ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 911–920
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 911–920
पृष्ठ 911
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८४९ यजमाना इति; तद्यद् इहेह वो मनसा बन्धुता नर इत्यार्भवं प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति ॥६ ॥
हिन्दी —( इस वैश्वदेवशस्त्र में अन्य सूक्त का विधान कर रहे हैं - ) 'इहेव वो मनसा बन्धुता नर' इत्यार्भवम् यह ऋभुदेवता वाला सूक्त है। यद्वै एति च प्रेतिःच जो आङ् और प्र उपसर्ग है, तत् प्रथमस्य अह्नः रूपम् वह प्रथम दिन का उपलक्षक है। यत् जो प्रेति सर्वम् अभविष्यत् यदि प्र उपसर्ग से सम्पूर्ण ( सूक्त) युक्त होता, तत् तो यजमानाः अस्मात् लोकात् प्रैष्यन्नेव यजमान इस लोक से चले ही जाते (मृत्यु को प्राप्त कर लेते), तद् यत् तो जो 'इहेव मनसा बन्धुता नर' इत्यार्भवम् इस ऋभुदेवता वाले सूक्त का प्रथमे अहनि प्रथम दिन शंसति शंसन करता है उसमें अयं लोकः इह 'इह इस लोक का वाचक है। अत: तत् इस ( शंसन से ) एनान् इस ( यजन करने वालों ) को इह अस्मिन् लोके यहाँ इस (पृथिवी लोक ) में रमयति रमण कराता है। सा० भा०-—' इहेह वः' इत्येतत् सूक्तम्' ऋभुदेवताकम्; द्वितीयाया ऋचोऽन्ते ‘ तेन देवत्वमृभवः समानश’ — इति श्रवणात्। आकार- प्रशब्दादिकं लक्षणं मन्त्रे नास्तीत्या- शङ्क्य ‘ यद्वै ’ इत्यादिना तत्सद्भावे बाध उपन्यस्यते। येदतदेति च प्रेति चेति, तदेतत्प्रथम- स्याह्नो ‘रूपं ’ लक्षणमिति पूर्वमुक्तं; 'तत्' तथा सति यदि प्रेत्यनेन लक्षणेन युक्तं ' सर्वं’ सूक्तजातम् अभविष्यत् तदानीं यजमाना अस्माल्लोकात् 'प्रैष्यन्' प्रैष्यन्ति मरिष्यन्त्येवेति बाधोपन्यासः । ‘ तद्यद्’ इत्यादिना समाधानमुपन्यस्ते। यस्मात् प्रशब्दयोगें बाधोऽस्ति, तस्मात् कारणाद् इहेहेति सूक्तं यदि प्रथमेऽहनि शंसेत्, तदानीमिहेहशब्देनास्यं भूलोकस्य विव-क्षितत्वाद् अस्मिन्नेव' भूलोके एव तत्सूक्तपाठेन ' एनान् यजमानन् ‘ रमयति’ चिरं क्रीडयति । ततः प्रशब्दप्रयुक्तो मरणबाधोऽपि परिहृतो भवति ॥ सूक्तान्तरस्य प्रथमपादे देवताभिधानं लक्षणं दर्शयति— ' देवान् हुवे बृहच्छ्रवसः स्वस्तये' इति वैश्वदेवं प्रथमे पदे देवता निरुच्यन्ते; प्रथमेऽहनि प्रथमस्याह्नो रूपम् ॥७ ॥
हिन्दी -( अन्य सूक्त के प्रथमपाद में देवताभिधान लक्षण को दिखला रहे हैं— ) ‘देवान् हुवे बृहच्छ्रवसः स्वस्तये' इति वैश्वदेवम् यह विश्वेदेवा से सम्बन्धित सूक्त है । इसके प्रथमे पदे देवता निरुच्यन्ते प्रथम पाद में देवता कहे गये हैं अतः प्रथमे अहनि प्रथम दिन में प्रयुक्त प्रथमस्य अह्नः रूपम् प्रथम दिन का रूप है। सा० भा०-–'' देवान्’— इत्यादिके सूक्ते बहुचनान्तस्य देवशब्दस्य श्रवणाद्
देवताबाहुल्येनेदं सूक्तं वैश्वदेवम्। प्रथमपादे देवशब्दस्तु विस्पष्टः ॥
( १ ) ऋ० ३.६० ।
पृष्ठ 912
पाठ पढ़ें पाठ छिपाएँ
: [८५० ऐतरेयब्राह्मणम् २०.२ चतुर्थपञ्चिकायां तत्र स्वस्तिशब्दस्य तात्पर्यं दर्शयति- महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति, ये संवत्सरं वा द्वादशाहं वाऽऽसते तद्यद्देवान् हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽ- हनि शंसति, स्वस्तितायै ॥८ ॥
