ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 781–790

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 781–790

पृष्ठ 781

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 781 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम्ः ७१९ सा ० भा ० — यदा सामगाः प्रथमेन पर्यायेण स्तुवते, तदानीं स्तोत्रियाणां प्रथमपादान् द्विरभ्यस्यन्ति’ । एवं शस्त्रेऽपि 'पुरुहूतं पुरुष्टुतम्' – इत्यादिका: प्रथमपादा द्विरभ्यसनीयाः, ‘ यथा वाव स्तोत्रमेवं शस्त्रम्' – इत्युक्तत्वात्। एवं सति 'एषाम् असुराणाम् अश्वा गाव आसन्' इति यदस्ति, तत्सर्वमसुराणां धनम्, 'तेन' प्रथमपादाभ्यासेन स्वीकुर्वन्ति ॥ द्वितीयपर्याये विशेषं विधत्ते- ( द्वितीयपर्याये विशेषविधानम् ) मध्यमेन पर्यायेण स्तुवते, मध्यान्येव पदानि पुनराददते; यदेवैषामनो रथा आसंस्तदेवैषां तेनाददते ॥ ५ ॥

हिन्दी— ( द्वितीय पर्याय में प्रयोग- विशेष का विधान कर रहे हैं - ) मध्यमेन पर्यायेण स्तुवते मध्यम पर्याय से स्तुति करते हैं । इसमें मध्यमानि एव पदानि मध्यम पादों का पुनराददते पुनरावर्तन करते हैं। एषाम् इन (असुरों) के यद् अनः रथाः जो शकट और रथ हैं एषां तत् इन ( असुरों) के उस ( शकट और रथों ) को आददते प्राप्त कर लेते हैं। सा० भा० -'अयं त इन्द्र सोमः' इत्यस्यामृचि' निपूतो अधि बर्हिषि, निपूतो अधि बर्हिषिइत्येवं मध्यमः पादो द्विरभ्यसनीयः । 'एषाम्' असुराणाम् ' अन: ' शकंटं यदस्ति, ये च ‘ रथाः ’, तत्सर्वं ‘ तेन' अभ्यासेन स्वीकृतं भवति॥ .... तृतीयपर्याये विशेषं विधत्ते— ( तृतीयपर्याये विशेषविधानम् ) उत्तमेन पर्यायेण स्तुवते, उत्तमान्येव पदानि पुनराददते; यदेवैषां वासो हिरण्यं मणिरध्यात्ममासीत्, तदेवैषां तेनाददते ॥ ६ ॥

हिन्दी -( तृतीय पर्याय में प्रयोग- विशेष का विधान कर रहे हैं - ) उत्तमेन पर्यायेण स्तुवते तृतीय पर्याय से स्तुति करते हैं। उत्तमानि एव पदानि तृतीय पादों का ही पुनराददते पुनरावर्तन करते हैं। एषाम् इन ( असुरों ) का अध्यात्मं यद्वासः हिरण्यं मणिः जो अपने वस्त्र, सुवर्ण और मणि हैं एषां तत् इन असुरों के उस (वस्त्रादि) को तेन उस (पुनरावर्तन ) से आददते प्राप्त कर लेते है । सा० भा०--' इदं ह्यन्वोजसा सुतम्' इत्यस्यामृचि' ' पिबा त्वस्य गिर्वणः ’ ‘ पिबा ( १ ) सामब्राह्मणे देवा वा इति पान्त मा वो अन्धस इति च द्वाभ्यां खण्डाभ्यां रात्रिपर्याया विहिताः ( ता० ब्रा० ९.१.२ ) । तत्रैव ' तान् समन्तं पर्यायं प्राणुदन्त, यत् पर्यायं प्राणुदन्त इति ( ) तत् पर्यायाणां पर्यायत्वम्-( ) २ ऋ ० ८.१७.११। ३ पर्यायनिरुक्तिरुक्ताःऋ० ३.५१.१०॥

पृष्ठ 782

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 782 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७२० ऐतरेयब्राह्मणम् १६.६ चतुर्थपञ्चिकायां त्वस्य गिर्वणः ’ इत्युत्तमस्य पादस्य द्विरभ्यासः । आत्मानं शरीरमधिकृत्य वर्तत इति ‘ अध्या-त्मम्', असुराणां शरीरेऽवस्थितं वासः 'हिरण्यं' ‘ मणिः’ - इत्येवमादिकम्, सर्वं गृहीतं भवति॥ वेदनं प्रशंसति- आ द्विषतो वसु दत्ते निरेऩमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते, य एवं वेद ॥७॥

