ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 101–110

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 101–110

पृष्ठ 101

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ५ ९ से युक्त हो, यत् प्रथमे पदे देवता निरुच्यते जिस ( मन्त्र ) के प्रथम पाद में देवता निर्दिष्ट हो, यद् अयं लोको अभ्युदितः और जिसमें यह लोक ( पृथिवीलोक ) अभिहित ( वह मन्त्र छन्दोमं के प्रथम दिन अर्थात् द्वादशाह गत नवरात्र के सप्तम दिन का रूप है ॥ सा ० भा०— एतानि प्रथमादह्नोऽत्रातिदिष्टानि लिङ्गानि ॥ नूतनमपि लिङ्गं दर्शयति— यज्जातवद्यदनिरुक्तम् ॥४ ॥

हिन्दी— ( अब सप्तम दिन के नये चिह्न को कह रहे हैं— ) यत् जातवत् जो ( मन्त्र ) जनि धातु से युक्त हो और यद् अनिरुक्तम् जो अनिरुक्त ( देवताक ) हो ( वह मन्त्र सप्तम दिन का रूप है ) ॥ सा ० भा ० – ‘ जातवत् ' ‘ जनि ' धातुयुक्तम्: ' अनिरुक्तम् ' अस्पष्टदेवताकम् ॥ अतिदिष्टेन लिङ्गजातेन सह सर्वं लिङ्गजातमुपसंहरति — यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि वै सप्तमस्याह्नो रूपाणि ॥५ ॥

हिन्दी – यत् करिष्यत् जिस ( मन्त्र ) में भविष्यत्कालिक धातु का रूप हो और यत्प्रथमस्याह्नो रूपम् जो प्रथम दिन के रूप वाला हो, एतानि वै ये ( सभी ) ही सप्तमस्याह्नो रूपम् सप्तम दिन के रूप हैं सा ० भा ० — भविष्यदर्थवांचिप्रत्ययान्तं धातुमात्रं ' करिष्यत् ' इत्युच्यते । एतच्चान्यच्च यत्प्रथमस्याह्नो लिङ्गजातमस्ति, तेन सह सर्वाण्येतानि सप्तमस्याह्नो रूपाणि ॥ आज्यशस्त्रं विधत्ते— ( सप्तमस्याह्नो आज्यशस्त्रविधानम् ) ' समुद्रादूर्मिर्मधुमाँ उदारदिति ' सप्तमस्याह्न आज्यं भवत्यनिरुक्तं, सप्तमेऽहनि सप्तमस्याह्नो रूपम् ॥६ ॥

हिन्दी – ( अब सप्तम दिन के आज्यशस्त्र का विधान कर रहे हैं - ) ' समुद्रादूर्मि -र्मधुमाँ उदारत् ' इति सप्तममाह्ने आज्यं भवति यह ( सूक्त ) सप्तम दिन का आज्य ( शस्त्र ) होता है, जो अनिरुक्तम् अस्पष्ट देवता वाला है । सप्तमेऽहनि ( यह सूक्त ) सप्तम दिन में * ( प्रयुक्त ) सप्तमस्याह्नो रूपम् सप्तम दिन का रूप है । सा ० भा ० - – निःशेषेण स्पष्टमुक्तं देवतास्वरूपं ' निरुक्तम् ', तद्विपरीतम् ‘ अनिरुक्तम् ' । समुद्रादिति सूक्ते ' न काचिद्देवता विस्पष्टा । तस्माद् इदं लिङ्गसद्भावात् सप्तमेऽहनि योग्यतया सप्तमस्याह्नो निरूपकम् ॥ ( १ ) ऋ ० ४.५८ |

पृष्ठ 102

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६०: ऐतरेयब्राह्मणम् [ २३.१ पञ्चमपञ्चिकायां तदेतत्सूक्तं प्रशंसति— वाग्वै समुद्रो; न वै वाक्क्षीयते, न समुद्रः क्षीयते; तद्यदेतत्सप्तमस्याह्न आज्यं भवति, यज्ञादेव तद्यज्ञं तन्वते, वाचमेव तत्पुनरुपयन्ति, सन्तत्यै ॥७ ॥

हिन्दी – ( ' समुद्रादूमिर्मधुमाँ ' सूक्त की प्रशंसा कर रहे हैं— ) वाग्वै समुद्रः यह वाक् ही समुद्र है । न वाग्वै क्षीयते न तो वाणी क्षीण होती है न समुद्रः क्षीयते और न तो समुद्र क्षीण होता है । तद् यद् एतत् तो जो यह ( सूक्त ) सप्तमस्याह्नः आज्यं भवति सप्तम दिन का आज्य ( शस्त्र ) होता है तद् यज्ञाद् एव यज्ञं तनुते तो ( वाक् रूप ) यज्ञ से ही ( उस ) यज्ञ का विस्तार करता है । सन्तत्यै यज्ञ को निरन्तरता के लिए तत्पुनः वाचमेव उपनयन्ति उस ( यज्ञ के विस्तार ) से पुनः वाणी को ही प्राप्त करता है । सा ० भा— समुद्रादूर्मिरित्यत्र यः समुद्रः प्रोक्तः, सोऽयं वाक्स्वरूप एव; तयोर्वाक्-समुद्रयोरक्षय्यत्वसाम्यात् । एकैकस्य वस्तुनः कविभिर्बहुधा वर्ण्यमानत्वान्नास्ति वाच: क्षयः, समुद्रेऽपि जलं न शुष्यति । तस्मात् समुद्रस्य वाग्रूपत्वाद् यदेतत् समुद्रादिति सूक्तमत्राज्यशस्त्रं भवति, तदानीं वाङ्निष्पाद्यमन्त्रात्मकाद् ' यज्ञादेव ' अनुष्ठानरूपं ' यज्ञं ’ ‘ तन्वतेः विस्तारयन्ति । तद्विस्तारे च मन्त्राणां बहूनां पठितव्यत्वात् पुनः पुनर्वाचमेव

