ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 791–800
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 791–800
पृष्ठ 791
पाठ पढ़ें पाठ छिपाएँ
] ७२ ९ द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम्: तमश्विनावन्वागच्छतां, तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति; स तथेत्यब्रवीत् तस्य वै ममेहाप्यस्त्विति; तथेति; तस्मा अप्यत्राकुरुताम्; तस्मादाग्नेयमाश्विने शस्यते ॥ १ ॥ हिन्दी—-( अब आग्नेय काण्ड का विधान कर रहे हैं- ) तासां धावन्तीनाम्
अभिसृष्टानां देवतानां मुखम् उन दौड़ने में प्रवृत्त हुए देवताओं में प्रमुख अग्निः प्रथमः प्रत्यपद्यत अग्नि सबसे पहले पहुँचे अश्विनौ तम् अन्वागच्छताम् अश्विन्द्वय उस ( अग्नि ) से बाद पहुँचे। तम् अब्रूताम् ( अश्विनों ने ) उस (अग्नि) से कहा कि अपोदिहि तुम दोनो उत्कर्षपूर्वक दूर हट जाओ । आवाम् इदं जेष्यावः हम दोनों इसे जीतेगे । सः तथा इति अब्रवीत् उस ( अग्नि) में कहा कि ठीक है, किन्तु तस्यै मम अपि उस ( अपगत हुए) - मेरा भी इह अस्तु इसमें भाग होवे। तथेति ( तब अश्विनों ने कहा कि) ठीक है और तस्मै अपि (अग्नि) के लिए भी अत्र अकुरुताम् इसमें भाग दिया जाय। तस्मात् इस कारण आश्विने आग्नेयं शस्यते आश्विनशस्त्र में अग्नि- सम्बन्धी (ऋचाओं) का शंसन किया जाता है । सा० भा ० — देवताः सर्वा गार्हपत्याग्निसमीपात् निर्गत्य सूर्यपर्यन्तामाजिमुद्दिश्य धावन्त्यो ‘ अभिसृष्टा ” अभितः प्रवृत्ताः –एका देवतैकस्यां दिशि धावत्यन्या परस्यां दिशीत्येवं सर्वतो धावन्ति। ' तासां ' देवतानां मध्ये अग्निः मुखं यथा भवति तथा, मुख्यो भविष्यामीत्यभिप्रायेण प्रथमः ' प्रत्यपद्यत' पुरोगामी धावनं कृतवान्। ' तम्' अग्निम् 'अनु ’ पश्चादश्विनावागच्छताम्, समीपं गत्वा 'तम् अग्निम् अब्रूताम्' – हे अग्ने, त्वं शान्तो भविष्यसि, तस्माद् ‘ अपोदिति' उत्कर्षेणापेहि, दूरेऽपसर। 'आवाम्' उभावेव ‘ इदम्' आश्विन-मुद्दिश्य जेष्याव इति । सोऽग्निरङ्गीकृत्य ' तस्य' अपगच्छतो ममापि ' इह' शस्त्रे भागोऽ-स्त्विति अङ्गीकृतवान्। आश्विनावङ्गीकृत्य ' तस्मै' अग्नये विभागं दत्तवन्तौ। यस्मादेवं ‘तस्मादाग्नेयं' बहूनामृचां समूहरूपं काण्डम् 'आश्विने' शस्त्रे होत्रा ' शस्यते' । शंसनीयं तच्च काण्डं सर्वं सूत्रे द्रष्टव्यम्'॥ अथोषस्य काण्डं विधत्ते— ( उषस्याण्डविधानम्) ता उषसमन्वागच्छताम्, तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति; सा तथेत्यब्रवीत् तस्यै वै ममेहाप्यस्त्विति; तथेति; तस्या अप्यत्राकुरुतां ( १ ) ‘ आश्विनं शंसेत्। अग्निहोंता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः । एतयाग्नेयं गायत्रमुपसन्तनुयात्। प्रातरनुवाकन्यायेन ' - इत्यादि आश्व०श्रौ० ६.५.५. - ८ । ‘प्रातर- नुवाकमनुब्रूयान्मन्द्रेण’ – इत्यादिः; 'इत्याग्नेयः क्रतुः ' इत्यन्तश्च ४.१३.६-८ । द्रष्टव्यः । : 'त्रीणि षष्टिशतन्याश्विनम्' इति च ६.६.१० । ऐ.ब्रा. पू- ४६
पृष्ठ 792
पाठ पढ़ें पाठ छिपाएँ
