ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 841–850
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 841–850
पृष्ठ 841
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ७७९ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( अष्टादशाध्याये ) तृतीयः खण्डः ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टादश अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा० भा ० — इत्थं गवामयनमादित्यानामयनमङ्गिरसामयनं चैते संवत्सरसत्रविशेषा उक्ताः। तत्र सर्वत्र पूर्वोत्तरयोर्मासषट्कयोर्मध्यवर्ति यत्प्रधानमहरस्ति, तदेतत् विधत्ते— ( विषुवन्नामकस्याह्नो विधानम् ) एकविंशमेतदहरुपयन्ति विषुवन्तं मध्ये संवत्सरस्य ॥ १ ॥
हिन्दी– ( अब गवामयन, आदित्यों के अयन और अङ्गिरसों के अयन वाले संवत्सर सत्र विशेषों में सर्वत्र पूर्ववर्ती और परवर्ती षड्मासों में प्रधान अहः का विधान कर रहे हैं— ) संवत्सरस्य संवत्सर सत्र ( पहले षड्मास और बाद वाले षड्मास) के मध्य में विषुवन्तम् विषुवन्त नामक एतद् एकविंशम् अहः इस एकविंश दिन का उपयन्ति सम्पादन करते हैं । सा० भा० –-छन्दोगब्राह्मणे - ' सप्तभ्यो हिङ्करोति' — इत्यादिना विहितो योऽय-मेकविंशः स्तोमः, तेनैव स्तोमेनास्य सर्वस्तोत्रप्रवृत्तोरिदमहः ‘ एकविंशम्’.इत्युच्यते । तत्र विषुवन्नामकम्, संवत्सरसत्रस्य ये पूर्वे षण्मासाः, ये चोत्तरे, तयोर्मासषट्कयोरुभयतो वर्तमानयोर्मध्ये तदेतदहरनुष्ठेयम्। एतच्च नोभयोर्मासषट्कयोरन्तर्भवति। किंत्वतिरिक्त-मेकम्। तथा च आश्वलायन आह— 'अथ विषुवानेकविंशो न पूर्वस्य पक्षसो नोत्तरस्येति ॥ तदेतदहः प्रशंसति— ( विषुवदह्नप्रशंसनम् ) एतेन वै देवा एकविंशेनादित्यं स्वर्गाय लोकायोदयच्छन् ॥ २ ॥
हिन्दी—( इस दिन की प्रशंसा कर रहे हैं - ) देवाः देवताओं एतेन एकविंशेन इस एकविंश के द्वारा आदित्यम् आदित्य को स्वर्णाय लोकाय स्वर्ग लोक के लिए उदयच्छन् ऊपर उठाया । सा० भा ० -– पुरा देवा: ' एतेन' अह्ना स्वर्गलोकाख्यम् ' आदित्यमुदयच्छन्’ इत ( ) - ( ) १ ता०ब्रा० २.१४ १७ ख० । २ आश्व० श्रौ० ११.७.७.८ ।
पृष्ठ 842
पाठ पढ़ें पाठ छिपाएँ
: [ ७८० ऐतरेयब्राह्मणम् १८.४ चतुर्थपञ्चिकायां ऊर्ध्वं प्रापितवन्तः । तथा च शाखान्तरे पठ्यते- 'एकविंश एष भवति। एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्गं लोकमारोहयन् " इति॥ आदित्यस्य तेनाह्रा साम्यं दर्शयति- स एष इत एकविंश: ॥ ३ ॥
हिन्दी— ( आदित्य की उस दिन के साथ समानता को दिखला रहे हैं— ) सः एषः वह यह (आदित्य) इतः इस ( पृथिवी ) से ( आरम्भ करके ) एकविंशः (बारह मास, पाँच ऋतुओं, तीन लोक और एक सूर्य) एकविंश है । सा० भा०-— योऽयमादित्योऽस्ति, स एष 'इत:' भूलोकादारभ्य गण्यमान एक- विंशतिसंख्यापूरको भवति । तथा चान्यत्राम्नायते— ' द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’२ इति। अथवाऽत्रैव विषुवतः पुरस्तात् पश्चाच्च वक्ष्यमाणमह- र्दशकद्वयमपेक्ष्य ‘ विषुवान्’ 'एकविंश' इत्युच्यते। अस्मिन् पक्षे इदं वाक्यमुत्तरशेषत्वेन योजनीयम्॥ इदानीमुभयतो दशकद्वयं विधत्ते— ( उभयतः दशकद्वयविधानम् ) तस्य दशावस्तादहानि दिवाकीर्त्यस्य भवन्ति; दश परस्तान्, मध्य. एष एकविंश उभयतो विराजि प्रतिष्ठितः, उभयतो हि वा एष विराजि प्रतिष्ठितः; तस्मादेषोऽन्तरेमाँल्लोकान् यन् न व्यथते ॥४ ॥
