ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 821–830

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 821–830

पृष्ठ 821

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 821 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७५ ९ जाती हुई प्लवेत तैरती है एवमेव इसी प्रकार ये उभे समवसृज्येयुः जो दोनों का परित्याग करते हैं, ते सत्रिणः वे सत्र करने वाले तीरं तीरम् ऋच्छन्तः किनारे- किनारे ( सत्र का) सम्पादन करते हुए प्लवेरन् तैरते रहते हैं । सा ० भा० -– 'उभे' सामनी ' न समवसृज्ये ' न परित्याज्ये; एकस्याप्यननुष्ठानमुभ- यपरित्यागः । ‘ ये ’ सत्रिणोऽनभिज्ञाः सन्त उभयं परित्यजन्ति तेषां छिन्ननौसादृश्यं प्रसज्येत । लोके हि नाविकः सायंकाले नावं कयाचिद्रज्ज्वा तीरस्थे स्थाणौ बध्नाति; यदा प्रवाहवेगाद् रात्रौ सा रज्जुस्नुट्यति, तदानीं बन्धनस्थाणोश्छिन्ना नौ: प्रवाहवेगेनेतस्ततो नीयमानां पर- तीरम् अर्वाक् तीरं च पुनः पुनः प्राप्नुवती रक्षकाभावात् 'प्लवेत' यत्र क्वापि गच्छेत्। एवमेव ' ' ' ’ ते सत्रिणः सामद्वयाभावे तत्तत्तीरसदृशानहर्विशेषान् ऋच्छन्तः अनुतिष्ठन्तोऽपि प्लवेरन् विनश्येयुरित्यर्थः । ये सामद्वयमपि परित्यजन्ति, तेषामेवायं दोष इति ' दर्शयितुं ' 'य उभे समवसृजेयुः ’ — इति पुनरभिधानम्॥ उभयो साम्नोर्विकल्पितत्वादेकपरित्यागे दोषो नास्तीत्येतद् दर्शयति- तद् यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टेः अथ यदि बृहदव- सृजेयू रथंतरेणैवोभे अनवसृष्टे ॥५ ॥

हिन्दी—(बृहत् और रथन्तर दोनों सामों के विकल्पित होने के कारण एक के परित्याग में अदोषता को दिखला रहे हैं — ) तद् यदि रथन्तरम् अवसृजेयुः यदि रथन्तर ( साम) को ( एक किनारे ) छोड़ देते हैं, तो बृहता एव उभे अनवसृष्टे बृहत् ( साम) द्वारा ही दोनों किनारे अपरित्यक्त होते हैं और अथ यदि बृहद् अवसृजेयुः यदि बृहत् को (किनारे पर) छोड़ देते है तो रथन्तरेणैव उभे अनवसृष्टे रथन्तर द्वारा ही दोनों किनारे अछूते नहीं रहते। सा० भा०-—'तत्' तयोः साम्नोर्मध्ये यदा रथंतरं परित्यजेयुः,–बृहदेवानुतिष्ठेयुः, तदा बृहतैव प्रयोगसंपूर्तेः फलत उभयमप्यपरित्यक्तमेव भवति। एवं बृहत्परित्याग-पक्षेऽपि रथंतरेणैव संपूर्तिः ॥ प्रकारान्तरेण सामद्वयं प्रशंसति- यद्वै रथंतरं तद् वैरूपं, यद्बृहत् तद् वैराजं, यद्रथंतरं तच्छाक्वरं, यद्बृहत् तद् रैवतम्; एवमेते उभे अनवसृष्टे भवतः ॥६ ॥

हिन्दी—( प्रकारान्तर से दोनों सामों की प्रशंसा कर रहे हैं — ) यद्वै रथन्तरम् जो रथन्तर ( साम) है तद् वैरूपम् वह वैरूप साम है और यद् बृहत् जो बृहत् (साम) है, तद् वैराजम् वह वैराज साम है। यद् रथन्तरम् जो रथन्तर साम है तत् शाक्वरम् वह शाक्वर साम है और यद् बृहत् जो बृहत् साम है तद् रैवतम् वह रैवत साम है। एवम् इस प्रकार एते ये दोनों ( साम ) अनवसृष्टे भवतः परित्यक्त नहीं होते हैं।