: [७३० ऐतरेयब्राह्मणम् १७.२ चतुर्थपञ्चिकायां तस्मादुषस्यमाश्विने शस्यते ॥ २ ॥
हिन्दी—( अब उषस् काण्ड का विधान कर रहे हैं - ) तौ उषसम् अनु आगच्छताम् वे ( अश्विन्देव ) उषा के पीछे आये। ताम् अब्रूताम् उस (उषा ) से ( अश्विनों ने कहा कि अपोदिहि तुम दूर हट जाओं और आवां वै इदं जेष्यावः हम दोनों इसको जीतेगे । सा तथा इति अब्रवीत् उस ( उषा) ने कहा कि ठीक है। तस्यै मम अपि उस (अपगत हुए) मेरा भी इह अस्तु इसमें भाग होवे। तथेति (तब अश्विनों ने कहा कि) ठीक है और तस्यै अपि उस (उषा) के लिए भी अत्र अकुरुताम् इसमें भाग दिया जाय । तस्मात् इसी कारण आश्विने उषस्यं शस्यते आश्विनशस्त्र में उषा सम्बन्धी ऋचाओं का शंसन करता हैं । सा ० भा ० — ‘तौ’ अश्विनौ ‘उषसम्' एतन्नामयुक्तां देवताम्। अन्यत् पूर्ववद् व्याख्येयम्॥ ऐन्द्रं काण्डं विधत्ते— ( ऐन्द्रकाण्डविधानम् ) ताविन्द्रमन्वागच्छताम्, तमब्रूतामावां वा इदं मघवञ्जेष्याव इति, न ह तं दधृषतुरपोदिहीति वक्तुं; स तथेत्यब्रवीत् तस्य वै ममेहाप्यस्त्विति; तथेति, तस्मा अप्यत्राकुरुतां, तस्मादैन्द्रमाश्विने शस्यते ॥ ३ ॥
हिन्दी—( अब ऐन्द्र काण्ड का विधान कर रहे हैं— ) तौ इन्द्रमनु अन्वागच्छताम् वे दोनो ( अश्विन्) इन्द्र के पीछे आये। तम् अब्रूताम् उस ( इन्द्र) से ( अश्विनों ने कहा कि मघवन् आवां वै इदं जेष्यावः हे ऐश्वर्य सम्पन्न इन्द्र! हम दोनों इसे जीतेंगे, किन्तु तम् उस (इन्द्र) से ' अपोदिहि दूर हट जाओ- इति वक्तुम् यह कहने के लिए न ह दघृषतुः धृष्टता नहीं किये । सः तथा इति अब्रवीत् तब उस (इन्द्र ) ने कहा कि ठीक है किन्तु तस्य वै मम अपि उस (अपगत हुए) मेरा भी इह अस्तु इस में भाग होवे। तथेति ( तब अश्विनों ने कहा कि) ठीक है और तस्मै अपि इस (इन्द्र) के लिए भी अत्र अकुरुताम् यहाँ भाग दिया जाय । तस्मात् इसी कारण आश्विने ऐन्द्रम् शस्यते आश्विन्शस्त्र में इन्द्र-सम्बन्धी (ऋचाओं का ) शंसन करता है । सा ० भा ० — हे मघवन्, आवां जेष्याव इत्येव अब्रूताम्; इन्द्रस्य स्वामित्वात्‘ तम्’ इन्द्रमुद्दिश्य ‘ अपेदिहि’ इति वक्तुं न दधृषतुः, धाष्टर्घ्यं नाकुरुताम्। अन्यत् पूर्ववत्॥ अथाश्विनं काण्डं विधत्ते- ( आश्विन्काण्डविधानम् ) तदश्विना उदजयतामश्विनावाश्नुवाताम्, यदश्विना उदजयतामश्विना- वाश्नुवाताम्; तस्मादेतदाश्विनमित्याचक्षते ॥४॥
हिन्दी— ( अब आश्विन् काण्ड का विधान कर रहे हैं - ) तद् अश्विनौ उदजयताम्
पृष्ठ 793
पाठ पढ़ें पाठ छिपाएँ
] -:द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७३१ इस प्रकार अश्विनों ने जीत लिया और अश्विनौ अश्नुवाताम् अश्विनों ने ही इसे व्याप्त कर लिया। यद् अश्विनौ उदजयताम् जो अश्विनों ने उसे जीता और अश्विनौ आश्नुवाताम् अश्विनों ने उसे व्याप्त किया, तस्मात् इसी कारण एतत् इस ( शस्त्र) को आश्विनम् इत्याचक्षते अश्विन् से सम्बन्धित कहा जाता है । सा० भा०--' तत्' तस्यामाजौ सहसा सूर्यपर्यन्तं गत्वा तावश्विनावुत्कर्षेणाजय- ताम्। ततस्तावेव शस्त्रम् ‘ अश्नुवातां' व्याप्तवन्तौ। ' यद्' यस्मादश्विनौ जयपूर्वकं शस्त्रं व्याप्तवन्तौ, तस्माद् 'एतत्' शस्त्रमाश्विनमिति याज्ञिका आचक्षते। आश्विनं काण्डं शंसेदि- त्यभिप्रायः । वेदनं प्रशंसति— अश्नुते यद् यत्कामयते य एवं वेद ॥ ५ ॥