हिन्दी– (उस सूक्त में प्रयुक्त स्वस्ति शब्द के तात्पर्य को दिखला रहे हैं - ) ये संवत्सरं वा द्वादशाहं वा आसते जो संवत्सर अथवा द्वादशाह का सम्पादन करते हैं, एते वे महान्तम् अध्वानम् दूरवर्ती मार्ग पर एष्यन्तः भवन्ति जाने के लिए तैयार रहते हैं । तद् यत् तो जो ' देवान् हुवे बृहच्छ्रवसः स्वस्तये ' इति वैश्वदेवम् इस विश्वेदेवासम्बन्धि ( सूक्त ) का प्रथमे अहनि शंसति प्रथमं दिन शंसन करता है, वह स्वस्तितायै कल्याण के लिए होता है । सा० भा० -'ये ' यजमानाः संवत्सरसत्रं द्वादशाहं वाऽनुतिष्ठन्ति, दीर्घमध्वानं गन्तु- मुद्युक्ता भवन्ति। प्रयोगबाहुल्येनैकाहवत् सहसा समाप्त्यभावात्। अतो देवानित्यादिसूक्ते ' स्वस्तये ' इत्येतस्य पदस्य शंसनं 'स्वस्तितायै' क्षेमार्थं भवति ॥ वेदनं प्रशंसति— स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद, येषां चैवं विद्वानेतद्धोता देवान् हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति॥ ९ ॥
हिन्दी – ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है और येषां च एवं विद्वान् होता जिन ( यजमानों ) का इस प्रकार जानने वाला होता ‘ देवान् हुवे बृहच्छ्रवसः स्तवस्तये ' इति वैश्वदेवम् इस विश्वे देवों से सम्बन्धित ( सूक्त ) का प्रथमे अहनि शंसति प्रथम दिन शंसन करता है वह तत् उस ( शंसन) से स्वस्त्ययनं कुरुते ( यजमान के लिए) स्वस्ति वाचन करता है और संवत्सरस्य पारम् अश्नुते संवत्सरसत्र का समापन करता है । सा ० भा ० — उक्तार्थस्य वेदिता तेन 'स्वस्त्ययनमेव' द्वादशाहस्य क्षेमप्राप्तिमेव कुरुते, —क्षेमेणैव संवत्सरसत्रस्य समाप्तिं प्राप्नोति । किञ्च ‘ येषां ’ यजमानानामुक्तार्थवेदो, होता शंसति तेऽपि यजमाना द्वादशाहं क्षेमेणैव प्राप्नुवन्ति, संवत्सरसत्रं च समापयन्ति ॥ सूक्तान्तरस्य प्रथमे पादे देवताभिधानलक्षणं दर्शयति— ' वैश्वानराय पृथुपाजसे विप' इत्याग्निमारुतस्य प्रतिपद्; प्रथमे पदे देवता निरुच्यते, प्रथमेऽहनि प्रथमस्याह्नो रूपम् ॥ १० ॥
हिन्दी - ( अन्य सूक्त के प्रथम पाद में देवताभिधान लक्षण को दिखला रहे हैं- )
पृष्ठ 913
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८५१ ‘ वैश्वानराय पृथुपाजसे विप' इति अग्निमारुतस्य प्रतिपद् यह सूक्त अग्निमारुत शस्त्र का प्रतिपद् है। इसके प्रथमे पदे देवता निरुच्यते प्रथम पाद में देवता का कथन हुआ है । अतः प्रथमे अहनि प्रथम दिन में प्रयुक्त प्रथमस्य अह्नः रूपम् प्रथम दिन का रूप है । सा० भा० – आग्निमारुतशस्त्रस्य ' वैश्वानराय' ' - इति सूक्तं प्रतिपत् कर्तव्यम्। स एव शब्दो विस्पष्टं देवतामभिधत्ते॥ सूक्तान्तरे प्रशब्दरूपं लिङ्गं दर्शयति— 'प्रत्वक्षसः प्रतवसो विरप्शिन' इतिति मारुतम् प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपम् ॥११ ॥
