ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 891–900

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 891–900

पृष्ठ 891

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 891 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:: चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ८२ ९ ऋषिणा ऋषि के द्वारा (इस वायु और प्रजापति की एकता को) कहा गया है— पवमानः प्रजापतिः वायु प्रजापति है। सा० भा०--' त्वष्टारमग्रजां गोपाम्' इत्यस्या ऋचश्चतुर्थपादे यः ‘पवमानः वायुः, स प्रजापतिरिति तादात्म्यं सामानाधिकरण्येन दर्शितम् ॥ पूर्वं भरतद्वादशाहो व्यूहळद्वादशाहश्चेति द्वौ द्वादशाहभेदावुक्तौ । प्रकारान्तरेणापि सत्ररूपोऽहीनरूपश्चेत्येवं द्विविधो द्वादशाहः । तत्र सत्रपक्षे विशेषान् विधत्ते— ( सत्रद्वादशाहविषये विशेषः ) सत्रमु चेत् संन्युप्याग्नीन् यजेरन् सर्वे दीक्षेरन् सर्वे सुनुयुर्वसन्तमभ्युदव- स्यत्यूर्वै वसन्त इषमेव तदुर्जमभ्युदवस्यति ॥ १३ ॥

हिंन्दी— ( सत्ररूप द्वादशाह के विशेषों को कह रहे हैं - ) सत्रमु चेत् यदि सत्र के रूप में (द्वादशाह का सम्पादन करे तो) अग्नीन् संन्युप्य ( यजमानों की सभी ) अग्नियों को एकत्रित करके सर्वे यजेरन् सभी मिलकर यजन करें और सर्वे दीक्षेरन् सभी मिलकर दीक्षा ग्रहण करें। सर्वे सुनुयुः सभी मिलकर सोमाभिषव करें । वसन्तम् अभ्युदवस्यति वसन्त को अभिलक्षित करके उदवसानीय (समापन वाली) इष्टि करनी चाहिए; क्योंकि वसन्तः ऊर्वै इषमेव वसन्त ही रस और इष (अन्न ) रूप है। तद् उसके (वसन्त में समापन करने से) अभ्युदवस्यति ( अन्न और रस से ही) समापन करता है। सा ० भा ० – ' सत्रमु चेत्' यद्ययं द्वादशाहः सत्ररूपो भवेत्, तदानीं सत्रस्य बहुयजमान- त्वात् सर्वेषां यजमानानामग्नीन् ' संन्युप्य' संभूयैकत्वेनावस्थाप्य, तस्मिन् सर्वे यजेरन्। यजमानत्वादेव सर्वेऽपि ‘ दीक्षेरन्' दीक्षां कुर्युः । 'य एव यजमानास्त एव ऋत्विज:' - इत्युक्तत्वेन ‘ सर्वे’ यजमानाः 'सुनुयुः ' ऋत्विक्कार्यमभिषवं कुर्युः। वसन्तर्तुमभिलक्ष्य 'उदव- स्यति' उदवसानीयां समाप्तिकालीनामिष्टिमनुतिष्ठेत्, वसन्तर्तौ समापयेदित्यर्थः । वसन्त-काले सति फलानां गृहेष्वागमनेन रसबाहुल्यात्'ऊर्वै' रस एव वसन्तः । तथा सत्येत- स्मिन्ने तत् समापनेन ‘ इषम्' अन्नम्, 'ऊर्जं' रसं वाऽभिलक्ष्य 'उदवस्यति' यजमानसंघो द्वादशाहं समापयति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये ( एकोनविंशाध्याये ) चतुर्थः खण्डः ॥४ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के एकोनविंश अध्याय के चतुर्थ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) त्वष्टारमंग्रजां गोपां पुरोयावान मा हुवे । इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥ (ऋ ० ९.५.९ )

पृष्ठ 892

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 892 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८३० ऐतरेयब्राह्मणम् १ ९.५ चतुर्थपञ्चिकायां अथ पंचमः खण्डः सा ० भा ० — अथ व्यूह्ळंद्वाशाहे यदेतद्व्यूह्ळत्वम्, तदेतत् प्रशंसितुमाख्यायिका- माह- ( व्यूढद्वादशाहे व्यूढत्वंप्रशंसनार्थमाख्यायिका ) 'छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्-गायत्री त्रिष्टुभश्च जगत्यै चायतनमभ्यधाययत्, त्रिष्टुब्गायत्र्यै च जगत्यै च, जमती गायत्र्यै च त्रिष्टुभश्च ततो वा एतं प्रजापतिर्व्यूहळच्छन्दसं द्वादशाहमपश्यत्; तामहरत्, तेनायजंत तेन स सर्वान् कामांश्छन्दांस्यगमयत् ॥ १ ॥