हिन्दी —(इस ज्ञान की प्रशंसा कर रहे हैं - ) य एवं वेद जो इस प्रकार जानता है, वह यद् यत् कामयते जो कामना करता है, अश्नुते उसको प्राप्त करता है । प्रश्नोत्तराभ्यां शस्त्रस्याश्विनत्वमुपपादयति— ( शस्त्रस्याश्विनत्वोपपादनम् ) तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यं शस्यत ऐन्द्रमथ. कस्मा- देतदाश्विनमित्याचक्षत इत्यश्विनौ हि तदुदजयंतामश्विनावाश्नुवाताम्, यदाश्विना उदजयतामश्विनावाश्नुवाताम्; तस्मादेतदाश्विनमित्या- चक्षते ॥६ ॥
हिन्दी –(प्रश्नोत्तर द्वारा शस्त्र के अश्विन् से सम्बन्धित होने का उपपादन कर रहे हैं—( प्रश्न - ) तदाहुः यत् इस विषय में (कुछ याज्ञिक ) पूंछते हैं कि आग्नेयं शस्यते उषस्यं शस्यते अथ ऐन्द्रं शस्यते अग्नि से सम्बन्धित (ऋचाओं) का शंसन किया जाता है, उषा से सम्बन्धित (ऋचाओं) का शंसन किया जाता है और इन्द्र से सम्बन्धित ऋचाओं का शंसन किया जाता है तो कस्मात् किस कारण से एतद् आश्विनम् इत्याचक्षते इस ( शस्त्र ) को आश्विन् से ही सम्बन्धित कहा जाता है? (उत्तर- ) यद् अश्विनौ उदजयताम् जो अश्विनों ने उसे जीता है और अश्विनौ आश्नुवाताम् अश्विनों ने उसे व्याप्त किया है इसी कारण एतद् आश्विनम् इत्याचक्षते यह अश्विनों से सम्बन्धित कहलाता है । तस्मात् सा० भा ० – आश्विनकाण्डवत् आग्नेयोषस्यैन्द्रकाण्डानामपि शस्यमानत्वाच्छस्त्र- कः पक्षपात इति प्रश्नः? अग्निरूषा इन्द्रश्चैते परतोऽ- स्याग्नेयादिनामपरित्यागेनाश्विन्नाम्नि पसृप्ताः, न तु सूर्यपर्यन्तमधावन्, अश्विनौ तु धावन्तौ जयपूर्वकं शस्त्रं प्राप्तवन्ताविति तदीयत्वप्रसिद्धिः शस्त्रस्य युक्ता॥
पृष्ठ 794
पाठ पढ़ें पाठ छिपाएँ
: [ ७३२ ऐतरेयब्राह्मणम् १७.३ चतुर्थपञ्चिकायां वेदनं प्रशंसति- अश्नुते यद् यत्कामयते य एवं वेद ॥ ७ ॥
हिन्दी —( इस ज्ञान की प्रशंसा कर रहे हैं - ) य एवं वेद जो इस प्रकार जा है, वह यद् यत्कामयते जो कामना करता है, अश्नुते उसे प्राप्त करता है । सा० भा ० — पूर्वमाश्विनसंबन्धमात्रवेदनम्, इह त्वग्न्यादिसंबन्धराहित्यवेदनं चेति विशेषः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः द्वितीयाध्याये ( सप्तदशाध्याये ) द्वितीयः खण्डः ॥ २ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा ० भा ० – अथाश्विनशस्त्रप्रशंसार्थं देवानामजिधावनकथा पूर्वमुपन्यस्ता; तमेव कथाशेषामाश्विनशस्त्रप्रशंसार्थमेव पुनरप्यनुवर्तयति— ( आश्विनशस्त्रप्रशंसार्थमवशिष्टकथाकथनम् ) ( तत्राग्नेराजिधावनकथनम् ) अश्वतरीरथेनाग्निराजिमधावत्, तासां प्राजमानो योनिमकूलयत्; तस्मात् ता न विजायन्ते ॥ १ ॥
