ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 881–890

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 881–890

पृष्ठ 881

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 881 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८१ ९इसी कारण वे दिन के समान होते हैं — दिवा इव अपहतपक्षाः ( लोक में भी ) दिन के समान विनष्ट पाप वाले पुरुष. ( पुण्यरूप तेज से ). चमत्कृत होते हैं । अपरपक्षाः अपरे अदीक्षन्त बाद वाले पक्ष ( कृष्णपक्ष के अभिमानी देवता ) बाद में दीक्षा ग्रहण किये। किन्तु ते न तरां पाप्मानम् अपाहत वे सम्पूर्ण पाप को विनष्ट नहीं कर सके। तस्मात् तमः इव इसी कारण वे अन्धकार के समान होते हैं। लोक में भी अनपहतपाप्मानः तमः इव पाप से सम्पन्न पुरुष अन्धकार के समान होते हैं । तस्मात् इसी कारण एवं विद्वान् इस प्रकार जानने वाला दीक्षमाणेषु दीक्षा ग्रहण करने वालों में पूर्व: पूर्वः एव सबसे पहले ही दिदीक्षिषेत दीक्षा प्राप्त करने की इच्छा करें । सा०भा०--ये पूर्वमृत्विक्त्वेन व्यवस्थिताः 'ऋतवश्च मासाश्च ते वा इमे' द्विविधा अपि द्वादशाहे दक्षिणां प्रतिगृह्य ' गुरव इव' पापभारगौरवेणाक्रान्ता एव वयमित्यमन्यन्त। ततस्ते पापपरिहाराय ‘ द्वादशाहेन' क्रतुना 'नः' अस्मान् याजयेति प्रजापतिमब्रुवन्। प्रजा- पतिरङ्गीकृत्य ते यूयं दीक्षां कुरुध्वमित्यब्रवीत्। तेषु मासेषु ‘पूर्वपक्षाः ' शुक्लपक्षाभिमा- निनो देवा ये सन्ति, ते ‘ पूर्वे' प्रथमभाविनः सन्तो दीक्षामकुर्व्रत। तादृशाः ‘ ते’ शुक्लपक्षाः 'दिवेव' दिवसा इव प्रकाशयुक्ताः । लोकेऽपि ' अपहतपाप्मानः ' कृष्णपक्षाभिमानिनो देवा ये सन्ति, ते तु ‘ अपरे ' पश्चात् प्रवर्तमाना दीक्षां कृतवन्तः । ते मालिन्यदोषेण पाप्मानं 'न' ‘ तरां’ अतराम् अपाहतातिशयेन विनाशं न कृतवन्तः । ' तस्मात्' कृत्स्नपापविनाशाभावात् 'ते ' कृष्णपक्षाः ' तम इव' कृष्णवर्णा दृश्यन्ते; तदीयरात्रिषु चन्द्रप्रकाशस्याभावात् । लोकेऽपि ‘ अनपहतपाप्मानः ’ पापविनाशरहिताः पुरुषाः 'तम इव हि' पापरूपान्धकारलिप्तत्वेन निन्द्या भवन्ति । ‘ तस्मात्’ कारणादेव पूर्वापरकालवैषम्यं 'विद्वान्' पुरुषो ' दीक्षमाणेषु ' यजमानेष्वेकै-`कस्मात्‘ पूर्वः पूर्व एव ' पूर्वपक्षे ' दिदीक्षिषेत' दीक्षितुमिच्छेत्॥ वेदनं प्रशंसति- अप पाप्मानं हते य एवं वेद ॥ ४ ॥

हिन्दी -( इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है, वह पापानम् अपहते पाप को विनष्ट कर देता है! यजमानपापविनाशहेतुत्वाद् ऋत्विजं प्रशंसति— ( यजमानपापविनाशहेतुत्वाद् ऋत्विजः प्रशंसनम् ) स वा अयं प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत, ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठस्त एतेऽन्योऽन्यस्मिन् प्रतिष्ठिता; एवं ह वाव स ऋत्विज प्रतितिष्ठति यो द्वादशाहेन यजते; तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन- नेदयं मयि प्रतितिष्ठादिति ॥५ ॥

