ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 871–880
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 871–880
पृष्ठ 871
पाठ पढ़ें पाठ छिपाएँ
]:तृतीयोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ८० ९द्विविधेऽपि ‘ विश्वकर्मणि ' ' अन्ततः' संवत्सरसत्रस्यान्ते प्रतितिष्ठन्त्येव । यः पुनरेवं वेद,
सोऽपि प्रतितिष्ठति। अभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥
॥ इति श्रीमत्सायणाचार्य विरचिते माधवीये ' वेदार्थ प्रकाशे' ऐतरेयब्राह्मण- भाष्ये चतुर्थपञ्चिकायां तृतीयाध्याये अष्टमः खण्डः ॥८ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टादश अध्याय के अष्टम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश'-नामभाष्ये ऐतरेयब्राह्मणस्य चतुर्थपञ्चिकायाः तृतीयोऽध्यायः (अष्टादशोऽध्यायः ) समाप्त ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के अष्टादश अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ऐ.ब्रा.पू- ५१
पृष्ठ 872
पाठ पढ़ें पाठ छिपाएँ
अथ चतुर्थपञ्चिकायाम् चतुर्थोऽध्यायः [ अथ एकोनविंशोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम्— अभिप्लवः स्यात् षडहोऽथ मासत्र्यहोऽथ पूर्वस्वरसामनामा॥ गवां च शस्त्रस्य ततः प्रशंसा मध्ये दिवाकीर्त्यमहश्च तस्य॥ १ ॥
अथ द्वादशाहो वक्तव्यः । तदर्थमाख्यायिकामाह— ( द्वादशाहविधानार्थमाख्यायिका ) प्रजापतिरकामयत प्रजायेय भूयान् स्यामितिः स तपोऽतप्यत; स तपस्तप्त्वेमं द्वादशाहमपश्यदात्मन एवाङ्गेषु च प्राणेषु च, तमात्मान एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत; तमाहरत्; तेनायजत; ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत ॥ १ ॥
हिन्दी -( अब द्वादशाह को कहने के लिए आख्यायिका को कह रहे हैं- ) प्रजापतिः अकामयत प्रजापति ने कामना किया कि प्रजायेय मैं प्रजा उत्पन्न करूँ और भूयान् स्याम बहुत हो जाऊँ। सः तपः अतप्यत उन्होंने तपस्या किया । सः तपः तप्त्वा उन्होंने तपस्या करके आत्मनः एव अङ्गेषु प्राणेषु अपने ही अङ्गों और प्राणों में एतद् द्वादशाहम् अपश्यत् इस द्वादशाह का दर्शन किया । तम् उस (द्वादशाह ) को आत्मनः एव अङ्गेभ्यः प्राणेभ्यः च अपने ही अङ्गों से और प्राणों से द्वादशधा निरमिमीत निकाल कर बारह भागों मे विभाजित किया । तम् आहरत् उसको प्राप्त किया और तेन अजयत उससे याग किया । ततः वै तत्पश्चात् ही सः उस (प्रजापति ) ने प्रजया पशुभिः प्र अजायत प्रजा और पशुओं द्वारा प्रकृष्ट रूप से उत्पन्न हुआ। सा ० भा ० — प्रजापतिः प्रजोत्पादनेनातिप्रभूतः स्यामिति कामयत्विा, तत्साधनं निर्णेतुं चित्तैकाग्र्यलक्षणं ‘ तपः ’ कृत्वा स्वाभीष्टसाधनत्वेन स्वकीयेषु हस्तपादाद्यङ्गेषु प्राणादि- वायुषु चावस्थितं द्वादशाहं दृष्ट्वा तं स्वाङ्गेभ्यः प्राणेभ्यश्च निःसार्य द्वादशधा कृत्वा निर्मित- वान् । ततो निर्मितमाहृत्य तेनेष्ट्वा स प्रजापतिः ' अभवत्' भूतिं प्राप्तवान् । ‘ आत्मना’ स्वेनैव रूपेण सर्वाधिको भूत्वा प्रजापशुरूपेण बहुलं प्रजायत॥ वेदनं प्रशंसति-