पृष्ठ 822

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 822 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७६० ऐतरेयब्राह्मणम् १७.७ चतुर्थपञ्चिकायां सा० भा०— पृष्ठ्यषडहे' षट्स्वपि दिवसेषु क्रमेण पृष्ठस्तोत्रनिष्पादकानि षट्-सामानि, —रथंतरं, बृहद्, वैरूपं, वैराजं, शाक्करं, रैवतमिति । तत्र रथंतरस्य बृहतश्चो-त्पत्तिस्थानं पूर्वमुक्तम् ।’ ‘ यद्द्याव इन्द्र ते शतम्' इत्यस्यामृच्युत्पन्नं वैरूपं साम' । ' पिबा सोममिन्द्र मन्दतु त्वा' इत्यस्यामृच्युत्पन्नं वैराजं साम। ४.'प्रोष्वस्मै पुरोरथम्' इत्यस्यां गीयमानं शाक्वरं साम' । ‘रेवतीर्नः सधमादे ' इत्यस्यां गीयमानं रैवतं साम। तत्र बृहद्रथंतर- योरेवात्रोत्तरस्थानीयत्वादशेषसामफलसिद्ध्यर्थमेते उभे अपरित्यक्ते एव भवतः, उभयपरित्यागः सर्वथा न योग्य इत्यर्थः ॥ उक्तस्याह्नोऽनुष्ठानं प्रशंसति— ( अह्नोऽनुष्ठानप्रशंसनम् ) ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽ- र्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि च आप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं भक्षयन्तः संवत्सरमभिषुण्वन्त आसते ॥७॥

हिन्दी –( पूर्वोक्त अह्न अनुष्ठान की प्रशंसा कर रहे हैं - ) ये वै एवं विद्वांसः जो इस प्रकार जानने वाले एतद् अहः उपयन्ति इस अहः को सम्पादित करते हैं ते अहशः संवत्सरम् आप्त्वा वे अहः द्वारा संवत्सर को प्राप्त करके, अर्धमासशः आप्त्वा अर्ध- मासों से (संवत्सर को ) प्राप्त करके, मासशः आप्त्वा मास से ( संवत्सर) को प्राप्त करके, स्तोमान् च छन्दांसि आप्त्वा स्तोमों और छन्दों को प्राप्त करके तथा 'सर्वाः देवताः आप्त्वा सभी देवताओं को प्राप्त करके तपः एव तप्यमानाः तपस्या को करते हुए ही सोमपीथं भक्षयन्तः सोमपान का भक्षण करते हुए तथा संवत्सरम् अभि- षुण्वन्तः संवत्सर- पर्यन्त सोम का सवन करते हुए आसते रहते हैं । ( १ ) ' पृष्ठयः षडहो भवति' - इति तै ० सं ० ७.२.६.२ । पृष्ठानां समूहः पृष्ठयः पा ० सू० ४.२.४२ वा ० । ‘ अभिप्लवं पूर्वं पुरस्ताद् विषुवत उपयन्ति पृष्ठमुत्तरम्' - इति शत० ब्रा० १२.२.३.४ । ( २ ) ऋ ० ८.७०.५ । छ०आ० ३.२.४.६ ऋचि आर० गा० १.१.३; वैरूपं ( योनिसाम ); उ ० आ ० २.२.११.१,२ ऋचो: प्रगाथतृचे ऊह्य० गा० १.१.७ वैरूपं (स्तोत्रम्) । ( ३ ) ऋ ० ७.२३.१ । छ० आ० ५.१.१.८ ऋचि आर० गा० २,१.३१, वैराजं ( योनिसाम ); उ० आ ० ३.१.१३.१-३ तृचे ऊह्य ० गा० १.१.१०; वैराजं (स्तोत्रम्) । (४) ऋ० १०.१३३.१। उ०आ ० ९.१.१४.१। ( ५ ) ऋ ० १.३०.१३ । छ० आ ० २.२.१.९ ऋचि आर० गा० २.१.१७ रैवतं ( योनिसाम ); उ०आ० ४.१.१४ १-३ तृचे ऊह्य० गा० २.२.७ रैवतं (स्तोत्रम्) ।