हिन्दी—( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह द्विषतः वसु आदत्ते शत्रु के धन को ले लेता है और एनम् इस ( शत्रु) को एभ्यः सर्वेभ्यः लोकेभ्यः इन सभी लोकों से निर्नुदते निकाल देता है । •सा० भा० - -'द्विषतः ' शत्रोः सकाशात् तदीयं धनमादत्ते, 'एनं' शत्रुं सर्वेभ्यो लोकेभ्यो ‘निर्णुदते’ निराकरोति ॥ · · अत्र कंचित्प्रश्नमुत्थापयति— ( तत्र कश्चित्प्रश्नः ) पवमानवदहरित्याहुर्न रात्रिः पवमानवती; कथमुभे पवमानवती भवतः? केन ते समावद्भाजौ भवतः? इति ॥८ ॥

हिन्दी – (इस विषय में प्रश्न की उद्भावना कर रहे हैं - ) पवमानवद् अहः दिन पवमानस्तोत्र से सम्पन्न होता है- इत्याहुः इस प्रकार कहा गया है, न रात्रिः पव-मानवती रात्रि पवमान स्तोत्र वाली नहीं (कही गयी है ) । तत् कथम् उभे पवमानवती भवतः तो किस प्रकार ( दिन और रात्रि) दोनों पवमान से युक्त होते हैं और केन ते समावद्भाजौ भवतः किस प्रकार (वे दोनों) समान भाग से संयुक्त होते हैं। सा० भा० - बहिष्पवमानः, माध्यंदिनः पवमानः आर्भवः पवमानश्चेत्येवमहनि पवमानस्तोत्रत्रयं विद्यते, न तु रात्रौ तदस्ति, अत उभयोः पवमानत्वं कथं सिध्यति? तदसिद्धौ च केनोपायेनाहश्च रात्रिश्चेत्येते ‘ समावद्भाजौ भवतः’ समानभागयुक्ते भवतः? इति प्रश्नावादिन आहुः ॥ तत्रोत्तरमाह— ( प्रश्नस्योत्तरम् ) यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति ( १ ) ता०ब्रा० — बहिष्पवमानः ( ६.७-१० ) ७.१, २; माध्यन्दिनपवमानः ३-५; आर्भवपव- मान: ८.४,५ ।

पृष्ठ 783

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 783 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ७२१ स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती, तेनोभे पवमानवती भवतः, तेन ते समावद्भाजौ भवतः ॥९ ॥

हिन्दी—( अब उत्तर को कह रहे हैं - ) 'यदेवेन्द्राय मद्वने सुतम्' 'इदं वसो सुतमन्ध' और इदं ह्यन्वोजसा सुतम्' - इति इन तीन मन्त्रों से स्तुवन्ति च ( उद्गाता ) स्तुति करते हैं और शंसन्ति च ( होता) शंसन करते हैं । तेन उससे ( तीनों मन्त्रों में ' सुत' शब्द प्रयुक्त होने ) के कारण रात्रिः पवमानवती रात्रि पवमान से युक्त है। तेन इसी प्रकार उभे पवमानवती भवतः दोनों (दिन और रात्रि) पवमान से युक्त होते हैं। सा ० भा ० – यदेव ' इन्द्राय मद्वने सुतम्', 'इदं वसो सुतमन्ध:', ' इदं ह्यन्वोजसा सुतम्' इति, ताभिरेताभिस्तिसृभिः उद्गातारः स्तुवन्ति, होतारः शंसन्ति । अहनि यथा त्रिष्वपि पवमानस्तोत्रनामसु पवमानशब्दोऽनुवृत्तः, एवमत्रापि तिसृषु ऋक्षु सुतशब्दोऽ- नुवृत्तः; अतः पवमानसाम्याद् रात्रिः पवमानवती; 'तेन' प्रकारेण उभयोः पवमानवत्त्वे साम्ये सति तुल्यभागत्वं सिध्यति॥ पुनरपि प्रश्नान्तरमुत्थापयति— ( प्रश्नानन्तरम् ) पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा; कथमुभे पञ्चदशा-( स्तोत्रे भवतः, केन ते समावद्भाजौ भवतः? इति ॥ १० ॥