पृष्ठ 882

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 882 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८२० ऐतरेयब्राह्मणम् १ ९.३ चतुर्थपञ्चिकायां हिन्दी— ( यजमान के पाप के विनाश का हेतु होने के कारण ऋत्विक् की प्रशंसा कर रहे हैं- ) सः वै अयं संवत्सरः प्रजापतिः वह यह संवत्सर रूप प्रजपति ॠतुषु च मासेषु च ऋतुओं में और मासों में प्रत्यतिष्ठत् प्रतिष्ठित हुए। ते वै इमं ऋतवः च मासाः च वे ये ऋतुएँ और मास संवत्सरं प्रजापतौ संवत्सररूप प्रजापति में प्रत्यतिष्ठन् प्रतिष्ठित हुए । ते एते वे ये अन्योन्यस्मिन् परस्पर एक दूसरे में प्रतिष्ठिताः प्रतिष्ठित हैं। यः द्वादशाहेन यजते सः जो द्वादशाह से यजन करता है, वह एवं हि ऋत्विज प्रतितिष्ठति इस प्रकार ऋत्विक् में प्रतिष्ठित होता है। तस्माद् आहुः इसी कारण लोग कहते हैं कि पापः पुरुषः पापी पुरुष द्वादशाहेन न याज्यः द्वादशाह से याग न करे; क्योंकि अयम् यह (पापी पुरुष ) मयि मुझ (ऋत्विक्) में न प्रतितिष्ठात् प्रतिष्ठित होने योग्य नहीं है । सा० भा ० — यः प्रजापतिर्द्वादशाहेनायष्ट, 'स प्रजापतिः ' संवत्सरकालात्मको भूत्वा ऋतुषु च मासेषु च ‘प्रत्यतिष्ठत्' प्रतिष्ठितोऽभवत् । तदात्र्त्विज्यबलात् प्रजापतेरुत्कर्षात् । ‘ ते वै इमे ' ऋतवश्च मासाश्च प्रजापतिरूपे संवत्सरे प्रतिष्ठिता अभवन्। प्रजापतिप्रसादेन तत्पाप-विनाशात्। ‘त एते ' प्रजापतिर्ऋतवो मासाश्चान्योन्यपापविनाशाद् अन्योन्यस्मिन् प्रतिष्ठिताः । एवमेवेदानीमपि यो द्वादशाहेन यजते, सोऽयमृत्विजि प्रतितिष्ठति । ऋत्विक्प्रसादेन यज- मानस्य पापविनाशात्। यस्मादेवं ' तस्मात्' अभिज्ञा एवमाहुः,–' पापपुरुषो द्वादशाहेन ऋत्विग्भिर्न याज्यः ' तस्य कर्मण्यात्र्त्विज्यं न कार्यमिति। 'अयं' पापो ' मयि' ऋत्विज न प्रतितिष्ठात्' सर्वथा मा प्रविशत्वेवमभिजानामीत्यभिप्रायः । द्वादशाहं प्रकारान्तरेण प्रशंसति– ( द्वादशाहयागस्य ज्येष्ठत्वेन प्रशंसनम् ) ज्येष्ठयज्ञो वा एष य द्वादशाह: - स वै देवानां ज्येष्ठो य एतेनाग्रेऽ- यजत; श्रेष्ठयज्ञो वा एष य द्वादशाहः-स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ॥६ ॥

हिन्दी—( प्रकारान्तर से द्वादशाह की प्रशंसा कर रहे हैं— ) यः द्वादशाहः जो द्वादशाह है एषः वै ज्येष्ठयज्ञः यह ज्येष्ठ यज्ञ है। अतः यः एतेन अग्रे अयजत जिसने इस ( द्वादशाह ) द्वारा पहले यजन किया किया सः वै देवानां ज्येष्ठः वह देवताओं में ज्येष्ठ हो गया। यः द्वादशाहः जो द्वादशाह है, एषः श्रेष्ठयज्ञः यह श्रेष्ठ यज्ञ है, यः एतेन अग्रे अयजत जिसने इस (द्वादशाह ) द्वारा पहले यजन किया सः वै देवानां श्रेष्ठः वह ही देवताओं में श्रेष्ठ हो गया । सा ० भा ० — यो द्वादशाहोऽस्ति, असौ ज्येष्ठस्य यज्ञः । कथमिति, तदुच्यते—यः पुमान् ‘ एतेन ’ द्वादशाहेन ‘ अग्रे' प्रथममयजत, स एव देवानां मध्ये 'ज्येष्ठः ' वयसा प्रवृद्धो

पृष्ठ 883

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 883 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८२१ भवति। किं चायं द्वादशाहः श्रेष्ठस्य यज्ञः; यः 'एतेन' प्रथममयजत, स देवेषु मध्ये गुणतः श्रेष्ठो भवति॥ एतां द्वादशाहप्रशंसामुपजीव्याधिकारिविशेषं दर्शयति— ज्येष्ठः श्रेष्ठो यजेत-कल्याणीह समा भवति; न पापः पुरुषो याज्यो द्वादशाहेन - नेदयं मयि प्रतितिष्ठादिति ॥७ ॥

हिन्दी - (द्वादशाह की उपर्युक्त प्रशंसा के आधार पर अधिकारी विशेष का विधान कर रहे हैं — ) ज्येष्ठः श्रेष्ठः यजेत ( भाइयो में ) ज्येष्ठ और (गुणों में ) श्रेष्ठ ( व्यक्ति) ही (द्वादशाह) से यजन करे। इह (जहाँ यजन किया जाता है ) वहाँ समा कल्याणी भवति संवत्सर कल्याणप्रद ( सुखकर) होता है । द्वादशाहेन पापः पुरुषः न याज्यः द्वादशाह के द्वारा पापी पुरुष यजन करने योग्य नहीं होता; क्योंकि अयम् यह ( पापी पुरुष ) मयि मुझ (ऋत्विक् ) में न इत् प्रतिष्ठात् प्रतिष्ठित होने योग्य नहीं होता। सा ० भा०– यः पुमान् भ्रातॄणां मध्ये वयसा ज्येष्ठो गुणैः श्रेष्ठश्च तादृशोऽनेन ‘ यजेत ’ । यस्मिन् देशे तथाविधकर्तृको यागः, 'इह' अस्मिन् देशे 'समा कल्याणी भवति ' संवत्सरः सर्वोपद्रवरहितः सुखकरो भवति। यस्माज्ज्येष्ठस्य श्रेष्ठस्य चाधिकारः, तस्मा- त्पापः कनिष्ठो गुणहीनश्च पुरुषो न तेन याजनीयः । ' मयि' ऋत्विजि ' अयं' पापो नैव प्रति-तिष्ठत्विति तस्यत्विजोऽभिप्रायः ॥ प्रकारान्तरेण द्वादशाहं ज्येष्ठ्यहेतुतया प्रशंसति— इन्द्राय वै देवा ज्यैष्ठ्याय श्रेष्ठ्याय नातिष्ठन्त; सोऽब्रवीद् बृहस्पतिं याजय मा द्वादशाहेनेति, तमयाजयत् ततो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त ॥८ ॥