हिन्दी –( अब व्यूढ द्वादशाह में व्यूढत्व की प्रशंसा कर रहे हैं - ) छन्दांसि वै छन्दों ने अन्योन्यस्य आयतनम् परस्पर एक दूसरे के स्थान को अभ्यध्यायन् लेना चाहा । गायत्री गायत्री ने त्रिष्टुभः च जगत्यै च त्रिष्टुप् और जगती के आयतनम् अभ्यध्यायत् स्थान को प्राप्त करना चाहा । त्रिष्टुब् गायत्र्यै च जगत्यै च त्रिष्टुप् ने गायत्री और जगती का तथा जगती गायत्र्यै च त्रिष्टुभः च जगती ने गायत्री और त्रिष्टुप् का ( स्थान प्राप्त करना चाहा) । ततः प्रजापतिः तब प्रजापति ने एतं व्यूढच्छन्दसं द्वादशाहम् अपश्यत् इस व्यूढच्छन्द वाले द्वादशाह का दर्शन किया। तमाहरत् उसको इकट्ठा किया और तेन अजयत् उससे यजन किया तेन उससे सः उस (प्रजापति ) ने सर्वान् कामान् सभी कामनाओं को छन्दांसि अगमयत् छन्दों को प्राप्त कराया। सा० भा० — गायत्री, त्रिष्टुब्जगतीत्येतानि त्रीणि च्छन्दांसि, अन्योन्यस्यायतनम् ' अभि' आप्तुम् ‘ अध्यायन्' स्वस्वमनस्यचिन्तयन्। तेषां च त्रयाणां छन्दसां क्रमेण सवनत्रयं स्थानम्। तत्र गायत्री त्रिष्टुब्ज़गत्योः स्थाने माध्यंदिनसवनतृतीयसवने ध्यातव़ती। त्रिष्टुप्स्वस्थानव्यतिरिक्तं स्थानद्वयमभ्यध्यायत्। तथा जगत्यपि। 'ततः ' प्रजापतिश्छन्द- सामभिलाषं दृष्ट्वा, तत्सम्पादनक्रमेण 'एतं व्यूह्ळच्छन्दसं द्वादशाहमपश्यत् । स्वस्वस्थान- विपरीतत्वेनोढानि स्थानान्तरे प्रक्षिप्तानि च्छन्दांसि यस्मिन् द्वादशाहे, सोऽयं ' व्यूहळच्छन्दाः'। तादृशं द्वादशाहं दृष्ट्वा, तत्साधनान्याहृत्य, तेनेष्ट्वा, 'सः ' प्रजापतिस्तेषामपेक्षितान् स्थानविपर्यासलक्षणान् ‘ सर्वान्' ' कामान्' गायत्र्यादिच्छन्दांसि प्रापितवान्॥ वेदनं प्रशंसति— सर्वान् कामान् गच्छति य एवं वेद ॥ २ ॥

हिन्दी -( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वान् कामान् गच्छति सभी कामनाओं को प्राप्त करता है ।

पृष्ठ 893

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 893 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्या॒यः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ८३१ सा० भा ० - इदानीं व्यूहनं विधत्ते- ( व्यूढद्वादशाहे व्यूहनविधानम् ) छन्दांसि व्यूहत्ययातयामतायै ॥३ ॥

हिन्दी- ( अब व्यूहन का विधान कर रहे हैं- ) अयातयामतायै निःसाररूप आलस्य के परिहार के लिए छन्दांसि व्यूहति छन्दों को स्थानविपर्यास पूर्वक रखता है । सा० भा ० — ‘ छन्दांसि’ गायत्र्यादीनि ' व्यूहति' तत्तदायतनविपर्यासेनावस्थापयेत्। तच्च व्यूहनम् ‘ अयातयामतायै’ असारत्वप्रयुक्तालस्यपरिहाराय भवति॥ उक्तव्यूहनमनूद्य प्रशंसति— छन्दांस्येव व्यूहति; तद्यथाऽदोऽश्चैर्वाऽनळुद्धिर्वाऽन्यैरन्यैश्रान्ततरैर- श्रान्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैर- श्रान्ततरैरुपविमोकं स्वर्गं लोकं यन्ति यच्छन्दांसि व्यूहति ॥४ ॥ ·

हिन्दी - ( पूर्वोक्त व्यूहन को कह कर उसका व्याख्यान कर रहे हैं- ) छन्दांसि एव व्यूहति (गायत्री इत्यादि) छन्दों का (द्वादशाह में ) व्यूहन करता है । लोक में अदः यह ( निदर्शन ) है कि तद्यथा जिस प्रकार अश्वैः वा अनडुभिः वा अश्वों अथवा रथों से (दूर स्थान पर गमन करता हुए राजा) उपविमोकम् श्रान्त अश्वों को हटा कर अन्यैः अन्यैः अश्रान्ततरैः अश्रान्ततरैः दूसरे दूसरे अश्रान्त ( अश्वों ) से यान्ति गमन करते हैं । एवमेव उसी प्रकार यत् छन्दांसि व्यूहति जो छन्दों का व्यूहन करता है वह उपविमोकम् ( श्रान्त छन्दों को) मुक्त करके अन्यैः अन्यैः अश्रान्ततरैः अश्रा- न्ततरैः छन्दोभिः अश्रान्त अन्य अन्य छन्दों द्वारा स्वर्गं लोकं यन्ति स्वर्गलोक को प्राप्त करते हैं। सा ० भा ० — गायत्र्यादीनि ' छन्दासि' अस्मिन् द्वादशाहविशेषे ' व्यूहत्येव' न त्वत्र संदेहः कार्यः । 'तत्' तस्मिन् व्यूहने ' यथा' लोके ' अदः' निदर्शनं तन्त्र्यायो द्रष्टव्यः । किं निदर्शनमिति? तदुच्यते — ये राजानो रथमारुह्य तत्रत्यैरश्वैर्दूरदेशं गच्छन्ति, ते राजानो योजने योजने ‘ उपविमोकं’ श्रान्तानश्वान् उपविमुच्योपविमुच्य ' अन्यैरन्यैः ' पुनः पुनर्नूतनैर्दूरदेशं यान्ति। तत्रोपपत्तिः ‘ अश्रान्ततरै: ' - इति, अतिशयेन श्रमरहितैः, पौनःपुन्यं द्योतयितुं वा- वृत्तिश्च। लाङ्गले घटीयन्त्रे वा तदा तदा श्रान्तानश्वाननडुहो वा विमुच्य विमुच्य नूतनैरनडुद्भिः प्रवर्तन्त एवमेवात्रापि च्छन्दसां स्थानविपर्यासे सति स्वस्वस्थाने श्रान्तानि च्छन्दांसि पुनः पुनरुंपविमुच्य, तदा तदा नूतनैश्छन्दोभिः सत्रिणः स्वर्गं लोकं गच्छन्ति। यदा छन्दांसि व्यूहति, तदानीमेतदिति द्रष्टव्यम्॥ अथ बृहद्रथंतरसामनी उपाख्याने प्रशंसति-

