ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 831–840
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 831–840
पृष्ठ 831
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७६ ९ हिन्दी—(दिन विशेषों और उनके क्रम को कह कर समष्टिरूप वाले षडह का विधान कर रहे हैं— ) उभयतः ज्योतिषा तेन एतेन षडहेन दोनो ओर से विद्यमान ज्योति वाले उस षडह से यन्ति यजन करते हैं। तद् यद् एतेन उभयतः ज्योतिषा घडहेन तो जो इस दोनों ओर विद्यमान ज्योति वाले षडह से यन्ति यजन करते हैं तत् उस ( यजन ) से उभयतः दोनों ओर से अस्मिन् च लोके अमुष्मिन् च इस ( पृथिवी ) लोक में और उस ( द्यु) लोक में— इस प्रकार उभयोः दोनों अनयोः लोकयोः इन लोकों में प्रतितिष्ठन्तः प्रतिष्ठित होते हुए यन्ति आगे बढ़ते हैं। सा ० भा ० — ‘ उभयतः ’ आद्यन्तयोर्ज्योतिर्नामकमहर्यस्मिन् षडहे तदेतत् 'उभयतो ज्योतिः ’ तेनैतेन षडहेनानुतिष्ठेयुः । तदनुष्ठानेनोभयतो वर्तमानयोः प्रतिष्ठां प्रापयन्तो वर्तन्ते। ‘ लोकयोरुभयतः ’ इत्यस्यैव विवरणम्– ' अस्मिंश्च लोकेऽमुष्मिंश्चोभयोः ' इति । अथ- वोत्तरशेषत्वेनास्मिंश्चेत्यादिकमन्वेतव्यम्॥ अस्मिन्नभिप्लवषडहे संस्थाविशेषान् विधत्ते— ( अभिप्लवषडहे संस्थाविशेषविधानम्) परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी, ये चत्वारो मध्य उक्थ्यास्तन्नभ्यम् ॥ ६ ॥
हिन्दी - (इस अभिप्लव नामक षडह में संस्था- विशेषों का विधान कर रहे हैं— ) यद् अभिप्लवः षडहः जो अभिप्लव ( नामक ) धडह है, एतत् परियद्वै देवचक्रम् यह परिवर्तमान देवचक्र है । तस्य अभितः उस (षडह ) के दोनों ओर यौ अग्निष्टोमो जो दो अग्निष्टोम है तौ वे दोनों ( अग्निष्टोम ) प्रधी नेमिस्थानीय हैं। मध्ये मध्य में ये चत्वारः उक्थ्याः जो चार उक्थ्य ( संस्था ) है, तद् नभ्यम् वे नाभिस्थानीय है । सा० भा ० — योऽयमभिप्लवः षडहः, तदेतदस्मिंश्चामुष्मिंश्चोभयोर्लोकयोः ‘ परियद्वै’ परिवर्तमानमेव ‘ देवचक्रम्', यथा लोके रथस्य चक्रं पुनः पुनः परिवर्तते, तद्वदिदं देव- चक्रम्; असकृत् षडहं परिवर्तनस्य वक्ष्यमाणत्वात्। रथचक्रस्य हि निष्पादकानि त्रीणि फलकानि; तत्र मध्यमफलकेऽरुं प्रवेशयितुं प्रौढं नाभिच्छिद्रं क्रियते । तस्य फलकस्योभयोः पार्श्वयोर्वर्तुलत्वाय फलकद्वयं कीलितं भवति। एवमस्मिन्नपि षडहे ज्योतिर्यागावा- द्यन्तवर्तिनावग्निष्टोमसंस्थौ 'प्रधी' भवतः, प्रकर्षेणोभयतो धीयेते स्थाप्येते इति प्रधी, फलकद्वयस्थानीयावित्यर्थः । एतस्मिन् ' ये' तु मध्ये ' चत्वारः ' अहर्विंशेषा उक्थ्यसंस्थाः; तदेतत् ‘नभ्यं’ नाभियोग्यस्थानम् उक्थ्यसंस्थाः कर्तव्या इत्यर्थः ॥ वेदनं प्रशंसति— गच्छति वै वर्तमानेन यत्र कामयते, तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥७ ॥
पृष्ठ 832
पाठ पढ़ें पाठ छिपाएँ
