ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 811–820
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 811–820
पृष्ठ 811
पाठ पढ़ें पाठ छिपाएँ
:: ]: द्वितीयोऽध्यायः पञ्चम खण्ड सायणाचार्यकृतभाष्योपेतम् ७४९ हिन्दी -(ऋचा के शंसन में बृहती छन्द की अनतिक्रमता को दिखला रहे हैं— ) यदु त्रिष्टभं त्रि शंसति जो इस त्रिष्टुप् छन्दस्क (ऋचा ) का तीन बार शंसन करता है। सा सर्वाणि छन्दांसि अभ्याप्ता वह (एक सौ बत्तीस अक्षरों के होने के कारण ) सभी छन्दों को व्याप्त कर लेती है । तेन इस कारण बृहतीं नातिशंसति बृहती ( छन्द ) का अतिक्रमण न करते हुए शंसन करता है। सा० भा० - 'त्रिः प्रथमां त्रिरुत्तमान्' - इति न्यायेन परिधानीयायास्त्रिरावृत्तिरस्ति; इयं त्रिष्टुप् त्रिरावर्त्यमाना द्वात्रिंशदधिकशताक्षरा संपद्यते। तेष्वक्षरेषु सर्वच्छन्दसामन्तर्भावयितुं शक्यत्वाद् इयं सर्वाणि च्छन्दांस्यभितो व्याप्नोति; अतो बृहत्या अपि तद् व्याप्तत्वान्ना- स्त्यतिक्रमः । यदुक्तं सूत्रकारेण - ' आश्विनेन ग्रहेण सपुरोळाशेन चरन्ति इति॥ तत्रोभयार्थं द्वे याज्ये विधत्ते— ( आश्विनशस्त्रस्य याज्याद्वयविधानम्) गायत्र्या च त्रिष्टुभा च वषट्कुर्यात् ॥ १४ ॥
हिन्दी— ( दोनों परिधानीय ऋचाओं के लिए दो याज्याओं का विधान कर रहे हैं- ) गायत्र्या च त्रिष्टुभा च (' इमा पिंबतमश्विना' इस) गायत्री और (' अश्विना वायुना' इस) त्रिष्टुप् (छन्द वाली ऋचा ) से वषट्कुर्यात् वषट्कार ( याज्या ) करना चाहिए । सा० भा०-- 'उभा पिबतमश्विना '२. – इति गायत्रीः 'अश्विना वायुना ' – इति त्रिष्टुप्। ` ताभ्यां ‘ वषट्कुर्यात्' याज्यात्वेन तदुभयं पठेद् इत्यर्थः ॥ तदेतदुभयं प्रशंसति—— ब्रह्म वै गायत्री, वीर्यं त्रिष्टुब्; ब्रह्मणैव तद्वीर्यं संदधाति ॥ १५ ॥
हिन्दी - ( इन दोनों छन्दों की प्रशंसा कर रहे हैं - ) ब्रह्म वै गायत्री (गायत्री और ब्राह्मण दोनों के प्रजापति के मुख से उत्पत्ति के कारण) गायत्री ब्राह्मण है और वीर्यं त्रिष्टुप् त्रिष्टुप् वीर्यरूप है। तद् इस (दोनों के शंसन) से ब्रह्मणां एव वीर्यं सन्दधाति ब्रह्म के साथ वीर्य (बल ) का संन्धान करता' (जोड़ता है ) । सा ० भा ० — गायत्र्या ब्राह्मणस्य च प्रजापतिमुखजत्वसाम्यादेकत्वं त्रिष्टुभो वीर्यहेतु- त्वात् तद्रूपत्वम् । तदुभयपाठे सति ब्राह्मण्येन सह वीर्यं संपादयति ॥ "वेदनपूर्वकमनुष्ठानं प्रशंसति— ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान् भवति, यत्रैवं विद्वान् गायत्र्या च त्रिष्टुभा च वषट्करोति ॥ १६ ॥
( १ ) आश्व० श्रौ० ६.५.२३। ( २ ) ऋ० १.४६.१५। (३ ) ऋ० ३.४८.७ ।
पृष्ठ 812
पाठ पढ़ें पाठ छिपाएँ
[ १७.५ चतुर्थपञ्चिकायां ७५०: ऐतरेयब्राह्मणम् हिन्दी— ( इस ज्ञान के साथ अनुष्ठान की प्रशंसा कर रहे हैं - ) यत्र जिस ( शंसन) में एवं विद्वान् इस प्रकार जानने वाला (होता) गायत्र्या च त्रिष्टुभा च ( उपर्युक्त ) गायत्री और त्रिष्टुप् दोनों (ऋचाओं) द्वारा वषट्करोति वषट्कार (याज्या) करता है, तो ( यजमान) ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान् भवति ब्रह्मवर्चस, ब्रह्मयश और बल से सम्पन्न होता है। तदुक्तयोर्गायत्रीत्रिष्टुभोः प्रतीकद्वयं दर्शयति— अश्विना वायुना युवं सुदक्षोभा पिबतमश्विनेति ॥१७ ॥