हिन्दी—( उस आश्विन् शस्त्र की प्रशंसा के लिए पूर्ववर्ती खण्ड प्रोक्त कथा के शेष भाग का पुन: अनुवर्तन कर रहे हैं - ) अग्नि अश्वतरीरथेन आजिम् अधावत् अग्नि ने खच्चरियों के रथ से दौड़ में दौड़ लगाया और प्राजमानः (तेज दौड़ने के लिए उन्हें) प्रकृष्ट रूप से प्रेरित करते हुए ( अग्नि ने ) तासां योनिम् अकूलयत् उनकी प्रजननाङ्ग ( योनि ) को जला दिया। तस्मात् इस कारण ताः वे (खच्चरियाँ ) न विजायन्ते सन्तानोत्पादन नहीं करती हैं। सा० भा ० — अश्वगर्दभसांकर्येण जाताः स्त्रीव्यक्तयोऽश्वतर्यः । तद्युक्तेन रथेनाय- मग्निराजिमुद्दिश्य धावनं कृतवान् । तदानीं 'प्राजमानः ' प्रकर्षेणाश्वतरीः प्रेरयन् । ' अज पशु-प्रेरणे' इति धातुजन्योऽयं शब्दः । तत्प्रेरणकाले तासां पूर्वपुच्छभागमुपस्पृश्य योनिम् ‘ अकूलयत्’ दग्धवान्। तस्माद् दग्धयोनित्वात् 'ताः ' अश्वतयों ‘ न विजायन्ते ' विजननम् अपत्योत्पादनं न कुर्वन्ति ॥
पृष्ठ 795
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७३३ अग्नेराजिधावनमुक्त्वोषसो धावनं दर्शयति— ( उषसोधावनकथनम् ) गोभिररुणैरुषा आजिमधावत्, तस्मादुषस्यागतायामरुणमिवैव प्रभात्युंषसो रूपम् ॥ २ ॥
हिन्दी – ( अग्नि के दौड़ में भाग लेने का कथन करके उषा के दौड़ने को दिखला रहे हैं ) उषा अरुणैः गोभिः आजिम् अधावत् हलके रक्त वर्ण वाले बैलों से युक्त (रथ ) से उषा ने दौड़ में धावन किया ( दौड़ा)। तस्मात् इसी कारण आगतायाम् उषसि ( रात्रि समाप्त होने बाद) उषा के आने पर उषसः रूपम् उषा का रूप (वर्ण) अरुणमिव एव प्रभाति थोड़ा लाल सा प्रभायुक्त होता है । सा ० भा ० - ‘ अरुणैगोंभिः ' ईषद् रक्तवर्णैर्बलीवर्देर्युक्तेन रथेन यस्माद् उषसो धा- वनम्, तस्माल्लोकेऽपि रात्रेरवसाने समागतायामुषसि; तस्या उषसो रूपं प्राच्यां दिशि ‘ अरुणमिवैव ’ रक्तवर्णमेव भूत्वा 'प्रभाति' प्रभायुक्तं भवति॥ इन्द्रस्याजिधावनं दर्शयति— ( इन्द्रस्याजिघावनकथनम् ) अश्वरथेनेन्द्र आजिमधावत्; तस्मात् स उच्चैर्घोष उपब्दिमान् क्षत्त्रस्य. रूपमैन्द्रो हि सः ॥३ ॥
हिन्दी-( अब इन्द्र के दौड़ में भाग लेने को दिखला रहे हैं - ) इन्द्रः अश्वरथेन आजिम् अधावत् इन्द्र ने अश्वयुक्त रथ से दौड़ में धावन किया। तस्मात् इसी कारण (लोक में भी) सः उच्चैघोषः वह ( दौड़ता हुआ रथ ) उपब्दिमान् कोलाहल करता है; क्योंकि क्षत्रस्य रूपं हि वह क्षत्रिय का रूप है और सः ऐन्द्रम् वह इन्द्र से सम्बन्धित है । सा० भा ० — यस्मादश्वयुक्तेन रथेनेन्द्रोऽधावत्, तस्माल्लोकेऽपि सोऽश्वयुक्तो रथः ‘ उच्चैर्घोषः बहुलध्वनिर्दृश्यते, तथा क्षत्त्रस्य रूपम् 'उपब्दिमान्' शब्दोपेतं दृश्यते । यदा क्षात्त्रियो निर्गच्छति, तदीया याष्टिका अन्ये सेवकाः अश्वपुरतः शब्दं कुर्वन्त एव गच्छन्ति। स च शब्द ' ऐन्द्रो हि' असुरयुद्धेषु तद्भीत्यर्थमिन्द्रेण कृतत्वाद् ऐन्द्रत्वम् ॥ अश्विनोर्धावनं दर्शयति- ( अश्विनोर्घावनकथनम् ) गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवानतां; यदश्विना उदजता- मश्विनावाश्नुवातां; तस्मात् स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां, तस्मात् स द्विरेता. वाजी ॥ ४ ॥...