हिन्दी –( पुन: अन्य प्रश्न को उद्भावित कर रहे हैं - ) पञ्चदस्तोत्रम् अहः दिन पञ्चदश ( नामक ) स्तोत्र वाला होता है— इत्याहुः ऐसा कहा गया है, न रात्रिः पञ्चदश स्तोत्राः रात्रि पञ्चदश ( नामक ) स्तोत्र वाली नहीं ( कही गयी है ) । कथम् उभे पञ्चदश- स्तोत्रे भवतः तो दोनों (दिन और रात्रि ) किस प्रकार पञ्चदश ( नामक ) स्तोत्र वाले होते हैं और केन ते संमवद्भाजौ भवतः किस प्रकार दोनों समान भाग वाले होते हैं। सा० भा० – अग्निष्टोमस्तोत्राणि द्वादश, उक्थ्यस्तोत्राणि त्रीणि; एतान्यहनि प्रयु- ज्यन्ते । तस्मादहः पञ्चदशस्तोत्रोपेतम्, रात्रौ तु न तानि विद्यन्ते, कथं पञ्चदशस्तोत्रसाम्येन तयोर्भागसाम्यं सिध्यति? इति प्रश्नः ॥ तत्रोत्तरमाह- ( प्रश्नोत्तरम् ) द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथन्तरेण स्तुवते; तेन रात्रिः पञ्चदशस्तोत्रा, तेनोभे पञ्चदशस्तोत्रे भवतः, तेन ते समावद्भाजौ भवतः ॥ ११ ॥

( १ ) ऋ० ८.९ २.१ ९; ३.५१.१० ।

पृष्ठ 784

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 784 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ७२२ ऐतरेयब्राह्मणम् १६.६ चतुर्थपञ्चिकायां हिन्दी— ( अब उत्तर को कह रहे हैं -) द्वादशस्तोत्राणि अपिशर्वराणि अपिशर्वरी बारह स्तोत्रों वाली होती है तथा तिसृभिः देवताभिः तीन देवताओं से युक्त राथन्तरेण सन्धिना रथन्तर ( नामक ) साम में निष्पन्न सन्धि स्तोत्र से स्तुवते स्तुति की जाती है, तेन इसी कारण रात्रि पञ्चदशस्तोत्राः रात्रि पञ्चदश स्तोत्रों वाली होती है । तेन उभे पञ्चदश- स्तोत्रे इसी से दोनों (दिन और रात्रि) पञ्चदशस्तोमों वाले होते हैं और तेन ते उसी से वे समावद्भाजौ भवतः समान भाग वाले होते हैं । . सा० भा० - द्वादशसु चमसगणपर्यायेषु द्वादश स्तोत्राणि विद्यन्ते, तानि ' अपि- शर्वराणि' रात्रावनुष्ठेयानां छन्दसाम् ' अपिशर्वरसंज्ञा पूर्वमुक्ता । तैश्छन्दोभिर्निष्पाद्यत्वात् स्तोत्राण्यपि तन्नामकानि, रथंतरसाम्ना निष्पाद्यं यत्संधिस्तोत्रं', तत्र तिस्रो देवताः श्रूयन्ते।' ताभिः स्तोतव्याभिस्तिसृभिर्देवताभिः स्तोत्रमपि त्रेधा भिद्यते। 'तेन' कारणेन ताभि: पञ्चदशस्तोत्रा · संपन्ना। तथा सत्युभयोरहोरात्रयोः स्तोत्रसंख्यासाम्यात् समानभागोपेतत्वं सिध्यति॥ शस्त्रबाहुल्यं प्रशंसति— ( शस्त्रबाहुल्यप्रशंसनम् ) परिमितं स्तुवन्त्यपरिमितमनुशंसति; परिमितं वै भूतमपरिमितं भव्यम- · परिमितस्यावरुद्ध्या इति ॥ १२ ॥