पृष्ठ 894

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 894 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८३२ ऐतरेयब्राह्मणम् १ ९.५ चतुर्थपञ्चिकायां ( बृहद्रथन्तरसामप्रशंसनम्) इमौ वै लोकौ सहाऽऽस्ताम्; तौ व्यैताम्, नावर्षन्न समतपत्, ते पञ्चजना न समजानत, तौ देवाः समानयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां, रथंतेरणैवेयममूंजिन्वति, बृहताऽसाविमाम् ॥५ ॥

हिन्दी—( अब बृहद् और रथन्तर साम की उपाख्यान से प्रशंसा कर रहे हैं ) इमौ लोकौं सह आस्ताम् ये दोनों ( पृथिवीलोक और स्वर्गलोक) लोक पहले एक साथ अवस्थित थे । पुनः तौ व्येताम् वे दोनों अलग हो गये । तब न अवर्षत् न समतपत् ( द्युलोक में विद्यमान मेघ) ने न तो वर्षा किया और न ( सूर्य ) सम्यक् प्रकार से धूप किया । ते पञ्चजनाः न समजानत (इससे अन्धकाराच्छादित ) ये ( मनुष्यादि ) पञ्चजन परस्पर ( एक दूसरे) को नहीं जान पाये । तब देवाः देवताओं ने तौ उन दोनों ( लोकों ) को समनयन् परस्पर मिला दिया। संयन्तौ तौ परस्पर मिले हुए उन दोनों ( लोकों ) ने एतं देवविवाहं व्यवहेताम् इस देवविवाह (उचित विवाह) को कर लिया । रथन्तरेण इयम् रथन्तर द्वारा यह ( पृथिवी ), अमूम् उस (द्यौ) को और बृहता बृहद् द्वारा सा इमाम् वह ( द्युलोक) इस ( पृथिवी ) को जिन्वति प्रसन्न करता है । सा० भा० - 'इमौ' भूलोकस्वर्गलोकौ पूर्वस्मिन् काले ‘ सहैवास्ताम्' अत्यन्तं प्रीतियुक्तावेकत्रैवावस्थितौ । कदाचित् तावुभौ केनापि निमित्तेन ' व्यैतां' वियोगं प्राप्तवन्तौ परस्परविरोधेन सहवासं परित्यज्य दूरदेशेऽवस्थितौ । तदानीं द्युलोकवर्ती पर्जन्यो ' नावर्षत्' वृष्टिं न संपादितवान्। आदित्यश्च द्युलोकवर्ती 'न समतपत्' आतपरूपं प्रकाशं न कृतवान्। तदानीं ‘ ते पञ्चजनाः' पूर्वोक्ता: ' देवमनुष्यादयः पञ्चविधाः प्राणिनः 'न समजामत' अन्धकारग्रस्ताः सन्तः कमपि मार्गमज्ञात्वा परस्परैकमत्यरहिता अभवन्। तदानीं तादृशान् प्रणिनो दृष्ट्वा ‘ तौ’ उभौ लोकौ ‘ समनयन्' परस्परं संगति प्रापितवन्तः । 'तौ' उभौ लोकौ ' संयन्तौ' परस्परं संगमं प्राप्तवन्तौ। ‘ एतं’ परस्परोपकाररूपं ' देवविवाहं ' देवानामुचितं विवाहं ‘ व्यवहेतां’ विविधत्वेन कृतवन्तौ। लोकेऽपि विवाहो नाम परस्परविपर्यासेन सम्बन्धप्रापणम्। तथाहि— वरस्य पिता स्वपुत्रं कन्यापितुर्जामातृत्वेन सम्बध्यति। कन्यापिता च स्वपुत्री वरपितुः स्नुषात्वेन सम्बन्धयति । तदिदं विपर्यासेन सम्बन्धनयनं ‘विवाहः ' । तयोश्च विवाहे परस्परं गृहभोजनं वस्त्रप्रदानाद्युपचारं च कुर्वन्ति। एवमेतौ लोकौ परस्परामुपकुरुतः । तत्र 'इयं' भूमिः साम्ना ‘ रथंतरेण' तन्नामकेनैव ‘ अमूं’ दिवं ‘जिन्वति’ प्रीणयति। ' असौ' द्यौश्च ' इमां' भूमिं 'बृहता' साम्नाजिन्वति। तत एव सर्वत्रेयं वै रथंतरमसौ बृहदिति लोकद्वयरूपेण सामद्वयं स्तूयते ॥ परस्परोपकारान् दर्शयति— ( बृहद्ररन्थरयो परस्परोपकार; ). नौधसेनैवेयममुँ जिन्वति, श्यैतेनासाविमां; धूमेनैवेयममूंजिन्वति