पृष्ठ 823

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 823 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७६१ सा ० भा०– ' ये' सत्रिणः पूर्वोक्तप्रकारेणैतस्याह्नो महिमानं विद्वांस एतदहरनुति- ष्ठन्ति, ते सत्रिणः संवत्सरसत्रमहद्वरिण, अर्धमासद्वारेण, मासद्वारेण, स्तोमच्छन्दोद्वारेण, सर्वदेवताद्वारेण प्राप्य तपश्चरन्तो निर्विघ्नं सोमपानं कुर्वन्तः संवत्सरमपि नैरन्तर्येण सोमम-भिषुण्वन्त आसते; विध्नः कोऽपि न भवतीत्यर्थः ॥ अथ सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहं विधत्ते- ( सन्नगतस्योत्तरपक्षस्य प्रत्यवरोहविधानम् ) ये वा अत ऊर्ध्वं संवत्सरमुपयन्ति, गुरु वै ते भारमभिनिदधते; स वै गुरुर्भारः शृणात्यथ य एनं परस्तात् कर्मभिराप्त्वाऽवस्तादुपैति, सवै स्वस्ति संवत्सरस्य पारमश्नुते ॥८ ॥

हिन्दी–( अब सत्रगत उत्तरपक्ष के प्रत्यवरोह का विधान कर रहे हैं ) ये वै अतः ऊर्ध्वः जो ( सत्र करने वाले ) इस (आरम्भणीय चतुर्विंश अहः ) से लेकर बाद में (अनुलोमक्रम से ) संवत्सरम् उपयन्ति संवत्सरसत्र का सम्पादन करते हैं, ते वे ( सत्र करने वाले) गुरु भारं वै अभिनिदधते (अपने ऊपर) भारी भार को स्थापित करते हैं। सः वै गुरुर्भारः वह गुरुभार शृणाति ( भार वहन करने वाले सत्री को) विनष्ट कर देता है । अथ अतः यः जो ( सत्र करने वाला) एनम् इस ( संवत्सर) को परस्तात् कर्मभिः प्रारम्भ से .लेकर ( विहित ) कर्मों द्वारा आप्त्वा सम्पादित (प्राप्त) करके अवस्ताद् उपैति प्रत्यवरोह क्रमसे सम्पादित करते हैं, सः वै वह ही स्वस्ति कल्याण के सहित संवत्सरस्य पारम् अश्नुते संवत्सर की समाप्ति को प्राप्त करता है । सा० भा०--'ये वै' केचन मन्द्रबुद्धयः सत्रिणः ' अतः' आरम्भणीयं चतुर्विंशमहः प्रारभ्योर्ध्वमानुलोम्येनैतत् संवत्सरसत्रम् ‘ उपयन्ति' अनुतिष्ठन्ति, ते सत्रिणो ' गुरु वै' प्रौढमेव भारम् ‘ अभिनिदधते ’ स्वस्योपरि स्थापयन्ति; 'स वै' स एव ' गुरुर्भारः ' ' शृणाति' भार- वाहकान् सत्रिणो विनाशयति। ' अथ' पूर्वोक्तवैलक्षण्येन ' ये' सत्रिणः ' एनं' संवत्सरं ‘पर- स्ताद्' आदित आरभ्य विहितै: ' कर्मभि: ' पूर्वपक्षगतैः ' आप्त्वा' अनुष्ठायोत्तरपक्षे ' अवस्तात्' प्रत्यवरोहक्रमेण ‘ उपैति ’ उपयन्ति, अनुतिष्ठन्ति। ' स वै ' स एव सत्रिणः ' स्वस्ति' क्षेमेण संवत्सरसत्रस्य ‘ पारं’ समाप्तिम् ' अश्नुते' अश्नुवते, प्राप्नुवन्ति॥ अयमर्थः — अस्ति किंचिद् विषुवनामकं संवत्सरसत्रस्य मध्ये प्रधानमहः, तस्याधं- स्तात् षण्मासाः; सोऽयं प्रथमः पक्षः, उपरिष्टादपि षण्मासाः सोऽयमुत्तरः पक्षः । यथा लोके कस्याश्चिच्छालायाः स्तम्भयोः पूर्वं दीर्घं वंशं प्रौढं प्रसायोंभयोः पार्श्वयोः पक्षद्वयं कुर्वन्ति, एवं संवत्सरसत्रस्यापि। तथा च शाखान्तरे श्रूयते- ' यथा शालायै पक्षसी मध्यमं वंशम- भिसमायच्छति, एवं संवत्सरस्य पक्षसी दिवाकीर्त्यभिसंतन्वन्ति १ इति। दिवैव मन्त्राणां ( १ ) तै ० सं० १.२.३.१,२ । ऐ.बा. पू- ४८ cy.