हिन्दी - ( अन्य सूक्त में 'प्र' शब्द रूप लक्षण को दिखला रहे हैं - ) 'प्रत्वक्षसः प्रतवसो विरप्शिन्' इति मारुतम् यह मरुत् से सम्बन्धित सूक्त है । प्रेति 'प्र' शब्द से युक्त प्रथमे अहनि प्रथम दिन में प्रयुक्त यह प्रथमस्य अह्नः रूपम् प्रथम दिन का रूप है । सा० भा०--'प्रत्वक्षसः' इति सूक्ते द्वितीयस्या ऋचो द्वितीयपादे 'वय इव मरुतः '
इति श्रवणात् इदं सूक्तं मरुद्देवताकं शंसेत्। अत्र ' प्र ' शब्दो विस्पष्टः ॥
वक्ष्यमाणस्य जातवेदस्य सूक्तस्य पुरस्तादेतामृचं विधत्ते- ' जातवेदसे सुनवाम सोममिति' जातवेदस्यां पुरस्तात् सूक्तस्य शंसति; स्वस्त्ययनं वै जातवेदस्याः३ स्वस्तितायै ॥१२ ॥
हिन्दी –( वक्ष्यमाण जातवेद देवता वाले सूक्त से पहले इस ऋचा के शंसन का विधान कर रहे हैं — ) जातवेदस्यां सूक्तस्य पुरस्तात् इस जातवेदस् देवता वाले सूक्त से पहले 'जातवेदसे सुनवाम सोमम्' इति शंसति इस (ऋचा) का शंसन करता है; क्योंकि स्वस्त्ययनमेव जातवेदस्या जातवेदस् देवता वाला मन्त्र क्षेमपूर्वक जाने के लिए होता है अतः यह स्वस्तियायै यजमान के कल्याण के लिए होता है । सा ० भा ० — जातवेदा देवता यस्या ऋचः सेयं जातवेदस्या । तद्देवताकत्वं प्रथम- पादे देवताभिधानं लिङ्गं च विस्पष्टम्। अस्यामृचि ' अरातीयतो नि दहाति' - इति शत्रुदाह- श्रवणात्' नावेव सिन्धुम्' इति नौदृष्टान्तेन दुरितात्ययश्रवणाच्च ' स्वस्त्ययनं' क्षेमगमनमत्र विद्यते । तस्मादियं क्षेमप्राप्तये भवति ॥ ( ) ( ) १ ऋ० ३.३ । २ ऋ० १.८७। ( ३ ) 'जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम्' – इति आश्व० श्रौ० ७.१.१४ । ` जातवेदस्य निवित्सम्बन्धिसूक्तसम्भवात् जातवेदस्यानामिति बहुवचनं जात्याभिप्रायम्’— इति च तत्र वृत्तिर्नारायणीया । (४) ऋ० १.९९.१ ।
पृष्ठ 914
पाठ पढ़ें पाठ छिपाएँ
: [८५२ ऐतरेयब्राह्मणम् २०.२ चतुर्थपञ्चिकायां वेदनं प्रशंसति— स्वस्त्ययनमेव तत्कुरुते, स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥ १३ ॥
हिन्दी— ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह तत् इस (ज्ञान ) से स्वस्त्ययनमेव कुरुते (द्वादशाह को ) कल्याण प्राप्त कराता है और संवत्सरस्य स्वस्ति पारम् अश्नुते कल्याण पूर्वक संवत्सर का समापन करता है। सूक्तान्तरे प्रशब्दलिङ्गं दर्शयति— ‘ प्रतव्यसीं नव्यसीं धीतिमग्नय' इति जातवेदस्यम्; प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपम् ॥ १४ ॥
हिन्दी– ( अन्य सूक्त में 'प्र' शब्द के चिह्न को दिखला रहे हैं — ) 'प्र तव्यसीं नव्यसीं धीतिमग्नयः ' इति जातवेदस्यम् यह जातवेदस् देवता वाला ( सूक्त ) है । जो प्रेति 'प्रं' उपसर्ग से युक्त है अत: प्रथमे अहनि प्रथम दिन में प्रयुक्त यह प्रथमस्य अह्नः रूपम् प्रथम दिन का रूप है । सा० भा ० — यद्यप्यस्मिन् सूक्ते जातवेदः शब्दो न श्रुतः; तथाऽऽपि तदर्थवाची शब्दः श्रूयतें । जातमुत्पन्नं विश्वं तद्वेत्तीति 'जातवेदाः', तत्पर्यायो विश्ववेदः शब्दः । स च ' यमेरिरे भृगवो विश्ववेदसम्' इति चतुर्थ्यामृचि श्रूयते। तस्मादिदं सूक्तं' 'जातवेदस्यं' निविद्धानीयं शंसेत्। अत्र ‘ प्रतव्यसीम्' इति प्रशब्दो विस्पष्टः ॥ वैश्वानरायेत्यादिकं यदाग्निमारुतं शस्त्रमुक्तं, तदेतत्प्रशंसति— समानमाग्निमारुतं भवति, यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते, तत्प्रजा अनु समनन्ति; तस्मात् समानमाग्निमारुतं भवति ॥ १५ ॥