हिन्दी- ( अब दोनों ओर से दो दशकों का विधान कर रहे हैं- ) तस्य दिवाकीर्त्यस्य उस दिवाकीर्त्य ( विषुवत के दिन कहे जाने वाले मन्त्र ) के अवस्तात् अधो भाग में दश अहानि दश दिन और परस्ताद् दश ऊर्ध्व भाग में दश दिन भवन्ति होते हैं। मध्ये एकविंशः दोनों ( दशक ) में मध्य में एकविंश (विषुवान्) होता है। इस प्रकार उभयतः विराजि प्रतिष्ठितः यह दोनों ओर से विराट् के मध्य में प्रतिष्ठित होता है; क्योंकि एषः हि यह उभयतः विराजि वै प्रतिष्ठितः दोनों ओर से विराट् के मध्य में है। तस्मात् इसी कारण इमान् लोकान् अन्तः इन लोकों के मध्य में एषः यह यन् गमन करता हुआ ( आदित्य) न व्यथते व्यथित नहीं होता है । सा ० भा० — दिवैव कीर्तनीयं मन्त्रजातं यस्मिन् विषुवत्यहनि तदहः ‘दिवाकीर्त्यम्’ । तस्याह्नः ‘ अवस्तात्’ अधोभागे दशाहानि भवन्ति। ' परस्तात्' ऊर्ध्वभागेऽपि दशाहानि भवन्ति । तयोर्दशकयोर्मध्य ‘एष एकविंशः ' विषुवान् वर्तते । ' तस्य’ विषुवतः ‘ अधस्तात् ( १ ) तै० ब्रा० १.२.४.१ । 'एष एवैकविशो च एष तपति'– इति च शत ० ब्रा० १.३.५.११। (२ ) तै० सं० ५.१.१०.३ ।
पृष्ठ 843
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ७८१ पूर्वपक्षे षष्ठे मासे 'स्वरसामानः ' अहर्विशेषास्त्रयः, तेभ्यः पूर्वमभिजिदाख्यमेकाहः, पूर्व पृष्ठ्यः षडह इति 'दशाहानि। विषुवदूर्ध्वं तु प्रत्यवरोहक्रमेण त्रयः स्वरसामानः, ततो विश्वजिदाख्यमेकाहः, तत ऊर्ध्वं पृष्ठ्यः षडह इति 'दश: ' अहानि । एवमुभयोः पार्श्वयोरह्वां दशसंख्योपेतत्वात् विराट्त्वम्, एतस्यामुभयतोऽवस्थितायां 'विराजि' अयमेकविंशः प्रति- ष्ठितः । यथोक्तगणनया विराजि प्रतिष्ठामेव 'हि' शब्दोपेतेन वाक्येन स्पष्टीकरोति।' ' तस्मात्’ उभयतो विराड्वयेन रक्षितत्वात्' एषः ' आदित्यो विषुवदहः स्थानीयः । 'इमाँल्लोकानन्तरा' एषां लोकानां सर्वेषां मध्ये ' यन्' गच्छन्नपि 'न व्यथते' व्यथां न प्राप्नोति। विषुवानप्येकविंश आदित्योऽप्येकविंशः, तस्मादुभयोरेकत्वे सति विषुवतो यद्विराद्द्वयोपेतत्वम्' 'तदेवा-दित्यस्योभयतोविराट्त्वं भवति। आदित्यस्य व्यथाराहित्ये विषुवतो वैकल्यराहित्यं सिध्यति। अथवा विषुवतो यथा विराड्वयमुभयतो रक्षकम्, एवमादित्यस्याप्यधस्तादुपरिष्टाच्च वर्तमानं लोकद्वयम्। एतदेवाभिप्रेत्य शाखान्तरे श्रूयते— 'तस्मादन्तरेमौ लोको यन् सर्वेषु सुवर्गेषु लोकेषु अभितपन्नेति' ' इति॥ अथ विषुवत उभयतः समीपवर्तिनः स्वरसामाख्यानहर्विशेषान् प्रशंसति- ( स्वरसामाख्यहविर्विशेषप्रशंसनम् ) तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं त्रिभिः ' स्वर्गैर्लोकैरवस्तात् प्रत्युत्तभ्नुवन् स्तोमा वै त्रयः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैः परस्तात् प्रत्यस्तभ्नुवन् स्तोमा वै त्रयः स्वर्गा लोकास्तत्त्रयोऽवस्तात् सप्तदशः भवन्ति, त्रयः परस्तान्मध्य एष एकविंश, उभयतः स्वरसामभिर्धृत, उभयतो हि वा एष स्वरसामभिर्धृतस्तस्मादेषोऽन्तरेमाँल्लोकान् यन्न व्यथते ॥५॥