हिन्दी–( शस्त्र के बहुलता की प्रशंसा कर रहे हैं - ) परिमितं स्तुवन्ति (उद्गाता ) परिमित स्तुति करते हैं ( किन्तु होता) अपरिमितं शंसति अपरिमित ( मन्त्रों ) का शंसन करता है; क्योंकि ( लोक में ) भूतं परिमितम् भूत ( पूर्व सम्पादित धन) परिमित (सीमित) होता है और भव्यम् अपरिमतम् भविष्य असीमित हैं। अतः अपरिमितस्य अवरुद्ध्यै अपरिमित की प्राप्ति के लिए ( अपरिमित का शंसन करता है ) । सा० भा ० — उद्गातारः 'परिमितं' यथा भवति तथा स्तुवन्ति। त्रिवृत्, पञ्चदशः, `सप्तदशः, एकविंश इत्येवं चतुर्भिरेव स्तोमैरत्र सर्वस्तोत्रनिष्पत्तेः । ' होता त्वपरिमितं यथा भवति तथा अनुशंसति; शंसनीया ऋच एतावत्य एवेति सर्वत्रानुगतस्य संख्यानियमस्य कस्यचिदभावात् । पूर्वभाविनः स्तोत्रस्य परिमितत्वमुत्तरभाविनः शस्त्रस्यापरिमितत्वं च लौकिकन्यायानुसारि, लोके ‘ भूतं' पूर्वं संपादितं धनम् ' परिमितम्' इयदेवेति नियतिरस्ति; ‘ भव्यम् इतः परं संपादनीयं धनम् ' अपरिमित' तृष्णायाः निरवधिकत्वेनैतावदेव संपादयि- ष्यामि, न त्वधिकमिति नियतेरभावात्। तस्मादुपरितनशंसनबाहुल्यमपरिमितधनप्राप्त्यै भवतीत्यभिप्रेत्य होतुरपरिमितमनुशंसनम्॥ ( १ ) रथन्तरं प्रतिष्ठाकामाय सन्धि कुर्यात् – इति ता० ब्रा० ९.१.२८ । ( २ ) ‘त्रीण्युक्थानि त्रिदेवत्यः सन्धिः ' - इति ता० ब्रा० ९.१.२६ । ( ३ ) ता०ब्रा० ६.२.२।

पृष्ठ 785

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 785 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ७२३ प्रकारान्तरेण शस्त्रबाहुल्यं प्रशंसति— ( प्रकारान्तरेण शस्त्रप्रशंसनम् ) अति शंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद् यत् स्तोत्रमति शंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धेऽवरुन्धे' ॥ १३ ॥

हिन्दी– (प्रकारान्तर से शस्त्र की प्रशंसा कर रहे हैं — ) स्तोत्रम् अतिशंसति (उद्गाता के ) स्तोत्र की अपेक्षा (होता) अधिक शंसन करता है; क्योंकि प्रजा आत्मानम् अति सन्तान अपने से अधिक होती है और अति पशवः पशु भी अधिक होते है। यत् जो स्तोत्रम् अति शंसति ( होता उद्गाता के स्तोत्र की अपेक्षा ) अधिक शंसन करता है तत् तो यः जो अस्य इस ( यजमान ) के आत्मानम् अति अपने से अधिक होते हैं अस्य तद् एव उस ( यजमान) के उसी का ही एतेन इस ( अधिक शंसन ) से अवरुन्धे प्राप्त कराता है । सा० भा० -स्तोत्रगतामृक्संख्यामतिलङ्घ्य होता शंसतीति यदस्ति तद्युक्तमेव; लोके ह्यात्मानमतिलङ्घ्य प्रजानां चावस्थितत्वात्। स्वयमेक एव, पुत्रादयस्तु बहवः, गवाश्चादि-पशवश्च बहवः तस्मादात्मस्थानीयं स्तोत्रम्, प्रजापशुस्थानीयशस्त्राधिक्येन 'यदेव' प्रजा-पश्वादि धनं, तस्य यजमानस्य स्वात्मानमतिक्रम्याधिकमभीष्टम्, तत्सर्वम् 'अस्य' यजमानस्य

होता संपादयति । पदाभ्यासोऽध्यायसमाप्त्यर्थः॥

॥ इति श्रीमत्सायणाचयविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायां प्रथमाध्याये ( षोडशाध्याये ) षष्ठः खण्डः ॥६॥

॥ इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय के षष्ठं खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमो हार्छं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजांधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश' -नामभाष्ये ऐतरेयब्राह्मणस्य तृतीयपञ्चिकायाः तृतीयोऽध्यायः (षोडशोऽध्यायः ) समाप्त ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के षोडश अध्याय की ' शशिप्रभा’ नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) अतिरात्रे चत्वारः सवनीयाः, षोडश्यन्ते रात्रिपर्यायास्त्रयः, ततः सन्धिस्तोत्रम्, तत्राश्विनं शस्त्रम्, ततोऽनुयाजादि । तदिह खण्डे सन्धिस्तोत्रान्तं विहितम्, शिष्टं परस्ताद् वक्ष्यति ।