हिन्दी —( प्रकारान्तर से ज्येष्ठ और श्रेष्ठ की हेतुता से द्वादशाह की प्रशंसा कर रहे हैं- ) देवाः देवताओं ने इन्द्राय ज्यैष्ठयाय श्रेष्ठताय न अतिष्ठन्त इन्द्र की ज्येष्ठता और श्रेष्ठता को स्वीकार नहीं करता। सः उस ( इन्द्र) ने बृहस्पतिम् अब्रवीत् बृहस्पति से कहा कि मा द्वादशाहेन याजय मेरा द्वादशाह से यजन कराओ । तम् अयाजयत् उस (इन्द्र) के लिए याग करया । ततो वै तभी से देवाः देवताओं ने तस्मै उस ( इन्द्र) को ज्यैष्ठाय श्रेष्ठाय अतिष्ठन्त ज्येष्ठता और श्रेष्ठता को स्वीकार किया । सा० भा० --इन्द्रस्य वयसा ज्येष्ठत्वं गुणैः श्रेष्ठत्वं च देवा नाङ्गीकृतवन्तः । ततः सोऽङ्गीकारो द्वादशाहेन लब्धः । वेदनं प्रशंसति- तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय, सम् अस्मिन् स्वाः श्रेष्ठतायां

पृष्ठ 884

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 884 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८२२ ऐतरेयब्राह्मणम् १ ९.३ चतुर्थपञ्चिकायां जानते य एवं वेद ॥ ९ ॥

हिन्दी— (इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है अस्मै इस (जानने वाले ) की स्वाः ज्ञाति लोग ज्यैष्ठाय श्रेष्ठाय तिष्ठन्ते ज्येष्ठता और श्रेष्ठता को स्वीकार करते हैं और अस्मिन् श्रेष्ठतायाम् इसकी श्रेष्ठता के विषय में स्वाः ज्ञातिजन सम् जानते समान मत होकर जानने वाले होते हैं ।. सा ० भा ० –- ' अस्मै' अस्य वेदितुः 'स्वा: ' ज्ञातयो 'ज्यैष्ठ्याय श्रेष्ठ्याय तिष्ठन्ते' ज्यैष्ठ्यं श्रैष्ठ्यं चाङ्गीकुर्वन्ति। किंच ' अस्मिन् वेदितरि येयं श्रेष्ठता, तस्यां ज्ञातयः 'संजानते ’ ऐकमत्यं प्राप्नुवन्ति॥ अथ व्यूह्रे द्वादशाहे प्रथमदशमद्वादशदिनव्यतिरिक्तो यो नवरात्रस्तत्र ये त्रयस्त्र्यहाः पूर्वमुक्ताः; तान् प्रशंसति— ( व्यूढे द्वादशाहे नवरात्रस्य त्रयस्त्र्यहप्रशंसनम् ) ऊर्ध्वो वै प्रथमस्त्र्यहस्तिर्यङ्मध्यमोऽर्वात्तमः; स यदूर्ध्वः । प्रथम- त्र्यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत -ऊर्ध्वा ह्येतस्य दिक्; यत्तिर्यङ्-' मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते -तिरश्चीरापो वहन्ति; तिरश्चीह्येतस्य दिक्; यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वावर्षत्यर्वाञ्चि नक्षत्रापर्वाची ह्येतस्य दिक; सम्यञ्चो वा इमे लोकाः; सम्यञ्च एते त्र्यहाः ॥१० ॥