पृष्ठ 824

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 824 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ७६२ ऐतरेयब्राह्मणम् १७.८ चतुर्थपञ्चिकायां कीर्तनीयत्वाद् विषुवनामकंमेकं दिवाकीर्त्यम् । तत्र पूर्वपक्षरूपे मासषट्के यः प्रयोगक्रमः, एवमुत्तरपक्षे मासषट्केऽपि। तेनैव क्रमेण स प्रयोगे यद्यनुष्ठीयेत, तदानीमतिभारः स्यात् । नूतनानुष्ठानविशेषाभावेनालस्ये सति वैकल्यं भवति; स एव भार इत्युच्यते । अतस्तत्परि-हारार्थं पूर्वेषु षटसु मासेषु यानि कर्माणि येनानुपूर्व्येणानुष्ठितानि, तानि कर्माण्युत्तरेषु मासेषु तद् विपरीतक्रमेणानुष्ठेयानि । तथा सत्यालस्याभावाद् अविघ्नेनैव संवत्सरसत्रं समाप्यत इति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः द्वितीयाध्याये ( सप्तदशाध्याये ) सप्तमः खण्डः ॥ ७॥

॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के सप्तम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा ० भा ० — अथास्मिन्नारम्भणीये चतुर्विंशेऽहनि निष्केवल्यशस्त्रे कचिद् विशेषं विधत्ते— ( चतुर्विंशेऽहनि निष्केवल्यशस्त्रे कश्चिद्विशेषः ) यद्वै चतुर्विंशं तन्महाव्रतं बृहद्दिवेनात्र होता रेतः सिञ्चति; तददो ( १ ) द्वादशमासनिर्वर्त्यस्य गवामयनस्य प्रायणीयोऽतिरात्रः प्रथममहः, ततश्चतुर्विंश उक्थ आर- म्भणीयः । ते उभे अहनी अनुष्ठाय, ज्योतिर्गौरायुर्गौरायुज्योंतिरित्याभिप्लविकः षडहः; स चतुर्वारंमावर्त्तनीयः ' ततस्त्रिवृदादिस्तोमषट्कसाध्यः पृष्ठ्यः षडहः; एवं पञ्चभिः षडहैरेको मासः पूर्यते । एतस्यैवावर्त्तनेन पञ्च मासाः सम्पाद्याः । ततः षष्ठे मास्यादौं त्रयोऽभिप्लवाः षडहाः कार्याः; तत एकः पृष्ठ्यः षडहः, ततोऽभिजिदेकमहः; ततस्त्रयः स्वरसामानः, इत्येवमष्टाविंशत्यहानि। आद्याभ्यां प्रायणीयचतुर्विंशाभ्यां षष्ठमासपूरणम् । इत्थं पूर्वपक्षे अशीत्युत्तरशतसङ्ख्यान्यहानि सम्पन्नानि। चतुर्विंशाभ्यां षष्ठमापूरणम् । इत्थं सत्रस्य प्रधान- भूतम्। सप्तमे मास्यादौ त्रयः स्वरसामानः प्रतिलोमाः कार्याः, ततो विश्वजिदावृत्तः पृष्ठ्यः ’ .' षडहस्त्रयस्त्रिंशारम्भस्त्रिवृदुत्तमः; ततस्त्रयोऽभिप्लवाः षडहा आवृत्ता:; एवमष्टाविंशत्य- हानि स्युः (सर्वान्तेऽनुष्ठीयमानौ महाव्रतातिरात्रौ चास्य मासस्य पूरकौ ) । ततः पृष्ठ्यः षडहः; पूर्वकैश्चतुर्भिराभिप्लवकैः प्रतिलोमक्रमेणानुष्ठितैरष्टमो मासः । तथैवावृत्त्या नवमदशमैकादशा अपि मासाः सम्पाद्याः । द्वादशमासस्यादौ त्रयोऽभिप्लवाः षडहा, ततो गोरायुषी द्वे अहनी, द्वादशाहस्य दशाहानि चेति त्रिशदहानि; स द्वादशो मासः । ततो महाव्रतमुपान्त्यंमहः; तेन उदयनीयोऽतिरात्र इत्यपि सप्तममासस्य पूरकाविति । तदेतत् सर्वमिहैव क्रमात् स्फुटीभविष्यति।

पृष्ठ 825

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 825 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:द्वितीयोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७६३ महाव्रतीयेनाह्ना प्रजनयति; संवत्सरे संवत्सरे वै रेतः सिक्तं जायते, तस्मात् समानं बृहद्दिवो निष्केवल्यं भवति, एष ह वा एनं परस्तात् कर्मभिराप्त्वाऽवस्तादुपैति य एवं विद्वानेतदहरूपैति ॥ १ ॥