: [७७० ऐतरेयब्राह्मणम् १८.२ चतुर्थपञ्चिकायां हिन्दी– ( उक्त ज्ञान की प्रशंसा कर रहे हैं — ) यः एवं वेद जो इस प्रकार जानता है वह यत्र कामयते वह लोक में जहाँ जाने की कामना करता है, वहाँ वर्तमानेन वै गच्छति परिवर्तमान ( देवचक्र ) द्वारा चला ही जाता है और तत् उससे स्वस्ति क्षेमपूर्वक संवत्सरस्य संवत्सर के पारम् अश्नुते समापन को प्राप्त करता है। सा० भा० — वेदिता ‘ यत्र' यस्मिँल्लोके गन्तुं कामयते, तत्रानेनैव परिवर्तमानेन देवचक्रेण गच्छति। ‘ तत्' तेन देवचक्रेण निर्विघ्नमेव संवत्सरसत्रसमाप्तिं गच्छति॥ उक्तस्याभिप्लवषडहस्यैकस्मिन् मासि पञ्चकृत्व आवृत्ति विधत्ते— ( एकस्मिन् मासि अभिप्लवषडहस्य पञ्चवारावृत्तिविधानम् ) यो वै तद्वेदं यत्प्रथमः षळहः; स वै स्वस्ति संवत्सरस्य पारमश्मुते; यस्तद्वेद यद्द्द्वितीयो, यस्तद्वेद यतृतीयो, यस्तद्वेद यच्चतुर्थो, यस्तद्वेद यत्पञ्चमः ॥८॥
हिन्दी — ( पूर्वोक्त अभिप्लव नामक षडह के एक महीने में पाँच बार आवृति का विधान कर रहे हैं— ) यः वै प्रथमः षडहः जो प्रथम षडह है, तद् यः वै वेद उसको जो जानता है, यद् द्वितीयः जो द्वितीय (षडह) है, जो उसको जानता है, यः तृतीयः जो तृतीय षडह है, जो उसको जानता है, यंत् चतुर्थ: जो चतुर्थ षडह: हैं जो उसको जानता है, और यत् पञ्चमः जो पञ्चम षडह है, जो उसको जानता है, सः वै वही स्वस्ति क्षेमपूर्वक संवत्सरस्य पारम् अश्नुते संवत्सर के समापन को प्राप्त कर लेता है । सा० भा०--' प्रथमः षडहः ' इति यदस्ति, तद् यो वेद, ' सः ' पुमान्निर्विघ्नेन सत्र- पारं प्राप्नोति। तथा ‘द्वितीय:' षडह इति यदस्ति, तद् यो वेद, स वै स्वस्तीत्यादिकमनु- वर्तनीयम्। एवमुत्तरेष्वपि त्रिषु पर्यायेषु द्रष्टव्यम्। षडहे पञ्चकृत्व आवर्तमाने सति त्रिंश- दहानि भूत्वा मासः संपद्यते॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( अष्टादशाध्याये ) प्रथमः खण्डः ॥१॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टादश अध्याय के प्रथम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — उक्तेषु पञ्चसु षडहेषु प्रथममनूद्य प्रशंसति—
पृष्ठ 833
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७७१ ( प्रथमषडहः प्रशंसनम् ) प्रथमं षळहमुपयन्ति; षळहानि भवन्ति; षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशः संवत्सरे प्रतितिष्ठन्तो यन्ति ॥१ ॥
हिन्दी —( पाँचों षडहों में प्रथम षडह को कह कर उसकी प्रशंसा कर रहे हैं— ) प्रथमं षडह: उपयन्ति प्रथम षडह का सम्पादन करते हैं । (इनके सम्पादित होने में ) षडहानि भवन्ति छः दिन होते हैं। षड् वै ऋतवः ऋतुएँ भी छः होती हैं। ऋतुशः एव ऋतु से ही तत् संवत्सरम् उस संवत्सर को आप्नुवन्ति प्राप्त करते हैं और ऋतुशः ऋतुओं द्वारा संवत्सरे संवत्सरें में प्रतितिष्ठन्तः यन्ति प्रतिष्ठित होते हुए यजन करते हैं । सा ० भा० - अनुष्ठिते षडहे षट्संख्याकान्यहानि भवन्ति। ततः संख्यासाम्यादृतु- द्वारा संवत्सरं प्राप्य तत्र प्रतिष्ठिताः सन्तो वर्तन्ते॥ पूर्वेण षडहेन सहितं द्वितीयं षडहं प्रशंसति— ( सपूर्वेण षडहेन द्वितीयषडहप्रशंसनम् ) द्वितीयं षळहमुपयन्ति; द्वादशाहानि भवन्ति; द्वादश वै मासा, मासश एव तत्संवत्सरमाप्नुवन्ति; मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति ॥ २ ॥
हिन्दी- (पूर्ववर्ती षडह के सहित द्वितीय षडह की प्रशंसा कर रहे हैं - ) द्वितीयं षडहम् उपयन्ति द्वितीय षडह का सम्पादन करते हैं । (द्वितीय षडंह के सम्पादन होने पर दोनों षडह मिलकर ) द्वादश अहानि भवन्ति बारह दिन हो जाते हैं। ( संवत्सर में) द्वादश वै मासा बारह मास होते हैं इस प्रकार मासशः एव मास से ही तत्संवत्सरम् आप्नुवन्ति उस ( संवत्सर को प्राप्त करते हैं ) और मासशः संवत्सरे प्रतितिष्ठन्तः मास से संवत्सर