हिन्दी– प्रथमः त्र्यहः ( नवरात्र में ) प्रथम त्र्यहः (तीन दिन ) ऊर्ध्वः वै ऊर्ध्व ( आरोहण क्रम वाले ) हैं । मध्यमः तिर्यङ् मध्यम ( तीन दिन ) तिर्यक् ( अनुक्रम और व्यतिक्रम से रहित) हैं और उत्तमः अर्वाक् उत्तम 'तीन दिन अर्वाक् ( अधोमुख क्रम वाले हैं)। प्रथमः त्र्यहः प्रथम तीन दिन (ऊर्ध्व) हैं, तस्मात् इसी कारण अग्निः ऊर्ध्वः उद्दीप्यत अग्नि ऊपर की ओर जलता है और ऊर्ध्वा एतस्य दिक् इस ( अग्नि) की दिशा ऊपर की ओर होती है । यद् मध्यमः तिर्यक् जो मध्यम (तीन दिन ) तिर्यक् होता है तस्मात् इसी कारण अयं वायुः तिर्यक् पवते यह वायु तिरछे बहती है और आपः तिरश्ची वहन्ति जल तिर्यक् बहता है एतस्य दिक् तिरश्ची इस ( वायु और) की दिशा तिर्यक् होती है । यद् उत्तमः अर्वाड् जो उत्तम ( तीन दिन) अधोमुख है तस्मात् इसी कारण असौ अर्वाङ् तपति यह ( सूर्य) अधोमुख तपता है, अर्वाङ् वर्षति ( मेघ) अधोमुख वर्षण करता है, अर्वाञ्चि नक्षत्राणि नक्षत्र नीचे की ओर चमकते हैं। एतस्य अर्वाची दिक् इस ( सूर्य इत्यादि ) की दिशा नीचे की ओर होती है। सम्यञ्चः वै इमे लोकाः ये तीनों लोक ( सुख का हेतु होने से) परस्पर मिले जुले हैं और एते त्र्यहाः सम्यञ्च ये तीनों त्र्यह भी परस्पर मिले जुले हैं । सा ० भा०– योऽयं नवरात्रे प्रथमत्र्यहः, सोऽयम् 'ऊर्ध्वो वै ' आरोहप्रकार एव।

पृष्ठ 885

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 885 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ८२३तद्यथा — गायत्रं प्रातःसवनं, त्रैष्टुभं माध्यंदिनं सवनं, जागतं तृतीयसवनमित्ययं स्वभाव-सिद्धः क्रमः, तस्य व्यत्यासभावादूर्ध्व इत्युच्यते। यस्तु मध्यमत्र्यहः सोऽयं 'तिर्यङ्' वर्तते। तद्यथा — जागतं प्रातःसवनं, गायत्रं माध्यंदिनं, त्रैष्टुभं तृतीयमित्यत्र नात्यन्तमनुक्रमो ना- प्यत्यन्तं व्युत्क्रमः । तस्मादयं तिर्यङ्। य उत्तमत्र्यहः, 'सोऽर्वाङ्' अधोमुखः । तद्यथा—--त्रैष्टुभं प्रातःसवनं, जागतं माध्यंदिनं, गायत्रं तृतीयसवनमित्येतदहरर्वाक्त्वम्। प्रथमो जागतान्तो द्वितीयस्त्रैष्टुभान्तस्तृतीयो गायत्रान्त इत्येवमूर्ध्वतिर्यक्त्वादुर्वाक्त्वानि त्रिष्वपि त्र्यहेषु द्रष्टव्यानि । यस्मात् ‘सः ’ प्रथमस्त्र्यह ऊर्ध्वस्तस्मात् तदात्मकोऽयमग्निरूर्ध्वाभिमुखो दीप्यते। 'एतस्य' चाग्नेरूर्ध्वादिक् प्रिया। मध्यस्य त्र्यहस्य तिर्यक्त्वात् तद्रूपो वायुस्तिर्यङ् वर्तते - वायुना हि प्रेरिता आपः तिरश्चीः तिर्यग्भूताः प्रवहन्ति। 'एतस्य' वायोस्तिर्यक्त्वारिश्चा दिक् प्रिया । उत्तमस्य त्र्यहस्यार्वाक्त्वात्तद्रूपः ' असौ' आदित्योऽधोमुखस्तपति, आदित्यप्रेरितः पर्ज-न्योऽधोमुखो वर्षति, – आदित्यवन्नक्षत्राण्यपि ' अर्वाञ्चि' अधोमुखानि प्रकाशन्ते । 'एतस्य ’ आदित्यस्यार्वाची दिक् प्रिया । किं चेमे त्रयो लोकास्तत्तद्वासिनां सुखहेतुत्वात् ' सम्यञ्चः ' । एते च त्र्यहाः लोकत्रयसाम्येनानुष्ठातॄणां सुखहेतुत्वात् सम्यञ्चः ॥ वेदनं प्रशंसति— सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद ॥ ११ ॥

हिन्दी- (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है अस्मै इस ( जानने वाले ) के लिए इमे लोकाः ये तीनों लोक सम्यञ्च समृद्धि के साथ श्रियै दीद्यति प्रकाशित होते हैं । ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये (एकोनविंशाध्याये ) तृतीयः खण्डः ॥२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के एकोनविंश अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा० भा ० — अथ द्वादशाहे दीक्षायाः कालविशेषं विधातुं प्रस्तौति— ( द्वादशाहे दीक्षायाः कालविशेषविधानम् ) ( तत्र प्रस्तावना ) दीक्षा वै देवेभ्योऽपाक्रामत्, तां वासन्तिकाभ्यां मासाभ्यामन्वयुञ्जत, तां वासन्तिकाभ्यां मासाभ्यां नोदाप्नुवंस्तां त्रैष्माभ्यां तां वार्षिकाभ्यां