पृष्ठ 873
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ८११ भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद ॥ २ ॥
“हिन्दी - ( इस ज्ञान की प्रशंसा कर रहे हैं— ) य एवं वेद जो इस प्रकार जानता है, वह प्रजया पशुभिः प्रजा और पशुओं द्वारा आत्मना प्रजायते अपने को समृद्ध करता है । सा० भा०--अनेनार्थवादेन द्वादशाहयागविधिरुन्नेयः । तथा च शाखान्तरे विधिः श्रूयते- 'यः कामयेत तत्प्रजायेयेति, स द्वादशरात्रेण यजेत, प्रैव जायते' इति। सोऽकामयत, -कथं नु गायत्र्या सर्वतो द्वादशाहं परिभूय सर्वा- मृद्धिमृध्नुयामिति; तं वै तेजसैव पुरस्तात् पर्यभवच्छन्दोभिर्मध्य- तोऽक्षरैरुपरिष्टाद् गायत्र्या सर्वतो, द्वादशाहं परिभूय सर्वामृद्धि- मार्नोत् ॥ ३ ॥
हिन्दी - सः अकायत् उस (प्रजापति) ने कामना किया कि कथं नु किस प्रकार गायत्र्या गायत्री के द्वारा द्वादशाहं सर्वतः परिभूय द्वादशाह को सभी ओर से व्याप्त करके सर्वाम् ऋद्धिम् ऋध्नुयाम् सम्पूर्ण समृद्धि को प्राप्त करूँ। (तब प्रजापति ने गायत्री को तीन भागों में बाँट कर) पुरस्तात् तम् सामने से उस ( द्वादशाह) को तेजसा एव तेज द्वारा ही पर्यभवत् व्याप्त कर दिया तथा मध्यतः छन्दोभिः मध्य से छन्दों द्वारा और उपरिष्टाद् अक्षरैः अन्त में अक्षरों द्वारा (व्याप्त किया ) । इस प्रकार गायत्र्या गायत्री के द्वारा सर्वतः सभी ओर से द्वादशाहं परिभूय द्वादशाह को व्याप्त करके सर्वाम् ऋद्धिम् आर्ध्वोत् सभी समृद्धियों को प्राप्त किया। सा० भा० -'सः ' प्रजापतिः पुनरेवमकामयत, –'कथं नु' केन खलु प्रकारेण, गायत्र्या सर्वतो द्वादशाहं व्याप्य, ' सर्वा ' भोग्यवस्तुसमृद्धिमाप्नुयामिति? विचार्य, गायत्र्यीं त्रेधा व्यभजत् – ध्वनिरूपं तेज एको भागः, अक्षरसंख्याऽभिव्यज्यमानं छन्दो द्वितीयो भागः, अक्षराणि तृतीयो भागः । तैस्त्रिभिर्भागैरादिमध्यावसानेषु सर्वतो द्वादशाहं गायत्र्या
व्याप्य समृद्धिं प्राप्तवान्। छन्दोभिरिति बहुवचनं पूजार्थम्॥
वेदनं प्रशंसति— सर्वामृद्धिमृध्नोति य एवं वेद ॥४ ॥
हिन्दी -( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वाम् ऋद्धिम् ऋध्नोति सभी समृद्धि को प्राप्त करता है। अथ द्वादशाहस्याहःक्लृप्तिमुपकल्पनामुखेन दर्शयति— ( उपकल्पनाद्वारा द्वादशाहः क्लप्तिकथनम् ) यो वै गायत्री पक्षिणीं चक्षुष्मती, ज्योतिष्मतीं भास्वतीं वेद, गायत्र्या
पृष्ठ 874
पाठ पढ़ें पाठ छिपाएँ
: [८१२ ऐतरेयब्राह्मणम् १ ९.१ चतुर्थपञ्चिकायां पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती; यद् द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराऽग्निष्टोमौ, ते चक्षुषी; येऽष्टौ मध्य उक्थ्याः, स आत्मा ॥५ ॥