हिन्दी—( वषट्कार- हेतु गायत्री और त्रिष्टुप् ऋचाओं के प्रतीकद्वय को दिखला रहे हैं— ) ( वषट्कार- हेतु) ' अश्विना वायुना युवं सुदक्षा' ( यह त्रिष्टुप् छन्दस्क) और ‘उभा पिबतमश्विना' इति यह ( गायत्रीछन्दस्क ऋचा है ) । सा० भा०– ' अश्विना' - इत्यादिकं त्रिष्टुभः प्रतीकम्, 'उभा पिबतम्' –- इत्यादिकं गायत्र्याः प्रतीकम्। एते त्रिष्टुब्गायत्र्यौ याज्ये इत्येकः पक्षः ॥ पक्षान्तरं विधत्ते-- गायत्र्या च विराजा च वषट्कुर्याद्, ब्रह्म वै गायत्र्यन्नं विराड्; ब्रह्मणैव तदन्नाद्यं संदधाति ॥ १८ ॥
हिन्दी- ( इस विषय में अन्य पक्ष का विधान कर रहे हैं - ) गायत्र्या च विराजा च गायत्री और विराट् ( छन्द) वाली (ऋचा) से वषट्कुर्यात् वषट्कार करना चाहिए क्योंकि ब्रह्म वै गायत्री गायत्री ब्रह्म- स्वरूप है और अन्नं विराट् विराट् अन्न रूप है । तत् इस ( शंसन ) से ब्रह्मणा एव अन्नाद्यं सन्दधाति ब्रह्म के साथ अन्न को जोड़ता है। सा० भा ० — गायत्र्या ब्रह्मत्वं पूर्वमुक्तम्; विराजोऽन्नसाधनत्वादन्नंत्वम्। अतस्तदु- भयपाठे सत्यन्नाद्यम्’ ‘ आद्यम्' अन्नं ब्राह्मणजात्या संयोजयति ॥ वेदनपूर्वकमनुष्ठानं प्रशंसति— ब्रह्मवर्चसी ब्रह्मयशसी भवति, ब्रह्माद्यमन्नमत्ति, यत्रैवं विद्वान् गायत्र्या च विराजा च वषट्करोति ॥ १ ९ ॥ हिन्दी -(इस ज्ञान के साथ अनुष्ठान की प्रशंसा कर रहे हैं- ) यत्र एवं विद्वान् जिस ( शंसन) में इस प्रकार जानने वाला (होता ) गायत्र्या च विराजा च गायत्री और विराट् ( छन्द) वाली (ऋचाओं) से वषट्करोति वषट्कार करता है, वह ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्मवर्चस और ब्रह्मयश को प्राप्त करता है तथा ब्रह्माद्यम् अन्नम् अत्ति ब्राह्मण के योग्य अन्न को खाता है । सा० भा ० – ब्राह्मणेनात्तुं योग्यं पवित्रीभूतं 'ब्रह्माद्यम्' ।
पृष्ठ 813
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ७५१ तयोर्गायत्रीविराजोः प्रतीकप्रदर्शनपुरःसरमेतं पक्षं निगमयति— तस्मादेवं विद्वान् गायत्र्या चैव विराजा च वषट्कुर्यात् प्र वामन्यांसि मद्यान्यस्थुरुभा पिबतमश्विनेताभ्याम् ॥ २० ॥
हिन्दी — तस्मात् इस कारण से एवं विद्वान् इस प्रकार जानने वाला ( होता) ‘ पिबतमश्विना' इति गायत्र्या च इस गायत्री (छन्द) वाली और 'प्र वामन्धासि मद्या- न्यस्थुः' - इति विराजा इस विराट् (छन्द) वाली - इति एताभ्यां वषट्कुर्यात् इन दो (ऋचाओं) से वषट्कार करें। सा ० भा० - 'प्र वामन्धांसि' ' -इति विराट्। 'उभा पिबतम्' इति गायत्री । गायत्र्या चैव विराजा चैवेत्येवकारेण पूर्वोक्तस्य त्रिष्टुप्पक्षस्य व्यावृत्तिः । तस्मादपि विराट्पक्षः प्रशस्त इत्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः द्वितीयाध्याये ( सप्तदशाध्याये ) पञ्चमः खण्डः ॥५ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के पञ्चम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा० भा ० – अग्निष्टोम उक्थ्यः षोडश्यतिरात्रश्चेत्येवं चतुःसंस्थो ज्योतिष्टोमः सार्धेनाध्यायषोडशकेनाभिहितः । अथैतच्चतुष्टयमुपजीव्य प्रवर्तमानं 'गवामयनं ' नामकं संवत्सरसत्रमभिधातव्यम्।