पृष्ठ 886

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 886 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८२४ ऐतरेयब्राह्मणम् १ ९.४ चतुर्थपञ्चिकायां तां शारदाभ्यां तां हैमान्तिकाभ्यां मासाभ्यामन्वयुञ्जत, तां हैमन्तिकाभ्यां मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्यां मासाभ्यामन्वयुञ्जत; तां शैशिराभ्यां मासाभ्यामाप्नुवन् ॥ १ ॥

हिन्दी – ( अब द्वादशाह में दीक्षा के काल-विशेष का विधान करने के लिए प्रस्तावित कर रहे हैं— ) दीक्षा वै ( स्त्रीरूपा) दीक्षा देवेभ्यः अपाक्रामत् देवताओं से अपरक्त होकर निकल गयी। वासान्तिकाभ्यां मासाभ्याम् वसन्त वाले दो महीनों ( चैत्र और वैशाख से ) अनुगत ताम् उस ( दीक्षा) को अयुञ्जत पुनः प्राप्त करने की इच्छा किया किन्तु वासन्तिकाभ्यां मासाभ्याम् वासन्तिक दोनों महीनों से ताम् उस (दीक्षा) को न उद् आप्नुवन् नहीं प्राप्त सके । तब ताम् ग्रैष्माभ्याम् उस (दीक्षा ) को ग्रीष्म के दोनों महीनों से, ताम् वार्षिकाभ्याम् उसको वर्षा के दोनों महीनों से, ताम् शारदाभ्याम् उसको शरद के दोनों महीने से पुनः ताम् हैमन्तिकाभ्यां मासाभ्याम् उसको हेमन्त के दोनों महीनों से अन्वयुञ्जत प्राप्त करने की इच्छा किया किन्तु तां हैमन्तिकाभ्यां मासा-भ्याम् उसको हेमन्त के दोनों महीनों से न उद् आप्नुवन् नहीं प्राप्त कर सके । तां शैशिराभ्यां मासाभ्याम् तब उस ( दीक्षा) को शिशिर के दो महीनों से अन्वयुञ्जत जानना चाहा और तां शैशिराभ्यां मासाभ्याम् उसको शिशिर के दो महीनों से आप्नुवन् प्राप्त कर लिया। सा० भा ० — पुरा कदाचिद् ' दीक्षा ' स्त्रीमूर्तिरूपा सती देवेष्वपरक्ता, तेभ्यो देवेभ्यो निर्गता। देवाश्च ‘ वासन्तिकाभ्यां' चैत्रवैशाखमासाभ्यां ' तां ' दीक्षामनुगताभ्यां दीक्षाम् ‘ अनु’ गम्य ‘ अयुञ्जत' तद्युक्ता भवाम इत्येवमपेक्षितवन्तः । ततस्त्वरया गच्छन्तीं 'तां' दीक्षां ताभ्यां मासाभ्यामुत्कर्षेण नोदाप्नुवन्, नाप्तुमशक्नुवन्। एवं ग्रैष्म - वार्षिक- शारदेषु मासेषु यथायोगं पदान्यध्याहृत्य व्याख्येयम्। अध्याहारविवक्षां दर्शयितुमेव हैमन्तिके पर्याये संपूर्ण वाक्य-माम्नातम्। यथोक्तपञ्चर्तुगतैर्मासैस्तत्प्राप्त्यभावेऽपि शैशिरमासाभ्यां तत्प्राप्तिर्जाता॥ वेदनं प्रशंसति– आप्नोति यमीप्सति; नैनं द्विषन्नाप्नोति य एवं वेद ॥ २ ॥

हिन्दी -( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह यम् ईप्सति जिसकी कामना करता है, आप्नोति (उसको ) प्राप्त करता है तथा एनं द्विषन् न आप्नोति इसको द्वेष करने वाला ( शत्रु) नहीं प्राप्त करता है । सा ० भा० — वेदिता पुरुषः 'यं' काममाप्तुमिच्छति, तमाप्नोति। कि च ' एनं ' वेदितारं ‘द्विषन्’ वैरी न प्राप्नोति॥ इदानीं कालं विधत्ते—

पृष्ठ 887

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 887 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]: चतुर्थोऽध्यायः चतुर्थः खण्ड सायणाचार्यकृतभाष्योपेतम् ८२५ ( कालविधानम् ) तस्माद् य सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयो- दक्षेत; साक्षादेव तद्दीक्षायामागतायां दीक्षते, - प्रत्यक्षादीक्षां परि- गृह्णाति; तस्मादेतयोरेव शैशिरयोर्मासयोरागतयोर्ये चैव ग्राम्याः पशवो य चारण्या अणिमाणमेव तत्परुषिमाणं नियन्ति; दीक्षारूपमेव तदुपनिप्लवन्ते ॥ ३ ॥