में प्रतिष्ठित होते हुए यन्ति यजन करते हैं ।
सा ० भा ० – पूर्ववद् व्याख्येयम्॥
उक्ताभ्यां षडहाभ्यां सहितं तृतीयं षडहं प्रशंसति— ( प्रथमद्वितीयषडहाभ्यां सहितं तृतीयषडहप्रशंसनम् ) तृतीयं षळहमुपन्त्यष्टादशाहानि भवन्ति; तानि द्वेधा नवान्यानि नवान्यानि; नव वै प्राणा; नव स्वर्गा लोकाः, प्राणांश्चैव तत्स्वर्गाश्च लोकानाप्नुवन्ति, प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति ॥ ३ ॥:
हिन्दी– ( पूर्वोक्त दोनों षडहों के सहित तृतीय षडह की प्रशंसा कर रहे हैं— ) तृतीयं षडहम् उपयन्ति तृतीय षडह का सम्पादन करते हैं। (इस प्रकार तीनों षडह मिलकर) अष्टादश अहानि भवन्ति अट्ठारह दिन होते हैं। तानि वे (अट्ठारह दिन)
पृष्ठ 834
पाठ पढ़ें पाठ छिपाएँ
: [७७२ ऐतरेयब्राह्मणम् १८.२ चतुर्थपञ्चिकायां नवान्यानि नवान्यानि नौ और नौ के समूह में द्वेधा दो विभाग वाले होते हैं । नव वै प्राणाः ( शरीर में) नव प्राण होते हैं और नव स्वर्गा लोकाः स्वर्गलोक भी नौ होते हैं । इससे प्राणान् च तत्स्वर्गान् लोकान् च प्राप्नुवन्ति प्राणों और स्वर्गलोकों को प्राप्त करता है । प्राणेषु च तत्स्वर्गेषु लोकेषु प्राणों में और उन स्वर्गलोकों में प्रतितिष्ठन्तः यन्ति प्रतिष्ठित होते हुए यजन करते हैं । सा० भा०-— त्रिषु षडहेषु यान्यष्टादशाहानि तेषां द्वेधा विभागे सति प्रत्येकं ‘नव ’ संख्या संपद्यते । ‘प्राणाः ’ सप्तसु ऊर्ध्वच्छिद्रेषु द्वयोरधश्छिद्रयोर्नवसंख्याकाः, –स्वर्ग- लोकाश्च नवभोगस्थानभेदेन' नवविधाः । अतः संख्यासाम्यात् प्राणान् स्वर्गलोकांश्च प्राप्य तत्र प्रतिष्ठिता वर्तन्ते॥ पूर्वैस्त्रिभिः षडहैश्चतुर्थं षडहं प्रशंसति— ( पूर्वोक्तस्त्रिभिः षडहैश्चतुर्थषडहप्रशंसनम्) चतुर्थं षळहमुपयन्ति; चतुर्विंशतिरहानि भवन्ति; चतुर्विंशतिर्वा अर्ध- मासा, अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्थमासशः संवत्सरे प्रतितिष्ठन्तो यन्ति ॥४ ॥
हिन्दी–( पूर्वोक्त तीन षडहों के सहित चतुर्थ षडह की प्रशंसा कर रहे हैं — ) चतुर्थं षडहम् ·उपयन्ति चतुर्थ षडह का सम्पादन करते हैं। चतुर्विंशति अहानि भवन्ति ( पूर्ववर्ती तीनों षडहों के सहित मिलकर चौबीस दिन होते हैं ) । चतुर्विंशति वै अर्धमासाः ( संवत्सर में ) चौबीस अर्धमास (पक्ष ) होते हैं। अर्धमासशः एव अर्धमास से ही तत्संवत्सरम् आप्नुवन्ति उस संवत्सर को प्राप्त करते हैं और अर्धमासशः संवत्सरे
प्रतितिष्ठन्तः अर्धमास से संवत्सर में प्रतितिष्ठत होते हुए यन्ति यजन करते हैं ।
सा ० भा ० — अतः संख्यासाम्याद् अर्धमासद्वारा संवत्सरे प्रतिष्ठिताः ॥
पूर्वैश्चतुर्भिः षडहैः सहितं पञ्चमं षडहं प्रशंसति— ( पूर्वैश्चतुर्भिः षडहैः पञ्चमषडहप्रशंसनम् ) पञ्चमं षळहमुपयन्ति; त्रिंशदहानि भवन्ति; त्रिंशदक्षरा वै विराड्; · विराळन्नाद्यं, विराजमेव तन्मासि मास्यभिसंपादयन्तो यन्ति ॥ ५ ॥