पृष्ठ 895

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 895 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ८३३ वृष्ट्याऽसाविमां; देवयजनमेवेयममुष्यामदधात्, पशूनसावस्याम् ॥६ ॥

हिन्दी - ( दोनों लोकों के अन्य परस्पर परोपकार को कह रहे हैं - ) नौथसेन इयम् अमूम् नौधस (साम) द्वारा यह (पृथिवी ) उस ( द्युलोक ) को और श्यैतेन असौ इमाम् श्यैत ( साम) से वह ( द्युलोक ) इस (पृथिवी ) को जिन्वति प्रसन्न करता है। धूमेन इयम् • अमूम् धूम से यह ( पृथिवी) उस (घुलोक ) को और वृष्ट्या असौ इमाम् वृष्टि द्वारा वह ( द्युलोक ) इस (पृथिवी ) को जिन्वति प्रसन्न करता है। इयम् इस (पृथिवी ) ने अमुष्याम् उस (स्वर्गलोक ) में देवयजनम् अदधात् देवों के यजन योग्य स्थान को निर्मित किया और असौ इस ( आदित्य) ने अस्याम् इस (पृथिवी ) पर पशून् पशुओं को (बनाया)। सा० भा०-—–'' इममिन्द्र सुतं पिब' इत्यस्यामृच्युत्पन्नं साम ' नौघसम्'' । ' त्वामिदा ह्यो नरः ' इत्यस्यामृच्युत्पन्नं साम 'श्यैतम्' । ताभ्यां लोकयोः परस्परं प्रीतिः । भूमावग्निजन्यो घूमो दिवि गच्छति। द्युलोकात् समुत्पन्ना वृष्टिरुर्व्यां गच्छति। सोऽयं घूमवृष्टिभ्यां परस्परोप- कारः । ‘ देवयजनं’ देवयागयोग्यं कंचिद्देशम् 'इयं' भूमिः ‘'अमुष्यां’ दिवि ‘ अदधात्’ । ‘ असौ'

च द्यौः पशून् ‘ अस्या' भूमावदधात्। अतो देवयजनपशुभ्यां परस्परोपकारः॥३

तत्र देवयजनशब्देन विवक्षितमर्थं व्याचष्टे— ( देवयजनशब्दस्य विवक्षितार्थकथनम् ) एतद्वा इयममुष्यां देवयजनमदधाद् यदेतच्चन्द्रमसि कृष्णमिव ॥७ ॥

हिन्दी—( देवयजन शब्द से विवक्षित अर्थ का व्याख्यान कर रहे हैं - ) इयम् इस (पृथिवी ) ने अमुष्यम् उस (स्वर्ग) में यद् एतत् चन्द्रमसि कृष्णमिव जो यह चन्द्रमा में काला धब्बा है, एतद् देवयजनम् अदधात् उसको देवों के यजन योग्य स्थान को बनाया। सा० भा० — चन्द्रमण्डले शशमृगादिशब्देन लोके व्यवह्रियमाणं यदेतत् ' कृष्णमिव’ कृष्णवर्णमिव रूपं दृश्यते, एतदेव ' देवयजनं' देवयागयोग्यं वस्तु, 'इयं' भूमिः ' अमुष्यां' दिवि स्थापितवती॥ चन्द्रमसि कृष्णरूपप्रसङ्गाद् यागेषु मुख्यत्वेन शुक्लपक्षं विधते— तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्ते' ॥८ ॥

( १ ) ऋ० १.८४.४ । छ०आ० ३.१.५.४ ऋचि गे० गा० ६.१.३७ नौधसं ( योनिसाम ); उ० आ ० १.१.१३.१-२ ऋचोः प्रगाथतृचे ऊ० गा० १.१.६ नौधसं ( स्तोत्रम् ) । ( २ ) ऋ ० ८.९९.१ । ‘ त्वामिदा' -– छ० आ० ४.१.१.१० नात्र श्यैतमुपलभ्यते। अभि प्र व: ’ — इति छ० आ ० ३.१.५.३ ऋचि गे० गा० ६.१.३ श्यैतं ( योनिसाम ); उ० आ ० २.१.५; १३.२ ऋचोः प्रगाथतृचे ऊ० गा० २.१.३ श्यैतं (स्तोत्रम्) । ' मानं त्विहं'- आ०ब्रा० १.२६ । ता ०ब्रा० ११.९.५ सा०आ० अपि द्रष्टव्यम्। ( ३ ) सामब्राह्मणेऽपि एवमेव। ता०ब्रा० ७.१०.१-४; ११.९ ५ ।