हिन्दी - ( अब विषुवत् के दोनों ओर समीपवर्ती स्वरसाम नामक अह - विशेषों की प्रशंसा कर रहे हैं— ) तस्य आदित्यस्य उस आदित्य के स्वर्गात् लोकाद् अवपातात् स्वर्ग लोक से गिरने के भय से देवाः अबिभयुः देवता लोग भयभीत हो गये। तब त्रिभिस्वर्गैः लोकैः तीन स्वर्ग लोकों द्वारा तम् उस (आदित्य ) को अवस्तात् प्रत्युत्तभ्नुवन् नीचे से आधार बना दिया। स्तोमाः वै त्रयः स्वर्गाः लोकाः स्तोम ही तीनों स्वर्ग लोक हैं । तस्य पराचः उस ( आदित्य) के ऊपर की ओर अतिपातात् गिरने से भय से अबिभयुः वे भयभीत हो गये । तम् उस ( आदित्य) को त्रिभिः स्वर्गैः लोकैः तीन स्वर्ग लोकों से परस्तात् प्रत्यस्तभ्नुवन् ऊपर से आधार बना दिया । स्तोमाः वै त्रयः स्वर्गा ( १ ) 'विराजि हि वा एष उभयतः प्रतिष्ठितः '-इति तै० ब्रा० पाठः ( १.२.४.१ )। ( २ ) तै ०ब्रा० १.२.४.१।
पृष्ठ 844
पाठ पढ़ें पाठ छिपाएँ
: [७८२ ऐतरेयब्राह्मणम् १८.४ चतुर्थपञ्चिकायां लोकाः स्तोम ही तीनों स्वर्गलोक है। इस प्रकार त्रयः अवस्तात् तीन अधोवर्ती अहः-विशेष और त्रयः परस्तात् तीन उपरिवर्ती अहः -विशेष सप्तदशः भवन्ति सप्तदश से युक्त होते हैं । मध्ये एकविंशः मध्य में एकविंश होता है जो उभयतः दोनों ओर से स्वरसामभिः धृतः स्वरसामों द्वारा धृत होता है; क्योंकि एषः हि यह (आदित्य) उभयतः स्वरसामभिः धृतः दोनों ओर से अवस्थित स्वर (सामों द्वारा) धृत होता है । तस्मात् इसी कारण एषः यह आदित्य इमान् लोकान् अन्तः इन लोकों के मध्य में यन् गमन करता हुआ न व्यथते व्यथित नहीं होता । सा ० भा ० — योऽयमादित्योऽस्ति, 'तस्य' आदित्यस्य स्वर्गलोकात् ' अवपातः ’ आधाराभावाद् अधःपतनम्, तस्माद्देवा ' अबिभयुः ' आदित्योऽधः पतिष्यतीति भीताः सन्तः ‘ तम्’ आदित्यम् ‘ अवस्तात्' मण्डलस्याधोभागे ' त्रिभिः स्वर्गैर्लोकैः ' स्वर्गशब्दोपलक्षितै- र्भूरादिभिः ‘ प्रत्युत्तभ्नुवंन्’ अधःपातप्रतिबन्धार्थमुत्तम्भनमाधाररूपमकुर्वन्। यथा गृहगत-वंशादीनामध: पातनिवारणाय स्तम्भेनोत्तम्भनं कुर्वन्ति, तद्वदिति । वर्तमानस्यादित्यस्य यथा त्रयो लोका उत्तम्भकाः, तथैवादित्यस्थानीयस्य विषुवतोऽह्नः स्वर्गलोकसदृशास्त्रयः स्तोमा एवोत्तम्भकाः । सप्तदशस्तोमयुक्ताः स्वरसामानोऽहर्विंशेषाः स्तोमशब्देनात्र विवक्षिताः । पुनरपि देवास्तस्यादित्यस्य ‘ पराचोऽतिपातात्' मण्डलात् पराभूतेषूर्ध्ववर्तिषु लोकेषु योऽयम् ‘ अतिपातः ’ दृष्टिगोचरं देशमुल्लङ्घ्य यत्र क्वापि दूरदेशगमनम्, तस्मादतिपाताद्भीताः सन्तः ‘ परस्तात्’ आदित्यमण्डलस्योपरि त्रिभिर्जनतपः सत्यशब्दाभिधेयैः 'त्रिभिः स्वर्गैर्लोकैः ’ ‘ तम्’ आदित्यं ‘प्रत्यस्तभ्नुवन् । यथा पूर्वत्राध: पतननिवृत्त्यर्थमुत्तम्भनं कृतम्, एवमुपरि- ष्टादतिपातनिवृत्त्यर्थं ‘ प्रतिस्तम्भनं प्रतिबन्धकस्तम्भमकुर्वन् । आदित्यस्थानीयस्य तु विषु- वतोऽह्न उत्तरपक्षगताः स्तोमशब्दोपलक्षिताः स्वरसामाख्यास्त्रयोऽहर्विशेषा एव प्रतिस्त- म्भकाः । ‘तत्’ तथा सति ये विषुवतोऽह्नः ‘ अवस्तात्' अधोवर्तिनस्त्रयोऽहर्विंशेषास्ते सप्त- दशस्तोमयुक्ताः कार्याः । ये च ‘ परस्तात्’. उपरिवर्तिनस्त्रयोऽहर्विंशेषास्तेऽपि सप्तदशस्तोम- युक्ताः कार्याः । एवं च सति मध्येऽवस्थित एकविंशाख्योऽहर्विशेषः ' उभयतः ' अधस्तादु- परिष्टाच्च स्वरसामनामकैस्त्रिभिस्त्रिभिरहोभिर्धृतः । अयमेवार्थः – शाखान्तरप्रसिद्धद्योतकेन 'हि' शब्दयुक्तेन वाक्येन