हिन्दी –( पूर्वोक्त चार षडहों के सहित पञ्चम षडह की प्रशंसा कर रहे हैं - ) पञ्चम घडहम् उपयन्ति पञ्चम षडह का सम्पादन करते हैं । त्रिंशद् अहानि भवन्ति ( पूर्ववर्ती चारों षडहों के लेकर) तीस दिन होते हैं। त्रिशद् अक्षरा वै विराट् विराट् छन्द तीस ( १ ) ‘ अष्टाभिर्लोकपालैः परिपालिता अष्टसंख्याकाः स्वर्गा लोकाः, तेषां मध्ये कश्चिदूर्ध्वगामी स्वर्ग इत्येव नवसंख्याकाः स्वर्गाः ' इति तै ० सं ० १.२.२.१ सा० भा ० ।
पृष्ठ 835
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७७३'अक्षरों वाला होता है। विराड् अन्नाद्यम् विराट् छन्द अन्नाद्य रूप है। तत् इससे विराजमेव विराट् को ही मासि मासि सम्पादयन्तः प्रत्येक मास में सम्पादित करते हुए यन्ति यजन करते हैं । सा ० भा ० — अहः संख्याया विराट्साम्याद् विराजश्चान्नाद्यहेतुत्वात् प्रतिमासं विराड्- द्वारा अन्नाद्यं प्राप्नुवन्ति॥ पुनरपि षडहपञ्चकं प्रशंसति— ( पुनरपि षडहपञ्चकप्रशंसनम् ) अन्नाद्यकामाः खलु वै सत्रमासतः तद् यद्विराजं मासि मास्यभि- संपादयन्तो यन्त्यन्नाद्यमेव तन्मासि मास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम् ॥ ६ ॥
हिन्दी —–( पुनः पाँचों षडहों की प्रशंसा कर रहे हैं - ) अन्नाद्यकामाः षडहम् उपयन्ति खाद्यान्न की कामना से षडह का सम्पादन करते हैं। तद् यद् विराजम् तो जो विराट् का मासि मासि अभिसम्पादयन्तः प्रत्येक मास में सम्पादन करते हु यति यजन करते हैं तत् उससे वे मासि मासि अन्नाद्यम् अवरुन्धानाः प्रत्येक महीने में अन्नाद्य को प्राप्त करते हुए यन्ति यजन करते हैं। अस्मै च अमुष्मै च लोकाय इस ( भूलोक ) और उस (स्वर्ग) लोक के लिए इस प्रकार उभाभ्याम् दोनों लोकों के लिए यजन करते हैं । स ० भा० — ये सत्रस्यानुष्ठातारः, ते हि ' अन्नाद्यकामाः ' अनुतिष्ठन्ति । तथा सति पूर्वोक्तरीत्या संख्यासाम्यात् पञ्चसु षडहेषु त्रिंशदक्षररूपां विराजं प्रतिमासं संपादयन्तो वर्तन्ते । प्रतिमासमन्नाद्यं प्राप्नुवन्तो लोकद्वयार्थं गच्छन्ति । प्रतिमासं षडहपञ्चकमनुतिष्ठे- युरिति तात्पर्यार्थः । तत्र चत्वारोऽभिप्लवाः षडहाः, पञ्चमस्तु पृष्ठ्यः षडह इति सूत्रकारैर- भिधानादयं विशेष: शाखान्तरे द्रष्टव्यः ' ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( अष्टादशाध्याये ) द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टादश अध्याय के द्वितीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ‘ चत्वारोऽभिप्लवाः पृष्ठ्यश्च मासः ' — इति च कात्या० श्रौ० १३.२.३; तथा 'चतुरभिप्लवान् पृष्ठ्यपञ्चमान् पञ्च मासानुपयन्ति' इति च आश्व० श्रौ० ११.७.२ । X
पृष्ठ 836
पाठ पढ़ें पाठ छिपाएँ
: [७७४ ऐतरेयब्राह्मणम् १८.३ चतुर्थपञ्चिकायां अथ तृतीयः खण्डः सा० भा० — संवत्सरसत्रस्यावयवान् मासानभिधाय सत्रं विधत्ते— ( संवत्सरसत्रविधानम् ) ( तन्त्र गवामयनविधानम् ) गवामयनेन यन्ति; गावो वा आदित्या; आदित्यानामेव तदयनेन यन्ति ॥ १ ॥