हिन्दी -( अब द्वादशाह की क्लृप्ति को उपकल्पना द्वारा दिखला रहे हैं - ) यः जो पक्षिणीं चक्षुमतीं ज्योतिष्मतीं भास्वतीं गायत्रीम् दो पंखों से युक्त, दो नेत्रों से सम्पन्न, ज्योतिसम्पन्न शरीर वाली, प्रकाशयुक्त गायत्री को वेद जानता है, वह पक्षिण्या चक्षुमत्या ज्योतिष्मत्या भास्वत्या गायत्र्या पक्षिणी चक्षुष्मती ज्योतिष्मती और भास्वती गायत्री के द्वारा स्वर्गं लोकम् एति स्वर्गलोक को प्राप्त करता है । एषा गायत्री वै यह गायत्री ही पक्षिणी चतुष्मती ज्योतिष्मती भास्वती दो पंखों वाली, दो नेत्रों से सम्पन्न, ज्योतियुक्त शरीर वाली और प्रकाशयुक्त है। यद् द्वादशाहः जो द्वादशाह है, तस्य उस (द्वादशाह ) के यौ अमितः अतिरात्रौ जो दोनों ओर अतिरात्र हैं, तौ पक्षौ वे दोनों पङ्ख स्थानीय हैं, यौ अन्तरा अग्निष्टोमौ जो दो अन्तर्भावी अग्निष्टोम है, ते चक्षुषी वे (उसके ) दोनों नेत्र-स्थानीय है और मध्ये ये अष्टौ उक्थ्याः मध्य में जो आठ उक्थ्य हैं सः आत्मा वंह (द्वादशाह ) की आत्मा ( मध्यशरीर ) स्थानीय है। सा ० भा ० — आदिमध्यावसानेषु द्वादशाहस्य गायत्र्या व्याप्तत्वात् अभेदमभिप्रेत्य द्वादशाहमेव गायत्रीशब्देन व्यवहरति। सा च गायत्री पक्षद्वयोपेता, चक्षुर्द्वयोपेता, ज्योतिःशब्दोपलक्षितमध्यशरीरोपेता । तत एव सा 'भास्वती' प्रकाशवती । अहीनसत्राणां सर्वेषां प्रकृतित्वेन भासकत्वाद् भास्वत्त्वम्। ईदृशीं गायत्रीं यो वेद, स तामनुष्ठाय यथोक्तगुणवत्त्वविशिष्टया गायत्र्या स्वर्गं लोकं प्राप्नोति। गूढाभिप्रायेण रूपकं परिकल्प्य ' एषा वै ' इत्यादिना स्वाभिप्राय: प्रकटीक्रियते। द्वादशाह एव यथोक्तगुणविशिष्टा गायत्री तस्येत्यादिना द्वादशाहे ते गुणः प्रदर्श्यन्ते। ' तस्य' द्वादशाहस्य आद्यन्तावहर्विशेषावति- रात्रसंस्थौ । तावेव पक्षस्थानीयौ; तयोरन्तर्भाविनौ द्वितीयैकादशाहविशेषावग्निष्टोमसंस्थौ; तौ चक्षुः स्वरूपौ, ये च तृतीयमारभ्य दशमपर्यन्ता अष्टावहर्विशेषा मध्ये वर्तन्ते, ते
सर्वेऽप्युक्थ्यसंस्थाः । सोऽष्टाहसमूह 'आत्मा' मध्यशरीरम्॥
वेदनं प्रशंसति— गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद ॥ ६ ॥
हिन्दी—( इस ज्ञान की प्रशंसा कर रहे हैं ) यः एवं वेद जो इस प्रकार जानता है वह पक्षिण्या चक्षुमत्या ज्योतिष्मत्या भास्वत्या गायत्र्या पक्षिणी, चक्षुमती, ज्योतिष्मत और भास्वती गायत्री के द्वारा स्वर्गं लोकम् एति स्वर्गलोक की प्राप्त करता है ।
पृष्ठ 875