* संवत्सरगतेषु षष्ट्यधिकशतत्रयदिवसेष्वेकैकस्मिन् दिवसे पूर्वोक्तानां चतसृणां संस्थानां मध्ये कयाचित्संस्थया युक्तः सोमप्रयोगः सर्वोऽप्यनुष्ठेयः । सोऽयमेकैकदिनसाध्यः सोमप्रयोगो वेदेष्वहः शब्देन व्यवह्नियते । संवत्सरसत्रस्याद्ये दिवसे कश्चिदतिरात्रसंस्थः सोमप्रयोगोऽनुष्ठेयः । तदनन्तरभाविनि द्वितीयदिवसेऽनुष्ठेयं सोमप्रयोगं विधत्ते— ( ) ( ) १ ऋ० ७ ३८.२। २ ऋ० १.४६.१५। ( ३ ) ‘ अहर्वै ’ — इत्यारभ्य एतदन्ता उक्ता अतिरात्रविधयः; आश्व० श्रौ० सूत्रेऽप्येवम् ‘ अति- रात्रे’ - इत्यारभ्य कण्डिकाद्वये ( ६.४.५ ); ' अतिरात्रेण प्रजाकामः पशुकामो वा' – इति आपस्तम्बीयविधिसूत्रम् ( १४.१.२ ) । यथोक्तं सायणीयमुपक्रमे 'चतुः संस्थो ज्योतिष्टोमः प्रथमं विधीयते ’ - इति०, अग्निष्टोम वक्ष्यन्ते' इति च; तत्सर्वमेतदन्तं ज्ञातव्यम् । ( ४ ) सामब्राह्मणे चैतत् चतुर्थपञ्चमप्रपाठकयोराम्नातम्।
पृष्ठ 814
पाठ पढ़ें पाठ छिपाएँ
: [७५२ ऐतरेयब्राह्मणम् १७.६ चतुर्थपञ्चिकायां ( चतुर्विंशदिनविधानम्) •चतुर्विंशमेतदहरुपयन्त्यारम्भणीयम् ॥ १ ॥
हिन्दी—( अब द्वितीय दिन अनुष्ठेय सोम प्रयोग का विधान कर रहे हैं - ) चतुर्विंशम् एतद् अहः चतुर्विंश ( नामक) इस दिन का उपयन्ति अनुष्ठान करते हैं। आरम्भणीयम् ( यह दिन ) आरम्भणीय भी कहलाता है । विमर्श- ( १ ) चतुर्विंश नामक सोम विशेष है । इस दिन सामगायकों द्वारा तीन ऋचाओं से स्तुति की जाती है। स्तोत्र के आधारभूत इन तीनों ऋचाओं की आवृति-विशेष से ऋचाओं की संख्या चौबीस हो जाती है। इस दिन चौबीस ऋचाओं से समाग़ायकों द्वारा -स्तुति की जाती है अत: इस दिन को चतुर्विंश दिन कहा जाता है । ( २ ) तृच के इन तीनों ऋचाओं की आवृति तीन पर्यायों में होती है। प्रथम पर्याय में प्रथम ऋचा को तीन बार दुहरा कर उन दुहरायी गयी तीन ऋचाओं द्वारा उद्गाता गान करता है तब द्वितीय ऋचा को चार बार दुहरा कर उनसे गान करता है, तदनन्तर तृतीय ऋचा की बिना आवृति किये केवल एक बार गान करता है। इस प्रकार प्रथम पर्याय में गान की गयी ऋचाओं की संख्या आठ हो जाती है । द्वितीय पर्याय में प्रथम ऋचा की एक बार द्वितीय ऋचा की तीन आवृति और तृतीय ऋचा की चार बार आवृति करके गान करता है । इस प्रकार द्वितीय पर्याय में भी आठ ऋचाओं पर गान सम्पन्न होता है। तृतीय पर्याय में प्रथम ऋचा की चार, द्वितीय ऋचा की आवृति के बिना एक बार और तृतीय ऋचा की तीन बार आवृति करके गान करता है । इस प्रकार इस पर्याय में भी आठ .ऋचाओं पर गान सम्पन्न होता है। तीनों पर्यायों मे मिलाकर कुल चौबीस ऋचाओं द्वारा स्तुति की जाती है । सा ० भा ० 1– ' चतुर्विंश' नामकः कश्चित्सोमविशेषः । स च च्छन्दोगैरेवमाम्नायते— ‘ अष्टाभ्यो हिङ्करोति, स तिसृभिः स चतसृभिः स एकया। अष्टाभ्यो हिङ्करोति, स एकया स तिसृभिः स चतसृभिः । अष्टाभ्यो हिङ्करोति, स चतसृभिः स एकया स तिसृभिः ’ ” इति। अस्यायमर्थः — स्तोत्रस्याधारभूते तृचे विद्यमानास्तिस्र ऋच आवृत्तिविशेषेण चतुर्विंशति- संख्याका ऋचः कर्तव्याः । सा चावृत्तिस्त्रिभिः पर्यायैः संपद्यते। तत्र प्रथमे पर्याये प्रथमामृचं त्रिरभ्यस्य ‘ सः ’ उद्गाता ताभिस्तिसृभिर्गायेत्। द्वितीयामृचं चतुर्वारमभ्यस्य ताभिश्चतसृभि- र्गायेत्। तृतीयाया ऋचः सकृदेव पाठो न चावृत्तिः एवं प्रथमपर्यायेऽष्टौ ऋचः संपद्यन्ते । ताभिः ‘ हिङ्करोति’ उद्गायेत्। द्वितीयपर्याये प्रथमायाः सकृत्पाठः, द्वितीयायास्त्रिरावृतिः । तृतीयायाश्चतुरावृत्तिः, इत्येवमत्राप्यष्टौ संपद्यन्ते । तृतीयपर्याये प्रथमायाश्चतुरावृत्तिः, द्विती- ( १ ) ता०ब्रा० ३.८। पृष्ठ्यषडहस्य त्रिवृदादयः षट्स्तोमाः, ततश्छन्दोमानां चतुर्विंशादयस्त्रयः स्तोमा आम्नाताः; तेष्वयं प्रथमः ।
पृष्ठ 815
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ७५३ यायाः सकृत्पाठः, तृतीयायास्त्रिरावृत्तिः, इत्येवमत्राप्यष्टौ संपद्यन्ते। तत्सर्वं मिलित्वा चतुर्विंशतिसंख्या ऋचो भवन्ति। सोऽयं चतुर्विंशतिस्तोमोऽनेन स्तोत्राणि यस्मिन्नहनि निष्पा- द्यन्ते, तदह: 'चतुर्विंशम्' तादृशमेतदहः ' उपयन्ति' अनुतिष्ठेयुः । अत्र सत्रेषु सर्वत्रोपयन्त्यासत इति शब्दाननुष्ठानपरौ; एताभ्यां विधानमेव सत्रत्वलिङ्गम् । ' तत्र ये यजमानास्त ऋत्विजः' इति श्रुत्यन्तरादृत्विजां सर्वेषां यजमानत्वेनोपयन्तीति बहुवचनम्। तस्यैतस्याह्न ' आरम्भणी-यम्' – इति नामधेयम्॥ तस्यैतस्य नाम्नो निर्वचनं दर्शयति-. ( आरम्भणीयनामनिर्वचनम्) एतेन वै संवत्सरमारभन्ते, एतेनस्तोमांश्च च्छन्दांसि चैतेन सर्वा देवताः; अनारब्धं वै तच्छन्दोऽनारब्धा वा देवता, यदेतस्मिन्नहनि नारभन्ते; तदारम्भणीयस्यारम्भणीयत्वम् ॥ २ ॥
हिन्दी — ( अब आरम्भणीय नाम का निर्वचन दिखला रहे हैं— ) एतेन वै संवत्सरम् आरभन्ते इसी चतुर्विंश दिन से संवत्सर ( सत्र प्रारम्भ करते हैं ) । एतेन स्तोमान् च छन्दांसि च इसी ( दिन ) से स्तोमों और छन्दों का तथा एतेन सर्वाः देवताः इसी से ( मन्त्र ) में प्रतिपादित ततद् देवताओं का आरम्भ किया जाता है। यद् एतस्मिन् अहनि न आरभन्ते जो ( मन्त्र और देवता ) इस दिन आरम्भ नहीं किये। तत् च्छन्दम् अनारब्धं वै वह छन्द आरम्भ न किये गये के समान है और सा देवता अनारब्ध वह देवता भी आरम्भ किये गये के समान है। तत् यह आरम्भणीयस्य आरम्भणीयत्वम् आरम्भणीय का आरम्भणीय नाम वाला होना है । सा० भा०– एतेनैव चतुर्विंशेनाह्ना सत्रिणः ' संवत्सरं' सत्रमारभन्ते। तत्र सामगैः प्रयोक्तव्या ये स्तोमाः, बवृचैः प्रयोक्तव्यानि यानि च्छन्दांसि, याश्च तत्तन्मन्त्रप्रतिपाद्याः सर्वा देवताः, तत्सर्वमनेनैवाह्नारभन्ते । यदि कथंचिदेतस्मिन्नहनि च्छन्दो वा देवतान्तरं वा नार- भेरन्, तदनींमन्यस्मिन्नहन्यारब्धमपि च्छन्दोदेवतादिकमनारब्धसदृशमेव भवति। तस्मात् अस्मिन्नेवाहनि सर्वस्य मुख्यः प्रारम्भः । तथा सत्यारभ्यते सर्वस्मिन्नहनीति व्युत्पत्त्या 'आर- म्भणीयं' नाम संपन्नम् । यद्यप्येत्तस्मादह्नः पूर्वभाविनी प्रायणीयाख्येऽहनि सत्रं प्रारब्धम्, तथाऽपि तस्य प्रायणीयस्यातिरात्रसंयुक्तस्य संवत्सरोपक्रमसाधारणत्वात् अस्य सत्रस्य विशेषेण प्रारम्भोऽस्मिन्नेव भवतीत्यभिप्रेत्यैतस्यारम्मणीयत्वमेव युक्तम्॥ अस्मिन्नहनि स्तोमविशेषं विधत्त— ( आरम्भणीये स्तोमविशेषविधानम् ) - चतुर्विंशस्तोमो भवति; तच्चतुर्विंशस्य चतुर्विंशत्वम् ॥ ३ ॥