हिन्दी— ( संवत्सर सत्र के अवयव रूप मासों का कथन करके अब सत्र का विधान कर रहे हैं- ) गवामयनेन यन्ति ( संवत्सर के प्रकृतिभूत) गवामयन ( नामक कर्म) का सम्पादन करते हैं । गावः वै आदित्या गौ (गमन करने के कारण) आदित्य है । इस प्रकार तत् उस ( गवामयन) से आत्यिानामेव अयनेन आदित्यों के ही अयन से यन्ति यजन करते हैं । सा० भा ० — संवत्सरसत्राणां प्रकृतिभूतस्यैतस्य सत्रस्य ' गवामयनम्' इति नाम- धेयम्। तेन ‘ यन्ति ' अनुतिष्ठेयुः । गमनसाम्याद् गवामादित्यत्वम्। तथा सत्यादित्यानामेवायने- नानुष्ठानं कृतं भवति ॥ तदेतद् गवामयनं प्रशंसति- ( गवामयनप्रशंसनम् ) गावो वै सत्रमासत, शफाञ्शृङ्गाणि सिषासत्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त; ता अब्रुवन् यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति; ता या उदतिष्ठंस्ता एताः शृङ्गिण्यः ॥२ ॥
हिन्दी. ( इस गवामयन की प्रशंसा कर रहे हैं - ) गावः वै गायों (के अभिमानी देव) ने शफाञ्शृङ्गाणि सिषासत्यः खुरों और सींगों को प्राप्त करने की कामना करते हुए सत्रम् आसत सत्र का सम्पादन किया। दशमें मासि दशम महीने में तासाम् उन गायों के शफाः शृङ्गाणि अजायन्त खुर और सींगे उत्पन्न हो गयी । तब ताः अब्रुवन् उन गायों ने कहा कि यस्मै कामाय जिस कामना के लिए अदीक्षामहि हम लोगों ने दीक्षा ग्रहण किया था, तम् अपाम उसको प्राप्त कर लिया । उत्तिष्ठाम अतः हम लोग उठ जाये। याः ताः उतिष्ठन् जो वे ( गाये ) उठ गयीं ताः एताः शृङ्गिण्यः वे ये ( गायें) सींग से सम्पन्न थीं। सा० भा० – पुरा कदाचिद् गवाभिमानिन्यो देवताः स्वकीयानां गोदोहानां पाद-· गतान्‘ शफान्’ शिरोगतानि ' शृङ्गाणि च 'सिषासत्य:' प्राप्तुमिच्छन्त्यः सत्रमन्वतिष्ठन्। तासां दशमे मासि तदुभयं संपन्नम्। ततः ‘ ताः' गावः परस्परमिदमब्रुवन्, –यस्मै कामाय
पृष्ठ 837
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७७५ वयम् ‘ अदीक्षामहि’ सत्रदीक्षामाप्तवत्यः, 'तं' कामम् ' आपाम' वयं प्राप्तवत्यः । ततोऽ- स्मात् सत्रादुत्तिष्ठामेति विचार्योत्याय गताः। 'ताः' प्रसिद्धा या गाव उदतिष्ठन्; ता इमाः
शृङ्गिण्याो दृश्यन्ते । अनेन दशसु मासेष्वनुष्ठेयं गवामयनं प्रशस्तम्॥
द्वादशसु मासेष्वनुष्ठेयं यद् गवामयनमस्ति, तदिदानीं प्रशंसति— अथ याः समापयिष्यामः संवत्सरमित्यासत, तासामश्रद्धया शृङ्गाणि प्रावर्तन्त; ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वानृतून् प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन् सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः ॥ ३ ॥
हिन्दी – ( बारह मासों में अनुष्ठेय गवामयन की प्रशंसा कर रहे हैं— ) अथ याः और जिन ( गायों ) ने संवसरं समापयिष्यामः (ऊर्जा की प्राप्ति के लिए) संवत्सर को समाप्त कर देंगे— इति आसत यह सोचते हुए सत्र का सम्पादन किया तासाम् उन ( गायों ) के अश्रद्धया अश्रद्धा के कारण शृङ्गाणि प्रावर्तन्त सींगे नहीं उत्पन्न हुई। ताः एताः तूपराः वे ये गायें ( आज लोक में) सींग से रहित हैं, किन्तु ऊर्जं तु असुन्वन् बल को प्राप्त किया । तस्मादु इसी कारण ताः वे ( गायें ) सर्वान् ऋतून् प्राप्त्वा (उस अनुष्ठान में) सभी ऋतुओं को प्राप्त करके उत्तरम् उत्तिष्ठन्ति बाद में ( सत्र से ) उठीं; क्योंकि ऊर्जं हि असुन्वन् (उन्होंने ) ऊर्जा को प्राप्त किया। गावः वे गायें सर्वस्य प्रेमाणम् सभी के प्रेम और सर्वस्य चारुताम् सभी की रमणीयता को गताः प्राप्त किया । सा ० भा० – सत्रमनुतिष्ठन्तीनां गवां मध्ये शफशृङ्गार्थिनीनां दशभिर्मासै: सिद्धि-र्जाता । यासां तु गवां शृङ्गापेक्षा नास्ति, किन्तु ऊर्गपेक्षैव, तादृश्यो या गाव ऊर्जसिद्ध्यर्थं द्वादशमासात्मकं संवत्सरं समापयिष्याम इत्यभिप्रेत्य, तथैवान्वतिष्ठन्। ' तासां' गवां शृङ्गेष्व- श्रद्धया शृङ्गाणि ' प्रावर्त्तन्त' नोत्पन्नानीत्यर्थः । 