प्राप्नुवन्ति । तच्च यज्ञसन्तत्यै सम्पद्यते ॥

वेदनपूर्वकमनुष्ठानं प्रशंसति— सन्ततैत्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति ॥८ ॥

हिन्दी – ( वेदनपूर्वक अनुष्ठान की प्रशंसा कर रहे हैं - ) ये विद्वांसः एवं यन्ति जो विद्वान् इस प्रकार जानकर अनुष्ठान करते हैं, वे सन्ततैः अविच्छिन्नैर्व्यहै निरन्तर अविच्छिन्न त्र्यहों से यन्ति अनुष्ठान करते हैं । सा ० भा०- –पूर्ववद् व्याख्येयम् ॥ अस्मिन्नाज्यशस्त्रे ‘ घृतस्य नाम गृह्यमिति ' यो घृतशब्दः श्रुतः, तमभिप्रेत्य तद्वद्-दृष्टान्तपूर्वकमाज्यशस्त्रं प्रशंसति— आप्यन्ते वै स्तोमा, आप्यन्ते छन्दांसि षष्ठेऽहनि, तद्यथैवाद आज्ये-नावदानानि पुनः प्रत्यभिघारयन्त्ययातयामताया, एवमेवैतत् स्तोमांश्च च्छन्दांसि च पुनः प्रत्युपयन्त्ययातयामतायै यदेतत्सप्तमस्याह्न आज्यं भवति ॥ ९ ॥

हिन्दी— ( घृत शब्द के अभिप्राय से दृष्टान्त द्वारा आज्यशस्त्र की प्रशंसा कर रहे हैं— ) स्तोमा ( त्रिवृत्, पञ्चदश, सप्तदश, एकविंश, सप्तविंश और त्रयत्रिंश नामक

पृष्ठ 103

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ६१ सभी ) स्तोम आप्यन्ते वै षष्ठेऽहनि ( षष्ठ दिन में ) समाप्त हो जाते हैं, छन्दांसि ( गायत्री, त्रिष्टुप्, जगती, अनुष्टुप्, पडि, अतिच्छन्द नामक ) छन्द भी आप्यन्ते समाप्त हो जाते हैं । यथैवादः जैसे ( दर्शपूर्णमासादि में ) अवदानानि ( पुरोडाशादि का अवदान करके पुनः ) अवदान - स्थलों को आज्येन ( आज्यस्थाली के ) आज्य से आयतयामतायै सारविहीन न होने के लिए प्रत्यभिघारयन्ति पुनः प्रत्यभिघारण ( सिञ्चन ) करते हैं, एवमेव इसी प्रकार ही यद् एतत् सप्तमस्याह्नः जो यह सप्तम दिन का आज्यं भवति आज्य ( शस्त्र ) होता है एतत् यह अयातयामतायै निःसार न होने के लिए स्तोमान् च छन्दांसि च स्तोमों को और छन्दों को पुनः प्रत्युपयन्ति पुनः प्रतिपादन करके अनुष्ठान करते हैं ॥ सा ० भा ० — त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिशाख्या ये स्तोमाः ते सर्वेऽपि षष्ठेऽहनि ‘ आप्यन्ते ’ समाप्ताः । गायत्रीत्रिष्टुब्जगत्यनुष्टुप्पङ्क्तयतिच्छन्दोभिधानि सर्वाणि च्छन्दांसि च समाप्तानि । तथा सति ' यथैवादः ' वक्ष्यमाणं निदर्शनम् । तथैव सप्तमस्याह्नः प्रवृत्तिर्द्रष्टव्या । किं निदर्शनमिति? तदुच्यते — दर्शपूर्णमासादिषु पुरोडाशादिद्रव्याण्यवदाय पश्चात्तान्यवदानस्थानान्याज्यस्थाल्या आज्येन पुनः प्रत्यभिघारयन्ति । किमर्थमिति? तदु-च्यते — ‘ अयातयामतायै ’ गतसारत्वपरिहाराय, पुनरपि हविष्ट्वयोग्यतार्थम् एतमेवैतस्मिन् सप्तमेऽहनि स्तोमांच्छन्दांसि च पुनरपि ' प्रत्युपयन्ति ' प्रतिपद्यानुतिष्ठन्ति । तथा सत्यनुष्ठितस्य पुनरनुष्ठानं चर्वितचर्वणसमानमिति ' यातयामत्वं ' गतसारत्वं भवेत् । अतो यदेतत् समुद्रा-दूर्मिरित्यादिकं सप्तमस्याह्न आज्यं भवति, तदेतद् ' अयातयामतायै ' पुनरपि सारत्वसिद्ध्यर्थं भवति । तस्मिञ्छस्त्रे ‘ घृतस्य नाम गृह्यमिति घृतशब्दस्य विद्यमानत्वात् प्रत्यभिघारणसाम्यं भवति । यद्यपि त्रिवृदादयः स्तोमाः सप्तमेऽहनि पुनर्नानुष्ठीयन्ते, तथाऽपि चतुर्विंशा-दयश्छन्दोमनामका अनुष्ठास्यन्ते । तस्मादयातयामत्वं स्तोमत्वसाम्येनाभिहितम् ॥ आज्यशस्त्रगतं छन्दः प्रशंसति— तदु त्रैष्टुभं त्रिष्टुष्प्रातःसवन एष त्र्यहः ॥ १० ॥