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८१३ सा ० भा० — यथोक्ताह: क्लृप्तिः आश्वलायनाचार्यै: दर्शिता – ' अथ भरतद्वादशाह इममेवैकाहं पृथक्संस्थाभिरुपेयुरतिरात्रमग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथातिरात्रम्’ ” इति॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( एकोनविंशाध्याये ) प्रथमः खण्डः ॥१॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकोनविंश अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा० भा ० - भरतद्वादशाहं विधाय व्यूढद्वादशाहं विधत्ते— ( व्यूढद्वादशाहविधानम् ) त्रयश्च वा एते त्र्यहा आदशममहरा द्वावतिरात्रौ यद् द्वादशाहः ॥ १ ॥
हिन्दी –( भरतद्वादशाह का विधान करके व्यूढ द्वादशाह का विधान कर रहे हैं— ) यद् द्वादशाहः जो (व्यूढ ) द्वादशाह है, उसके द्वौ अतिरात्रौ ( आदि और अन्त वाले दिन) दो अतिरात्र है। आदशमम् अहः दशम दिन को छोड़कर ( शेष नौ दिनों में) एते त्रयः च त्र्यहाः ये तीन त्र्यह होते हैं । सा० भा० - योऽयं व्यूढद्वादशाहोऽस्ति, सोऽयमेतादृशः, – तत्राद्यन्तौ यौ 'द्वावति- रात्रौ' प्रथमद्वादशौ', 'यच्च दशममहः, तत्परित्यज्यावशिष्टेष्वहःसु नवसंख्याकेषु ‘ त्रय- स्त्र्यहाः ' कर्तव्याः । त्रिरात्रः कश्चित्कर्मविशेषः, सोऽयं त्रिवारमावर्तनीयः । ' आ' दशमम् इत्यत्र योऽयमाकारः, स वर्जनार्थः, निपातानामनेकार्थत्वात्। यद्वा, मर्यादायामयम् आङ् भवि-ष्यति, —आद्यन्तावतिरात्रौ दशममहश्च मर्यादां कृत्वाऽवशिष्टो नवरात्रस्त्रिरावृत्तस्त्र्यहात्मक इत्यर्थः ॥ तत्र चोदकेन दीक्षादिसंख्याविकल्पः प्राप्त:, 'एका दीक्षा, तिस्रो दीक्षा:' इत्यादिविकल्पस्य प्रकृतौ श्रुतत्वात् । तं विकल्पमपवदितुं नियमविशेषं विधत्ते— द्वादशाहानि दीक्षितो भवति, यज्ञिय एव तैर्भवति ॥ २ ॥
हिन्दी- द्वादश अहानि बारह दिनों तक दीक्षित रहता है, तैः उनके द्वारा वह यज्ञियः एव भवति यज्ञ के योग्य ही हो जाता है । ( १ ) आश्व०श्री० १०.५.८-१० । ( २ ) "एका तिस्रो वा दीक्षा "- इति आश्व० श्री० ४.२.१७।
पृष्ठ 876
पाठ पढ़ें पाठ छिपाएँ
:. [८१४ ऐतरेयब्राह्मणम् १ ९.२ चतुर्थपञ्चिकायां सा ० भा० -– द्वादशसु दिनेषु दीक्षाख्यनियमेऽनुष्ठिते सति तैर्द्वादशभिर्दीक्षाविशेषैरयं पुरुष: यज्ञयोग्य एव भवति' ॥ उपसत्सु विशेषं विधत्ते— द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते ॥ ३ ॥
हिन्दी –(उपसदों के विषय में विशेष को कह रहे हैं- ) द्वादशरात्रीः उपसदः उपैति द्वादश रात्रियों में वह उपसदों का अनुष्ठान करता है। ताभिः उनके द्वारा शरीरमेव धूते शरीर को कपाता है। सा० भा ० — प्रकृतौ तिस्र एवोपसदः, ताश्चैकैकां चतुर्षु दिनेष्वावर्त्य, द्वादशसु दिनेषुपसदोऽनुष्ठिते सति ‘ ताभि: ' द्वादशभिरुपसद्भिः शरीरमेव ' धूनुते' कम्पयति, शरीर-गतमांसादिधातुशोषणेन पापक्षयो भवति। तथा च सूत्रकारेणोपसंहृतम्-'यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति' इति । उपसद्दिनेष्वस्य क्षीरमात्राहारत्वाद् भवत्येव कार्श्यम्, तदिदं सर्वं धूनुत इत्यनेन विवक्षितम् ॥ अथ द्वादशसु दिनेषु सोमाभिषवं विधत्ते --- द्वादशाहं प्रसुतः ॥४ ॥