'ता एता:' गावो लोके ' तूपरा:' शृङ्गरहिता दृश्यन्ते। तास्तु शृङ्गरहिता अपि सत्रानुष्ठानेन 'ऊर्ज' बलाधिक्यम् ' असुन्वन्' संपादित- वत्यः । ‘ तस्मादु’ बलाधिक्यलक्षणस्य फलस्य सद्भावादेव 'ता: ' गाव: ' सर्वानृतून्' षट्- संख्याकानपि तस्मिन् सर्वानुष्ठाने प्राप्य ' उत्तरम्' ऊर्ध्वकाले सत्रादुत्तिष्ठन्ति । 'हि' यस्माद्'ऊर्जं' बलातिशयम् ‘ असुन्वन्’ प्राप्तवत्यः, तस्माद् द्वादशमासानुष्ठानं युक्तम्। 'ताः' शृङ्गरहिता गाव: प्रहारभयाभावात्‘ सर्वस्य' जगतः 'प्रेमाणं' प्रियत्वं गताः । तथा बलाधिक्येन शरीरपुष्ट्या च ‘ सर्वस्य ' भारवहनादिकार्यस्य नेत्रदर्शनस्य चात्यन्तं 'चारुतां' रमणीयतां गताः ॥ वेदनं प्रशंसति— सर्वस्य प्रेमाणं सर्वस्य चारुतां गच्छति य एवं वेद ॥४ ॥
हिन्दी — (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वस्य प्रेमाणम् सभी लोगों के प्रेम को और सर्वस्य चारुताम् सभी लोगों की
पृष्ठ 838
पाठ पढ़ें पाठ छिपाएँ
: [७७६ ऐतरेयब्राह्मणम् १८.३ चतुर्थपञ्चिकायां रमणीयता को गच्छति प्राप्त करता है । अथादित्यानामयनमङ्गिरसामयनं च गवामयनविकृतिरूपमुभयं वक्तुं प्रस्तौति— आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वं एष्यामो वयमिति; ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः; पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु ॥ ५ ॥
हिन्दी— ( अब आदित्यायन और अङ्गिरसायन को गवामयन की विकृतिरूपता को कहने के लिए प्रस्तावित कर रहे हैं- ) आदित्याः च ह वै अङ्गिरसः च आदित्यों और अङ्गिरसों ने वयं पूर्वम् एष्यामः वयम् हम पहले प्राप्त करें, हम पहले प्राप्त करें — इति इस प्रकार स्वर्गे लोके स्वर्ग लोग की प्राप्ति के लिए अस्पर्धन्त परस्पर स्पर्धा किया । ते ह आदित्याः उन आदित्यों ने पूर्वे स्वर्गं लोकं जग्मुः पहले स्वर्गलोक को प्राप्त किया ( आदित्यों के ) षष्ठयां वै वर्षेषु पश्च एव साठ वर्षों बाद अङ्गिरसः अङ्गिराओं ने ( प्राप्त किया ) । सा० भा ० — आदित्याख्याश्च ये देवा:, ये चाङ्गिरस नामका ऋषयः, तदुभये स्वर्गे लोके परस्परं स्वर्गप्राप्तौ 'अस्पर्धन्त' अस्माकमेव प्रथमं गमनमिति आदित्याः, अङ्गिर-सोऽपि तथैव; तत्रादित्याः सहसा प्रथमं स्वर्गं प्रापुः । अङ्गिरसस्तु 'पश्चेव ' विलम्बेनैव षष्टिसंख्याकेषु वर्षेस्वतीतेषु स्वर्गं प्राप्ताः । ' वा' शब्देन पक्षान्तरं द्योत्यते । अङ्गिरसां मध्ये तत्तच्छक्त्यनुसारेण केचित् षष्टेः पूर्वं वा गता इत्यर्थः ॥ अथादित्यानामयनेऽहःक्लृप्ति विधत्ते— ( आदित्यानामयनेऽह: क्लृप्तिविधानम् ) यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः, सर्वेऽभिप्लवाः षळहा, आक्ष्यन्त्यन्याहानि; तदादित्यानामयनम् ॥ ६ ॥