हिन्दी - ( सप्तम दिन के आज्यशस्त्रगत छन्द की प्रशंसा कर रहे हैं - ) तदु वह ( सूक्त ) त्रैष्टुभम् त्रिष्टुप् छन्द वाला है और त्र्यहः ( इस छन्दोम नामक ) त्र्यह का एषः प्रातःसवनः यह प्रात: सवन त्रिष्टुप् त्रिष्टुप् छन्द वाला होता है ॥ सा ० भा ० -'तदु ' तदपि ' समुद्रादूर्मि: ' इत्यादिकं शस्त्रं त्रिष्टुप्छन्दस्कम्; प्रात: सवने त्रिष्टुप्छन्दो यस्मिंस्तृतीये त्र्यहे सोऽयं ' त्रिष्टुप्प्रातः सवनः ' । यथा प्रथमस्य त्र्यहस्य प्रातः सवने गायत्री, यथा वा मध्यमस्य त्र्यहस्य प्रातः सवने जगती, एवमुत्तमस्य त्र्यहस्य प्रातःसवने

त्रिष्टुप् अवगन्तव्या । एतच्छन्दसां विवादे निर्णीतम् ॥

( १ ) ऋ ० ४.५८.१ । ( २ ) इहैवाग्रे क्रमाद् व्यक्तीभविष्यन्ति । ऐ.ब्रा.उ. - ७

पृष्ठ 104

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६२: ऐतरेयब्राह्मणम् [ २३.१ पञ्चमपञ्चिकायां अथ प्रशस्त्रं विधत्ते— ( सप्तमस्याह्नः प्रउगशस्त्रनिरूपणम् ) ' आ वायो भूष शुचिपा उप नः ' ' प्र याभिर्यासि दाश्वांसमच्छा, नो नियुद्भिः शतिनीभिरध्वरं ' ' प्र सोता जीरो अध्वरेष्वस्थात् ', ' ये वायव इन्द्रमादनासो ' या वां शतं नियुतो याः सहस्रं ' ' प्र यद्वासं मित्रावरुणा स्पूर्धन्ना, गोमता नासत्या रथेनाऽऽ ना देव शवसा याहि शुष्मिन् ' ' प्र वो यज्ञेषु देवयन्तो अर्चन् ' ' प्र क्षोदसा धायसा सस्त्र एषेति ' प्रउगमेति च प्रेति च सप्तमेऽहनि सप्तमस्याह्नो रूपं, तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ॥ ११ ॥