हिन्दी— ( अब काल का विधान कर रहे हैं— ) तस्मात् इसी कारण यम् जिस ( व्यक्ति को ) सत्रिया दीक्षा सत्र की दीक्षा को उपनमेत् ग्रहण करना हो, उसे एतयोः एव आगतयोः शैशिरयोः मासयोः इसी शिशिर के दोनों महीनों के आने पर दीक्षेत दीक्षा ग्रहण करना चाहिए । तत् इससे साक्षाद् आगतायां दीक्षायाम् प्रत्यक्ष रूप से प्राप्त दीक्षा में दीक्षते दीक्षित होता है। प्रत्यक्षाद् दीक्षां परिगृह्णाति प्रत्यक्षरूप से दीक्षा को ग्रहण करता है । तस्मात् इसी कारण एतयोः एव शैशिरयोः इन्ही शिशिर के दोनों महीनों के आने पर ये च ग्राम्याः पशवः ये च आरण्याः जो ग्रामीण और जो अरण्य पशु हैं वे अणिमाणमेव तत्परुषिमाणम् कृशता और रूढ़िता को प्राप्त करते हैं । तद् दीक्षारूपम् एव उपनिप्लवन्ते इस प्रकार दीक्षा (ग्रहण करने वाले के ) रूप को ( प्राप्त करके ) विचरण करते हैं । सा० भा ० — यस्माच्छैशिराभ्यां मासाभ्यां देवानां दीक्षाप्राप्तिः, ' तस्माद्' ' यं' पुरुषं द्वादशाहादिसत्रसम्बन्धिनी दीक्षां प्राप्नुयात्। दीक्षां तत्र करिष्यामीति यस्येच्छा जायते, स पुमान्' एतयोरेव ' शिशिरसम्बन्धिमाघफाल्गुनयोर्मासयोः प्राप्तयोः सतो: दीक्षां कुर्यात् । तथा सति दीक्षायां साक्षादेवागतायां बलात्कारमन्तरेण स्वप्रिये काले स्वमेव 'समागतायां ' सत्यामयं दीक्षितो भवति । अतः 'प्रत्यक्षात्' प्रत्यक्षेण दृश्यमानामिव मुख्यां दीक्षां परि- गृह्णाति। यस्मादुक्तमासद्वयागमे दीक्षां, ' तस्मात्' तयोर्मासयोरागतयोः सतोः ग्राम्य: ' गवादि-पशवः, ‘ आरण्याः ’ द्विखुरादिपशवश्च ' अणिमाणं' कृशत्वं ' परुषिमाणं' पारुष्यं च ' नियन्ति' नितरां प्राप्नुवन्ति। वर्षाशरद्धेमन्तेष्वृतुषु संतापराहित्यात् सर्वत्र हरिततृणं भक्षयित्वा पंशवः पुष्टाङ्गाः स्निग्धाश्चावभासन्ते । शैशिरे तु ऋतौ तृणस्य शोषणोपक्रमत्वात् सपूर्णभक्षणा-भावेन पशवः कृशा भवन्ति। अत एवास्थिदर्शनात् परुषा दृश्यन्ते । एतच्च युक्तमेव। ' तत्' तस्मिञ्शिशिरर्तौ दीक्षारूपमेवोपेत्य नितरां 'प्लवन्ते' संचरन्ति। दीक्षितोऽपि नियमविशेषे

पीडितः कृशः परुषश्च भवति। अतः पशूनां कृशत्वं पारुष्यं च दीक्षाकाललिङ्गम्॥

दीक्षार्थिनः कंचित्पशुं विधत्ते— ( दीक्षार्थिनः प्राजापत्यपश्वालम्भनविधानम् ) स पुरस्ताद्दीक्षायां प्राजापत्यं पशुमालभते ॥४ ॥

ऐ.ब्रा.पू- ५२

पृष्ठ 888

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 888 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८२६ ऐतरेयब्राह्मणम् १ ९.४ चतुर्थपञ्चिकायां हिन्दी— ( दीक्षा के लिए पशुविशेष का विधान कर रहे हैं— ) दीक्षायां पुरस्तात् दीक्षा में पहले सः वह ( दीक्षा ग्रहण करने वाला) प्राजापत्यं पशुम् आलभ प्रजाति से सम्बन्धित पशु का आलभन करता है । सा ० भा ० — यो दीक्षां वाञ्छति, 'सः ' पुमान् दीक्षोपक्रमात् पुरा प्रजापतिदेवताकं पशुमालभेत' । द्विविधो हि द्वादशाह:, – साग्निंचित्यो निरग्निचित्यश्च' । तत्राग्निचयनयुक्ते पशुरयमवगन्यव्यः ॥ सामिधेनीषु चोदकप्राप्तं पाञ्चदश्यमपवदितुं विशेषं विधत्ते— तस्य सप्तदश सामिधेनीरनुबूयात्- सप्तदशो वै प्रजापतिः, प्रजा- पतेराप्त्यै ॥ ५ ॥

हिन्दी– तस्य सप्तदशं सामिधेनीः अनुब्रूयात् उसके लिए सत्रह सामिधेनी. (ऋचाओं) का अनुवाचन करता है; क्योंकि सप्तदशः वै प्रजापतिः सत्रह प्रजापति हैं । यह प्रजापतेः आप्त्यै प्रजापति की प्रप्ति के लिए (यह सत्रह संख्या होती है ) । स० भा० - द्वयोर्धाय्यायोः प्रक्षेपेण सप्तदशसंख्या संपद्यते। सप्तदशत्वं ' द्वादश-मासाः ' इत्यादिना पूर्वमेवोक्तम् । अतः सप्तदशसंख्या प्रजापतेः प्राप्त्यै संपद्यते ॥ आप्रीयाज्यासु विशेषं विधत्ते— ( आप्रीयाज्यासु विशेषविधानम् ) तस्याप्रियो जामदग्न्यो भवति ॥ ६ ॥