पृष्ठ 786

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 786 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ चतुर्थपञ्चिकायाम् द्वितीयोऽध्यायः [ अथ सप्तदशोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम्— पृष्ठे षोडश्याह्नि संस्थाचतुर्थे सर्वच्छन्दोविक्रियाऽनुष्टुबाख्ये ॥ पर्यायाणां स्याच्चतुःशस्त्रकाणां रात्रौ संधेः संख्यया पाञ्चदश्यम्॥१ ॥

अथातिरात्रक्रतावेव रात्रिपर्यायेभ्य ऊर्ध्वमाश्विनं शस्त्रमाख्यायिकामुखेन विधत्ते— ( आश्विन्शस्त्रविधातुमाख्यायिका ) प्रजापितर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् सूर्यां सावित्री; तस्यै सर्वे देवां वरा आगच्छंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद्,-- यदेतदाश्विनमित्याचक्षतेऽनाश्विनं हैव, तद्यदर्वाक्सहस्रम्; तस्मात् तत्सहस्रं वैव शंसेद् भूयो वा ॥ १ ॥

हिन्दी –( अब अतिरात्रक्रतु में रात्रि पर्यायों के बाद आश्विन्शस्त्र को आख्यायिका द्वारा विधान कर रहे हैं — ) प्रजापतिः वै प्रजापति सोमाय सोम के लिए सावित्रीं सूर्या दुहिरम् अपनी पुत्री सावित्री सूर्या को प्रायच्छत् (विवाह हेतु ) देने के लिए उद्यत हुए। तस्यै वरा उसके लिए वर होकर सर्वे देवाः सभी देवता आगच्छन् आये । (उस प्रजापति ने ) तस्यै वहतुम् उस पुत्री की प्राप्ति के लिए एतत् सहस्रम् इस सहस्र ऋचा को अन्वाकरोत् तैयार किया, तद् एतत् वह यह (सहस्र ऋचा ) को आश्विनम् इति आचक्षते अश्विन् शस्त्र के नाम से (याज्ञिक लोग) अभिहित करते हैं । तद् यद् अर्वाक् सहस्रम् तो जो सहस्र से कम है अनाश्विनं ह एव वह अश्विन् ( शस्त्र) नहीं है । तस्मात् इसी कारण तत् सहस्रं वैव ( होता ) उन सहस्र (ऋचाओं ) का शंसन करे, भूयः वा अथवा उससे अधिक ( शंसन करे ) । सा० भा ० — पुरा कदाचित् प्रजापतिः कांचिद् दुहितरं सोमाय राज्ञे 'प्रायच्छत्' विवाहार्थं दातुमुद्युक्तवान् । कीदृशी दुहितरम्? ' सूर्याम्' इत्येतन्नामधेययुक्तां ‘सावित्री ' सवित्रा लब्धाम्। यद्यप्येषा सवितुः पुत्री, तथाऽपि स्नेहातिशयेन प्रजापतेर्दुहितेत्युच्यते। ‘तस्यै’ दुहित्रे

पृष्ठ 787

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 787 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७२५ तल्लाभार्थं सर्वे देवा वरा भूत्वा प्रजापतेः सकाशमागमन्। स च प्रजापतिः विवाहस्या- लङ्कारार्थं माङ्गल्यार्थं च वरस्य पुरतो वहनीयो हरिद्रागुडादिमङ्गलद्रव्यसङ्घो ‘वहतुः ' यदेत- दृक्सहस्रं याज्ञिका आश्विनसहस्रमित्याचक्षते, तत्सहस्रमेव वहतुरूपेण प्रत्यभिज्ञातवान्। स देवानां मध्ये यो वरः आश्विनशस्त्रमन्त्रानेक एव पठति, तस्मै दास्यामेति प्रतिज्ञातवा- नित्यर्थः । सहस्रादर्वाचीना ऋचो यस्मिञ्शस्त्रे, तद् ' अर्वाक्सहस्रम्' तादृशं यदस्ति, तद् ‘ अनाश्विनमेव’ । यस्मादाश्विनं सहस्रं प्रजापतिरङ्गीकृतवान्; तस्माद्धोता सहस्रमेव शंसेत् । ततोऽप्यधिकं वा शंसेत्, न तु न्यूनम्॥ शंसनस्येतिकर्तव्यतां विधत्ते— ( शंसनस्येतिकर्त्तव्यता ) प्राश्य घृतं शंसेत्, यथा ह वा इदमनो वा रथो वाऽक्तो वर्तत एवं हैवाक्तो वर्त्तते ॥ २ ॥