पृष्ठ 896

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 896 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ८३४ ऐतरेयब्राह्मणम् १ ९.५ चतुर्थपञ्चिकायां हिन्दी— तस्मात् इसी कारण आपूर्यमाणपक्षेषु शुक्लपक्षों में यजन्तः यजन करते हुए ( यजमान) एतदेव इसी ( चन्द्रमण्डल ) को उपेप्सन्ते प्राप्त करने की कामना करते हैं । सा० भा०--यस्माद् यागयोग्यं कृष्णं चन्द्रमसि स्थितम्, ' तस्मात्' कारणाच्छुक्ल- पक्षेषु यागं कुर्वन्तो यजमाना: ' एतदेव' चन्द्रमण्डलमुपाप्तुमिच्छन्ति । दिने दिने वर्धमानया कलया सर्वतः पूर्यमाणं चन्द्रमण्डलमेषु शुक्लपक्षेषु, तेन ' आपूर्यमाणपक्षाः' । कर्मिणां दक्षिणमार्गेण चन्द्रमण्डलप्राप्तिः सर्वासूपनिषत्सु प्रसिद्धा *॥ देवयजनशब्दं व्याख्याय पशुशब्दं व्याचष्टे- ( पशुशब्दस्य विवक्षितार्थकथनम्) ऊषानसावस्यां तद्वापि तुरः कावषेय उवाचोषः पोषो जनमेजय केति; तस्माद्धाप्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति, - सन्ति तत्रोषाः ३ इति । ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्त्तते ॥ ९ ॥

हिन्दी— ( देवयजन शब्द का व्याख्यान करके पशु शब्द का व्याख्यान कर रहे हैं— ) असौ उस (स्वर्गलोक) ने अस्याम् इस (पृथिवी ) पर ऊषान् पशुओं को (बनाया) । तद् ह अपि जैसा कि तुरः कावषेयः ( महर्षि ) कवष के पुत्र तुर ने (स्थानविशेष में ऊष शब्द पशु के अर्थ में प्रसिद्ध होने से ) उवाच (जनमेजय से ) कहा कि जनमेजय हे जनमेज़य! ऊषः पोषः केति क्या ऊष शब्द पोष (पुष्टि के हेतुभूत पशु) का वाचक है तस्मात् इसी कारण गव्यं मीमांसमानाः गोरस की मीमांसा करते हुए पृच्छन्ति लोग पूछते हैं कि सन्ति तत्र ऊषाः क्या वहाँ गाय है? इसलिए ऊषः वै पोषः ऊष शब्द पशु का वाचक है । असौ वै लोक: वह ( स्वर्ग) लोक इमं लोकम् अभि इस ( पृथिवी) लोक के प्रति अभिपर्यावर्तते पर्यावर्तित होता है । सा ० भा ० — ‘ असौ ’ द्युलोकः ‘ अस्यां' भूमौ ‘ ऊषान्' ' आदधातीत्यध्याहारः । देशा-• न्तरप्रसिद्धिमुपजीव्य पशुशब्दस्योषशब्दो व्याख्यानम्। ' वश कान्तौ' – इत्यस्माद्धातोरूष- शब्दो व्याख्यानाम्। ‘ वश कान्तौ ' - इत्यस्माद्धातोरूषशब्दो निष्पन्नः । ' ऊषाः ' कमनीयाः, पशूनां चमरादीनां कमनीयत्वं प्रसिद्धम्। ऊषशब्दव्यवहार एव ' तद्धापि' –इत्यादिना प्रदर्श्यते । यस्मादूषः पशुरिति देशविशेषे पर्यायत्वेन प्रसिद्धौ, ' तद्धापि' तस्मादेव कारणात् तुरनामकः कश्चिन्महर्षिः कवषस्य पुत्रः, जनमेजयनामानं राजानं संबोध्यैवमुवाच, —हे जन- मेजय क ‘ऊषः पोषः ’ पोषशब्दाभिधेयः, पुष्टिहेतुः पशुरिति। यस्मात्तु ऊषशब्दं पशुषु ( १ ) यजन्ते उपेप्सन्तः ’ —इतिं चैतदधिकरणसङ्गृहीतमूलमातृकासु पाठः । (२ ) छ० उप ० ५.१०.४; बृ० उप० ५.१.९; ६.२.१६ । ( ३ ) इति कीथमहोदयः ।

पृष्ठ 897

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 897 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

.]:चतुर्थोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ८३५ व्याजहार, ‘ तस्माद्धि’ तस्मादेव कारणादिदानीमपि ' गव्यं' ' ममांसमानाः ' केचिद्देशविशेषेषु विषयःगोरसं क्षीरादिकंप्रश्नस्तेषामभिप्रेतःविचारयन्त। एवंप्रश्नार्थापृच्छन्तिप्लुतिः-' तत्र। यस्मादूषशब्दवाच्यः' तेषु देशेषु, ' किमूषापोषहेतुर्गवादिरूपः३: सन्तीति' गो पशुः, तस्मादूषशब्देन पशुशब्दव्याख्यानमुचितम्। ' असौ' द्युलोकः 'इमं' भूलोकमभिलक्ष्य पर्यावर्त्तते, तेन पशुनोपकृतवानित्यर्थः ॥ इत्थं बृहदरथंतरप्रसङ्गेन द्यावापृथिव्योः परस्परमुपकारं बहुधा प्रपञ्योपसंहरति— ततो वै द्यावापृथिवी अभवतां न द्यावाऽन्तरिक्षान्नान्तरिक्षाद् भूमिः ॥ १० ॥