हिन्दी- ( आप्री याज्याओं में विशेष विधान कर रहे हैं- तस्य आप्रियः जामदग्यः भवति उसकी आप्री ऋचाएँ जमदग्नि ऋषि द्वारा दृष्ट होती हैं । सा० भा०-- पशो: प्राप्तिहेतुत्वात् प्रयाजा आप्रिय इत्युच्यन्ते। तदत्र जमदग्निना दृष्टाः ‘ समिद्धो अद्य मनुषः ’ इत्यादिसूक्ते समाम्नाताः द्रष्टव्याः * ॥ अत्र चोद्यमुद्धावयति— तदाहुर्यदन्येषु पशुषु यथा ऋष्याप्रियो भवन्त्यथ कस्माद् अस्मिन् ( १ ) अथ सप्तदश प्राजापत्यान् पशूनालभते । ते वै सर्वे तूपरा भवन्ति, सर्वे श्यामाः, सर्वे मुष्कराः तूपरोऽविषाण द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च प्रजननं वै मुष्करः - इत्यादि शत ० ब्रा० ५.१.३.७-१० । 'प्राजापत्यो वा अश्व: ' इति च शत ० ब्रा० ६.५.३.९; तै ० ब्रा० २.७.१.३; मै ० सं० ११.३८. वा० सं० २४ । ( २ ) ‘ साग्निचित्यावग्ने स्तोमौ सर्वजिद्दीक्षा' - इति कात्या० श्रौ० २२.१०.३३ । सर्वजित् स महाव्रतः संवत्सरदीक्षः ’ - इत्यादि च १.४४ । आश्व०श्री० ४.१.२१; ८.२७,१ ९ १०.१० / ( ३ ) ऋ० १०.११०.१-११। (४) निरु ० ८.२.२ - ८.३.६ ।

पृष्ठ 889

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 889 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]: चतुर्थोऽध्यायः चतुर्थः खण्ड सायणाचार्यकृतभाष्योपेतम् ८२७ सर्वेषां जामदग्न्य एवेंति ॥७ ॥

हिन्दी -( इस विषय में प्रश्न की उद्भावना कर रहे हैं - ) तदाहुः यत् इस विषय में कुछ लोग पूछते हैं कि अन्येषु पशुषु अन्य पशुयागों में यथा ऋषिः भवन्ति ( यजमान के गोत्र- प्रवर्तक) ऋषि द्वारा दृष्ट (मन्त्र) के अनुसार होते हैं, अथ कस्मात् तो किस कारण से अस्मिन् सर्वेषां जामदग्न्यः एव इस ( पशुयाग) में जमदग्नि ऋषि द्वारा दृष्ट मन्त्र ही सभी के लिए कहे गये हैं?. सा ० भा ० — उक्तप्राजापत्यपशुव्यतिरिक्तेषु सर्वेषु पशुषु ' आप्रियो यथा ऋषि भवन्ति' यस्य यजमानस्य गोत्रप्रवर्तको य ऋषिर्भवति, तमनतिक्रम्य तेन दृष्टा एवाप्रियो भवन्ति । एवं सत्यत्रापि जमदग्निगोत्रजानामेव- ' समिद्धौ अद्य' - इत्याप्रिय ऋचा युक्ताः न त्वन्येषाम्। अथैवं सति ‘ कस्मात्’ कारणाद् ' अस्मिन्' पशौ ' सर्वेषां जगदग्निगोत्रजानामन्येषां चैता एवाप्रियः क्रियन्ते इति चोद्यम्॥ तस्योत्तरमाह— सर्वरूपा वै जामदग्न्यः सर्वसमृद्धा; सर्वरूप एष पशुः सर्वसमृद्धस्तद् यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै ॥८ ॥

हिन्दी –(प्रश्न का उत्तर कह रहे हैं - ) सर्वरूपाः सर्वसमृद्धाः वै जामदग्न्यः जमदग्नि ऋषि द्वारा दृष्ट मन्त्र सभी (ऋचाएँ) सर्वरूप और सर्वसमृद्ध हैं। एषः पशुः सर्वरूपः सर्वसमृद्धः यह पशु सभी रूपों वाला और सर्वसमृद्ध है । तद् यद् जामदन्यः भवन्ति तो जो जमदग्नि ऋषि द्वारा दृष्ट ( मन्त्र ) हैं वे सर्वरूपतायै सर्वसमृद्ध्यै सर्वरूपता और सर्वसमृद्धि के लिए होती हैं । सा० भा० -जमदग्निना दृष्टा ऋचो 'जामदग्न्यः ' ' सर्वरूपा वै' सर्वासामृचां स्व- रूपभूता एव, ‘ सर्वसमृद्धाः सर्वसमृद्धिफलहेतुत्वात्। 'एषः ' प्रजापतिदेवताकः पशुरपि ‘ सर्वरूप: ’ प्रजापतेः सर्वदेवतात्मकत्वेन तदीयपशोरपि सर्वपश्वात्मकत्वम्। अतोऽयं पशुरपि सर्वफलसमृद्धिहेतुत्वात् सर्वैः फलैः समृद्धः । 'तत्' तथा सति यज्जामदग्न्यानामनुष्ठानम्, तत्सर्वानुष्ठानसिद्ध्यर्थं सर्वफलसमृद्ध्यर्थं च भवति ॥ पश्वङ्गे पशुपुरोडाशे विशेषं विधत्ते— ( पश्वङ्गेः पशुपुरोडाशे विशेषविधानम्) तस्य वायव्यः पशुपुरोळाशो भवति ॥ ९ ॥