हिन्दी - (आग्निमारुत शस्त्र की प्रशंसा कर रहे हैं - ) आग्निमारुतं समानं भवति (इस प्रथम दिन में और अग्निष्टोम में निरूपित) आग्निमारुत शस्त्रं समान होता है । यत् च अग्निष्टोमे यत् च यज्ञे जो अग्निष्टोम में और जो यज्ञ में समानं क्रियते (आग्निमारुत शस्त्र को) एक समान ( अङ्ग वाला ) किया जाता है तत् उससे प्रजाः अनु समनन्ति उस ( अङ्ग ) के अनुसार (ऋत्विक् और पुत्रादिरूप) प्रजा को सम्यक् रूप से चेष्टा करते हैं। तस्मात् इसी 'कारण आग्निमारुतं समानं भवति आग्निमारुत शस्त्र एक समान होता है । सा० भा० –अस्मिन् प्रथमेऽहनि यदाग्निमारुतं शस्त्रमुक्तं यच्चाग्निष्टोमे पूर्वं निरूपितमाग्निमारुतं शस्त्रं तदुभयं ' समानम्' एकविधं न्यूनाधिकमन्त्राणामभावात्। यज्ञे यदेवाङ्गं समानं क्रियते, ‘ तत्' अङ्गम् ' अनु ' पश्चात् 'प्रजाः ' ऋत्विग्रूपाः पुत्रादिरूपाश्च ( १ ) ऋ० १.१४३ ।
पृष्ठ 915
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८५३ ‘ समनन्ति’ सम्यक् चेष्टन्ते, सुखेन जीवन्तीत्यर्थः । तस्मात् ' समानं’ तुल्यमाग्निमारुतशस्त्रं कर्तव्यम्। अत्र प्रथमस्याह्नो लिङ्गेषु ' आशुमद्', 'गायत्रं', 'करिष्यत्', ' अयं लोकोऽभ्युदितः ' इति लिङ्गचतुष्टयमत्र नोदाहृतम्, तद्यथासम्भवमन्वेष्टव्यम्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये चतुर्थपञ्चिकायाः पञ्चमाध्याये ( विंशाध्याये ) द्वितीयः खण्डः ॥१ ॥.
॥ इस प्रकार ऐतरेयब्राह्मण के विंश अध्याय के द्वितीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा० भा० - द्वादशाहगतनवरात्रे प्रथममहर्निरूप्य द्वितीयमहर्निरूपयति— ( द्वादशाहगतनवरात्रे द्वितीयाहर्निरूपणम् ) इन्द्रो वै देवता द्वितीयमहर्वहति, पञ्चदशस्तोमो बृहत्साम त्रिष्टुप्छन्दः॥१ ॥
हिन्दी- (द्वादशाह के नवरात्र के प्रथम दिन का निरूपण करके द्वितीय दिन का निरूपण कर रहे हैं— ) इन्द्रः वै देवता इन्द्र देवता पञ्चदशस्तोमः पञ्चदशस्तोम, बृहत्साम् बृहद् नामक साम और त्रिष्टुप्छन्दः त्रिष्टुप् नामक छन्द द्वितीयम् अहः वहति द्वितीय दिन का निर्वहन करते हैं । सा० भा०- देवतानां मध्ये इन्द्रो देवता, स्तोमानां मध्ये पञ्चदशस्तोमः, साम्नां मध्ये बृहत्साम, च्छन्दसां मध्ये त्रिष्टुप्छन्दः, इत्येतच्चतुष्टयं द्वितीयस्याह्नो निर्वाहकम्॥ वेदनं प्रशंसति— यथादेवतमेनेन यथास्तोमं यथासाम यथा छन्दसं राध्नोति य एवं वेद ॥ २ ॥
हिन्दी –( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह एनेन इस (ज्ञान ) से यथादेवतम् यथास्तोमं यथासाम यथाछन्दसम् उस देवता, स्तोम, साम और छन्द का अतिक्रमण न करके (उनके अनुग्रह से ) राध्नोति समृद्ध होता है । सा ० भा ० — वेदिता स्वकीयवेदनेन यथोक्तदेवतास्तोमसामच्छदांस्यनतिक्रम्य तत्-प्रसादेन समृद्धो भवति॥
पृष्ठ 916
पाठ पढ़ें पाठ छिपाएँ