हिन्दी - ( द्वादश दिनों में सोमाभिषव का विधान कर रहे हैं - ) द्वादशाहं प्रसुतः द्वादशाह में सोमभिषव होना चाहिए । सा० भा ० — भवेदिति शेषः । दीक्षोपसदावङ्गकर्मणी; अभिषवस्तु प्रधानकर्म॥ ' वेदनं प्रशंसति— भूत्वा, शरीरं धूत्वा, शुद्धः, पूतो देवता अप्येति य एवं वेद ॥५ ॥
हिन्दी— (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह भूत्वा (सोमाभिषव से युक्त) होकर, शरीरं धूत्वा शरीर को कँपाकर, शुद्धः अतः लोक में शुद्ध होकर पूतः परलोक में पवित्र होकर देवताः अप्येति देवताओं को प्राप्त करता है। सा ० भा ० — ‘द्वादशाहं प्रसुतः ' इति पदद्वयमनुवर्तनीयम्। वेदिता द्वादशसु दिनेषु सोमाभिषवयुक्तो भूत्वा पूर्वोक्ताभिरुपसद्भिः ' शरीरं धूत्वा' शरीरगतं पापं परित्यज्य, अत एव I ( १ ) - “ दीक्षणादिरात्रिसंख्यानेन दीक्षा:" - इति च आश्व० श्रौ० ४.२.१३ । ( २ ) “तिस्र उपसदः ” —इति आश्व० श्री० ४.२.१७। ( ३ ) द्वादशाहतापश्चितेषु यथासुत्योपसदः " -इति आश्व० श्रौ० ४.२.१५ । ( ४ ) “सुत्यमहरुत्तमम् ” – इति आश्व० श्रौ० ४.२.१७।
पृष्ठ 877
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८१५ शुद्ध इह लोके भूत्वा, परलोकेऽपि पूतः सर्वा देवताः प्राप्नोति। अथवा शुद्ध इत्यन्तो विधिवाक्यशेष पूत इत्यादिका वेदनप्रशंसा द्रष्टव्या ॥ यथोक्तदीक्षोपसत्सुत्यादिनसंख्याः प्रशंसति— षट्त्रिंशदहो वा एष य द्वादशाहः, षट्त्रिंशदक्षरा वै बृहती, 'बृहत्या वा एतदयनं य द्वादशाहो, बृहत्या वै देवा इमाँल्लोकांनाश्नुवत, -ते 'वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत, दशभिरन्तरिक्षं, दशभिर्दिवं, चतुर्भिश्चतस्त्रो दिशो, द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठन् ॥६ ॥
हिन्दी – ( पूर्वोक्त दीक्षा, उपसद् और सोमाभिषव के दिनों की संख्या की प्रशंसा कर रहे हैं— ) यः द्वादशाहः जो द्वादशाह है, एषः षट्त्रिंशदहः यह छतीस दिनों वाला होता है। षट्त्रिंशदक्षराः वै बृहती बृहती छत्तीस अक्षरों वाली होती है। यः द्वादशाहः जो द्वादशाह है एतद् बृहत्या अयनम् यह बृहती का स्थान है। बृहत्या वै देवाः बृहती के द्वारा ही देवताओं ने इमान् लोकान् अश्नुवत् इन लोकों को प्राप्त किया । ते वै उन देवताओं ने दशभिः अक्षरैः (बृहती के ) दश अक्षरों से इमं लोकम् इस लोकं को दर्शाभिः अन्तरिक्षम् दश अक्षरों से अन्तरिक्ष लोक को, दशभिः दिवम् दश ( अक्षरों) से द्युलोक को, चतुर्भिः चतस्रः दिशः चार ( अक्षरों ) से चारो दिशाओं को अश्नुवत प्राप्त किया तथा द्वाभ्यामेव अस्मिन् लोके प्रत्यतिष्ठन् दो (अक्षरों) से इस लोक में स्थान को प्राप्त किया । सा० भा ० — यो द्वादशाहोऽस्ति, एष पूर्वोक्तरीत्या षट्त्रिंशद्दिनात्मकः । बृहतीछन्दश्च षट्त्रिंशदक्षरम् । तस्माद् यो द्वादशाहोऽस्ति, एतद् बृहत्या ' अयनम्' अयनस्थानमित्यर्थः । देवाश्च बृहत्या सर्वांल्लोकान्' आश्नुवत' प्राप्नुवन्- दशभिर्दशभिरक्षरैः प्रत्येकं लोकत्रय- प्राप्तिः । चतुर्भिरक्षरैर्दिक्चतुष्टयप्राप्तिः, द्वाभ्यामक्षराभ्यामस्मिँल्लोके प्रतिष्ठां प्राप्तः। तथाविधबृहतीसाम्याद्दिनगता षट्त्रिंशत् संख्या प्रशस्ता ॥ वेदनं प्रशंसति—. प्रतितिष्ठति य एवं वेद ॥७॥
