तव्याः; ताश्च त्रिष्टुप्छन्दस्का एव। तत्र 'अध्वर्यवो भरतेन्द्राय सोमम् " इत्येषा होतुः शस्त्रयाज्या। सा चान्धस्वती त्रिष्टुप्छन्दस्का च। तस्या द्वितीयपादे 'सिञ्चता मद्यमन्ध: ' -इति ' अन्धः ' शब्दः श्रूयते। एवमितरेषां त्रयाणां शस्त्रयाज्या उदाहरणीयाः । पिबतिधातुर्यास्वृक्ष्वस्ति, ताः 'पीतवत्यः'; तादृश्यो मध्यमपर्याये याज्याः कर्त्तव्याः । ‘ अपाय्यस्यान्धसो मदाय -इति। होतुः शस्त्रयाज्या । तत्र ' अपायि' - इति 'पिबति’— धातुः श्रूयते । मदिधातुर्यास्वृक्ष्वस्ति, ता: ' मद्वत्यः ' । तादृश्यस्तृतीयपर्याये याज्याः कर्तव्याः । ‘ तिष्ठा हरी’३ इत्येषा होतुः शस्त्रयाज्या । तस्या अवसाने 'ररिमा ते मदाय' इति मदिधातुः श्रूयते। एवं सर्वमुदाहार्यम् । रात्रावन्नभोजनादन्धस्वतीनामानुंरूप्यम्, क्षीरपानात् पीतवतीनाम्; -तत ऊर्ध्वं हर्षात् मद्वतीनाम् । एवमानुरूप्ये सति तत्तत्कर्म समृद्धं भवति॥ प्रथमपर्याये प्रयोगविशेषं विधत्ते— ( प्रथमपर्याये प्रयोगविशेषविधानम्) प्रथमेन पर्यायेण स्तुवते, प्रथमान्येव पदानि पुनराददते, यदेवैषामश्चा गाव आसंस्तदेवैषां तेनाददते ॥४ ॥

हिन्दी—( प्रथम पर्याय में प्रयोग-विशेष का विधान कर रहे हैं— ) प्रथमेन पर्यायेण स्तुवते ( सामगायक ) प्रथम पर्याय से स्तुति करते हैं ( तब स्तेत्रियों के ) प्रथमानि एव पदानि प्रथम पादों को पुनः आददते पुनः आवृति करते हैं। एषाम् इन असुरों के यद् अश्वा गावः आसन् जो अश्व और गायें है, एषाम् इन ( असुरों) के तद् उन ( अश्वों और गायों ) को तेन उस ( पुनरावृति) से आददते प्राप्त कर लेते हैं। ( ) ( ) ( ) १ ऋ० २.१४.१ । २ ऋ० २.१ ९। ३ ऋ ० ३.३५.१।