हिन्दी - ( शंसन की इतिकर्त्तव्यता का विधान कर रहे हैं - ) घृतं प्राश्य शंसेत् (होता पहले ) घृत का प्राशन करके शंसन करे; क्योंकि यथा ह जिस प्रकार (लोक में) इदम् अनः वा रथः वा यह स्वल्प शकट अथवा रथ अक्तः वर्तते तेल से आक्त होकर अच्छी गति करता है (जाता है ), एवं ह आक्तः वर्तते उसी प्रकार घृताक्त (वाणी भी अच्छी चलती है ) । सा ० भा० – प्रथमतो घृतं प्राश्य पश्चाच्छंसेत्। यथा लोके किंचिदिदं निदर्शनं तद्वत्। किं निदर्शनमिति? तदुच्यते-' अन:' स्वल्पशकट वा प्रौढ़ो ‘ रथः ’ वा यदा प्रवर्त्यते, तदानीमस्य चक्रस्य भ्रमणस्थाने मषोमिश्रेण तैलेनाञ्जने कृते पश्चात् स्वल्पं शकटं रथो वा सहसा प्रवर्तते । एवमसौ होता घृतेनाक्तः शस्त्रे प्रवर्तते॥ इतिकर्तव्यतान्तरं विधत्ते- शकुनिरिवोत्पतिष्यन्नाह्वयीत ॥ ३ ॥

हिन्दी— ( इतिकर्तव्यता के बाद विधान कर रहे हैं- ) (होता) शकुनिः इव उत्पतिष्यन् ह्वयति उड़ते हुए पक्षी के समान बैठकर आहाव करे। सा० भा ० — यथा लोके 'शकुनिः ' कश्चित्पक्षी पद्भ्यां भूमिं दृढमवष्टभ्य ' उत्पतिष्यन्’ ऊर्ध्वमुखोत्पतनं कर्तुमिच्छन् पक्ष्यन्तरमभिलक्ष्य ध्वनिं करोति, एवमसौ होता तदाकारं घटनं कुर्वन्नाहावं पठेत्। तदेतद् आश्वलायनाचार्यै स्पष्टीकृतम् 'प्राश्य प्रतिप्रसृप्य पश्चात् स्वस्य धिष्ण्यस्योपविशेत् समस्तजङ्घोरुरत्निभ्यां जानुभ्यां चोपस्थं कृत्वा यथा शकुनि- ( १ ) प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्त्रावममोदेतोः शंसेत्' – इति० आश्व ० श्री० ६.५.८।

पृष्ठ 788

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 788 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ _ - [रुत्पतिष्यन्नुपस्थकृतस्त्वेवाश्विनं७२६ ऐतरेयब्राह्मणम् शंसेत् " इति॥ १७.१ चतुर्थपञ्चिकायां आश्विनशस्त्रस्य प्रतिपदमाख्यायिकामुखेन विधत्ते— ( आख्यायिकाद्वाराश्विन्शस्त्रस्य प्रतिपद्विधानम्) तस्मिन् देवा न समजानत, - ममेदमस्तु ममेदमस्त्विति; ते संजानाना अब्रुवन्नाजिमस्यायामहै, स यो न उज्जेष्यति, तस्येदं भविष्यतीति; तेऽग्नेरेवाधि गृहपतेरादित्यं काष्ठामकुर्वत, तस्मादाग्नेयी प्रतिपद्ध- वत्याश्विनस्य ' अग्निर्होता गृहपतिः स राजा' इति ॥ ४ ॥