हिन्दी - ( अब इस कथन का उपसंहार कर रहे हैं— ) ततः वै तब ( परस्पर उपकार करने के कारण) द्यावापृथिवी अभवताम् द्युलोक और पृथिवीलोक ( परस्पर अलग-अलग होकर भी प्रणियों का उपकार करने वाले) हुए। न द्यावा अन्तरिक्षात् न द्युलोक अन्तरिक्ष से और न अन्तरिक्षाद् भूमिः न तो अन्तरिक्ष से भूमि अलग है ( अर्थात् अन्तरिक्ष में अन्तर्भाव है ) । सा० भा० - ' ततो वै' तस्मादेव परस्परोपकारत्वकारणाद् द्यावापृथिव्यौ वियुक्ते अपि परस्परैकमत्येन प्राण्युपकारण्यिावभवताम्। न च तत्रान्तरिक्षलोकः कुत्र वर्तत इति शङ्कनीयम्। ‘ द्यावा’ द्युलोको नान्तरिक्षलोकादन्य इति शेषः । भूमिर्नान्तरिक्षादन्या। उभयोर्द्यावापृथिव्योरन्तरिक्षेण संबध्यैवावस्थानात्। तस्माद् वर्णितयोर्द्यावापृथिव्योरेवान्त- रिक्षस्यान्तर्भाव इत्यभिप्रायः' ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः तृतीयाध्याये (एकोनविंशाध्याये ) पञ्चमः खण्डः ॥ ५॥

॥ इस प्रकार ऐतरेयब्राह्मण के एकोनविंश अध्याय के पञ्चम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा० भा ० — अथास्मिन् द्वादशाहमध्ये पृष्ठ्यषडहे पृष्ठस्तोत्रोपयुक्तानि‍ सामानि विधातुमाख्यायिकामाह— ' ( पृष्ठस्तोत्रोपयुक्तसाम्नां विधानम् ) ( आख्यायिकाद्वारा वैरूपसाम्न उत्पत्तिकथनम् ) बृहच्च वा इदमग्रे रथंतरं चास्तां; वाक्च वै तन्मनश्चाऽऽस्तां; वाग्यै ( १ ) न चेत्यादिग्रन्थो मूलाभिप्रायविरुद्ध एव गम्यते।

पृष्ठ 898

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 898 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ८३६ ऐतरेयब्राह्मणम् १ ९.६ चतुर्थपञ्चिकायां रथंतरं; मनो बृहत्, तद् बृहत् पूर्वं ससृजानं रथंतरमत्यमन्यत; तद्रथंतरं गर्भमधत्त, तद्वैरूपमसृजत ॥ १ ॥

हिन्दी— ( द्वादशाह के मध्य पृष्ठ्यषडह में पृष्ठ्य स्तोत्र के उपयुक्त सामों का विधान करने के लिए आख्यायिका को कह रहे हैं - ) अग्रे इस ( वैरूप इत्यादि साम ) से पहले इदम् बृहत् च रथन्तरं च आस्ताम् यह बृहत् और रथन्तर (नामक साम) थे । वाक् च वै तन्मनः च आस्ताम् ( वे दोनों साम ) वाक् और मन रूप से उत्पन्न हुए। वाग् वै रथन्तरम् वाणी ही रथन्तर रूप है और मनः बृहत् मन बृहत् है। तत् इनमें बृहत् पूर्वं ससृजानम् ( नर रूप ) बृहत् पहले सृष्टि करने के लिए उद्यत होते हुए रथन्तरम् अत्यमन्यत् ( स्त्रीरूप ) रथन्तर को न्यून समझा। तत् उससे (बृहत्साम ने रथन्तर में स्त्रीत्व बुद्धि से संयोग किया ) । रथन्तरं गर्भम् अधत्त रथन्तर ने गर्भ धारण किया और तद् वैरूपम् असृजत् उसने वैरूप (नामक साम) की सर्जना किया। सा० भा ० — ये बृहद्रथंतरे पूर्वम् ' इमौ वै लोकौ' इत्यादिना संस्तुते ते उभे एत्र ‘इदं ’ वैरूपादि सामजातमन्तर्भाव्य तदुत्पत्तेः पूर्वमास्ताम्। 'इदं' वैरूपादि सामजातमुत्पत्तेः ‘ अग्रे’ पूर्वं नासीत्। ते च सामनी मनोवाग्रूपे अभवताम्। तत्र वागेव रथंतरं साम, मनो बृहत्साम। ' तदेतन्मनोरूपं बृहत्साम 'ससृजानं' सृष्टिं कर्तुमुद्युक्तम्। 'तत्' तस्मा एव सृष्टिसिद्धये ' पूर्वं' प्रथमं वाग्रूपं ‘ रथंतर' साम ' अत्यमन्यत' । वाग्रूपत्वादेव स्त्रीरूपत्वम् । मनोरूपत्वात् स्वस्य पुरुषरूपत्वम् । तस्मादतिशयितं तत्स्वरूपम्; तत्र बृहत् साम स्वस्य पुरुषत्वाभिमानेन रथंतरसाम्नि स्त्रीत्वभावनया सङ्गमकरोदित्यर्थः । ततः स्त्रीस्थानीयं 'तद्रथंतरं' साम स्वोदरमध्ये गर्भमधत्त; धृत्वा च वैरूपाख्यं पुत्रस्थानीयं सामान्तरमसृजत ॥ वैरूपस्योत्पत्तिमभिधाय वैराजसाम्न उत्पत्तिं दर्शयति— ( वैराजसाम्न उत्पत्तिकथनम् ) ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येताम्, तद्बृहद्गर्भमधत्त, तद्वैराजमसृजत ॥ २ ॥