हिन्दी— ( सप्तम दिन के प्रउगशस्त्र का विधान कर रहे हैं — ) ' आ वायो भूष शुचिपा उप नः ’, ‘ प्र याभिर्यासि दाश्वांसमच्छा ', ' नो नियुद्भिः शतिनीभिरध्वरं ', ' प्र सोता जीरो अध्वरेष्वस्थात् ’, ‘ ये वायव इन्द्रमादनासः ', ' या वां शतं नियुक्तो या सहस्रं ' ( इस प्रकार ये छं: ऋचाएँ = दो तृच ) तथा ' प्र यद्वां मित्रावरुणा स्पूर्धना ', ' गोमता नासत्या रथेन ', ' आनो देव शवसा याहि शुष्मिन् ', ' प्र वो यज्ञेषु देवयन्तो अर्चन् ', ' प्र क्षोदसा धायसा सस्र एष ' ( ये तृच ) इति प्रउगम् ये तृच सप्तम दिन का प्रउग ( शस्त्र ) है जिसमें एति च प्रेति च आ और प्र - यह ( उपसर्ग ) युक्त सप्तमेऽहनि सप्तम दिन में ( प्रयुक्त ) सप्तमस्याह्नो रूपम् सप्तम दिन का रूप है । तदु त्रैष्टुभम् वे ऋचाएँ त्रिष्टुप् छन्द वाली हैं । त्र्यहः त्र्यह का एषः सवनः यह ( प्रात: कालीन ) सवन निष्टुप् त्रिष्टुप् छन्द वाला है ॥ सा ० भा ० | - – ' आ वायो भूष ' इति प्रथमं प्रतीकं, तस्मिन्नाकारो लिङ्गम् । ‘ प्र याभिः ’ ’ इति द्वितीयम् । तत्र प्रशब्दो लिङ्गम् । ' आ नो नियुद्भिः १३ ' ३ इति तृतीयम् । तस्मिन्नाकारः । ‘ प्र सोता ' इति चतुर्थे प्रशब्दः । ' ये वायव इन्द्रेति " पञ्चमं तत्र द्वितीयपादे ' आ देवासः ’ इत्याकारः । ‘ या वां शतमिति ' षष्ठं, तस्य तृतीयपादादावाकारः श्रुतः । ' प्र यद्वामिति ” सप्तमे प्रशब्दः । ‘ आ गोमता ' इत्यष्टमे ' आकारः । ‘ आ नो देवेति ' " नवमेऽप्याकारः । ‘ प्र वो यज्ञेष्विति’१ ॰ दशमे प्रशब्दः । ' प्र क्षोदसा'- इत्येकादशेऽपि ११ प्रशब्दः । अत्राद्यैः षड्भिद्वौं तृचौ९ २ । इतरे पञ्च तृचाः । तदेतत् सर्वं प्रउगशस्त्रमुक्तलिङ्गसद्भावात् सप्तमेऽहनि योग्यम् । ( १ ) ऋ ० ७.९ २.१ ( २ ) ऋ ० ७.९ २.३ ( ३ ) ऋ ० ७.९ २.५ ( ४ ) ऋ ० ७.९ २.२ ( ५ ) ऋ ० ७.९ २.४ ( ६ ) ऋ ० ७.९ १.६ ( ७ ) ऋ ० ६.६७.९ -११ ( ८ ) ऋ ० ७.७२.१-३ ( ९ ) ऋ ० ७.३०.१-३ ( १० ) ऋ ० ७.४३.१-३ ( ११ ) ऋ ० ७.९५.१-३ ( १२ ) तथा ह्याश्वलायनः — ‘ आ वायो भूष... सहस्रमित्येकपातिन्यः ' - इति आश्व ० श्रौ ० ८.९.२

पृष्ठ 105

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ६३ अन्यत् पूर्ववद् व्याख्येयम् ॥ शस्त्रक्लृप्तिसमत्वलिङ्गकान् मन्त्रान् विधत्ते— ( सप्तमस्याह्नो मरुत्वतीयशस्त्रविधानम् ) ' आ त्वा रथं यथोतय ' इदं वसो सुतमन्ध ' इन्द्र नेदीय एदिहि ' प्रैतु ब्रह्मणस्पतिर " ग्निर्नेता ' त्वं सोम क्रतुभिः ६ पिन्वन्त्यपः " प्र व इन्द्राय बृहत ' इति प्रथमेनाह्ना समान आतानः सप्तमेऽहनि सप्तम-स्याह्नो रूपम् ॥ १२ ॥

हिन्दी – ' आ त्वा रथं यथोतय ', ' इदं वसो सुतमन्धः ', ' इन्द्र नेदीय एदिहि ', ' प्रैतु ब्रह्मणस्पतिः ', ' अग्निर्नेता ', ' त्वं सोम क्रतुभिः ', ' पिन्वन्त्यपः ', ' प्र व इन्द्राय बृहत: ' इति प्रथमेनाह्वा समानः ये ऋचाएँ प्रथम दिन के समान आतानः क्रमागत ऋचाएँ सप्त-मेऽहनि सप्तम दिन में ( प्रयुक्त ) सप्तमस्याह्नो रूपम् सप्तम दिन के रूप हैं ॥ अथ जागतलिङ्गकं सूक्तं विधत्ते-' कया शुभा सवयसः सनीळा " इति सूक्तं, न जायमानो न शतेन जात इति जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपम् ॥१३ ॥

हिन्दी – ( अब जात चिह्न वाले सूक्त का विधान कर रहे हैं - ) ' कया शुभा सवयसः सनीळा ' इति सूक्तम् यह सूक्त है । ( इसकी नवमी ऋचा का ) ' न जायमानो न शतेन जात ' इति जातवत् यह जात शब्द से युक्त है जो सप्तमेऽहनि सप्तम दिन में ( प्रयुक्त ) सप्तमयाह्नो रूपम् सप्तम दिन का रूप है । सा ० भा ० — अस्य सूक्तस्य नवम्यामृचि ' न जायमानः ' इत्यादिस्तृतीयः पादः । तत्र जातशब्दोपेतत्वं लिङ्गम् ॥ एतत्सूक्तं प्रशंसति— तदु कयाशुभीयम्, एतद्वै संज्ञानं सन्तनि सूक्तं, यत्कयाशुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजानत, तद्यत्कयाशुभीयं शंसति संज्ञात्या एव ॥ १४ ॥