हिन्दी–( इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है, वह प्रतितिष्ठति प्रतिष्ठित हो जाता है। अत्र किञ्चिच्चोद्यमुद्भावयति— तदाहुर्यदन्यानि च्छन्दांसि वर्षीयांसि भूयोक्षरतराण्यथ कस्मादेतां बृहतीत्याचक्षत इति ॥८ ॥
. हिन्दी–(इस विषय में प्रश्न उठा रहे हैं - ) तदाहुः इस विषय में (कुछ लोग)
पृष्ठ 878
पाठ पढ़ें पाठ छिपाएँ
: [८१६ ऐतरेयब्राह्मणम् १ ९.२ चतुर्थपञ्चिकायां पूछते हैं कि अन्यानि अपि भूयोक्षरतराणि छन्दांसि वर्षीयांसि (बृहती से भी ) अन्य अधिक अक्षर वाले बड़े छन्द हैं, अथ कस्मात् तो किस कारण से एतां बृहती इत्याक्षते इस (छन्द) को बृहती कहा जाता है। सा० भा०--यस्मात् कारणाद् बृहत्या: ' अन्यान्युत्तराणि' पङ्क्तित्रिष्टुब्जगतीछन्दा-स्युत्तरोत्तरं चतुरक्षराधिकानि, अतो ' वर्षीयांसि' । तस्यैव व्याख्यानं ' भूयोऽक्षरतराणि' इति । ‘ अथ’ एवं सति पङ्क्तयादीनि च्छन्दांस्युपेक्ष्य कस्मात् कारणात् ' एतां' षट्त्रिंशदक्षरमात्र- युक्तां वैदिका बृहतीत्याचक्षते? इति चोद्यम्॥ पूर्वोक्तमेवार्थवादमुपजीव्य परिहारमाह— एतया हि देवा इमाँल्लोकानश्नुवत, - ते वै दशभिरेवाक्षरैरिमं लोक- माश्नुवत, दशभिरन्तरिक्षं, दशभिर्दिवं, चतुर्भिश्चतस्त्रो दिशो, द्वाभ्या- मेवास्मिँल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते ॥९ ॥
•हिन्दी– ( पूर्वोक्त अर्थवाद को उपजीव्य बनाकर परिहार को कह रहे हैं— ) एतया हि देवाः इस ( छन्द) के द्वारा ही देवताओं ने इमान् लोकान् अश्नुवत इन लोकों को प्राप्त किया। ते उन ( देवताओं) ने दशभिः एव अक्षरैः (इस छन्द के ) दश अक्षरों से इमं लोकम् इस ( पृथिवी) लोक को, दशभिः अन्तरिक्षम् दश ( अक्षरों ) से अन्तरिक्ष को, दशभिः दिवम् दश ( अक्षरों ) से द्युलोक को और चतुर्भिः चतस्रः दिशः चार ( अक्षरों) से चार दिशाओं को अश्नुवत प्राप्त किया तथा द्वाभ्यामेव दो ( अक्षरों) से अस्मिन् लोके प्रतितिष्ठन् इस लोक में प्रतिष्ठित हुए। तस्मात् इसी कारण एताम् इस (छन्द ) को बृहती इत्याचक्षते बृहती (नाम से ) कहा जाता है। सा० भा० -अक्षरसंख्यान्यूनत्वेऽपि लोकत्रयप्राप्तिहेतुत्वात् प्रौढत्वमभिप्रेत्य बृहतीत्यभिधानम्॥ उक्तार्थवेदनं प्रशंसति— अश्नुते यद्यत्कामयते य एवं वेद ॥ १० ॥