हिन्दी— ( आश्विन् शस्त्र के प्रतिपद को आख्यायिका द्वारा विधान कर रहे हैं— ) तस्मिन् उस ( शस्त्र ) के विषय में ' ममेदमस्तु ममेदमस्तु यह मेरा होवे, यह मेरा होवे— इति इस प्रकार देवाः न समजानत देवता एकमत नही हुए । ते संजानाना अब्रुवन् तब उन्होने समझौता करते हुए कहा कि अस्य आजिम् आयामहे हम लोग इसके लिए शर्त लगा कर दौड़ें । सः यः नः उज्जेष्यति हम लोगों में यह जो जीतेगा, अस्य उस ( जीतने वाले ) का इदम् यह ( आश्विन् शस्त्र) होगा। ते उन ( देवताओं ) ने गृहपतेः अग्नेः अधि गार्हपत्याग्नि से लेकर आदित्यम् आदित्य को काष्ठाम् अकुर्वत (दौड़ ) समापन का स्थान निश्चित किया । तस्मात् इसी कारण ' अग्निर्होता गृहपतिः स राजा' अर्थात्' अग्नि होता, गृह का पालक और राजा है' इति यह आग्नेयी अग्नि सम्बन्धी (ऋचा ) आश्विनस्य आश्विन्( शस्त्र ) की प्रतिपद् भवति प्रारम्भिक ऋचा होती है। सा० भा० -– 'तस्मिन्' आश्विन्शस्त्रे देवाः परस्परं 'न समजानत' संज्ञानं प्रतिपत्तिं नाकुर्वन्। कीदृशी तदीया प्रतिपत्तिः? इति, सोच्यते— 'ममैवेदमाश्विनमस्त्विति' सर्वेषाम-भिगयः । सर्वविषयत्वं द्योतयितुमियं वीप्सा। 'ते' विप्रतिपन्ना देवाः ' संजानानाः ' संप्रतिपत्तिं कर्तुमुद्युक्ताः परस्परमिदमब्रुवन्– ' अस्य' आश्विन्शस्त्रस्य लाभाय वयं सर्वे कांचिद् 'आजिम् आयामहै ' समयबन्धपुरःसरा धावनरूपा गतिः ‘ आजि: ’ प्राप्नवामः । तस्मिन्नाजिधावने.. ‘नः ’ अस्माकं मध्ये च यः प्रबलः, यः कोऽपि प्रथममुत्कर्षेण जेष्यति, तस्य ‘ इन्द्रम्' आश्विनं भविष्यतीति समयबन्धः ते कृतसमया देवा: 'गृहपतेरग्नेरेवाधि' गार्हपत्यस्योपरि द्युलोक- वर्तिनमादित्यं ‘ काष्ठां’ धावनसमाप्तिमकुर्वते, गार्हपत्यमारभ्यादित्यपर्यन्तं धावेदिति तदीया मर्यादा । यस्मादग्निराश्विनप्राप्तिहेतोर्धावनस्योपक्रमस्थानम्, तस्मादाग्नेयी काचिदृगाश्विनस्य

‘ प्रतिपद्भवति' प्रारम्भरूपा कर्तव्या। 'अग्निर्होता'३ इति तस्याः प्रतीकम्॥

अत्र कंचित्पूर्वपक्षमुद्भावयति-( १ ) आश्व० श्रौ० ६.५.४ । ( २ ) ऋ० ६.१५.१३ । ( ३ ) ऋ० ६.१५.१३ ।

पृष्ठ 789

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 789 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ७२७ द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ( तत्रपूर्वपक्षः ) तद्वैक आहुः - ' अग्निं मन्ये पितरमग्निमापिम् " प्रतिपद्यत ॥५॥ इत्येतया

हिन्दी — ( इस विषय में पूर्वपक्ष की उद्भावना कर रहे हैं - ) तद् ह ऐके ' इस विषय में कुछ लोग कहते हैं कि अग्नि मन्ये पितरमाग्निमापिम् आहुः ' - प्रतिपद्येत् इस ऋचा से प्रारम्भ करना चाहिए । इति एतया सा० भा०- प्रारभेतेत्यर्थः ॥ तत्रोपपत्तिं पूर्वपक्ष्यभिप्रेतां दर्शयति- ' दिवि शुक्रं यजतं सूर्यस्य' इति प्रथमयैव ऋचा काष्ठामाप्नोतीति॥६॥

हिन्दी–(उस विषय में पूर्वपक्ष को अभिप्रेत उपपत्ति को दिखला रहे हैं— ) क्योंकि 'दिवि शुक्रं यजतं सूर्यस्य' इति प्रथममया एव ऋचा इस प्रथमा ऋचा के द्वारा ही कष्ठाम् आप्नोति ( सूर्य की दौड़ रूप) समाप्ति- सीमा प्राप्त हो जाती है । सा ० भा ० — तस्याश्चतुर्थपादे ' सूर्यस्य यजतं' यस्मादग्निविशेषणं पठ्यते, यथा सति प्रथमयैवर्चा सूर्यरूपा काष्ठा धावनाभिरूपाप्ता भवतीति तेषामभिप्रायः ॥ तमिमं पक्षं दूषयति-- पूर्वपक्षदूषणम् ) तत्तन्नादृत्यम्, य एनं तत्र ब्रूयाद् अग्निमिति वै प्रत्यपाद्यग्निमापत्स्यतीति, शश्वत् तथा स्यात् ॥७ ॥