हिन्दी – ( ' कया शुभा ' से प्रारम्भ सूक्त की प्रशंसा कर रहे हैं - ) तदु कयाशुभी-( १ ) ऋ ० ८.६८.१ । ( २ ) ऋ ० ८.२.१ । ( ३ ) ऋ ० ८.५३.५ । ( ४ ) ऋ ० १.४०.३ । ( ५ ) ऋ ० ३.२०.४ | ( ६ ) ऋ ० १.९ २.२ । ( ७ ) ऋ ० १.६४.६ । ( ८ ) ऋ ० ८.८ ९.३ । ( ९ ) ऋ ० १.१६५ ।

पृष्ठ 106

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६४: ऐतरेयब्राह्मणम् [ २३.१ पञ्चमपञ्चिकायां यम् वह ‘ कया शुभा ’ से प्रारम्भ संज्ञानम् परस्पर ऐकमत्य का साधन और सन्तनि सूक्तम् सन्तानकर ( = दीर्घ आयु का कारण रूप ) है । यत्कयाशुभीयम् जो ' कया शुभा ' से प्रारम्भ सूक्त है, एतेन ह वै इसी ( सूक्त से अनुष्ठान ) के द्वारा इन्द्रोऽगस्त्यो मरुतः इन्द्र, अगस्त्य और मरुत् – ते समजानत वे ( सभी ) ऐकमत्य हुए । तत् तो संज्ञात्यै एव ऐकमत्य होने के लिए कयाशुभीयं शंसति ' कया शुभा ' से प्रारम्भ सूक्त का शंसन करता है । सा ० भा ० — ‘ तदु ’ तत्सूक्तं ' कयाशुभ ' शब्दोपेतत्वात् कयाशुभीयनामकम् । अस्त्वे-वम्, किं तत्? इति चेत्, उच्यते — एतदेव कयाशुभीयनामकं सूक्तं ' संज्ञानम् ' परस्परैक-मत्यसाधनम्; किंचैतत्सूक्तं ‘ संतनि ' संतानकरं प्राणानामविच्छेदेन दीर्घायुष्यकारणम् । यदेतत् कयाशुभीयसूक्तमस्ति, एतदनुष्ठानेनैवेन्द्रागस्त्यमरुतो ये सन्ति, ‘ ते ’ सर्वे ‘ समजानत ’ संज्ञानं परस्परैकमत्यं प्राप्नुवन् । तथा सत्येतच्छंसनं विप्रतिपन्नानामैकमत्यार्थं संपद्यते । प्रकारान्तरेण प्रशंसति— तद्वायुष्यं तद्योऽस्य प्रियः स्यात् कुर्यादेवास्य कयाशुभीयम् ॥ १५ ॥

हिन्दी – ( प्रकारान्तर से सूक्त की प्रशंसा कर रहे हैं - ) तद् वैं आयुष्यम् यह ( सूक्त ) ही आयुष्यकर है । यः अस्य जो ( सन्तानादि ) इस ( यजमान ) का प्रियः स्यात् प्रिय होवे तत् तो अस्य कयाशुभीयम् कुर्यात् इस ( सन्तानादि ) की ( आयु की वृद्धि के लिए ) कय़ाशुभीय सूक्त का ( शंसन ) करे ॥ सा ० भा०- - ' तदु ' तत्तु सूक्तमायुष्करम्, संतनीति पूर्वमुक्तत्वात् । तथा सत्यस्य यजमानस्य यः पुत्रादिः प्रियः स्यात्, तस्यऽऽयुर्वृद्ध्यर्थं कयाशुभीयसूक्तं कुर्यादेव ॥ पुनरपि च्छन्दोद्वारा प्रशंसति— तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधाराऽऽयतनादेवैतेन न प्रच्यवते ॥ १६ ॥

हिन्दी– ( पुन: छन्द के द्वारा सूक्त की प्रशंसा कर रहे हैं— ) तदु त्रैष्टुभम् वह ( सूक्त ) त्रिष्टुप् छन्द वाला है । प्रतिष्ठितपदेन तेन प्रतिष्ठित पद ( नियताक्षर पाद वाले ) उस सूक्त से सवनं दाधार ( माध्यन्दिन ) सवन ( वाला मरुत्वतीयशस्त्र ) धारित होता है अतः एतेन

इस सूक्त द्वारा आयतनाद् न प्रच्यवते अपने स्थान से च्युत नहीं होता ।

सा ० भा ० - – पूर्ववद्व्याख्येयम् ॥

रथलिङ्गकं सूक्तं विधत्ते— ' त्यं सु मेषं महया स्वर्विदमिति ' ' सूक्तमत्यं न वाजं हवनस्यवं ( १ ) ऋ ० १.५२ ।

पृष्ठ 107

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ६५ रथमिति रथवत् सप्तमेऽहनि सप्तमस्याह्नो रूपम् ॥ १७ ॥