हिन्दी - ( पूर्वोक्त ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह यद् यत् कामयते जो जो कामना करता है, उसको अश्नुते प्राप्त करता है॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( एकोनविंशाध्याये ) द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकोनविंश अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 879
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८१७ अथ तृतीयः खण्डः सा ० भा ० — अस्मिन् कर्मणि यजनयाजनयोरधिकारिविशेषो दर्शयति- ( व्यूढद्वादशाहप्रशंसितुमाख्यायिका ) प्रजापतियज्ञो वा एष य द्वादशाहः; प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन; सोऽब्रवीद् ऋतूंश्चमसांश्च - याजयत मा द्वादशाहेनेति; ते दीक्षयित्वाऽनपक्रमं गमयित्वाऽब्रुवन् - देहिं नु नोऽथ त्वा याजयिष्याम इति; तेभ्य इषमूर्जं प्रायच्छत्; सैषोर्मृतुषु च मासेषु च निहिता; ददतं वै ते तमयाजयंस्तस्माद् ददद् याज्यः; प्रतिगृह्णन्तो वै ते तमयाजयं- स्तस्मात्प्रतिगृह्णता याज्यम् ॥ १ ॥
हिन्दी— (इस कर्म में यजन करने वाले और यजन कराने वाले अधिकारी विशेष को दिखला रहे हैं - ) यः द्वादशाह: जो द्वादशाह है, एषः प्रजापतियज्ञः यह प्रजापति का यज्ञ है। अग्रे सर्वप्रथम एतेन द्वादशाहेन इस द्वादशाह के द्वारा प्रजापतिः अयजत प्रजापति ने यजन किया था। सः ऋतून् च मासान् च अब्रवीत् उस ( प्रजापति) ने ऋतुओं और मासों (के अभिमानी देवों ) से कहा कि द्वादशाहेन मा याजयत द्वादशाह द्वारा मेरा यजन कराओ। तं दीक्षयित्वा (ऋतुओं ने और मासों के अभिमानी देवों ने ) उस (प्रजापति ) को दीक्षित करा कर और अनपक्रमं गमयित्वा अब्रुवन् ( यज्ञस्थल से) निकल कर जाने में असमर्थ करके कहा कि देहि नु नः (हे प्रजापति) हमें शीघ्र प्रदान करो तब त्वा याजयिष्यामः हम लोग तुम्हारा लिए यजन करावेंगे। तेभ्यः इषम् ऊर्ज प्रायच्छत् ( तब प्रजापति ने ) उन (ऋतुओं और मासों) के लिए अन्न और रस प्रदान किया । सा एषा उर्क् ते उन (ऋतुओं और वही यह रस ऋतुषु मासेषु ऋतुओं और मासों में निहिता निहित है । महीनों ने ) ददतं तम् देने वाले उस (प्रजापति ) का अयाजयन् यजन कराया । तस्मात् इसी प्रतिगृहणन्तः वै तेकारण ददद् याज्यः दक्षिणा देने वाले का यजन कराना चाहिए । ) तम् अयाजन् उस अयाजन् क्योंकि दक्षिणा लेते हुए उन (ऋतुओं और मासों ने (प्रजापति ) का यजन कराया था । तस्मात् इसी कारण प्रतिगृह्णता याज्यम् दक्षिणा लेने वाले द्वारा ही यजन कराया जाना चाहिए। सा० भा०--यो द्वादशाहः, स प्रजापतेर्यज्ञः । कथमिति, तदुच्यते। प्रजापतिरेव ‘ अग्रे ’ सर्वेभ्यः पूर्वमेतेन द्वादशाहेनायजत, तस्मादयं प्रजापतियज्ञ इति । तद् यजनप्रकार उच्यते-‘सः ’ प्रजापतिः वसन्ताद्यूतुदेवांश्चैत्रादिमासदेवांश्चाब्रवीत्। हे देवाः, यूयमृत्विजो भूत्वा मां द्वादशाहक्रतुना याजयतेति। ते च मासर्तुदेवा ऋत्विजो भूत्वा 'तं' प्रजापतिं दीक्षयित्वा, तत्राध्वानम् ‘ अनपक्रमं’ निर्गमनरहितं गमयित्वाऽब्रुवन्। न हि यज्ञं संकल्प्य दीक्षां कृत्वा