हिन्दी—( इस आरम्भणीय चतुर्विंश दिन के निष्केवल्यशस्त्र में कुछ विशेष विधान कर रहे हैं - ) यद्वै चतुर्विंशम् जो चतुर्विंश है तद् महाव्रतम् वह ( संवत्सर का) महाव्रत (नामक अहः ) होता है । अत्र इस ( चतुर्विंश नामक द्वितीय दिन) में होता बृहद्दिवेन होता ( ‘ तदिदास भुवनेषु ज्येष्ठम्' इस ) बृहद्दिव (नामक सूक्त ) से रेतः सिञ्चति वीर्य का सेचन करता है और तत् वह ( सेचन किया गया वीर्य) महाव्रतीयेन आंा महाव्रत ( नामक ) दिन (के कर्म ) से प्रजनयति सन्तानोत्पत्ति करता है। संवत्सरे से सरे वै (लोक में भी ) प्रत्येक संवत्सर में ही रेतः सिक्तं जायते सिक्त वीर्य (सन्तान रूप में ) उत्पन्न होता है। तस्मात् इसी कारण बृहद्दिवः बृहद्दिव नामक सूक्त ( दोनों में ) समानं निष्केवल्यं भवति समान रूप से निष्केवल्यशस्त्र होता है । यः एवं विद्वान् जो इस प्रकार जानने वाला एतद् अहः उपैति इस ( चतुर्विंश नामक) दिन का सम्पादन करता है, एषः वै ह वही एनम् इस ( संवत्सर ) का परस्तात् कर्मभिः आप्त्वा ( सत्र के ) प्रथम भाग में ( अनुलोमक्रम से क्रियमाण) कर्मों द्वारा प्राप्त करके अवस्ताद् उपैति (प्रतिलोम क्रम से) अपरभाग का सम्पादन करता है । सा ० भा ० — यदेतद् द्वितीयं चतुर्विंशमहः तदेव संवत्सरसत्रस्योपान्त्यं महाव्रता- ख्यमहर्भवति । आरोहक्रमेण चतुर्विंशाख्यं पूर्वपक्षगतं द्वितीयमहः, अवरोहक्रमेण महा- व्रताख्यमुपान्त्यत्वाद् द्वितीयमहर्भवति । अनेन द्वितीयत्वसाम्येन तयोः परस्परमैक्यमुपचर्यते । किञ्चोभयत्र बृहद्दिवसाम्यमस्ति। ' तदिदास भुवनेषु ज्येष्ठम्' इत्येतत्सूक्तं बृहद्दिवशब्देन विवक्षितम्, प्रौढस्य द्युलोकस्य प्राप्तिहेतुत्वात्। एतदेवोभयत्र निष्केवल्यशस्त्रे क्रियते । तथा सत्यस्मिन् द्वितीयेऽह्नि चतुर्विंशनामके बृहद्दिवनाम्ना तदिदासेत्यादिना निष्केवल्यशस्त्रगत- सूक्तेन होता रेतः सिञ्चति। तदहः । 'तत्' एतत् सिक्तं रेतो ' महाव्रतीयेन' उपान्त्येन अह्ना बृहद्दिवाख्यनिष्केवल्यसूक्तयुक्तेन 'प्रजनयति । अत्र सत्रसंवत्सरमध्य एव रेतःसेकः प्रजननं च द्वितीयोपान्त्यदिवसयोः संपन्नम्। ततो लोकेऽप्येकैकस्मिन् संवत्सरे रेतः सेक उत्पत्तिश्चे- त्युभयं संपद्यते । यस्माद् द्वितीयोपान्त्ययोरह्नेोरुभयोरपि मिलित्वा प्राणिनो जन्मरूपमेकं कार्यमपेक्षितम् । ‘ तस्माद्’ बृहद्दिवनामकेन सूक्तेनोभयत्र निष्केवल्यं शस्त्रं ' समानम्' एकरूपं कर्तव्यम्। ‘ यः ’ पुमान् ‘ एवं' महाव्रताहः साम्येनात्र सत्रार्थं निष्केवल्यस्य कर्तव्यतां विद्वान् ‘ एतद्’ द्वितीयमहरनुतिष्ठति, स पुमान् परस्तात् सत्रस्य प्रथमभागे आनुलोम्येन क्रियमाणैः कर्मभि: ‘ आप्त्वा’ प्राप्य ‘ अवस्तात्' अपरभागे प्रातिलोम्येनैव संवत्सरमनुतिष्ठति ॥ (१ ) ऋ० १०.१२०.१ - ९ ।