हिन्दी – ( अब रथ चिह्न वाले सूक्त को कह रहे हैं— ) ' त्यं सु मेष महया स्वर्विदम् ' इति सूक्तम् यह सूक्त है । ( इसकी प्रथम ऋचा का तृतीय पाद ) ' अत्यं न वाजं हवनस्पदं रथम् ' रथवत् रथ शब्द से युक्त है जो सप्तमेऽहनि सप्तम दिन में ( प्रयुक्त ) सप्तमस्याह्नो रूपम् सप्तम दिन का रूप है । सा ० भा०- ' -'त्यं सु मेषम् ' - इति सूक्तस्य ' अस्त्यं न वाजम् ' इति तृतीयः पादः, तत्र रथशब्दः श्रूयते ॥ तस्मिन् सूक्ते निविद्धानं विधत्ते— तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति, तद्वैतच्छन्दो वहति, यस्मिन्निविद्धीयते, तस्माज्जगतीषु निविदं दधाति ॥ १८ ॥

हिन्दी – ( उस सूक्त में निविद्धान को कह रहे हैं - ) तदु जागतम् यह ( सूक्त जगती छन्द वाला है । जगत्यः वै जगती ही एतस्य त्र्यहस्य इस त्र्यह के माध्यन्दिनं माध्यन्दिन ( सवन ) का वहन्ति निर्वहन करते हैं । यस्मिन् निविद्धीयते जिस ( छन्द ) में निवित् का

प्रक्षेप होता है । एतद् वै छन्दः यह ही छन्द ( सवन का ) वहति निर्वहन करता है ।

एतस्मात् इसी कारण जगतीषु निविद्धं दधाति जगती में ही निवित् का प्रक्षेप करता है ॥

सा ० भा ० — अस्य सूक्तस्य जगतीछन्दस्कत्वाज्जागतत्वम्, तान् च विवादक्रमेणोत्तरे त्र्यहे माध्यंदिनसवननिर्वाहकत्वादस्मिन् माध्यंदिनसवनगते शस्त्रे; तत्सवननिर्वाहकतया जगतीछन्दस्कास्वृक्षु निविदं प्रक्षिपेत् ॥ पूर्वोक्तं त्रिष्टुप्छन्दः, इदानीमुच्यमानं जगतीछन्दश्च मिलित्वा प्रशंसति— मिथुनानि सूक्तानि शस्यन्ते, - त्रैष्टुभानि च जागतानि च, मिथुनं वै पशवः, पशवश्छन्दोमाः, पशूनामवरुद्ध्यै ॥ १ ९ ॥ हिन्दी – ( पूर्वोक्त त्रिष्टुप् छन्द और इस जगती छन्द को मिलाकर शस्त्र की प्रशंसा कर रहे हैं — ) त्रैष्टुभानि च जागतानि च त्रिष्टुप् ( छन्द ) और जगती ( छन्द ) वाले मिथुनानि सूक्तानि मिथुन सूक्तों का शस्यन्ते शंसन किया जाता है । मिथुनं वै पशवः पशु भी मिथुन रूप वाले हैं । पशवः छन्दोमाः ( चतुर्विंश, चतुश्चत्वारिंश और अष्टाच-त्वारिंश नामक ) छन्दोम ( पशुप्राप्ति का हेतु होने से ) पशुरूप हैं ( अत: छन्दोमयुक्त इस त्र्यह में दोनों छन्दों का शंसन ) पशूनाम् अवरुद्ध्यै पशुओं की प्राप्ति के लिए ( होता है ) ॥ सा ० भा ० — यथा परस्परविलक्षणयो: स्त्रीपुरुषयोमेंलने मिथुनं भवति, एवं छन्दोद्वय-मेलेन मिथुनत्वम्; गवाश्वादिपशवश्च मिथुनरूपाः, चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वारिंशा-ख्याश्छन्दोमाः, पशुसाधनत्वात् पशुरूपाः । तस्माच्छन्दोमयुक्तेऽस्मित्र्यहे छन्दोद्वयानुष्ठानं