पृष्ठ 880
पाठ पढ़ें पाठ छिपाएँ
: [८१८ ऐतरेयब्राह्मणम् १ ९.३ चतुर्थपञ्चिकायां तदनुष्ठानमन्तरेण देवयजनदेशान्निर्गन्तुं शक्यते। हे प्रजापते, ' नु' क्षिप्रमेव 'नः ' अस्माकं ‘ देहि’ अपेक्षितं प्रयच्छ। ‘ अथ' अनन्तरं त्वां याजयिष्याम इति ऋतुभिर्मासैश्चोक्तः प्रजापतिः ‘ तेभ्य: ’ ऋतुभ्यो मासेभ्य ‘इषम्' अन्नम् 'ऊर्ज' क्षीरादिरसं प्रायच्छत्। सैषा ‘ऊर्ज्' रसरूपा, ऋतुषु च मासेषु चेदानीमपि ‘ निहिता' अतश्च स्वस्वकालोचितप्रकारेण ऋतुषु मासेषु च प्रवर्तमानेषु गोक्षीरादिबाहुल्यं भवति। ततोऽन्नपाने 'ददतं तं ' प्रजापति 'ते' ऋतवश्च मासाश्च अयाजयन् । तस्माद् ‘ददत्’ पुरुषो ‘ याज्यः ' यष्टुं योग्यः । न हि दानहीनस्याधिकारोऽस्ति। तथा ‘ ते’ मासाश्चर्तवश्च ‘प्रतिगृह्णन्तो वै ' प्रजापतिदत्ते अन्नपाने स्वीकुर्वन्तः सन्तः प्रजापतिमयाजयन् । तस्माद् इदानीमप्यृत्विजा दक्षिणां प्रतिगृह्णता ' याज्यं यजनं कर्तव्यम्॥ यजमानानामृत्विजां च वेदनं प्रशंसति– उभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ॥ २ ॥
हिन्दी— ( यजमानों और ऋत्वियों के ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं विदान् जो इस प्रकार जानने वाला यजन्ते च याजयन्ति यजन करते हैं और यजन कराते हैं वे उभये राधनुवन्ति दोनों समृद्धि को प्राप्त करते हैं । द्वादशाहे दीक्षां प्राप्नुवत्सु यजमानेषु दीक्षाप्राप्ति प्रशंसति— ( द्वादशाहे दीक्षां प्राप्तवत्सु यजमानेषु दीक्षाप्राप्तिप्रशंसा ) ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य; तेऽब्रुवन् प्रजापति याजाय नो द्वादशाहेनेति; स तथेत्यब्रवीत्; ते वै • दीक्षध्वमिति; ते पूर्वपक्षाः पूर्वेऽदीक्षन्त; ते पाप्मानमपाहत', तस्मात् ते दिवेव, -दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त, ते न तरां पाप्मानमपाहतं तस्मात् ते तम इव, -तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान् दीक्षमाणेषु पूर्वः पूर्व एव दिदीक्षिषेत् ॥ ३ ॥
हिन्दी- (द्वादशाह में दीक्षित यजमान के दीक्षा- प्राप्ति की प्रशंसा कर रहे हैं - ) द्वादशाहे प्रतिग्रह्यं: द्वादशाह में (प्रजापति से ) दक्षिणा लेकर ते इमे ऋतवः मासाः च वे ये ऋतु और महीने ( के अभिमानी देवता) गुरवः इव अमन्यत ( अपने को ) बोझिल के समान मानने लगे । ते प्रजापतिम् अब्रुवन् उन्होंने प्रजापति से कहा कि द्वादशाहेन द्वादशाह के द्वारा नः हम लोगों के लिए याजाय यजन कराओ। सः तथा इत्यब्रवीत् इस (प्रजापति ) ने कहा कि ठीक है। दीक्षध्वम् इति तुम लोग दीक्षा ग्रहण करो । ते पूर्वपक्षाः पूर्वे अदीक्षन्त उन पूर्वपक्षों ( शुक्लपक्ष के अभिमानी देवों ने ) पहले दीक्षा ग्रहण किया और ते पाप्मानन् अपाहत उन्होंने पाप को विनष्ट कर डाला । तस्मात्ते दिवा इव ( १ ) अत्र व्यत्ययेनैकवचनम्।