हिन्दी - ( अब आदित्यायन में अहःक्लृप्ति का विधान कर रहे हैं - ) यथा वा (गवामयन में) जिस प्रकार प्रायणीयः प्रायणीय (नामक प्रथम दिन) और अतिरात्रः चतुर्विंशः उक्थः अतिरात्र ( संस्था रूप ) चतुर्विंश उक्थ्य ( नामक द्वितीय दिन ) होता है (उसी प्रकार आदित्यायन में भी होता है किन्तु ) सर्वे अभिप्लवाः षडहाः सभी अभिप्लव (नामक ) षडह अन्यानि अहानि ( प्रथम और द्वितीय दिन से) अन्य दिनों को आक्ष्यन्ति व्याप्त कर देते हैं, तद् आदित्यानाम् अयनम् यही आदित्यों का अयन है । सा० भा ० — अत्र ' वा' शब्दो न विकल्पार्थः, किंतु गवामयनप्रकारव्यावृत्त्यर्थः । गवामयने प्रायणीयाख्यं प्रथममहः, अतिरात्रसंस्थं चतुर्विंशमुक्थ्यमहर्द्वितीयम्, तदुभयं तत्र ‘ यथा’ तथैव आदित्यानामयनेऽपि; व्रत् ऊर्ध्वं विशेषोऽस्ति । सर्वेऽभिप्लवाः षडहाः पूर्वोक्ता-
पृष्ठ 839
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ७७७ भ्यां प्रथमद्वितीयाभ्यामहोभ्यामन्यानि सर्वाण्यहानि ' आक्ष्यन्ति' व्याप्तिं करिष्यन्ति। गवा-मयने त्वेकैकस्मिन् मासि चत्वार एवाभिप्लवषडहाः । अत इदं वैषम्यम्। तदिदम् ‘ आदित्यानामयनम्’॥ अथाङ्गिरसामयनस्य क्लृप्तिं दर्शयति- ( अङ्गिरसामयनेऽहः क्लृप्तिविधानम्) प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः, सर्वे पृष्ठ्याः षळहा, आक्ष्य- न्त्यन्यान्यहानि; तदङ्गिरसामयनम् ॥७ ॥
हिन्दी - ( अङ्गिरसों के अयन में क्लृप्ति को दिखला रहे हैं— ) ( अङ्गिरसों के अयन में ) प्रायणीयः अतिरात्रः चतुर्विंशः उक्थ्यः प्रायणीय, अतिरात्र, चतुर्विंश उक्थ्य और सर्वे पृष्ठयाः षडहाः सभी पृष्ठ्य षडह होते हैं । (पृष्ठ्य अभिप्लव से) अन्यानि अहानि अन्य दिनों को व्याप्त कर लेते हैं । विमर्श-( १ ) गवामयन में एक मास में चार अभिप्लव वडह होते हैं और पाँचवा पृष्ठय षडह होता है । आदित्यों के अयन में पृष्ठ्य षडह नहीं होता और अङ्गिरसों के अयन में अभिप्लव षडह नहीं होता -यही दोनों में भेद है । सा० भा ० — प्रथमद्वितीयव्यतिरिक्तानि सर्वाण्यहानि पृष्ठ्यषडहैर्व्याप्तानि इत्येता- वानत्र विशेषः । अथवा ‘ आक्ष्यन्ति' शब्दोऽहर्विशेषनामधेयम् । तथा च बौधायन आह— ‘ अभिजिद्विषुवान् विश्वजिद्दशममहर्महाव्रतमुदयनीयोऽतिरात्र इत्येतान्यक्ष्यन्ति भवन्ति' इति। तदेतद् बौधायनस्य मतम् । अन्यदपि यान्यन्यानि पृष्ठ्याभिप्लवेभ्य इति शालिकिराचार्यो मेने । यानि चान्यानि पृष्ठ्याभिप्लवेभ्यो दशमाच्चेत्यौपमन्यव इति। तथा सति प्रायणीयारम्भ- णीयाभ्यामभिप्लवषडहेभ्यश्चान्यानि यान्यहानि सन्ति, तानि ' आक्ष्यन्ति' एतन्नामकानीत्युभ- यत्र व्याख्येयम्। सर्वथाऽप्यस्त्येनयोरुभयोरपि गवामयनाद् विशेषः । गवामयने त्वेकस्मिन् मासि चत्वारोऽभिप्लवाः षडहाः, पञ्चमः पृष्ठ्यः षडहः । तथा च आश्वलायन आह— ' अथ गवामयनं सर्वकामाः । प्रायणीयचतुर्विंशे उपेत्य चतुरभिप्लवान् पृष्ठ्यपञ्चमान् पञ्च मासानु- पयन्ति' ' इति। आदित्यानामयने पृष्ठ्यः षडहो नास्ति - इति' अङ्गिरसामयनेऽभिप्लवः ( १ ) आश्व० श्रौ० ११.७.१, २। आश्वलायनो हि ' अथ गवामयनम्' इत्यारभ्य 'इति गवामयनम्'– इत्यन्तं ग्रन्थमुक्त्वापि पुनरुवाच ' सर्वे वा षडहा अभिप्लवाः स्युः' - इति ( ११.७.२१ )। ततो ज्ञायते केषाञ्चिन्नये गवामयनादित्यानामयनयोर्न षडहकृतं वैषम्यमपि त्वन्यथैवेति । तच्च वैषम्य तत्र तदुत्तरमेव स्फुटीकृतं द्रष्टव्यम् । ( २ ) ‘ गवामयनेनादित्यानामयनं व्याख्यातम्। सर्वे त्वभिप्लवांस्त्रिवृत्तत्पञ्चदशाः ' – इत्यादि आश्व० श्रौ० १२.१.१-७ । तथा च सर्वेऽभिप्लवाः पर्यायतस्त्रिवृत्पञ्चशस्तोमकृता एव तत्र भवन्तीति प्रधानं वैषम्यं द्योतितम्। ऐ.ब्रा. पू- ४ ९