पुनर्दृढीकृतः । यस्मात् विषुवदह स्थानीय आदित्यः, स्वर- मसास्थानीयैरुभयतोऽवस्थितैस्त्रिभिस्त्रिभिर्लोकैर्धृतः, ‘ तस्मात् कारणादप्यादित्यः ‘ अन्तरा’ मध्येऽवस्थित इमाँल्लोकान् सर्वान् सर्वेदा ' यन्' गच्छन्नपि ' न व्यथते' व्यथां न प्राप्नोति। अत्रार्थवादेन पूर्वेषूत्तरेषु च त्रिष्वहसु सप्तदशस्तोमविधिरुन्नेयः । तथा च शाखान्तरे श्रूयते— ‘उक्थ्या एव सप्तदशाः परःसामानः कार्याः " इति। स्वरसामाख्यानामह्नामेव पर: सामेति नामान्तरम्॥ ( १ ) तै० सं ० १.२.२.१ ।
पृष्ठ 845
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ७८३ अथ विहितानेतान् पूर्वोत्तरान् सप्तदशस्तोमान् प्रकारान्तरेण पुनः प्रशंसति— तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं परमैः स्वर्गैर्लोकैरवस्तात् प्रत्युत्तभ्नुवन् स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तं परमैः स्वर्गैर्लोकः परस्तात् प्रत्यस्तभ्नुवन् स्तोमा वै परमाः स्वर्गा लोकास्तत्त्रयोऽवस्तात् सप्तदशा भवन्ति त्रयः परस्तात् ते द्वौ द्वौ संपद्य त्रयश्चतुस्त्रिंशा' भवन्ति, चतुस्त्रिंशो वै स्तोमानामुत्तमस्तेषु वा एष एतदध्याहितस्तपति तेषु हि वा एष एतदध्याहितस्तपति ॥६ ॥
हिन्दी– (इन विहित पूर्वोक्त सप्तदश स्तोमों की प्रकारान्तर से पुनः प्रशंसा कर रहे हैं— ) तस्य आदित्यस्य उस अदित्य के स्वर्गात् लोकाद् अवपातात् स्वर्ग लोक से गिरने के भय से देवाः अविभयुः देवता भयभीत हो गये। तम् उस ( आदित्य) को परमैः स्वर्गलोकैः परम स्वर्गलोक द्वारा अधस्तात् नीचे से प्रत्युत्तभ्नुवन् आधार बना दिया । स्तोमाः वै परमाः स्वर्गा लोकाः स्तोम ही परम स्वर्गलोक हैं । तस्य पराचः . अतिपाताद् अबिभयुः उस ( अदित्य ) के ऊपर की ओर पतन के भय से वे भयभीत हो गये। तम् उस ( आदित्य ) को परस्तात् ऊपर से परमैः स्वर्गैर्लोकैः परम स्वर्गलोक द्वारा प्रत्यस्तभ्नुवन् आधार बना दिया। स्तोमाः वै परमाः स्वर्गाः लोकाः स्तोम ही परम स्वर्गलोक हैं। इस प्रकार त्रयः अवस्तात् तीन अधोवतीं अहः विशेष और त्रयः पर- स्तात् तीन उपरिवर्ती अहःविशेष सप्तदशः भवन्ति सप्तदश से युक्त होते हैं । ते द्वौ द्वौ सम्पद्य वे ( दोनों ओर विद्यमान) दो मिलकर त्रयश्चतुस्त्रिंशा भवन्ति तीन चतुस्त्रिंश (स्तोम) होते हैं । स्तोमानाम् स्तोमों में चतुस्त्रिंशः वै चतुस्त्रिंश (स्तोम ) ही उत्तमः उत्तम होता है। तेषु उन (स्तोमों) में अध्याहितः अवस्थित हुआ एषः यह (दृश्यमान सूर्य) तपति तपता है; क्योंकि एषः यह (दृश्यमान सूर्य) तेषु अध्याहितः उन (स्तोमों) में अवस्थित हुआ तपता है । सा० भा० - तेषु हि लोकेषु वर्तमानो य आदित्यस्तस्य स्वर्गलोकादवपातः स्यादिति देवा भीताः सन्तः, तमित्यादि पूर्ववत्। स्तोमानामादित्यस्य स्तम्भनत्वरूपं परमत्वं; तेनोभयतो वर्तमानाः षट्संख्याकाः सप्तदशस्तोमकाः द्वौ द्वौ एकीभूय त्रिसंख्याकाश्चतुस्त्रिंशस्तोमा भवन्ति। त्रिवृत् पञ्चदश- सप्तदशै -कविंश- त्रिनवत्रयस्त्रिंशाख्याश्छन्दोगैराम्नाता ये स्तोमाः सन्ति, तेषामयं चतुस्त्रिंशस्तोम उत्तमः पूर्वापेक्षयां संख्याधिक्यात्। ' तेषु ' स्तोमस्थानीये- ( १ ) ' सम्पद्यत्त्रय०’— इत्येव पाठः । तदत्र तकारस्य द्विवर्चनम् ' अनचि च - इति ( पा० सू० ८.४.४७), प्रातिशाख्यसम्मतं वेति । (२ ) ता० ब्रा० २.१-७ खण्डेषु क्रमात् द्रष्टव्याः ।