पृष्ठ 796
पाठ पढ़ें पाठ छिपाएँ
: [ ७३४ ऐतरेयब्राह्मणम् १७.३ चतुर्थपञ्चिकायां हिन्दी—( अब अश्विनों के दौड़ने को दिखला रहे हैं- ) अश्विनौ गर्दभरथेन उदजयताम् अश्विनों ने गर्दभयुक्त रथ से ( दौड़ को) जीता और अश्विनौ आश्नुवाताम् अश्विनों ने उसे व्याप्त किया। यद् अश्विनौ उदजयताम् जो अश्विनों में ( दौड़ ) को जीत लिया और अश्विनौ आश्नुवाताम् अश्विनों ने उसे व्याप्त किया, यदश्विना उदजयताम् जो अश्विनों ने ( दौड़ को ) जीता और अश्विना आश्नुवाताम् और अश्विनों ने उसे व्याप्त किया, तस्मात् इसी कारण सः सृतजवः दुग्धदोहः वह (गर्दभ तेज से दौड़ने के कारण) वेगरहित और दुग्धविहीन हो गया। एतर्हि इस समय भी सर्वेषां वाहनानाम् सभी भार- वाहक पशुओं में अनाशिष्ठः अत्यन्त वेगरहित है किन्तु अस्य तु इस ( गर्दभ ) के रेतसः वीर्यम् वीर्य की शक्ति को न आहरताम् ( अश्विनों ने ) विनष्ट नहीं किया । तस्मात् इसी कारण सः वह ( गर्दभ ) द्विरेताः ( गर्दभ और खच्चर)। दोनों को उत्पन्न करने वाला और ' वाजी गमनशील होता है। सा० भा ० – अश्विनो गर्दभयुक्तेन रथेन शीघ्रं गत्वा जयपूर्वकमश्विनौ व्याप्तवन्तौ। ‘ यत्’ यस्मादुभौ रथमारुह्यातिवेगेन गत्वा व्याप्तवन्तौ; तस्मात्'सः ' गर्दभो भारातिशयेन तीव्रधावनेन च लोके ‘ सृतजीव:' गतवेगः ' दुग्धदोह: ' गतक्षीररसश्चाभवत्। तस्माद् इदानी- मपि गजाश्वादिवाहनानां सर्वेषां मध्ये गर्दभः ' अनाशिष्ठः ' अत्यन्तवेगरहितो ' दृश्यते । तदीयस्य रेतसस्तु ' वीर्य' सामर्थ्यम् अश्विनौ 'नाहरतां' न विनाशितवन्तौ। तस्माद् वेगेन पानयोग्यक्षीरेण च राहित्येऽपि ' सः' गर्दभो 'द्विरेताः' गर्दभाश्वतरजातिद्वयोत्पादको ' वाजी' गमनवान् दृश्यते॥ एवं शस्त्रप्रशंसार्थमवशिष्टमुपाख्यानशेषमभिधाय सौर्याणां मन्त्रसमूहानां संख्यां विधातुं पूर्वपक्षम् उद्भावयति— ( सौर्याणां मन्त्रसमूहानां संख्याविचारः ) तदाहुः सप्त सौर्याणि च्छन्दांसि शंसेद् यथैवाग्नेयं यथोषस्यं यथा- श्विनम् सप्त वै देवलोकाः, सर्वेषु देवलोकेषु राध्नोतीति ॥ ५ ॥
हिन्दी' – ( अब सूर्य सम्बन्धी मन्त्रों की संख्या का विधान करने के लिए पूर्वपक्ष की उद्भावना कर रहे हैं— ) तदाहुः इस विषय में (कुछ याज्ञिक ) कहते है कि यथा वै आग्नेयं यथा उषस्यं यथा आश्विनम् जिस प्रकार अग्नि, उषा और अश्विन् के लिए गायत्री इत्यादि सातों छन्दों का शंसन होता है, सप्त सौर्याणि छन्दांसि शंसेत् उसी प्रकार सूर्य के लिए भी सात छन्दों का शंसन करना चाहिए; क्योंकि सप्त वै देवलोकाः सात देवताओं के लोक हैं । ( इस शंसन से) सर्वेषु देवलोकषु सभी देवलोकों में राध्नोति समृद्धि को प्राप्त करता है । ( १ ) ‘ अनाशिष्ठः अतिशयेनाल्पभक्षी - इति षड्गुरुशिष्यः ।