पृष्ठ 108

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६६: ऐतरेयब्राह्मणम् [ २३.१ पञ्चमपञ्चिकायां पशुप्राप्त्यै भवति । ‘ छन्दोभिः, गायत्रीत्रिष्टुब्जगतीभिरक्षरसंख्याद्वारेणोपमीयन्त इति चतु-र्विंशादयस्त्रयश्छन्दोमाः । तत्र गायत्र्या चतुर्विंशत्यक्षरया सदृशो यश्चतुर्विंशः स्तोमः, तस्य प्रतिपादकमष्टभ्यो हिं करोतीत्यादिकं छन्दोगब्राह्मणम् । चतुर्विंशमेतदहरुपयन्तीत्यारम्भणीयमित्यत्रैवोदाहृतम् ॥ यच्च ( अथ च ) तुश्चत्वारिंशस्तोमस्य निरूपकं छन्दोगब्राह्मणमेवमाम्नायते— ' पञ्चदशभ्यो हिं करोति स तिसृभिः स एकादशभिः स एकया, चतुर्दशभ्यो हिं करोति स एकया स तिसृभिः स दशभिः, पञ्चदशभ्यो हिं करोति स एकादशभिः स एकया स तिसृभिः’१ इति । अस्यायमर्थः – त्रिभिः पर्यायैस्तृचस्याऽऽवृत्तौ प्रथमे पर्याये – प्रथमाया ऋचस्त्रिरभ्यासो मध्य-माया ऋच एकादशकृत्वोऽभ्यासः । उत्तमाया ऋचः सकृत्पाठः । द्वितीये पर्याये — प्रथमायाः सकृत्पाठः । मध्यमायास्त्रिरभ्यासः । उत्तमाया दशकृत्वोऽभ्यासः । तृतीये पर्याये – प्रथमाया एकादशकृत्वोऽभ्यासः । मध्यमायाः सकृत्पाठः । उत्तमायास्त्रिरभ्यासः; सोऽयं चतुश्चत्वारिंश-स्तोम इति । अथाष्टाचत्वारिंशस्तोमस्य ब्राह्मणमेवमाम्नायते— ' षोडशभ्यो हिं करोति स तिसृभिः स द्वादशभिः स एकया स तिसृभिः । अन्तो वाऽष्टाचत्वारिंशः ३ इति । अस्यायमर्थः – प्रथमे पर्याय — प्रथमायास्त्रिरभ्यासः, मध्यमाया द्वादशकृत्वोऽभ्यासः, उत्तमायाः सकृत्पाठः । द्वितीयपर्याये — प्रथमायाः सकृत्पाठः, मध्यमायास्त्रिरभ्यासः, उत्तमाया द्वादशकृत्वो ऽभ्यास इति । तृतीयपर्याये — प्रथमाया द्वादशकृत्वोऽभ्यासः, मध्यमायाः सकृत्पाठः । उत्तमायास्त्रिर-भ्यास इति । एवमष्टाचत्वारिंशस्तोम ' इति । एवं त्रयश्छन्दोमा अवगन्तव्याः ॥ अथ बृहत्सामसाध्यपृष्ठस्तोत्रियस्याधारभूतं स्तोत्रियं प्रगाथं तदनुरूपं च विधत्ते— ( सप्तमेऽहनि निष्केवल्यशस्त्रविधानम् ) त्वामिद्धि हवामहे, त्वं ह्येहि चेव इतिबृहपृष्ठ सप्तमेऽहनि ॥ २० ॥

हिन्दी – ( अब बृहत्साम से साध्य पृष्ठ स्तोत्रिय के आधारभूत स्तोत्रिय प्रगाथ का तदनुरूप विधान कर रहे हैं — ) ' त्वमिद्धि हवामहे ' तथा ' त्वं ह्येव चेरव ' - इति यह सप्तमेऽहनि सप्तम दिन में ( निष्केवल्यशस्त्र में शंसनीय ) बृहत्पृष्ठं भवति बृहत्पृष्ठ होता है ॥ ( १ ) ता ० ब्रा ० ३.९ -११ ख ० । ( ३ ) चतुश्चत्वारिंशाख्यस्य स्तोमस्य तिस्रो विष्टुतयः; तत्राद्येयम् । ( ४ ) ता ० ब्रा ० ३.१२,१३ । ( ५ ) अष्टाचत्वारिंशाख्यस्य स्तोमस्य द्वे विष्टुती; तत्राप्याद्येयम् ।

पृष्ठ 109

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ६७ सा ० भा ० – त्वामिद्धीत्येकः ' प्रगाथ: । त्वं ह्येहीति द्वितीयः । तदुभयं सप्तमेऽ-हनि निष्केवल्यशस्त्रे शंसनीयम् । नन्वयुग्ममहः सप्तमं, तथा सति रथंतरपृष्ठं परित्यज्य बृहत्पृष्ठं किमित्युपादीयते? इति चेत्, वचनबलादितिब्रूमः; ' किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभारः ' इति न्यायात् ॥ बृहत्पृष्ठस्वीकारे कांचिद्युक्तिमाह— यदेव षष्ठस्याह्नस्तत् ॥ २१ ॥

हिन्दी – ( बृहत्पृष्ठ के स्वीकार करने पर कुछ युक्ति को कह रहे हैं— ) यदेव षष्ठस्याह्नः जो षष्ठ अहः में ( पृष्ठ स्तोत्र होता है ) तत् वही ( यहाँ सप्तम अहः में भी होता है ) । सा ० भा ० – पूर्वस्य षष्ठस्याह्रो यदेव पृष्ठस्तोत्रं, तदेवात्र कृतं भवति । यस्य प्रयोजनं तूपरिष्टाद् वक्ष्यते । ननु षष्ठेऽप्यहनि रैवतं पृष्ठं, न तु बृहदिति चेत्, नैष दोषः; बृहद्रैवतयोः कार्यकारणभावेनैकत्वादित्यभिप्रेत्य ' बृहच्च वा इदमग्रे रथन्तरं चाऽऽस्ताम् ' इत्यत्र प्रतिपादितम् ॥ कार्यकारणभावमिह स्मारयति— यद्वै रथन्तरं, तद्वैरूपं, यबृहत्, तद्वैराजं; यद्रथंतरं, तच्छाक्वरं; यद्बृहत्, तद्वैवतम् ॥२२ ॥