पृष्ठ 846
पाठ पढ़ें पाठ छिपाएँ
: [७८४ ऐतरेयब्राह्मणम् १८.५ चतुर्थपञ्चिकायां षूभयतः स्थितेषु स्वर्गेषु ‘ एषः ' आदित्यो ' अध्याहितः ' जगत्स्रष्टा स्थापितः सन् ‘ एतत्’ प्रत्यक्षं यथा भवति तथा ‘ तपति' संतापं करोति ' तेषु हि' - इति वाक्येन तदेव दृढीक्रियते ॥ विषुवत एवं प्रशंसामभिप्रेत्य तद्रूपत्वेनोपचरितमादित्यं पुनः प्रशंसति— स वा एष उत्तरोऽस्मात् सर्वस्माद् भूताद् भविष्यतः - सर्वमेवेदमति- रोचते यदिदं किंचोत्तरो भवति ॥७ ॥
हिन्दी - अस्मात् सर्वस्मात् भूताद् भविष्यतः इस सभी भूत और भविष्य वालों से सः एषः वै वह यह ( दृश्यमान सूर्य) ही उत्तरः उत्कृष्ट है। यद् इदं किञ्च (इस जगत् में) यह जो भी उत्तरः भवति उससे उत्कृष्ट होता है और कुछ भी है सर्वमेव इदम् अति इस सभी का अतिक्रमण करके रोचते आदित्य देदीप्यमान होता है । सा ० भा ० — योऽयमादित्योऽभिहितः, स एवैष भूताद्भविष्यतश्च ‘ सर्वस्मात्’ अस्माज्जगतः, ‘ उत्तरः ’ उत्कृष्टः - ' यदिदं किञ्च' जगदस्ति, इदं सर्वमेव, 'अति' क्रम्य ‘ रोचते ' दीप्यते; तद्वदयं विषुवानप्यन्येभ्यः सर्वेभ्योऽहोभ्य ‘ उत्तर: ’ उत्कृष्टो भवति ॥ . वेदनं प्रशंसति- यस्मादुत्तरो बुभूषति, तस्मादुत्तरो भवति य एवं वेद ॥८ ॥
हिन्दी-(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह यस्मात् जिस कारण से उत्तरः बुभूषति उत्कृष्ट होकर शोभायमान होता है तस्मात् उसी से उत्तरः भवति उत्कृष्ट होता है। सा० भा ० — एतद् वेदनादुत्कृष्टो भूत्वा प्रतिष्ठयाऽधिकं शोभते, तस्मादुत्कृष्टतरो भवति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( अष्टादशाध्याये ) चतुर्थः खण्डः ॥४॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टादश अध्याय के चतुर्थ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा ० — स्वरसामाख्येष्वहस्सु सप्तदशस्तोमाः पूर्वं विहिताः; इदानीं तान्यहानि विधत्ते— ( स्वरसामाख्यानामह्नां विधानम्) साम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्ं वै लोकान्
पृष्ठ 847
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७८५ स्वरसामभिरस्पृण्वंस्तत् स्वरसाम्नां स्वरसामत्वम्; तद्यत् स्वरसाम्न उपयन्त्येष्वेवैनं तल्लोकेष्वाभजन्ति ॥ १ ॥
हिन्दी –( स्वरसाम नामक दिनों में सप्तदशस्तोमों का विधान करके अब उन दिनों का विधान कर रहे हैं— ) स्वरसाम्नः उपयन्ति स्वरसाम से अनुष्ठान करते हैं । इमे वै लोकाः स्वरसामानः ये लोक ही स्वरसाम है। इमान् वै लोकान् इन्हीं लोकों को 'स्वरसामभिः स्वरसामों द्वारा अस्पृण्वन् प्रसन्न किया । तत् यही स्वरसाम्नां स्वरसामत्वम् स्वरसामों का स्वरसाम नाम वाला होना है । तद् यत् तो जो स्वरसाम्नः उपयन्ति स्वरसामों का सम्पादन करते हैं तत् उस ( सम्पादन ) से एषु एव लोकेषु इन्हीं लोकों में एनम् इसको आभजन्ति भोग का भागी बनाते हैं । सा० भा ० — स्वरसामाख्यान् षट्संख्याकान् अहर्विंशेषाननुतिष्ठेयुः । आदित्यस्या- धस्तादुपरिष्टाच्च वर्तमाना इम एव लोकाः स्वरसामरूपाः तस्मादनुष्ठितैरेतैः स्वरसाम- भिरिमाँल्लोकान् ‘ अस्पृण्वन्' प्रीतानकुर्वन् । तस्मादेतेषामह्नां स्वरोपेतसामवत् प्रीतिहेतुत्वात् स्वरसामेति नाम संपन्नम्। एतेषामनुष्ठातारो लोकेषु सर्वेषु ' आभजन्ति' भोगभाजो भवन्ति ॥ अथ स्वरसामभ्यः सर्वेभ्योऽधस्ताद् उपरिष्टाच्च द्वे अहनी विधत्ते— ( अभिजिदाख्यस्य विश्वजिदाख्यस्य च अह्नो विधानम् ) तेषां वै देवाः सप्तदशानां प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूहळा इंवेमे ह न प्रव्लियेरन्निति तान् सर्वैः स्तोमैरवस्तात् पर्यार्षन् सर्वैः पृष्ठैः परस्तात् तद्यदभिजित् सर्वस्तोमोऽवस्ताद् भवति विश्वजित् सर्वपृष्ठः परस्तात्, तत्सप्तदशानुभयतः पर्युषन्ति, धृत्या अप्रव्लयाय ॥ २॥
हिन्दी- (अब सभी स्वरसामों से अधोवर्ती और उपरिवर्ती दो दिनों का विधान कर रहे हैं — ) तेषां सप्तदशानाम् उन सप्तदश स्तोमों ( से युक्त स्वरसामों ) के प्रव्लयात् रूप से विशरण के भय से देवा: अबिभयुः देवता भयभीत हो गये कि समाः इव वै स्तोमाः (छः दिनों में प्रयोग किये जाने वाले ये सप्तदश) स्तोम समान होने के कारण और अविगूढाः (अन्य स्तोमों द्वारा) सुरक्षित न किये जाने के कारण न प्रव्लियेरन् कहीं विशृत (प्रच्युत) न हो जाँय तान् उन ( सप्तदश स्तोमों) को सर्वैः स्तोमैः सभी स्तोमों द्वारा अवस्तात् नीचे से और सर्वैः पृष्ठैः सभी पृष्ठों द्वारा परस्तात् ऊपर से पर्यार्षन् (उनकी रक्षा के लिए ) सभी ओर से आवेष्ठित कर दिया । तद् यत् तो जो अवस्तात् (स्वरसामों के ) अधोभाग से सर्वस्तोमः अभिजित् सभी स्तोमों से युक्त अभिजित् और परस्तात् ऊपरवर्ती भाग में सर्वपृष्ठः विश्वजित् सभी पृष्ठों से युक्त अभिजित् भवन्ति होता है, तत् वह ( अभिजित् और विश्वजित्) उभयतः सप्तदशान् दोनों ओर से सप्तदशों
पृष्ठ 848
पाठ पढ़ें पाठ छिपाएँ
: [७८६ ऐतरेयब्राह्मणम् १८.५ चतुर्थपञ्चिकायां को धृत्यै दृढ़ता के लिए और अप्रव्लयाय प्रच्युत न होने के लिए पर्वृषन्ति सुरक्षा प्रदान करते हैं । सा० भा०--ये स्वरसामानः सप्तदशस्तोमयुक्ताः ' तेषां' 'प्रव्लयात्' प्रकर्षेण विशरणाद् देवा अबिभयुः । ‘ व्ली विशरणे' इति धातोरिदं रूपम्। विशरणशङ्का कथमिति, तदुच्यते— षट्स्वहस्सु प्रयोक्तव्या एते सप्तदशस्तोमाः ' समा इव वै ' सदृश एव; तस्मात् ' अवि-गूह्ळा इव' गूहस्य गोपनस्याभावाच्छिथिला एव, - एकबन्धत्वे सति नूतनत्वचमत्काराभा-वादनादरेण विशीर्णा भवन्ति। तस्मादिमे स्तोमा: 'न प्रव्लियेरन्' प्रकर्षेण विशीर्णा मा भुवन्निति विचार्य ‘ तान्’ सप्तदशस्तोमान् ‘ अवस्तात्' अधोभागे सर्वैः स्तोमैस्त्रिवृत्पञ्च-दशसप्तदशैकविंशत्रिनवत्रयस्त्रिंशाख्यैः 'पर्यार्षन्' परितो गताः, रक्षणाय परितो वेष्टनं कृत-वन्त इत्यर्थः । तथा ‘परस्तात्'’ सप्तदशस्तोमानामुनरिभागे ' सर्वैः पृष्ठे: ' रथंतर बृहद्- वैरूप- वैराज- शाक्वर- रैवतसामाख्यैः पृष्ठस्तोत्रैः ' पर्यार्षन्' । तस्मात् स्वरसाम्नाम्' अधस्तात्' पूर्व-स्मिन् दिवसे सर्वस्तोमयुक्तम् ' अभिजिद्' आख्यमहरनुष्ठेयम्। तथा तेषामुपरिष्टात् सर्वपृष्ठ-स्तोत्रयुक्तं ‘विश्वजिद्’ आख्यमहरनुष्ठेयम्। यदेतद् द्विविधमनुष्ठानं तेन सप्तदशस्तोमानुभयतः ‘ पर्युषन्ति' परिरक्षन्ति तच्च रक्षणं ' धृत्यै ' दार्व्याय ' अप्रव्लयाय' शैथिल्याभावाय संपद्यते ॥ अथ विषुवत्यहनि पञ्च सामानि विधत्ते— ( विषुवत्यहनि सामपञ्चकविधानम्) तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं पञ्चभी रश्मिभिरुदवयन्, रश्मयो वै दिवाकीर्त्यानि, महादिवाकीर्त्यं पृष्ठं भवति, विकर्णं ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्रथंतरं पवमानयो- र्भवतस्तदादित्यं पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपाताय ॥ ३ ॥