हिन्दी–( वैरूप साम की उत्पत्ति को कह कर अब वैराज साम की उत्पत्ति को कह रहे हैं ) ते रथन्तर च वैरूपं च वे रथन्तर और वैरूप द्वे भूत्वा दो होकर बृहद् अत्य- मन्येताम् बृहत् को न्यून समझने लगे। तद् बृहद् गर्भम् अधत उससे बृहत् ने गर्भ धारण किया। यद् वैराजम् असृजत उस ( बृहत्) ने वैराज (नामक साम) को उत्पन्न किया। सा० भा० - - मातृस्थानीयं रथंतरं, पुत्रस्थानीयं वैरूपं चेति, 'ते' सामनी 'द्वे भूत्वा' यद्बृहत्सामैकाकित्वेन वर्तमानमस्ति, तदत्यमन्येतां, तस्माद् बृहतोऽप्येकाकिनोऽतिशयेन मन्येतां न्यूनत्वेन बृहत्साम्नि स्त्रीत्वबुद्धिं कृत्वा संयोगमकुरुताम्। तत्र बृहत्साम गर्भं धृत्वा वैराजाख्यं सामान्तरमसृजत ॥

पृष्ठ 899

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 899 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:चतुर्थोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ८३७ शाक्वरसाम्न उत्पत्तिं दर्शयति- ( शाक्वरसाम्न उत्पत्तिकथनम् ) ते द्वे भूत्वा बृहच्च वैराजं च, रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त, तच्छाक्वरमसृजत ॥ ३ ॥

हिन्दी- ( अब शाक्वर साम की उत्पत्ति को दिखला रहे हैं— ) ते बृहत् च वैराजं च वे बृहत् और वैराज द्वे भूत्वा दो होकर रथन्तरं च वैरूपं च रथन्तर और वैरूप को अत्यमन्येताम् न्यून मानने लगे । (और न्यून समझकर उससे संयोग किया ) तद् रथन्तरं गर्भम् अधत्त तब रथन्तर ने गर्भ धारण किया । तत् शाक्वरम् असृजत् उसने शाक्वर को उत्पन्न किया । सा० भा०-- वैराजसाम्नः सृष्टेरूर्ध्वं तद्युक्तस्य बृहत्साम्नो न्यूनत्वेऽपगते, सति 'ते' सामनी ‘द्वे भूत्वा' मिलित्वा वैरूपसहितस्य रथंतरस्य वाग्रूपत्वेन स्त्रीत्वमभिप्रेत्य स्त्रीत्वम् ‘ अत्यमन्येतां’ स्वाधिकारं मत्वा संयोगमकुरुताम्। ततो रथंतरं साम गर्भं धृत्वा शाक्वराख्यं सामान्तरमसृजत ॥. रैवतं साम्न उत्पत्तिं दर्शयति— ( रैवतसाम्न उत्पत्तिकथनम् ) तानि त्रीणि भूत्वा रथंतरं व वैरूपं च शाक्वरं च, बृहच्च वैराजं चात्यमन्यन्त तद्, बृहद्गर्भमधत्त, तद्वैवतमसृजत ॥४ ॥

हिंन्दी — ( अब रैवत साम की उत्पत्ति को दिखला रहे हैं - ) रथन्तरं च वैरूपं च शाक्वरं च रथन्तर, वैरूप और शाक्वर तानि त्रीणि भूत्वा वे तीन होकर बृहत् चं वैराजं च बृहत् और वैराज को अत्यमन्यन्त न्यून समझने लगे ( और संयोग किया) । तद् बृहद् गर्भम् अधत उससे बृहत् ने गर्भ धारण किया। तद् रैवतम् असृजत् उस ( बृहत्) ने रैवत को उत्पन्न किया । सा० भा०-– मातृस्थानीयं 'रथन्तरं' पुत्रस्थानीये ' वैरूपं' ' शाक्करं ' चेति; एवं त्रीणि भूत्वा वैराजेन युक्तस्य बृहत्साम्नो न्यूनत्वबुद्ध्या 'तदत्यमन्यन्त ' । तस्मादतिशयं पुरुषस्थानीयं स्वपक्षे मत्वा संयोगमकुर्वत। ततो बृहद्गर्भमधत्त । गर्भं धृत्वा रैवताख्यं सामन्तरमसृजत ॥ उक्तानां षष्णां साम्नां पृष्ठस्तोत्रसाधनत्वं दर्शयति— ( वैरूपादिसाम्नां पृष्ठस्तोत्रसाधनत्वकथनम् ). तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्पृष्ठान्यासन् ॥५ ॥