पृष्ठ 840
पाठ पढ़ें पाठ छिपाएँ
: [ ७७८ ऐतरेयब्राह्मणम् १८.३ चतुर्थपञ्चिकायां षडहो नास्तीति' वैषम्यम्॥ अयनद्वयगतमभिप्लवषडहं पृष्ठ्यषडहं च दर्शयति— सा यथा स्रुतिरञ्जसायन्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवं पृष्ठ्यः. षळहः स्वर्गस्य लोकस्य; तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै, - यश्चाभिप्लवे षळहे, यश्च पृष्ठ्ये ॥८ ॥
हिन्दी— ( आदित्यों और अङ्गिरसों दोनों के अयन में अभिप्लव षडह और पृष्ठ्य षडह को दिखला रहे हैं— ) यथा जिस प्रकार ( लोक में) अञ्जसायिनी स्रुतिः ( कण्टक- पत्थरों से रहित अत एव) सम्यक् रूप गमन का साधनभूत राजमार्ग होता है एवम् उसी प्रकार स्वर्गस्य लोकस्य अभिप्लवः षडहः स्वर्ग लोक जाने के लिए अभिप्लवषडह ( सुगममार्ग रूप) है अथ और यथामहापथः पर्याणः जिस प्रकार ( लोक में एक नगर से दूसरे नगर में) जाने के लिए महापथ होता है। एवं स्वर्गस्य लोकस्य पृष्ठ्य षडहः उसी प्रकार स्वर्गलोक जाने के लिए पृष्ठ्यषडह ( महापथ रूप) है। तद् यद् उभाम्यां यन्ति तो जो ( अभिप्लव और पृष्ठ्य ) दोनों से यजन करते हैं, वे उभाभ्यामेव न रिष्यति दोनों ( मार्ग ) से जाते हुए अरिष्ट को नहीं प्राप्त करते हैं। अतः यः च अभिप्लवे षडहे अभिप्लव नामक षडह में और यः च पृष्ठ्ये जो पृष्ठ्य में (कामना होती है ) उभयोः कामयोः उपात्यै उन दोनों कामनाओं की प्राप्ति के लिए ( दोनों षडह किये जाते हैं ) । सा० भा ० — यथा लोकस्य प्रसिद्धा ' स्रुति: ' राजमार्गरूपा ‘ अञ्जसायनी' दुःखहेतूनां कण्टकपाषाणादीनामभावाद् अञ्जसा सम्यगयनस्य गमनस्य साधनभूता, एवमभिप्लवः षडहः स्वर्गस्य लोकस्य अञ्जसा प्राप्तिहेतुः । अथ पृष्ठ्यषडहस्य दृष्टान्त उच्यते,, -यथा लोके ‘ महापथः ' प्रौढमार्गः नगरद्वयमध्यवर्ती 'पर्याण: ' परितोऽयनस्य गमनस्य साधनभूतः, नगरसमीपेऽरण्यपर्वताद्यभावाद् यस्यां दिशि गन्तुमपेक्षा तत्र गन्तुं शक्यते, एवमयं पृष्ठ्यः षड़हः स्वर्गस्य लोकस्य प्राप्तिहेतुः । तथा सत्यनयोरुभयोः ' उभाभ्यां ' षडहाभ्यां यन्तीति यदस्ति, तेन ‘ उभाभ्यां’ पादद्वयस्थानीयाभ्यां ' यन्' गच्छन् पुरुषो ' न रिष्यति' न विनश्यति, योऽभिप्लवे कामोऽस्ति, यश्च पृष्ठ्यषडहे; तयोरुभयोः कामयोः प्राप्त्यै षडहद्वयं संपद्यते' ॥ ( १ ) ‘ आदित्यानामयनेनाङ्गिरसामयनं व्याख्यातम्। त्रिवृतस्त्वभिप्लवाः सर्वे' – इत्यादि आश्व० श्रौ० १२.२.१-६ । तथा चात्र सर्व एवाभिप्लवास्त्रिवृदेकसाध्या इति प्रधानं वैषम्यम्। ( २ ) 'स्वर्ग लोकभ्यप्लवन्त, यदभ्यप्लवन्त तस्मादभिप्लवाः' -इति शत ० ब्रा० १२.२.२.१० । ( ३ ) स्वर्ग लोकमस्पृशंस्तस्मात् पृष्ठ्यः' - इति शत ० ब्रा ० १२.२.२.११ । ( ४ ) ‘ गावो वै सत्रमासत’– इत्याख्यायिका सामयजुषोरपि प्राय एवमेव ता०ब्रा० ४.१; तै० सं० ७.५.१ । ‘ स्तुतयो ह्येताः सत्रस्य' – इत्यादि जै० सू० १.१.३२ शाबरभा ० ।