पृष्ठ 826

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 826 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ १७.८ चतुर्थपञ्चिकायां७६४: ऐतरेयब्राह्मणम् वेदनं प्रशंसति— स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद ॥ २ ॥

हिन्दी— (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह स्वस्ति क्षेमपूर्वक संवत्सरस्य पारम् अश्नुते संवत्सर के पार ( समापन ) को प्राप्त करता है! अथ संवत्सरसत्रस्याद्यन्ते द्वे अहनी विधत्ते— ( संवत्सरसत्रस्याद्यन्ते अहः द्वयविधानम् ) यो वै संवत्सरस्यावारं च पारं च वेद, स वै स्वस्ति संवत्सरस्य पारमश्नुते; अतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारम् ॥३ ॥

हिन्दी- ( अब संवत्सर के आदि और अन्त दोनों दिनों का विधान कर रहे हैं— ) यः वै संवत्सरस्य जो संवत्सर के अवारं च पारं च इस पार वाले (प्रथम दिन ) और उस पार वाले ( अन्तिम दिन ) को वेद जानता है, सः वै वही संवत्सरस्य पारम् अश्नुते वही संवत्सरसत्र के पार ( पूर्णता ) को प्राप्त करता है। अस्य इस ( संवत्सर का ) अतिरात्रः प्रायणीयः प्रायणीय ( नामक) अतिरात्र अवारः यह पार ( आरम्भ) है और उदयनीयः उदयनीय ( नामक अतिरात्र) पारम् वह पार ( समापन) है । सा० भा०--‘य: ' पुमान् संवत्सरसत्रस्य समुद्रस्थानीयस्य ' अवारम्' अर्वाक् तीर-स्थानीयं प्रथममहः, ‘ पारं’ परतीरस्थानीयमन्तिममहः; ' वेद' तयोरह्नेोरनुष्ठेयं कर्तव्यं निश्चि-नोति; ‘सः ’ पुमानविघ्नेनैव संवत्सरसत्रस्य 'पारं ' समाप्तिं प्राप्नोति । योऽयमतिरात्रसंस्थः, स एवास्य ‘ प्रायणीयः ' आरम्भेऽनुष्ठेयत्वाद् अर्वाक् तीरस्थानीयः । स एवाँतिरात्रः पुनः ‘उदयनीयः ’ समाप्तावनुष्ठेयत्वात् परतीरस्थानीयः ॥ वेदनं प्रशंसति— स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद ॥४ ॥

हिन्दी - ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह स्वस्ति क्षेमपूर्वक संवत्सरस्य पारम् अश्नुते संवत्सर सत्र के समापन को प्राप्त करता है। उक्तावाद्यन्तावतिरात्रौ प्रशंसति— यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद, स वै स्वस्ति संवत्सरस्य पारमश्नुते; अतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनम् ॥५ ॥

पृष्ठ 827

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 827 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:द्वितीयोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७६५ हिन्दी— ( पूर्वोक्त आदि और अन्त वाले अतिरात्र की प्रशंसा कर रहे हैं— ) यः वै जो संवत्सरस्य संवत्सर सत्र के अवरोधनं च उद्रोधनं च प्रारम्भिक कर्म और समापन कर्म को वेद जानता है सः वै वही संवत्सरस्य पारम् अश्नुते संवत्सर की पूर्णता को प्राप्त करता है। अस्य इस ( संवत्सर ) का प्रायणीयः अतिरात्रः प्रायणीय ( नामक ) अतिरात्र अवरोधनम् अवरोधन (प्रारम्भ वाला कर्म) तथा उदयनीयः उदयनीय (नामक अतिरात्र) उद्बोधनम् उद्रोधन ( समापन कर्म ) है । सा० भा०--अवरुध्यते स्वाधीनं क्रियते येन प्रारम्भरूपेण कर्मण तत्कर्म ' अवरोध- नम्' । उद्रुध्यते समाप्यते येन कर्मणा तत् 'उद्रोधनम्' । अन्यत्पूर्ववत्॥ वेदनं प्रशंसति-- स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद ॥ ६ ॥