हिन्दी–(इस दिन स्तोम-विशेष के कथन द्वारा चतुर्विंश का निर्वचन कर रहे
पृष्ठ 816
पाठ पढ़ें पाठ छिपाएँ
: - [७५४ ऐतरेयब्राह्मणम् १७.६ चतुर्थपञ्चिकायांहैं— ) चतुर्विंशः स्तोमः भवति (इस दिन) चौबीस स्तोम (का गान ) होता है । तत् चतुर्विंशस्य चतुर्विंशत्वम् वही चतुर्विंश का चतुर्विंश ( नाम वाला ) होना है । सा० भा ० — यान्यत्र स्तोत्राणि सन्ति, तेषु सर्वेषु यः पूर्वमुदाहृतश्चतुर्विंशत्व संख्यासंपादनरूपः स्तोमः, स एव कर्तव्यः । ईदृशस्तोमयोगादेवाह्नोऽपि चतुर्विंशं नाम संपन्नम्॥ तं स्तोमं प्रशंसति— ( चतुर्विंशस्तोमप्रशंसनम् ) चतुर्विंशतिर्वा अर्धमासा, अर्धमासश एव तत्संवत्सरमारभन्ते ॥४ ॥
हिन्दी— ( उस चतुर्विंशस्तोम की प्रशंसा कर रहे हैं — ) चतुर्विंशतिः वै अर्धमासाः ( संवत्सर में ) चौबीस अर्धमास ( पक्ष) होते हैं। अर्धमासशः एवं अर्धमास से ही तत् संवत्सरम् आरभन्ते उस संवत्सर का प्रारम्भ करते हैं। सा० भा ० – द्वादशसु मासेषु विद्यमाना अर्धमासाश्चतुर्विंशतिसंख्याकाः । तथा सत्यर्धमासशब्द एकमर्धमासं समाप्य पुनरप्यपरोऽर्धमास इत्येवं क्रमेण चतुर्विंशतिसंपत्तौ
संवत्सरसत्रप्रारम्भो भवति । तस्माच्चतुर्विंशस्तोमः प्रशस्तः॥
एतस्मिन्नहनि सोमयागस्य संस्थाविशेषं विधत्ते— उक्थ्यो भवति; पशवो वा उक्थानि, पशूनामवरुद्ध्यै ॥५ ॥
हिन्दी -( उस चतुर्विंश दिन में सोमयाग के संस्थाविशेष का विधान कर रहे हैं - ) उक्थ्यः भवति (उस दिन) उक्थ्य होता है। पशवः वै उक्थानि उक्थ्य पशुरूप है । पशूनाम् अवरुध्यै पशुओं की प्राप्ति के लिए (उक्थ्य का सम्पादन होता है ) । सा० भा ० — अग्निष्टोमाद् ऊर्ध्वभावी योऽयमुक्थ्योऽस्ति, सोऽस्मिन्नहनि प्रयोक्त- व्यः । तत्र द्वादशस्तोत्रेभ्य उत्तराणि त्रीण्युक्थनामकानि स्तोत्राणि; तेषां पशुप्राप्तिहेतुत्वात् पशुत्वम्। अत उक्थ्यानुष्ठानं पशुप्राप्तये भवति ॥ तस्मिन्नहनि चोदकप्राप्तस्तोत्रशसंख्या प्रशंसति— ( तस्मिन्नहानि चोदकप्राप्तस्तोत्रसंख्याप्रशंसनम् ) तस्य पञ्चदश स्तोत्राणि भवन्ति, पञ्चदश शस्त्राणि; स मासो मासश एव तत्संवत्सरमारभन्ते ॥६ ॥
हिन्दी -( उस दिन के स्तोत्र और शस्त्र की संख्या की प्रशंसा कर रहे हैं - ) तस्य उस (उक्थ्य) के पञ्चदश स्तोत्राणि पन्द्रह स्तोत्र और पञ्चदश शस्त्राणि पन्द्रह शस्त्र भवन्ति होते हैं । ( इस प्रकार दोनों की संख्या तीस होती है। सः मासः वह ( संख्या दिनों की समानता के कारण ) मास का रूप है। मासशः एव तत्संवत्सरम् आरभन्ते मास
पृष्ठ 817
पाठ पढ़ें पाठ छिपाएँ
: ]:द्वितीयोऽध्यायः षष्ठः खण्ड सायणाचार्यकृतभाष्योपेतम् ७५५ से ही उस संवत्सर को प्रारम्भ करते हैं। सा० भा०--मासगतानां दिवसानां त्रिंशत्त्वात् स्तोत्रशस्त्रसंख्यायाश्च तथा वान्मासत्व- संपत्तिः । ‘मासशः ’ एकैकमासक्रमेणेत्यर्थः ॥ अग्निष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो; न वा एतद- न्योऽग्निष्टोमादहर्दाधार; न विव्याचेति ॥७ ॥