: [८५४ ऐतरेयब्राह्मणम् २०.३ चतुर्थपञ्चिकायां अथ द्वितीयस्याह्नो गमकानि मन्त्रगतानि लिङ्गानि निर्दिशति— ( द्वितीयस्याह्रो गमकानि मन्त्रलिङ्गानि ) यद्वै नेति न प्रेति, यत्स्थितं, तद्द्द्वितीयस्याह्नो रूपम्; यदूर्ध्ववद्य- त्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्, यन्मध्यमे पदे देवता निरुच्यते; यदन्तरिक्षमभ्युदितं यद्बार्हतं, यत्त्रष्टुभं, यत्कुर्वदेतानि वै द्वितीय- स्याह्नो रूपाणि ॥ ३ ॥
हिन्दी– ( अब द्वितीय दिन के मन्त्रगत चिह्नों का निर्दिष्ट कर रहे हैं— ) यद्वै जो (प्रथम दिन में निर्दिष्ट ) नेति न प्रेति न तो आङ् और न तो प्र (द्वितीय दिन सूचक है ) । प्रत्युत यत् स्थितं तद् द्वितीयस्य अह्नः रूपम् जो स्था धातु से युक्त है, वह द्वितीय दिन का उपलक्षक है, यद् ऊर्ध्ववत् जो ऊर्ध्व शब्द से युक्त, यत् प्रतिवत् जो 'प्रति' शब्द से युक्त, यद् अन्तर्वत् जो अन्तः शब्द से युक्त, यद् वृषण्वत् जो वृषण् शब्द से युक्त और यद् ऋधन्वत् जो ऋधन् शब्द से युक्त है तथा यस्य मध्यमे पदे देवता निरुच्यते जिसके मध्यम पाद में देवता कहा गया है, यद् अन्तरिक्षम् अभ्युदितम् जहाँ अन्तरिक्ष को सङ्केतित किया गया है, यद् बार्हतम् जो बृहत् साम से सम्बन्धित है, यत् त्रैष्टुभम् जो त्रिष्टुप् छन्द वाला है और यत् कुर्वत् जो वर्तमान- कालिक क्रिया वाला है- एतानि इन ( चिह्नों ) वाले ( मन्त्र) द्वितीयस्य अह्नः रूपम्द्वितीय दिन के उपलक्षक हैं । सा० भा० – प्रथमस्याह्न एति प्रेति लिङ्गद्वयं ' यद्वै ' यदेवोक्तं, तदत्र द्वितीयस्याह्ने लिङ्गं न भवतीति नकारद्वयेनोभयं निषिध्यते। ' यत्स्थितं' तिष्ठतिधातुरूपवद् बहुषु स्थानेष्वप्रध्युतत्वेनावस्थितं च मन्त्रे दृश्यते, तद्वितीयस्याह्नो 'रूपं' लिङ्गम्। तथैवोर्ध्व- शब्दोपेतं, प्रतिशब्दोपेतम्, अन्तःशब्दोपेतं, वृषन्शब्दोपेतं वृधशब्दोपेतं च यदाम्नातं, तत्सर्वं द्वितीयस्याह्नो रूपम्। तत्र साक्षाच्छब्दो न श्रूयते, तत्र तदर्थो द्रष्टव्यः । मध्यमे पदे देवताभिधानम्, अन्तरिक्षलोकाभिधानं, बृहत्सामसम्बन्धं, त्रिष्टुप्छन्दःसम्बद्धं, वर्तमानार्थप्रत्यययुंक्तकरोतिधातुरूपमित्येतानि सर्वाणि द्वितीयस्याह्नो ' रूपाणि' निरूपकाणि लिङ्गानि द्रष्टव्यानि॥ अस्मिन् द्वितीयेऽहन् आज्यशस्त्रं विधत्ते— ( द्वितीयेऽहनि आज्यशस्त्रविधानम्) ' अग्निं दूतं वृणीमहे' ' इति द्वितीयस्याह्न आज्यं भवति; कुर्वद्, द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥४ ॥
हिन्दी— (इस द्वितीय दिन में प्रयुक्त आज्यशस्त्र का विधान कर रहे हैं— ) ‘ अग्निं ( १ ) ऋ० १.१२।
पृष्ठ 917
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८५५ दूतं वृणीमहे' इति द्वितीयस्य अह्नः यह सूक्त द्वितीय दिन का आज्यं भवति आज्यशस्त्र होता है जो कुर्वत् वर्तमान कालिक क्रिया से युक्त द्वितीये अहनि द्वितीय दिन में प्रयुक्त द्वितीयस्य अह्नः रूपम् द्वितीय दिन के अनुरूप है। सा ० भा ० — अत्र कुर्वदिति लिङ्गोपन्यासः । यद्यप्यग्निं दूतमित्यादौ साक्षात् कुर्वच्छब्दो न श्रूयते, तथाऽपि करोत्यर्थस्य सर्वधातुगतसामान्यत्वात् वर्तमानार्थवाचिप्रत्ययान्तं धातुमात्रं कुर्वच्छब्देन विवक्षितम् । अत्रापि ' वृणीमहे' इति वर्तमानार्थवाचिप्रत्ययान्तो धातुः श्रूयते। तस्मात् द्वितीयेऽहन्ये - तत्सूक्तं विनियोक्तुं योग्यम्। ततो द्वितीयस्याये लिङ्गम्॥ आज्यशस्त्रं विधाय प्रउगशस्त्रं विधत्ते- ( द्वितीयेऽहनि प्रउगशस्त्रविधानम्) ' वायो ये ते सहस्रिण' ' इति प्रउगम्; ' सुतः सोम ऋतावृधेति' वृधन्वद्, द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥५ ॥
हिन्दी - (द्वितीय दिन के आज्यशस्त्र का विधान करके अब प्रउगशस्त्र का विधान कर रहे हैं— ) ‘वायो ये ते सहस्रिणः' इति प्रउगम् यह सूक्त (द्वितीय दिन का ) प्रउगशस्त्र होता है। ( इस सूक्त की चतुर्थ ऋचा के द्वितीय पाद ) 'सुतः सोम ऋतावृधा' वृधन्वत् वृधन् शब्द से युक्त है अतः द्वितीये अहनि द्वितीय दिन में प्रयुक्त द्वितीयस्याह्नः रूपम् द्वितीय दिन के अनुरूप हैं । सा० भा०--'वायो ये ते ' इत्यादिकं शस्त्रं कुर्यात् । एतस्मिन् सूक्ते चतुर्थ्या ऋचो द्वितीयः पादः ‘ सुतः सोम ऋतावृधेति', अस्य पादस्यान्ते वृधेति श्रवणात् इदं प्रउगं ' वृधन्वद्' वृधिधातुयुक्तम्। द्वितीयेऽहनि - इत्यादिकं पूर्ववत्। अथ मरुत्वतीयं शस्त्रं विधत्ते -- ( द्वितीयेऽहनि मरुत्वतीयशस्त्रविधानम् ) 'विश्वानरस्य वस्पतिम्', ' इन्द्र इत्सोमपा एकः ' इति मरुत्वतीयम्य प्रतिपदनुचरौ; वृधन्वच्चान्तर्वच्च द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥६ ॥
हिन्दी- (द्वितीय दिन के मरुत्वतीयशस्त्र का विधान कर रहे हैं- ) 'विश्वानरस्य वस्पतिम्’ और ‘इन्द्र इत्सोमपा एकः ' इति मरुत्वतीयस्य ये (तृच ) मरुत्वतीय शस्त्र के प्रतिपदनुचरौ क्रमशः प्रतिपंत् और अनुचर हैं । ( ये तृच) वृधन्वत् च अन्तःवत् च वृधन् शब्द से युक्तं और ‘ अन्तः' शब्द से युक्त द्वितीये अहनि द्वितीय दिन में प्रयुक्त द्वितीयस्याह्नः रूपम् द्वितीय दिन के अनुरूप हैं। ( १ ) ऋ० २.४१।
पृष्ठ 918
पाठ पढ़ें पाठ छिपाएँ
: [८५६ ऐतरेयब्राह्मणम् २०.३ चतुर्थपञ्चिकायां सा ० भा ० — ' विश्वानरस्य' - इत्ययं तृचः १ शस्त्रस्य प्रतिपत, तस्मिन् तृचे द्वितीयस्या ऋच: प्रथमपादे ‘ वृधन्वद्’ वृधिधातुयुक्तं लिङ्गमस्ति। ' अभिष्टये सदावृधम्' इति श्रवणात् । ‘ इन्द्रः ’ इत्ययं तृचोऽनुरूपः । तत्रान्तः शब्दयुक्तं लिङ्गमस्ति। प्रथमाया ऋचस्तृतीयपादे'--' अन्तर्देवान् – इति श्रवणात्॥ अथ प्रगाथद्वये लिङ्गद्वयं दर्शयति— ( प्रगाथद्वये लिङ्गद्वयंकथनम् ) इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ, उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मण- स्पत्य ऊर्ध्ववान्, द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥७ ॥
हिन्दी– ( अब दो प्रगाथों में दो चिह्नों को दिखला रहे हैं - ) 'इन्द्र नेदीय एदिहि' इति अच्युतः प्रगाथः यह अच्युत (जो प्रथम दिन में प्रयुक्त और आगे भी प्रयुक्त होने वाला ) प्रगाथ है और 'उतिष्ठ ब्राह्मणस्पते' इति ब्राह्मणस्पत्यः यह ब्रह्मणस्पति से सम्बन्धित प्रगाथ है जो ऊर्ध्ववान् 'ऊर्ध्व' शब्द से युक्त द्वितीये अहनि द्वितीय दिन में प्रयुक्त द्वितीयस्य अह्नः रूपम् द्वितीय दिन के अनुरूप है। सा ० भा ० — ‘ इन्द्र नेदीयः ' इत्यादिकः प्रगाथः प्रथमेऽहन्यपि विहितः, उत्तरत्रापि विधास्यते । तस्मादत्र विधीयमानोऽच्युतो भवति, प्रच्युतेरभावात्। तदिदमच्युतर्वं स्थितशब्दार्थत्वात् स्थितवल्लिङ्गम्। ' उत्तिष्ठ ' इत्ययं प्रगाथः ऊर्ध्वलिङ्गवान्। ऊर्ध्ववाचिन उच्छब्दस्य श्रवणात्॥. अथ तिसृषु धाय्यास्वच्युतत्वं लिङ्गं दर्शयति—. ( तिसृषु धाय्यासु अच्युतलिङ्गत्वम् ) 'अग्निर्नेता, त्वं सोम क्रतुभिः, पिन्वन्त्यपः ' इति धाय्या अच्युताः ॥ ८ ॥
हिन्दी -( अब तीन धाय्या में अच्युतत्व लिङ्ग को दिखला रहे हैं - ) 'अग्निर्होता', ‘ त्वं सोम क्रतुभिः ' और 'पिन्वन्त्यपः' इति धाय्या अच्युता ये तीन धाय्या अच्युत (प्रथम दिन में विहित ) है ( वे द्वितीय दिन में भी प्रयुक्त होती हैं ) ।. सा० भा ० — ‘ अग्निर्नेता’५ इति प्रथमा धाय्या, 'त्वं सोम' इति द्वितीया, 'पिन्वन्त्यपः ७ इति तृतीया । प्रथमेऽहन्यप्येतासां विहितत्वात् अच्युतत्वम्॥ प्रगाथान्तरे लिङ्गं दर्शयति-... ( ) ' बृहदिन्द्राय गायतेति'( मरुत्वतीयः) प्रगाथो, येन( ज्योतिरजनयन्नृ-) १ ऋ० ८.६८.४-६ । २ ऋ० ८.२.४-६। ३ ऋ ० ८.५३.५,६ ( ) ( ) ( ) ४ ऋ० १.४०.१,२। ५ ऋ ० ३.२०.४ । ६ ऋ० १.९ १.२। (७) ऋ० १.६४.६ ।
पृष्ठ 919
पाठ पढ़ें पाठ छिपाएँ
]:पञ्चमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ८५७ तावृध इति वृधन्वान् द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥९ ॥
हिन्दी -( अन्य प्रगाथ में लिङ्ग को दिखला रहे हैं - ) ' बृहदिन्द्राय गायत' इति मरुत्वतीयः प्रगाथः यह मरुत् देवता वाला प्रगाथ है। (इसका तृतीय पाद) ' येन ज्योतिरजयनृतावृधः ' इति बृधन्वान् 'बृधन्' शब्द से युक्त द्वितीये अहनि द्वितीय दिन में प्रयुक्त द्वितीयस्याह्नः रूपम् द्वितीय दिन का रूप है । सा ० भा ० –' बृहदिन्द्राय' इत्येष मरुद्देवताक:, ' ' मरुती वृत्रहन्तमम्' इति द्वितीयपादे मरुतां श्रवणात्। तस्य ‘ येन ज्योति:' इति तृतीयः पादः; तत्र 'ऋतावृध: ' इति श्रवणात् अयं प्रगाथो वृधिधातुरूपलिङ्गवान्॥ लिङ्गदर्शनद्वारा सूक्तं विधत्ते— ( लिङ्गदर्शनद्वारा सूक्तविधानम् ) ' इन्द्रं सोमं सोमपते पिबेममिति' सूक्तं; ' सजोषा रुद्रैस्तृपदा वृष- स्वेति' वृषण्वद् द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥ १० ॥
हिन्दी- ( लिङ्ग दर्शन द्वारा सूक्त का विधान कर रहे हैं - ) 'इन्द्र सोमं सोमपते पिबेमम्' इति सूक्तम् यह सूक्त है। (इसकी द्वितीय ऋचा का चतुर्थपाद) 'सजोषा रुद्रैस्तृपदा वृषस्व' इति यह वृषण्वत् ' वृषन्' शब्द से युक्त द्वितीये अहनि द्वितीय दिन में प्रयुक्त द्वितीयस्याह्नः रूपम् द्वितीय दिन का रूप है । सा ० भा ० –‘ इन्द्र सोमम्’ ” इत्यस्मिन् सूक्ते ' सजोषाः ' इत्यादिको द्वितीयस्या ऋच-श्चतुर्थः पादः; तत्र वृषस्वेति श्रवणाद् वृषण्वल्लिङ्गमस्ति॥ अथ निष्केल्यशस्त्रस्य स्तोत्रियानुरूपयोः प्रगाथयोः बृहत्सामसंबन्धरूपं लिङ्गं दर्शयति— ( निष्केवल्यशस्त्रस्य स्तोत्रियानुरूपयोः प्रगाथयोः बृहत्सामसम्बन्धरूपं लिङ्गम् ) ' त्वमिद्धि हवामहे ' ' त्वं ह्येहि चेरवे' इति बृहत्पृष्ठं भवति; बाहतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥ ११ ॥