. हिन्दी–( इस पूर्वपक्ष में दोष दिखला रहे हैं - ) तत् तत् न आदृत्यम् तो वह ( कथन ) आदरणीय नहीं है; क्योंकि तत्र उस ( शस्त्र के उपक्रम) में यः जो कोई भी एनम् इस (होता) से ब्रूयात् कहे कि अग्निम् इति वै प्रतिपादि (इस होता ने ) अग्नि शब्द से ही ( शस्त्र का ) प्रारम्भ किया है तो (इस कहने से ) अग्निं प्रतिपत्स्यति होता अग्नि में गिरेगा तो शश्वत् तथा स्यात् तो ( वह कथन ) उसी प्रकार निश्चित रूप से ( सत्य ) हो जाताहै। सा० भा ० तस्मिन् शस्त्रोपक्रमे 'तत्' ' अग्निं मन्ये पितरम्'' इत्यादिकं नादरणीयम्। अनादरणे हेतुरुच्यते — ‘ तत्राग्निं मन्ये'- इत्येतयोपक्रमपक्षे, यः कोऽपि विरोधी समागत्य ' एनं' होतारं 'ब्रूयात्' शपेत्। कथं शाप इति, तदुच्यते- अनेन होत्रा ‘ अग्निमग्निमिति' एव ‘ प्रत्यपादि’ प्रारब्धम्, तस्यामृचि ‘ अग्निं पितरमग्निं भ्रातरम्'– इत्येवमसकृदग्निस्वरूपम्’ पित्राद्यभिधानादग्निमसौ होता प्राप्नोतीति दग्धो भवष्यितीति यदि शपेत्, तदानीं 'शश्वत्’ ( ) ( ) १ ऋ० १०.७.३ । २ ऋ० १०.७.३ ।

पृष्ठ 790

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 790 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७२८ ऐतरेयब्राह्मणम् १७.२ चतुर्थपञ्चिकायां अवश्यं तथा स्यात्॥ - परमतं दूषयित्वा स्वमतं निगमयति— ( सिद्धान्तनिगमनम्) तस्माद् ' अग्निर्होता गृहपतिः स राजा' इत्येतयैव प्रतिपद्येत, गृहपतिवती प्रजातिमती शान्ता; सर्वायुः सर्वायुत्वाय ॥ ८ ॥

हिन्दी–( पूर्वपक्ष को दूषित करके अब सिद्धान्त पक्ष को कह रहे हैं— ) तस्मात् इसी कारण ‘ अग्निर्होता गृहपतिः स राजा - इति एतया एव प्रतिपद्येत इस ( ऋचा ) से ही प्रारम्भ करे। ( क्योंकि यह ऋचा) गृहपतिवती प्रजातिमती शान्ताः गृहपति और प्रजा-पति शब्द से युक्त और ( अनेक बार अग्नि शब्द होने के कारण) शान्त है अतः सर्वायुः सम्पूर्ण आयु रूप है और सर्वायुत्वाय ( यजमान) सम्पूर्ण आयु की प्राप्ति के लिए है । सा ० भा ० — अस्यामृचि' गृहपतिशब्दः स्पष्टं दृश्यते, तस्मादियं ‘ गृहपतिवती’ । तथा द्वितीयपादे 'विश्वा वेद अनिमा' -इति सर्वप्राणिजननाभिज्ञानकथनादियं ' प्रजापतिमती' । बहुकृत्वोऽग्निशब्दस्याभावादियं ' शान्ता' । तस्मादेतया प्रतिपद्यमानो होता सर्वायुर्भवति, तच्च यजमानस्य सर्वायुत्वाय संपद्यते ॥ वेदनं प्रशंसति— सर्वमायुरेति य एवं वेद ॥ ९ ॥

हिन्दी - (इस ज्ञान की प्रशंसा कर रहे हैं— ) यः एवं वेद जो प्रकार जानता है, वह सर्वायुः एति सम्पूर्ण आयु को प्राप्त करता है॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः द्वितीयाध्याये ( सप्तदशाध्याये ) प्रथमः खण्डः ॥१॥

॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा० भा ० |–— अथाग्नेयकाण्डं विधत्ते— ( आग्नेयकाण्डविधानम्) तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत, ( १ ) ऋ० ६.१५.१३ ।