हिन्दी – ( अब पक्षान्तर का विधान कर रहे हैं - ) एतद् अहः अग्निष्टोम स्यात् यह दिन अग्निष्टोम वाला होना चाहिए- इत्याहुः इस प्रकार (कुछ लोग) कहते हैं; क्योंकि अग्निष्टोमः वै संवत्सरः अग्निष्टोम ही संवत्सर है। अग्निष्टोमाद् अन्यः अग्निष्टोम से अन्य (उक्थयादि सत्र) न वै ऐसा कोई नहीं है जो एतद् अहः दाधार इस ( चतुर्विश ) दिन को धारण कर सकते अतः न विव्याच ( अनुष्ठान ) विवेचन करने योग्य सा ० भा०– यदिदं द्वितीयमहः, सोऽग्निष्टोमः कर्तव्यः । अग्निष्टोमस्य संवत्सर- सत्ररूपत्वात्। कथमिति चेत्, तदुच्यते– ' अग्निष्टोमादन्यः ' उक्थ्यादिरूपः कश्चिदपि क्रतुः संवत्सरसत्रावयवभूतः, एतदहः 'नैव दाधार' नैव धारयितुं शक्तः । अनुपदिष्टान्यङ्गानि सर्वाण्यग्निष्टोमादतिदिश्यन्ते; तदेतदग्निष्टोमस्य धारयितृत्वम्। तस्मादग्निष्टोमव्यतिरिक्तः क्रतुरेतदहः ‘ न विव्याच' विवेक्तुमनुष्ठापयितुं न शक्तः । ' इति' एवं पक्षान्तरवादिनामभिप्रायः ॥ अस्मिन् पक्षे स्तोमविशेषं विधत्ते— ( तत्र स्तोमविशेषविधानम् ) स यद्यग्निष्टोमः स्यादष्टाचत्वारिंशास्त्रयः पवमानाः स्युश्चतुर्विंशा- नीतराणि स्तोत्राणि; तदु षष्टिश्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहः श एव तत्संवत्सरमारभन्ते ॥८ ॥
हिन्दी—(इस पक्ष में स्तोमविशेष का विधान कर रहे हैं - ) सः यदि अग्निष्टोमः स्यात् (इस दिन ) यदि अग्निष्टोम होवे तो अष्टाचत्वारिंशाः अड़तालिस संख्या वाले त्रयः पवमानाः स्युः तीनों पवमानों को करना चाहिए तथा इतराणि चतुर्विंशानि स्तोत्राणि अन्य नौ चतुर्विंश स्तोत्रों को करना चाहिए । तदु वे सभी ( ४८ x ३ + ९ × २४ ) षष्टिः श्चैव त्रीणि शतानि साठ और तीन सौ (= तीन सौ साठ) स्तोत्रिया स्तोत्र वाले होते हैं और संवत्सरस्य तावन्ति वै अहानि उतने (तीन सौ साठ) ही संवत्सर के दिन होते हैं। इस प्रकार अहःशः एव दिन से ही तत् संवत्सरम् आरभन्ते उस संवत्सर को प्रारम्भ करते हैं । सा ० भा ० — अग्निष्टोमपक्षे बहिष्पवमानमाध्यंदिनपवमानांर्भवपवमानेषु त्रिषु स्तोत्रे- ष्वष्टाचत्वारिंशनामकः स्तोमः कर्तव्यः । स च च्छन्दोगैरेवमाम्नातः - 'षोडशभ्यो हिङ्करोति,
पृष्ठ 818
पाठ पढ़ें पाठ छिपाएँ
: [७५६ ऐतरेयब्राह्मणम् १७.६ चतुर्थपञ्चिकायां स तिभृभिः स द्वादशभिः स एकया, षोडशभ्यो हिङ्करोति, स एकया स तिसृभिः स द्वादशभिः, षोडशभ्यो हिङ्करोति, स द्वादशभिः स एकया स तिसृभिः " इति । प्रथमे पर्याये प्रथमाया ऋचस्त्रिरावृत्तिः द्वितीयाया द्वादशकृत्व आवृत्तिः, तृतीयायाः सकृत्पाठः; द्वितीय-पर्याये प्रथमायाः सकृत्पाठः, द्वितीयायास्त्रिरावृत्तिः, तृतीयाया द्वादशकृत्व आवृत्तिः । तृतीय-पर्याये प्रथमाया द्वादशकृत्व आवृत्तिः, द्वितीयायाः सकृत्पाठः तृतीयायास्त्रिरावृत्तिः, मिलित्वाऽष्टाचत्वारिंशत् स्तोत्रीया संपद्यन्ते। सोऽयमष्टाचत्वारिंशः स्तोमः । तमेतं पवमानेषु त्रिषु कृत्वा शिष्टेषु नवसु स्तोत्रेषु चतुर्विंशस्तोमं कुर्यात्। तथा सति पवमानस्तोत्रेषु चतुश्चत्वारिंशदधिकशतसंख्याकाः स्तोत्रियाः संपद्यन्ते। इतरस्तोत्रेषु षोडशाधिकशतद्वय-संख्याकाः, ततो मिलित्वा षष्ट्यधिकशतत्रयसंख्याका भवन्ति। संवत्सरागतानामह्नामपि तावत्त्पादहः क्रमेणैव संवत्सरमारभन्ते ॥ एवं पक्षद्वयमुपन्यस्य तयोः समविकल्पत्वमभिप्रेत्य पुनरपि पूर्वोक्तम् उक्थ्यम् उपन्य-स्यपि— उक्थ्य एव स्यात् पशुसमृद्धो यज्ञः, पशुसमृद्धं सत्रं, सर्वाणि चतुर्विंशानि स्तोत्राणि प्रत्यक्षादध्येतदहश्चतुर्विंशं; तस्मादुक्थ्य एव स्यात् ॥ ९ ॥