पृष्ठ 797
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७३५ सा० भा ० - आग्नेयोषस्याश्विनकाण्डानि यथा प्रत्येकं गायत्र्यादिभिः सप्तच्छन्दोभि- र्युक्तानि, ' एवमत्र सौर्येऽपि काण्डे सप्त च्छन्दांसि शंसनीयानि । तथा सति भोगस्थानरूपाणां देवलोकानामवान्तरभेदेन सप्तविधत्वात् तत्समृद्धिः सिध्यतीति पूर्वपक्षिण आहुः॥ तं पक्षं निराकृत्य च्छन्दस्त्रयपक्षं विधत्ते— तत्तन्नादृत्यम्; त्रीण्येव शंसेत्, त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै ॥ ६ ॥
हिन्दी –( सातों छन्दों के शंसन वाले पक्ष का निराकरण करके तीन छन्दों वाले पक्ष का विधान कर रहे हैं— ) तत् तद्न आदृत्यम् तो वह (सातों छन्दों में शंसन करने का पक्ष) आदरणीय नहीं है। त्रयः वै इमे त्रिवृतः लोकाः त्रिवृत (सत्व, रजस् और तमस्— इस तीन गुणों से युक्त ) ये ( पृथिवी, अन्तरिक्ष और धु) तीन ही लोक हैं। एषामेव लोकानाम् अभिजित्यै इन तीनों लोकोंकों की प्राप्ति के लिए त्रीणि एव शंसेत् तीन छन्दों का ही शंसन करना चाहिए । सा० भा०-–पृथिव्यन्तरिक्षद्युलोकास्त्रय एव ‘त्रिवृतः ’ सत्त्वरजस्तमोगुर्णस्त्रिविधः, अतः त्रयाणामभिजयाय त्रीण्येव च्छन्दांसि॥ त्रयाणां छन्दसां प्रारम्भं निश्चेतुं पूर्वपक्षमाह- ( त्रयाणां छन्दसां प्रारम्भविचारः ) तदाहु ' उदुत्यं जातवेदसम्' इति सौर्याणि प्रतिपद्येतेति ॥७ ॥
हिन्दी - (तीनों छन्दों के प्रारम्भ का निश्चय करने के लिए पूर्वपक्ष को कह रहे हैं— ) तदाहुः इस विषय में (कुछ याज्ञिक ) कहते हैं कि (सूर्य- सम्बन्धी तीन छन्दों में से ) ‘ उदुत्यं जातवेदसम्' इति सौर्याणि प्रतिपद्येत् इस सूर्य-सम्बन्धी सूक्त से प्रारम्भ करना चाहिए । सा ० भा ० — यानि ‘ सौर्याणि त्रीणि च्छन्दांसि तेषां प्रारम्भ ‘ उदुत्यम् ” इति शंसेदिति पूर्वः पक्षः । तमेतं दूषयति— यथैव गत्वा काष्ठामपराध्नुयात्, तादृक् तत्॥ ८ ॥
तत्तन्नादृत्यम्; हिन्दी— (उस पूर्वपक्ष में दोष को कह रहे हैं - ) तत् तद् नादृत्यम् तो वह (उदुत्यं जातवेदसम् से प्रारम्भ करने का पक्ष) आदरणीय नहीं है। यथा काष्ठां गत्वा जिस प्रकार सीमा ( लक्ष्य) पर पहुँच कर ( दौड़ने वाला ) अपराध्नुयात् ( अन्त में गिरकर) अपराध कर ( १ ) आश्व० श्री० ४.१३.१४.१५ कण्डिका द्रष्टव्याः । (२ ) ऋ० १.५०.१।.