हिन्दी- ( अब विषुवत दिन में पाँच सामों को विधान कर रहे हैं- ) तस्य आदित्यस्य उस आदित्य के स्वर्गात् लोकाद् अवपातात् स्वर्गलोक से गिरने के भय से देवाः अबिभयुः देवता लोग भयभीत हो गये । तब तम् उस ( आदित्य ) को पञ्चभिः रश्मिभिः पाँच रश्मियों से उदवयन् बाँध दिया। रश्मयः वै दिवाकीर्त्यानि रश्मियाँ दिवाकीर्त्य साम हैं। महादिवाकीर्त्य पृष्ठं भवति महादिवाकीर्त्य पृष्ठ होता है, विकर्णं ब्रह्मसाम ब्राह्मणच्छंसी का साम विकर्ण भासम् अग्निष्टोमसाम भास नामक अग्निष्टोम का साम होता है । पवमानयोः बृहद्रथन्तरे भवतः दोनों बृहद् और रथन्तर साम उन ( माध्यन्दिन और आर्भव ) पवमानों में होते हैं । आदित्यम् आदित्य को पञ्चमिः रश्मिभिः पाँच रश्मियों से धृत्यै दृढ़ता के लिए और अनवपाताय अविशरण के लिए उद्वयन्ति बाँध देते हैं। स० भा० – देवाः पुनरपि 'तस्य' आदित्यस्य स्वर्गलोकादधःपातमाशङ्क्य तस्माद्
पृष्ठ 849
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७८७भीताः । यद्यपि पृथिव्यादिलोकत्रयमुत्तम्भकमुक्तं, तथाऽप्युपरि रज्जुभिरिव दृढबन्धनस्याभावादिति ततश्चलने सति पार्श्वयोः पतनमाशङ्क्यते तन्मा भूदिति देवाः तमादित्यं 'पञ्चमी रश्मिभिः ' प्रग्रहैः ' उदवयन्' ऊर्ध्वमुत्कृष्य वयनं कृतवन्तः, दृढं बद्धवन्त इत्यर्थः । ये बन्धनहेतवो रश्मयः, तत्स्थानीयानि. अस्मिन् विषुवति 'दिवाकीर्त्यानि दिवैव पठनीयानि पञ्च सामानि तेषु मध्ये महादिवाकीर्त्यनामकमेकं साम । तच्च 'विभ्राड् बृहत् पिबतु सोम्यं मधु' इत्यस्यामृच्यु-त्पन्नम्' । तत्सामयुक्तं पृष्ठस्तोत्रं कर्तव्यम् । तथा विकर्णाख्यमेकं साम, तच्च 'पृक्षस्य वृष्णो अरुषस्य नू सहः ' इत्यस्यामृच्युत्पन्नम् । तदेतद् ब्रह्मसाम कर्तव्यम्। ब्राह्मणाच्छंसिनमभि-लक्ष्य गीयमानं साम 'ब्राह्मसाम'; तथा भासाख्यामपरं साम। तदपि ' पृक्षस्य' इत्यस्या-मेवोत्पन्नम्' । तच्चाग्निष्टोमसाम कर्तव्यम्। येन साम्नाऽग्निष्टोमसंस्था समाप्यते, ' तत्' ‘ अग्निष्टोमसाम’ । बृहद्रथंतरे प्रसिद्धे भवतः । माध्यंदिनपवमानार्भवपवमानयोः कर्तव्यत्वात्। * पञ्चसामप्रयोगेण आदित्यं पञ्चभिः सामरज्जुभिरूर्ध्वं बाध्नन्ति। तच्चादित्यस्य धारणाय भवति। तेन धारणेनाधपातो न भवति ॥ अथ प्रातरनुवाकस्य चोदकप्राप्तकालं बाधितुं कालान्तरं विधत्ते— ( प्रातरनुवाकस्य चोदकप्राप्तकालान्तरविधानम् ) उदित आदित्ये प्रातरनुवाकमनुबूयात्, सर्वं ह्येवैतदहर्दिवाकीर्त्य भवति ॥४ ॥