हिन्दी – ( पूर्वोक्त छवों सामों की पृष्ठस्तोत्रसाधनता को दिखला रहे हैं— ) तानि त्रीणि अन्यानि वे तीन (रथन्तर, वैरूप और शाक्वर ) एक दूसरे से भिन्न होते हुए भी

पृष्ठ 900

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 900 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [८३८ ऐतरेयब्राह्मणम् १ ९.६ चतुर्थपञ्चिकायां (पृष्ठ्य षडह विषम संख्यक प्रथम, तृतीय और पञ्चम दिनों में) तथा त्रीणि अन्यानि तीन ( बृहद्, वैराज और रैवत) अन्य साम (रथन्तरादि से) भिन्न होते हुए भी (पृष्ठ्य षडह के सम संख्यक द्वितीय, चतुर्थ और षष्ठ ) दिनों में निष्पादक होने के कारण) षट् पृष्ठानि आसन् छः पृष्ठ हुए । सा ० भा ० – ‘ तानि' पूर्वोक्तानि रथन्तरवैरूपशाक्वराणि ‘ त्रीणि' सामानि, ‘ अन्यानि ’ इतरेभ्यो विलक्षणानि, पृष्ठ्याख्ये षडहे प्रथमतृतीयपञ्चमेष्वयुग्मेष्वहःसु पृष्ठस्तोत्रनिष्पाद-कान्यासन्। तथा बृहद्- वैराज - रैवतरूपाणि 'त्रीणि' सामानि, ' अन्यानि' रथन्तरादिभ्यो विल-क्षणानि भूत्वा, द्वितीयचतुर्थषष्ठेषु युग्मरूपेष्वहःसु पृष्ठस्तोत्रनिष्पादकान्यासन्' । अथ षड्विधपृष्ठस्तोत्रसामाधारत्वेन षड्विधानि च्छन्दांसि दर्शयति— ( षड्विधपृष्ठस्तोत्रसामाधारत्वेन षड्विधछन्दकथनम् ) तानि ह तर्हि त्रीणि च्छन्दांसि, षट्पृष्ठानि नोदाप्नुवन् स गायत्री गर्भमधत्त, साऽनुष्टुभमसृजत; त्रिष्टुब् गर्भमधत्त, सा पङ्क्तिमसृजत; जगती गर्भमधत्त, साऽतिच्छन्दसमसृजत, तानि त्रीण्यन्यानि त्रीण्य- न्यानि षट् छन्दांस्यासन् षट्पृष्ठानि तानि तथाऽकल्पन्त; कल्पते यज्ञोऽपि ॥६ ॥

हिन्दी—(छ: प्रकार के पृष्ठस्तोत्र के आधार से छः प्रकार के छन्दों को दिखला रहे हैं— ) तर्हि तब तानि त्रीणि छन्दांसि (छः सामों के होने पर ) वे ( गायत्री, त्रिष्टुप् और जगती) तीन छन्द षट्पृष्ठानि न उदाप्नुवन् षट् पृष्ठों को नहीं प्राप्त कर सके। सा गायत्री गर्भम् अधत्त उस गायत्री ने गर्भ धारण किया और सा अनुष्टुभम् असृजत उसने अनुष्टुप् को उत्पन्न किया, त्रिष्टुभं गर्भम् अधत्त त्रिष्टुप् ने गर्भ धारण किया और सा पंक्तिम् असृजत उसने पंक्ति को उत्पन्न किया और जगती गर्भम् अधत्त जगती ने गर्भ धारण किया और सा अतिच्छन्दम् असृजत उसने अतिच्छन्दस् को उत्पन्न किया । तानि त्रीणि अन्यानि वे ( गायत्री, त्रिष्टुप् और जगती) तीन तथा त्रीणि अन्यानि अन्य ( अनुष्टुप्, पंक्ति और अतिछन्दस्) तीन - इस प्रकार षट् छन्दांसि आसन् छ: छन्द हुए। तानि वे छ: छन्द षट्पृष्ठानि छः पृष्ठों को तथा अकल्पन्त उसी क्रमानुसार धारण करने में समर्थ हुए । इस प्रकार यज्ञः अपि कल्पते (पृष्ठषडह ) यज्ञ भी समर्थ होता है । सा ० भा ० – ‘ तर्हि’ तस्मिन् षट्सामसम्पत्तिकाले गायत्री-त्रिष्टुब्- जगतीरूपाणि ‘ च्छ-न्दांसि’ त्रिणि भूत्वा ‘ तानि’ पूर्वोक्तानि षट्पृष्ठसामानि ' नोदाप्नुवन्' पृष्ठानां निष्पत्तिं कर्तुं नाशक्नुवन्। ततो गायत्र्यादीनि त्रीण्यपि गर्भं धृत्वा पुनरन्यान्यनुष्टुप्पङ्क्यतिच्छन्दोरूपापि ( १ ) ‘रथन्तरपृष्ठान्ययुजानि। बृहत्पृष्ठानीतराणि। तृतीयादिषु पृष्ठ्यंस्यान्वहं द्वितीयानि वैरूपवैराजशाक्वररैवतानि’- इति आश्व० श्री० ७.५.२-४॥