पृष्ठ 798
पाठ पढ़ें पाठ छिपाएँ
: [ ७३६ ऐतरेयब्राह्मणम् १७.३ चतुर्थपञ्चिकायां दे तादृक् तत् उसी प्रकार वह ( उदुत्यं जातवेदसम्' से प्रारम्भ करना भी है ) । सा ० भा ० — लोके कश्चिद्भाषापूर्वकमप्रमादेत धावनं कृत्वा ' काष्ठाम् अवधिस्थानं प्राप्य ‘ अपरायध्नुयात्’ तत्रावसाने स्खलनपतनादिरूपमपराधं कुर्यात्, तादृगेव तद्भवति । आग्नेयकाण्डमारभ्य सूर्यकाण्डपर्यन्तमस्खलन् होता समाप्तौ सूर्यकाण्डे स्खलति; तस्माद् 'उदु त्यं' न शंसेत्॥ इदानीं सिद्धान्तमाह— ' सूर्यो नो दिवस्पात्वित्येतेनैव प्रतिपद्येत; यथैव गत्वा काष्ठामभि- पद्येत तादृक् तत् ॥ ९ ॥
हिन्दी— ( अब सिद्धान्तपक्ष को कह रहे हैं - ) 'सूर्यो नो दिवस्पातु ' इत्येतेनैव -:प्रतिपद्येत् इस सूक्त से प्रारम्भ करना चाहिए। यथा काष्ठामेव गत्वा जिस प्रकार · ( धावक ) लक्ष्य को प्राप्त करके अभिपद्येत् अच्छी प्रकार पहुँच जाय। तादृक् तत् उसी प्रकार वह (‘ सूर्यो॑ नो दिवस्पातु' सूक्त से प्रारम्भ करना भी है ) । सा ० भा ० — यथा लोके कश्चिद् अवधिं प्राप्य स्खलनरहितः स्वाभीष्टं प्राप्नुयात्, तादृगेव तद् द्रष्टव्यम्। ‘सूर्यो नः ' इत्यस्मिन् मन्त्रे सूर्यवाय्वग्नीनां लोकत्रयाद्' रक्षणं प्रार्थयतो रक्षित ( तृ) त्वादेवापराधं न प्राप्नोति; पूर्वत्रैवं नास्तीति विशेषः ॥ प्रथमसूक्तं विधाय नवर्च' सूक्तान्तरं विधत्ते- ' उदुत्यं जातवेदसम्' ४ इति द्वितीयं शंसति ॥ १० ॥
हिन्दी –( प्रारम्भ करने वाले सूक्त को कह कर नौ ऋचाओं वाले अन्य सूक्त का विधान कर रहे हैं — ) तत्पश्चात् ' उदुत्यं जातवेदसम्' इति द्वितीयं शंसति इस द्वितीय सूक्त
का शंसन करता है ।
सा० भा ० – तदेतदुभयं गायत्रीछन्दस्कम्॥
अथ त्रैष्टुभं सूक्तं विधत्ते— 'चित्रं देवानामुदगादनीकम्" इति त्रैष्टभमसौ वाव चित्रं देवानामुदेति, तस्मादेतच्छंसति ॥ ११ ॥
हिन्दी – ‘ चित्रं देवानामुदगादनीकम्' इति त्रैष्टुभम् यह त्रिष्टुप् छन्द वाला सूक्त है । ( १ ) ऋ ० १०.१५८.१-५ । ( २ ) ' सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निनः पार्थिवेभ्यः ’ — इति। ( ३ ) उदुत्यमिति सूक्तं तु त्रयोदशर्चम्; तत्रादौ नव गायत्र्य:, ता एवेह शंसनीया भवन्ति; 'उद् (४) ऋत्यं०जातवेदसम्१.५०.१'- इति९। नव-(५इति) ऋसूत्रकारोक्ते० १.११५.१-६: ( आश्व०। श्रौ० ६.५.१८ ) ।
पृष्ठ 799
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ७३७ इसमें जो ‘देवानां चित्रमुदगात्' अर्थात् देवताओं में चित्ररूप से उदित होना कहा गया है, तो वह) देवानाम् देवताओं में असौ वाव यह ( सूर्य ) ही चित्रम् उदेति चित्र रूप से उदित होता है । तस्मात् इसी कारण एतत् शंसति इस ( सूक्त ) का शंसन करता है । सा० भा ० — अस्मिन् मन्त्रे देवानां संबन्धि किंचित् 'चित्रं’ रूपम् ‘ उदगात्’ उदयं प्राप्नोतीति श्रूयते, असौ वा आदित्य एव देवानां संबन्धि चित्रं रूपमुदेति; कालभेदेन वर्णभेददर्शनात्। तस्मादेतत् सूक्तं प्रशस्तत्वाद् अत्र शंसनीयम्॥ तृतीयं छन्दो विधत्ते— 'नमो मित्रस्य वरुणस्य चक्षते " इति जागतं; तद्वाशी: पदमाशिष- मेवैतेनाशास्त आत्मने च यजमानाय च ॥१२ ॥