हिन्दी– उदिते आदित्ये सूर्य के उदित होने पर प्रातरनुवाकम् अनुब्रूयात् प्रातर-नुवाक का वाचन करना चाहिए क्योंकि सर्वमेव हि एतत् अहः यह सभी अहः दिवाकीर्त्यं भवति दिवाकीर्त्य ( दिन में क्रियमाण) होता है। सा० भा ० – प्रकृतावादित्योदयात् प्रागेव प्रातरनुवाकः पठ्यते। ' अत्र तु सर्वस्याह्नो ( १ ) ऋ० १०.१७०.१ । आर०आ ० ५.२; आर० गा० ६.१.१५ महादिवाकीर्त्य ( योनिसाम ); उ० आ ० ६.३.५.१-३ तृचे ऊह्य ० गा० २.१.१२ महादिवाकीर्त्यम् ( स्तोत्रम् ) । ( २ ) ऋ० ६.८.१; 'पृक्षस्य' - इत्यस्याम् (आर०आ० २.८ ) ऋचि विकर्णं नावगम्यते, अपि तु ‘विभ्राड् बृहत्’ — इत्यस्यामेव ( आर ० आ ० ५.२ ऋचि योनिगानमुत्पन्नं आर० गा० ६.१.७ श्रूयते। ‘इन्द्र क्रतुं नः ' - इत्यत्र (उ० आ ० ६.३.६.१,२ ) प्रगाथे गीतं (ऊह्य० २.१.१७ ) स्तोत्रमेवेह विहितमिति च गम्यते; ताण्ड्यभाष्युदर्शनादितः (ता०ब्रा० ४.६.१५ सा० भा० ) । ( ३ ) आर० आ ० ३.८ ऋचि आर ० गा० ६.१.८ उ ०आ० नास्ति, तस्माद् इदं योनिसामैव स्तोत्रम्। एतदेव दशस्तोममित्युच्यते। ( ४ ) 'दिवाकीर्त्यसामा भवति' इत्यादि ( ता० ब्रा० ४.६.१२-१६ )। ( ५ ) ' महति रात्र्यामनूच्यः पुरा शकुनिवादात्' - ऐ० ब्रा० ७.५, पृ ० २६७; द्र० आश्व० श्रौ० ८.६.२ ।
पृष्ठ 850
पाठ पढ़ें पाठ छिपाएँ
: [७८८ ऐतरेयब्राह्मणम् १८.५ चतुर्थपञ्चिकायां कीर्त्यत्वसिद्ध्यर्थमुदयादूर्ध्वमनुब्रूयात्॥ सवनीयपशौ कंचिद् विशेषं विधत्ते— ( सवनीयपशौ कश्चिद्विशेषविधानम् ) सौर्यं पशुमन्यङ्गश्वेतं सवनीयस्योपालम्भ्यमालभेरन् सूर्यदेवत्यं ह्येतदहः ॥५ ॥
हिन्दी – ( सवनीय पशु के विषय में कुछ विशेष विधान कर रहे हैं - ) सवनीयस्य उपालम्भ्यम् सवनीय स्थान में लाये गये अन्यङ्गश्वेतम् अन्यवर्ण वाले चिह्न से रहित और श्वेत वर्ण वाले सौर्यं पशुम् सूर्य- सम्बन्धी पशु का आलभेरन् आलभन करना चाहिए क्योकि एतद् अहः यह दिन सूर्यदेवत्यम् सूर्य देवता से सम्बन्धित होता है । सा० भा० — सूर्यो देवता यस्य पशोः, सोऽयं ' सौर्य:'; 'न्याङ्गं' वर्णान्तरेण संपादितं चिह्नम्, तन्नास्ति यत्र सः ' अन्यङ्गः', तादृशश्चासौ श्वेतश्च सोऽयम् ' अन्यङ्गश्वेतः ' वर्णान्त-रेणामिश्रितः, सर्वश्वेत इत्यर्थः । तादृशः पशुरत्र सवनीयस्थान उपालम्भ्यः ', अतस्तमा-लभेरन् । यस्मादेतदहः सूर्यदेवत्यम्, तस्माद्युक्तः सूर्यदेवत्यः पशुः ॥ सामिधेनीषु विशेषं विधत्ते— ( सामिधेनीविषये विशेषविधानम् ) एकविंशति सामिधेनीरनुबूयात् प्रत्यक्षाब्ज्येतदहरेकविंशम् ॥ ६ ॥
हिन्दी – ( सामिधेनियों के विषय में विशेष विधान कर रहे हैं - ) एकविंशति सामिधेनी अनुब्रूयात् इक्कीस सामिधेनियों का अनुवाचन करना चाहिए; क्योंकि एतद् अहः एकविंशम् यह ( विषुवत् नामक) अहः एकविंश स्तोम से युक्त होने कारण ) प्रत्यक्षाद् एकविंशः प्रत्यक्षरूप से एकविंश है । सा ० भा ० – ‘ एतद्’ विषुवन्नामकमहरेकविंशस्तोमयुक्तत्वात् ‘ प्रत्यक्षाद्धि’ साक्षा- देव मुख्यमेवैकविशं तस्मात् सामिधेनीनामेकविंशतिसंख्या युक्ता। अत्र चोदकप्राप्ताः पञ्चदश, धाय्याः षट् संख्याका इत्येकविंशतिः । तथा च आश्वलायन आह- 'विषुवान् दिवाकीर्त्यः, उदिते प्रातरनुवाकः, ' पृथुपाजा अमर्त्य' इति षड् धाय्याः सामिधेनीनां, सौर्यः सवनीयस्योपालम्भ्यः’३ इति ॥ ( १ ) ( i ) ‘ जातवेदोन्यङ्गां’ । 'मैत्रावरुणो न्यङ्गः ' इति, ' एष वै सोमस्य न्यङ्गो यदरुणपुष्पाणि फाल्गुनानि' इति शत० ब्रा० १.८.१.१७, ४.५.१०.२ । ( ii ) ' न्यङ्गश्चिह्नमन्यवर्णः श्वेतो यस्य न विद्यते । तं सर्वश्वेतमित्यर्थ 'आङझे योनेति च नुं लभेः ' इति षड्गुरुशिष्यः । ( २ ) ‘ उपात् प्रशंसायाम्’- इति पा० सू० ७.१.६६; नुमि रूपम्। ( ३ ) आश्व० श्रौ० ८.६.१-४ /