हिन्दी – ( अब निष्केवल्यशस्त्र के स्तोत्रिय और अनुरूप प्रगार्थों के बृहत्साम से सम्बंन्ध रूप लिङ्ग को दिखला रहे हैं — ) 'त्वामिद्धि हवामहे ' और ' त्वं ह्येहि चेरवे' इति ये (क्रमशः स्तोत्रिय और अनुरूप प्रगाथ ) बृहत्पृष्ठं भवति बृहत् (नामक ) साम से युक्त पृष्ठ (स्तोत्र) होता है। यह बार्हते अहनि द्वितीये अहनि बृहत्साम से सम्बन्धित द्वितीय दिन में प्रयुक्त द्वितीयस्य अह्नः रूपम् द्वितीय दिन के अनुरूप है। सा ० भा०– ' त्वामिद्धि' इति बृहत्साम्न आधारभूतः स्तोत्रिय: प्रगाथः; 'त्वं ह्येहि' ( १ ) ऋ० ८.८ ९.१,२ । (२ ) ऋ ० ३.३२। (३ ) ऋ० ६.४६.१,२। ऐ.ब्रा. पू- ५८
पृष्ठ 920
पाठ पढ़ें पाठ छिपाएँ
: [८५८ ऐतरेयब्राह्मणम् २०.३ चतुर्थपञ्चिकायां इत्यनुचरः · प्रगाथः' । प्रथमे प्रगाथे बृहत्सामयुक्तं पृष्ठस्तोत्रं भवति । अत्र प्रगाथद्वयस्य बृहत्सामसंबन्धात् ' बार्हते ' बृहत्सामसंबन्धिन्यहनि तदुभयं भोग्यम्। द्वितीयस्य चाह्नो बृहत्सामसंबन्धित्वात् तस्मिन्नहनि विनियोक्तव्यम्। अयं च बृहत्सामसंबन्धो द्वितीयस्याह्नो लिङ्गम्॥ अथैकस्यामृच्यच्युतत्वं लिङ्गं दर्शयति— ' यद्वावानेति' ' धाय्याऽच्युता ॥ १२ ॥
हिन्दी—( अब एक ऋचा में अच्युतत्व लिङ्ग को दिखला रहे हैं — ) 'यद्वावान' इति
धाय्या अच्युता यह अच्युत (प्रथम दिन में विहित ) धाय्या है ।
सा० भा०--प्रथमेऽहन्यप्यस्या ऋचो विहितत्वात् अच्युतत्वम्॥
अथ प्रगाथान्तरे बृहत्सामसम्बन्धिरूपं लिङ्गं दर्शयति— ( प्रगाथान्तरे बृहत्सामसम्बन्धिरूपलिङ्गम् ) उभयं शृणवच्च न इति सामप्रगाथो, यच्चेदमद्य यदुं च ह्य आसीदिति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् ॥ १३ ॥
हिन्दी – ( अब अन्य प्रगाथ में बृहत् साम से सम्बन्ध होने के लिङ्ग को दिखला रहे हैं— ) 'उभयं शृणवच्च न' इति सामप्रगाथः यह सामप्रगाथ है (उभय शब्द का तात्पर्य है— ) ‘ यत् च इदम् अद्य जो यह आज है और यदु च ह्यः आसीत् जो कल था’– इति बार्हते अहनि द्वितीये अहनि यह बृहत्साम से सम्बन्धित द्वितीय दिन में प्रयुक्त द्वितीयस्य अह्नः रूपम् द्वितीय दिन का रूप है । -सा ० भा ० – ' उभयम्' - इत्यादिको बृहत्साम्ना सह प्रयुज्यमानः प्रगाथः । उभय- शब्दस्य कोऽर्थः सोऽभिधीयते— ' अद्य' अस्मिन् दिने ' यत्' कार्यमासीन्, ' इदं च' कार्य- मेकं, ‘ यदु च ’ यदपि ‘ ह्यः ’ पूर्वेद्युः कार्यमासीत्, तदपीत्येवं कार्यद्वयम् ‘ शृणवत्’ श्रुतमासीत्। इति मन्त्रगतस्योभयं शृणवदित्यस्यार्थः बार्हते इत्यादि पूर्ववत्॥ सूक्तान्तरे पूर्ववत् अच्युतत्वलिङ्गं दर्शयति- ( सूक्तान्तरेऽच्युतलिङ्गत्वम् ) ' त्य मू षु वाजिनं देवजूतम् -इति तार्क्ष्योऽच्युतः ॥१४ ॥
हिन्दी –( अन्य सूक्त में पूर्ववत् अच्युतत्व लिङ्ग को दिखला रहे हैं — ) ' त्यमू षु वाजिनं देवजूतम्' इति तार्क्ष्यः अच्युतः यह तार्क्ष्य देवताक ( सूक्तं) अच्युत (प्रथम दिन में विहित) है। ( १ ) ऋ० ८.६१.७,८ । (२ ) ऋ० १०.७४.६ ।( ) ( ) ३ ऋ० ८.६१.१,२ । ४ ऋ० १०.१७८२