हिन्दी— ( अब तृतीय छन्द का विधान कर रहे हैं - ) ' नमो मित्रस्य वरुणस्य चक्षसे' इति जागतम् यह जगती छन्द वाला ( सूक्त ) है। तद् वाव आशीः पदम् वह ( ' नमो मित्रस्य' ) आशीर्वाद वाचक पद है। एतेन इस ( सूक्त) से ( होता ) आत्मने च यजमानाय च अपने लिए और यजमान के लिए आशिषमेव शस्ते आशीष का ही शंसन करता है । सा ० भा० – ' तदु' तदस्य ' नमो मित्रस्य' इत्यादिकम् ' आशी: पदम्' आशिषः प्रति- पादकम्, द्वितीयचतुर्थपादयोः ' सपर्वत शंसत' इत्याशीरर्थस्य लोडन्तस्य पदद्वयस्य प्रयुक्त- त्वात् तच्छंसनेन होता स्वस्य यजमानस्य चाशिषं प्रार्थयते ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये ' चतुर्थपञ्चिकायाः द्वितीयाध्याये ( सप्तदशाध्याये ) तृतीयः खण्डः ॥ ३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा० भा ० – ऐन्द्रादिप्रगाथान् विधातुं प्रस्तौति— ( ऐन्द्रादिप्रगाथाविधातुं प्रस्तावना ) तदाहुः सूर्यो नातिशस्यो, बृहती नातिशस्या, यत्सूर्यमतिशंसेद् ( १ ) ऋ० १०.३७.१-१२। ( २ ) ' सूर्यो न', ' उदु त्यं', ' चित्रं', 'नमो मित्रस्य' –इति चत्वारि सूक्तानि सौर्याणि । ‘उदिते सौर्याणि प्रतिपद्यते’— इति आश्व० श्रौ० ६.५.१७।
पृष्ठ 800
पाठ पढ़ें पाठ छिपाएँ
: [७३८ ऐतरेयब्राह्मणम् १७.४ चतुर्थपञ्चिकायां ब्रह्मवर्चसमतिपद्येत; यद्बृहतीमतिशंसेत् प्राणानतिपद्येतेति ॥ १ ॥
हिन्दी—( इन्द्रादि विषयक प्रगाथों का विधान करने के लिए प्रस्तावना दे रहे हैं-तदाहुः इस ( अश्विंशस्त्र के ) विषय में कहते हैं कि सूर्यः न अतिशस्यः ( देवताओं में ) सूर्य का अतिक्रमण करके शंसन नहीं करना चाहिए और बृहती नातिशस्या ( छन्दों में ) बृहती (छन्द) का अतिक्रमण करके ( शंसन ) नहीं करना चाहिए । यत् सूर्यम् अतिशंसेत् जो सूर्य का उलङ्घन करके शंसन करता है, वह ब्रह्मवर्चसम् अतिपद्येत् वह ब्रह्मवर्चस का ( उलङ्घन ) करता है और यद् बृहतीम् अतिशंसेत् जो बृहती का उलङ्घन करके शंसन करता है, वह प्राणान् अतिपद्येत् प्राणों को ही विनष्ट कर देता है। सा ० भा ० —‘ तत्’ तस्मिन्नाश्विनशस्त्रे केचिदभिज्ञा एवमाहुः । देवानां मध्ये यः सूर्योऽ- स्ति, सः ‘ नातिशस्यः ’ सूर्यमतिलनमय शंसनं न कर्तव्यम्। तथा छन्दसां मध्ये बृहती- मतिलङ्घ्य शंसनं न कर्तव्यम्; सूर्यस्योपासकेषु ब्रह्मवर्चसप्रदत्वात् तदभिलङ्घने प्राणान् विनाशयेदिति तेषामभिप्रायः ॥ इदानीमेकं प्रगाथं विधत्ते- ( ऐन्द्रप्रगाथशंसनविधानम् ) ' इन्दं क्रतुं न आ भर' इत्यैन्द्रं प्रगाथं' शंसति ॥२ ॥
हिन्दी – ( अब ऐन्द्र प्रगाथ का विधान कर रहे हैं — ) ' इन्द्र क्रतुं न आ भर' अर्थात् हे इन्द्र! हमारे ( अतिरात्र ) याग का वहन करो - इति ऐन्द्रं प्रगाथं शंसति इस इन्द्र देवता वाले प्रगाथ का शंसन करता है । सा ० भा ० — हे इन्द्र ' नः ' अस्माकं 'क्रतुम्' अतिरात्राख्यम् ' आभर' आनयेति-अस्य-उ पादस्यार्थः ॥ द्वितीयमर्धर्चं पठति- शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहीति ॥ ३ ॥
हिन्दी—( द्वितीय अर्धर्च को कह रहे हैं - ) पुरुहूत हे बहुत से पुरुष वाले यागों में बुलाये जाने वाले ( इन्द्र)! नः अस्मिन् यामनि हमारे इस ( अतिरात्ररूप) नियम- विशेष में शिक्ष उपदिष्ट करो । जीवा जीवित रहते हुए हम ज्योतिः अशीमहि ज्योति को प्राप्त करें। सा० भा० - ' पुरुष' बहुषु यागेष्वाहूयमान, हे इन्द्र, ' नः ' अस्मान् ‘ अस्मिन्’ अतिरात्रयागरूपे ‘ यामनि ’ नियमविशेषे 'शिक्षे' उपदेशेन प्रवर्तय। 'जीवाः ' त्वत्प्रसादेन जीवन्तो वयं ‘ ज्योतिः ’ आदित्यमण्डलरूपम् ' अशीमहि' प्राप्नुयाम॥ ( १ ) ऋ० ७.३२.२६ ।