हिन्दी -( पशु के अङ्गभूत पशुपुरोडाश के विषय में विशेष का विधान कर रहे हैं— ) तस्य वायव्यः पशुपुरोडाशः भवति उस (प्राजापत्य) पशु का वायु देवता होता है । सा ० भा ० — ‘तस्य' प्राजापत्यस्य पशोर्वायुर्देवता यस्य पुरोडाशस्य सोऽयं ‘ वायव्यः’ ॥

पृष्ठ 890

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 890 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८२८ ऐतरेयब्राह्मणम् १ ९.४ चतुर्थपञ्चिकायां अत्र चोद्यमुद्भावयति— तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद् वायव्यः पशुपुरोळाशः •क्रियत इति ॥ १० ॥

हिन्दी—(इस विषय में प्रश्न को उद्भावित कर रहे हैं — ) तदाहुः यत् इस विषय में (कुछ वैदिक ) पूछते हैं कि अन्यदेवत्यः उत पशुः भवति जब अन्य (प्रजापति) देवता से सम्बन्धित पशु होता है अथ कस्मात् तो किस कारण से वायव्यः पुरोडाशः भवति वायु देवता वाला पुरोडाश होता है? स० भा०-–‘यद्' यस्मात् कारणात् ‘ अन्यदेवत्य उत' वायुव्यतिरिक्त प्रजापति-देवताक एवायं पशुर्भवति, तस्मात् पुरोडाशोऽपि प्रजापतिदेवताक एव युक्तः । यद्देवत्यः पशुस्तद्दैवत्यः पुरोडाशः ' इत्याभिधानात् । अथैवं सति प्रजापतिं परित्यज्य ' कस्मात्' कारणात् पुरोडाशो वायुदेवताकः क्रियते: इति चोद्यम्॥ तस्योत्तरमाह— प्रजापतिर्वै यज्ञो, यज्ञस्यायातयामताया इति बूयाद्; यदु वायव्यस्तेन प्रजापतेर्नैति; वायुर्ह्येव प्रजापतिः ॥ ११ ॥

"हिन्दी-(उस प्रश्न का उत्तर कर रहे हैं - ) प्रजापतिः वै यज्ञः यज्ञ प्रजापति रूप है। यज्ञस्य आयातयामतायाः (पशुरूप यज्ञ के प्रजापति देवतात्मक होने के कारण) यज्ञ के (पशुपुरोडाशरूप हवि के एकत्व से) निःसारत्वरूप आलस्य के परिहार के लिए देवतान्तरयुक्त है— इति ब्रूयात् इस प्रकार उत्तर कहना चाहिए। यदु वायव्यः तो जो वायु देवता वाला ( पशुपुरोडाश ) है तेन प्रजापतेः न इति उससे (प्रजापति का नहीं है ) ( ऐसा नही है ); क्योंकि वायुः हि एव प्रजापतिः वायु ही प्रजापति है । सा० भा ० — पशुरूपस्य यज्ञस्य प्रजापतिदेवतात्मकत्वेन प्रजापतिरूपत्वम्। तादृश- स्यास्य यज्ञस्य पशुर्हविषि पुरोडाशे तद्देवतैक्ये सति ' यातयामत्वम्' असारत्वमालस्यकारणं भवेत्, —सति हि भेदे भिन्नदेवताकं कर्माऽऽलस्यरहितं भवति । तस्माद् ‘ अयातयामतायै’ निःसारत्वरूपालस्यपरिहाराय देवतान्तरं युक्तम् ' इति' उत्तरं ब्रूयात्। न च वायुदेवताकत्वे प्रजापतेः सकाशात् पुरोडाशोऽपगच्छतीति शङ्कनीयम्। वायुप्रजापत्योः कार्यकारणाभावे- नैकत्वे सति वायव्यस्यैव प्राजापत्यत्वात्। तदिदमुच्यते— ' यदु वायव्यस्तेन प्रजापते- नैति’ - इति । नापगच्छतीत्यर्थः ॥ वायुप्रजापत्योरेकत्वं मन्त्रसंवादेन दृढयति— तदुक्तमृषिणा - पवमानः प्रजापतिरिति ॥ १२ ॥

हिन्दी— ( वायु और प्रजापति की एकता को मन्त्र द्वारा दृढ़ कर रहे हैं— ) तदुक्तम्