हिन्दी—( इस प्रकार दोनों पक्षों को उपन्यस्त करके समान विकल्पता को जानकर पुनः पूर्वोक्त उक्थ्य को उपन्यसित कर रहे हैं - ) उक्थ्यः एव स्यात् उक्थ्य को ही करना चाहिए क्योंकि पशुसमृद्धः यज्ञः (उक्थ्य स्तोत्र के पशु का साधन होने के कारण) यज्ञ पशु से समृद्ध होता है और पशुसमृद्धं सत्रम् पशुयाग से सत्र समृद्ध होता है और सर्वाणि चतुर्विंशानि स्तोत्राणि सम्पूर्ण चौबीस स्तोत्र होते हैं । इस प्रकार एतद् अहः यह दिन प्रत्यक्षात् चतुर्विंशं प्रत्यक्षरूप से चतुर्विंश होता है । तस्मात् इसी कारण उक्थ एव स्यात् (इस दिन) उक्थ्य ही करना चाहिए । सा० भा०--उक्थ्यस्तोत्राणां पशुसाधनत्वात् उक्थ्यो यज्ञः पशुसमृद्धः, सत्रं च पशुसमृद्धं कर्तव्यम्। किञ्च उक्थ्यपक्षे सर्वाणि स्तोत्राणि चतुर्विंशस्तोमकानि; स त्वग्नि-ष्टोमपक्षे पवमानव्यतिरिक्तान्येव । तथा सति प्रत्यक्षात् मुख्यवृत्त्यैवैतदहश्चतुर्विंशं भवति; संख्यान्तरस्य कुत्राप्यप्रतिष्टत्वात्। ' तस्मादुक्थ्य एव' कार्य: । एवशब्दो विकल्पार्थः; अग्निष्टोम इदमहरुक्थ्यो वा'– इति सूत्रकारवनात् ॥ ( १ ) एषाष्टाविंशस्य ‘ प्रतिष्ठिता' विष्टुतिः ( ता० ब्रा ० ३.१२ ) आम्नाता चापरा ततस्तत्रैव ‘ नेदीयःसङ्क्रमा ’ - इति ( ३.१३ ) । (२ ) सामब्राह्मणेऽपि एवं द्रष्टव्यम् (ता ०ब्रा० ४.२.१३,१४) । (३ ) आश्व ० श्रौ० ७.४.१४,१५ ।
पृष्ठ 819
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७५७ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः द्वितीयाध्याये ( सप्तदशाध्याये ) षष्ठः खण्डः ॥ ६ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के षष्ठ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० - पृष्ठस्तोत्रे चोदकप्राप्तं विकल्पितं सामद्वयमनूद्य प्रशंसति— ( पृष्ठस्तोत्रे चोदकप्राप्तस्य विकल्पितस्य सामद्वयस्य प्रशंसनम् ) बृहद्रथंतरे सामनी भवत; एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे; ताभ्यामेव तत्संवत्सरं तरन्ति ॥ १ ॥
हिन्दी -( पृष्ठस्तोत्र में विकल्पित दो सामों को कहकर उसकी प्रशंसा कर रहे हैं— ) ( संवत्सरसत्र में ) बृहद्रथन्तरे सामनी भवतः (' त्वामिद्धि हवामहे ' इस ॠचा में उत्पन्न ) बृहत् ( नामक ) और (' अभि त्वा शूर नोनुमः ' इस ऋचा में उत्पन्न ) रथन्तर नामक दो साम होते हैं । एते वै बृहद्रयन्तरे ये दोनों बृहद् और रथान्तर नामक साम यज्ञ रूप (समुद्र ) को संपारिण्यौ नावौ पार करने के लिए नौका का रूप है। ताभ्यामेव उन दोनों ( बृहत् और रथन्तर रूप नौका) के द्वारा तत् संवत्सरम् उस संवत्सर रूप ( समुद्र) को तरन्ति पार करते (पूर्ण करते हैं ) । सा० भा०--' त्वामिद्धि हवामहे' इत्यस्यामृच्युत्पन्नं साम ' बृहत्' । ' अभि त्वा शूर नोनुमः ' इत्यस्यामृच्युत्पन्नं 'रथन्तरम्' । एते उभे अपि यज्ञाख्यस्य समुद्रस्य सम्यक्-परतीरप्राप्तिसाधनभूते नावौ। संवत्सरसत्रस्य समुद्ररूपत्वं शाखान्तरे दर्शितम् –' समुद्रं वा एते प्लवन्ते, ये संवत्सरमुपयन्ति' इति । तथा सति तत्पारनयनहेत्वोः साम्नोनौरूपत्वं युक्तम्। अतो बृहद्रथंतररूपाभ्यां नौभ्यामेव संवत्सरसत्ररूपं समुद्रं ' तरन्ति' गवामयनस्य पारं गच्छन्तीत्यर्थः ॥ प्रकारान्तरेण प्रशंसति— ( १ ) 'रथन्तरसाम्ना बृहत्साम्नोभ्यसाम्ना वा प्रथमं यजेत' - इति आप० श्रौ० १०.२.६ । ( २ ) छ० आ० ३.१.५.२ ऋचि आर० ग्रा० १.१.२७ बृहत् ( योनिसाम); उ०आ० २.१.१२.१,२ ऋचोः प्रागाथतृचे ऊह्य० ग्रा० १.१.५ बृहम् ( स्तोत्रम्) । (३ ) छ० आ० ३.१.५.१ ऋचि आर० गा० २.१.२१ रथन्तरं (योनिसाम ); उ० आ ० १.११.१,२ ऋचोः प्रगाथतृचे ऊह्य० गा० १.१.१ रथन्तरं ( स्तोत्रम्) । (४ ) तै ० सं० ७.५.१.२ । एवमेव ता० ब्रा० ५.८.४.६ (प्लवसाम) गे० गा० १४.१.३४ ।
पृष्ठ 820
पाठ पढ़ें पाठ छिपाएँ
: [७५८ ऐतरेयब्राह्मणम् १७.७ चतुर्थपञ्चिकायां पादौ वै बृहद्रथंतरे; शिर एतद् अहः, पादाभ्यामेव तच्छ्रियं शिरोऽ- भ्यायन्ति॥२ ॥
हिन्दी—( प्रकारान्तर से प्रशंसा कर रहे हैं - ) पादौ एव बृहद्रथन्तरे ये बृहत् और रथन्तर ( नामक दोनों साम इस सत्र के ) दो पैर ही हैं तथा एतद् अहः यह (आरम्भणीय) दिन शिरः ( सत्र का ) शिर स्थानीय है। पादाभ्यामेव दोनों पैरों से ही शिरः श्रियम् शिर-स्थानीय श्री को अभ्यायन्ति प्राप्त करते है। सा ० भा ० — यथा मनुष्यस्य पादौ, तथा सत्रस्य 'बृहद्रथन्तरे ’ सामनी । ‘एतत्’ आरम्भणीयमहः शिरःस्थानीयम्। ततो यथा लोके पुरुषाः पादाभ्यामेव देशान्तरात् स्वगृहे गत्वा, तत्र शिरोऽभिलक्ष्याभ्यङ्गकर्णाभरणादिरूपां श्रियमायन्ति' प्राप्नुवन्ति, एवमेते सत्रिणः सामभ्यामेतदहः प्राप्नुवन्ति॥. पुनरपि प्रकारान्तरेण प्रशंसति— पक्षौ वै बृहद्रथंतरे, शिर एतद् अहः, पक्षाभ्यामेव तच्छ्रियं शिरोऽ- भ्यायुवते ॥ ३ ॥
हिन्दी – ( पुनः प्रकारान्तर से प्रशंसा कर रहे हैं-) पक्षौ एव बृहद्रथन्तरे बृहत् औरं रथन्तर ( नामक साम सत्ररूपी पक्षी के ) दोनों पंख स्थानीय है और शिरः एतद् अहः यह ( आरम्भणीय ) दिन शिर- स्थानीय है। पक्षाभ्यामेव बृहत और रथन्तर नामक सामरूप) दोनों पंखों के द्वारा शिरः श्रियम् शिर- स्थानीय श्री को अभ्यायुवते मिश्रित करते हैं। सा० भा ० — यथा लोके पक्षी पक्षाभ्यामेवाकाशे संचरन्, शिरोऽभिलक्ष्य नानाविध- दिग्दर्शनरूपां ‘श्रियं' मिश्रयति; एवमत्रापि सामभ्यामेतस्मिन्नहनि ' श्रियम्' अनुष्ठानरूपां सत्रिणो ' युवते ' मिश्रयन्ति॥ सामद्वयस्य परित्यागं निषेधति— ( सामद्वयपरित्यागनिषेध: ) ते उभे न समवसृज्ये; य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात् तीरं तीरम् ऋच्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरं तीरम् ऋच्छन्तः प्लवेरन्, य उभे समवसृजेयुः ॥४॥ ॥
हिन्दी — ( बृहद् और रथन्तर नामक दोनों सामों के परित्याग करने का निषेध कर रहे हैं— ) ते उभे न समवसृज्ये वे दोनों ( साम) अपरित्यज्य ( अवश्यकरणीय) है । ये जो उभे समवसृज्येयुः जो इन दोनों का परित्याग करते हैं तो यथा एव जिस प्रकार ( लोक में) बन्धनात् छिन्ना नौ बन्ध से विच्छिन्न हुई नौका तीरं तीरम् ऋच्छन्ती किनारे-किनारे