हिन्दी- (इस ज्ञान की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है, वह स्वस्ति कल्याणपूर्वक संवत्सरस्य पारम् अश्नुते संवत्सर की पूर्णता को प्राप्त करता है। पुनरपि प्रकारान्तरेण प्रशंसति— यो वै संवत्सरस्य प्राणोदानौ वेद, स वै स्वस्ति संवत्सरस्य पार- मश्नुते; अतिरात्रो वा अस्य प्रायणीयः प्राण, उदान उदयनीयः ॥७ ॥

हिन्दी –( पुनः प्रकारान्तर से प्रशंसा कर रहे हैं— ) यः वै जो संवत्सरस्य संवत्सर सत्र के प्राणोदानौ वेद प्राण और उदान को जानता है सः वै वही संवत्सरस्य पारम् अश्नुते संवत्सर के समापन को प्राप्त करता है। अस्य इस ( संवत्सर) का प्रायणीयः अतिरात्रः प्राणः प्रायणीय ( नामक ) अतिरात्र प्राण और उदयनीयः उदानः उदयनीय (नामक अतिरात्र ) उदान है ।

सा ० भा ० — ‘प्रायणीयः ' अतिरात्रः 'प्र' शब्दसामान्यात् ‘प्राणः ' इत्युच्यते ।

उच्छब्दसामान्याद् ‘उदयनीयः ' अतिरात्रः ‘ उदानः ’ ॥

वेदनं प्रशंसति— स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद, य एवं वेद ॥८ ॥

हिन्दी - (इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है, वह स्वस्ति क्षेमपूर्वक संवत्सरस्य पारम् अश्नुते संवत्सर के समापन को प्राप्त

करता है ।

सा० भा०--अभ्यासोऽध्यायसमाप्त्यर्थः ॥

पृष्ठ 828

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 828 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७६६ ऐतरेयब्राह्मणम् १७.८ चतुर्थपञ्चिकायां ॥ इति श्रीमत्सायणाचार्य विरचिते माधवीये ' वेदार्थ प्रकाशे' ऐतरेयब्राह्मण-. भाष्ये चतुर्थपञ्चिकायां द्वितीयाध्याये अष्टमः खण्डः ॥८ ॥

1। इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय के अष्टम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमो हार्छं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश' -नामभाष्ये ऐतरेयब्राह्मणस्य चतुर्थपञ्चिकायाः द्वितीयोऽध्यायः (सप्तदशोऽध्यायः ) समाप्त ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के सप्तदश अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 829

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 829 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ चतुर्थपञ्चिकायाम् तृतीयोऽध्यायः [ अथ अष्टादशोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम्— आश्विनस्य विधिः प्रातरनुवाक उदीरितः॥ संख्याप्रतिपदावन्ये सौर्यादीन्यधिकानि तु ' ॥१॥

तत्र गवामयनस्य प्रायणीयोदयनीयावाद्यन्तावतिरात्रावुक्तौ; अत्र मासक्लृप्तिविधाना-याभिप्लवघडहे पूर्वभागरूपाणि त्रीण्यहानि विधत्ते— ( अभिप्लवषडहे पूर्वभागरूपाहस्त्रयविधानम् ) ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः ॥ १ ॥

हिन्दी - ( अब मास क्लप्ति के विधान के लिए अभिप्लव नामक षडह में पूर्व-भागरूप तीन दिनों का विधान कर रहे हैं - ) ज्योतिः गौः आयुः इति स्तोमेभिः ज्योतिः, गौः और आयुः -इन स्तोमों ( अर्थात् ज्योतिष्टोम, गोष्टोम और आयुष्टोम ) द्वारा यन्ति अनुष्ठान करते हैं; क्योंकि अयं वै लोकः ज्योति: यह ( पृथिवी) लोक ज्योति, अन्तरिक्षं गौः अन्तरिक्षलोक गौ और असौ लोकः आयुः वह (द्यु) लोक आयु है। सा० भा ० - स्तोमशब्दो ज्योतिरादिभिः प्रत्येकमभिसंबध्यते । तथा सति ज्योति- ष्टोमः, गोष्टोमः, आयुष्टोम इत्येतैरहोभिः 'यन्ति' अनुतिष्ठेयुरित्यर्थः । तदेतदहस्त्रयं त्रित्वं-सांभ्यात् क्रमेण लोकत्रयरूपम् । शाखान्तरेऽप्येतद्दर्शितम्— 'ज्यातिष्टोमं प्रथममुपयन्त्य- स्मिन्नेव तेन लोके प्रतितिष्ठन्ति; गोष्टोमं द्वितीयमुपयन्त्यन्तरिक्ष एव तेन प्रतितिष्ठन्ति; आयुष्टोमं तृतीयमुपयन्त्यमुष्मिन्नेव लोके प्रतितिष्ठन्ति' इति॥ षडहे पूर्वभागं त्र्यहमुक्त्वा तदुत्तरभागं विधत्ते— ( अभिप्लवषडहे उत्तरभागस्य विधानम् ) स एवैष उत्तरस्त्र्यहः ॥ २ ॥

( १ ) प्रथमादिषु पञ्चखण्डेष्वित्येव बोध्यम् ( ५ ९७-६१७ पृ० )। ( २ ) तै ० सं ० ७.४.११.१ ।

पृष्ठ 830

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 830 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [७६८ ऐतरेयब्राह्मणम् १८.१ चतुर्थपञ्चिकायां हिन्दी —( षडह में पूर्वभाग त्र्यह को कहकर उत्तर भाग का विधान कर रहे हैं— ) सः वै एषः उत्तरः त्र्यहः उत्तरार्ध के तीन दिन भी वह यहयह ((पहलेपहले तीन दिन वाला ) ही (स्तोम अनुष्ठित होता है ) । सा० भा ० — त्रयाणां पूर्वोक्तानामेवाह्नां समूहः पुनरनुष्ठीयमान उत्तरस्त्र्यहो भवति ॥ तत्र षडहे षण्णामप्यह्नां क्रमं दर्शयति— ( षडहे षण्णामप्यह्नां क्रमप्रदर्शनम् ) ज्योतिर्गौरायुरेति त्रीण्यहानि, गौरायुर्ज्योतिरिति त्रीणि ॥ ३ ॥

हिन्दी—( उस षडह में छवों दिनों के क्रम को दिखला रहे हैं— ) ज्योतिः गौः आयुः ज्योतिष्टोम, गौष्टोम और आयुष्टोम- इति त्रीणि अहानि ये (क्रमशः षडह के पूर्ववर्ती) तीन दिनों वाले ( याग) हैं और गौः आयुः ज्योतिः गोष्टोम, आयुष्टोम और ज्योतिष्टोम—- इति त्रीणि ये तीन याग (क्रमशः परवर्ती दिन वाले हैं ) । सा० भा० – ज्योतिष्टोमादीनामेव ज्योतिरित्यादीनि नामानि; तैर्नामभिर्धर्मा अतिदि-श्यन्ते। ज्योतिरादिनामकाः ये स्वतन्त्रा एकाहाः सन्ति, तदीयधर्मा अत्रानुष्ठेया इत्यर्थः ॥ योऽयमुभयोख्त्र्यहयोः क्रमव्यत्यासस्तमिमं प्रशंसति— अयं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते ॥४ ॥

हिन्दी— (षडह के दोनों पूर्ववर्ती और परवर्ती दिनों के क्रमव्यत्यास की प्रशंसा कर रहे है- ) अयं वै लोकः ज्योतिः (इन दोनों भागों में प्रथम और अन्तिम होने के कारण ) यह ( पृथिवी) लोक भी ज्योति है और असौ लोकः ज्योतिः वह ( द्यु) लोक भी ज्योति है। ते एते ज्योतिषी वे ये दोनों (षडह के आदि और अन्त में विद्यमान) ज्योति उभयतः संलोकेते दोनो ओर से परस्पर सम्मुख दिखलायी देते हैं। सा० भा ० — प्रथमस्य त्र्यहस्यादौ ज्योतिर्नामकमहर्यदस्ति, तत्प्राथम्यसाम्याद् भूलोकस्वरूपम्। यच्चोत्तरस्य त्र्यहस्यावसाने ज्योतिर्नाम़कमहः, तदुत्तमत्वसाम्याद् द्युलोक- स्वरूपम्। 'ते एते ' षडहस्याद्यन्तयोर्वर्तमाने ' ज्योतिषी' उभयतोऽवस्थाय परस्परं ' संलोकेते' संमुखत्वेनेक्षेते। अहर्विंशेषांस्तत्क्रमं चोक्त्वा समष्टिरूपं षडहं विधत्ते— ( समष्टिरूपषडहर्निधानम्) तेनैतेनोभयतोज्योतिषा षळहेन यन्ति; तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽ- मुष्मिंश्चोभयोः ॥५ ॥