हिन्दी — यद्वै रथन्तरम् ( और भी ) जो रथन्तर है तद् वैरूपम् वह वैरूप है तथा यद् बृहत् जो बृहत् है तद् वैराजम् वह वैराज है । यद् रथन्तरं तत् शाक्वरम् जो रथन्तर है, वह शाक्वर है तथा यद् बृहद् तद् रैवतम् जो बृहत् है, वह रैवत है ॥ सा ० भा०- -वैरूपशाक्वरयो रथंतरजन्यत्वात् तद्रूपत्वं वैराजरैवतयोर्बृहज्जन्यत्वात् तद्रूपत्वम्, एवं च सति षष्ठेऽहनि रैवतस्य बृहत्त्वं व्यवहर्तुं शक्यते ॥ इदानीमत्र सप्तमेऽहनि बृहत्पृष्ठस्वीकारे प्रयोजनमाह— तद्यद्बृहत्पृष्ठं भवति, बृहतैव तद् बृहत्प्रत्युत्तभ्नुवन्त्यस्तोम-कृन्तत्राय ॥२३ ॥

... हिन्दी - ( अब सप्तम दिन बृहत्पृष्ठ के स्वीकार करने के प्रयोजन को कह रहे हैं— ) तद् यद् बृहत्पृष्ठं तो जो यह बृहत्पृष्ठ होता है । अस्तोमकृन्तत्राय स्तोम के छेदनराहित्य के लिए बृहता एव तद् बृहत् ( षष्ठ अह में अनुष्ठित ) बृहत् से ही वह ( सप्तम दिन में ) बृहत् ( पृष्ठ ) का प्रत्युत्तभ्नुवन्ति पुनरुद्धरण करते हैं ॥ ( १ ) ऋ ० ६.४६.१,२ । ( २ ) ऋ ० ८.६१.७,८ ।

पृष्ठ 110

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६८: ऐतरेयब्राह्मणम् [ २३.१ पञ्चमपञ्चिकायां सा ० भा ० – ‘ तत् ’ तस्मात् षष्ठेऽहनि कृतस्य रैवतस्य बृहद्रूपत्वात् कारणात् ‘ यद् ’ यत्र सप्तमेऽहनि बृहत्पृष्ठं क्रियते; तदिदानीं षष्ठेऽहन्यनुष्ठितेन बृहतैवास्मिन् सप्तमेऽहनि ‘ तद् ' बृहत्पृष्ठं ' प्रत्युत्तभ्नुवन्ति ' । अतीतत्वेन नष्टस्य पुनरुद्धरणं प्रत्युत्तम्भनम् । एतच्च ‘ अस्तोमकृन्तत्राय ’ सम्पद्यते । स्तोमानां त्रिवृत्पञ्चदशादीनां कृन्तत्रं छेदः, तद्राहित्यम् ‘ अस्तोमकृन्तत्रं, तदर्थमत्र स्वीकारः ॥ विपक्षबाधोपन्यासमुखेनैव तदेव स्पष्टयति— यद्रथंतरं स्यात् कृन्तत्रं स्यात् ॥ २४ ॥

हिन्दी – यद् रथन्तरं स्यात् यदि रथन्तर होवे तो कृन्तत्रं स्यात् विच्छेदन ही होता है ॥ सा ० भा ० | – - षष्ठेऽहन्यनुष्ठितस्य बृहतोऽस्मिन् सप्तमेऽहन्यनुवृत्तिं परित्यज्य युग्म-दिनत्वमाश्रित्य रथंतरं पृष्ठं स्वीक्रियते, तदानीं षष्ठसप्तमयोरनवृत्त्यभावात् ‘ कृन्तत्रं ’ विच्छेदनं स्यात् । षष्ठे बृहत्कृतं, सप्तमे तन्न कृतम्, किंतु रथंतरं कृतमिति विच्छेदः ॥ विपक्षबाधमुपन्यस्य स्वपक्षमुपसंहरति-तस्माद् बृहदेव कर्तव्यम् ॥ २५ ॥

हिन्दी - तस्माद् एव इसी कारण ही बृहद् एव कर्त्तव्यम् बृहत् ही करना चाहिए ॥ सा ० भा ० — यस्माद् बृहति कृते विच्छेदः III परिह्रियते I, तस्मादित्यर्थः ॥ अच्युतत्वलिङ्गयुक्तामृचं विधत्ते— ' यद्वावानेति ' ' धाय्याऽच्युता ॥ २६ ॥

हिन्दी – ( अच्युतत्व चिह्न वाली ऋचा को कह रहे हैं— ) ' यद्वावान् ' इति अच्युता धाय्या यह पूर्व ने विहित धाय्या है । अथ अयुग्मदिनत्वमुपजीव्य रथंतरसम्बन्धात् तदीयामृचं विधत्ते— ' अभि त्वा शूर नोनुम इति २ रथन्तरस्य योनिमनु निवर्तयति, राथंतरं ह्येतदहरायतनेन ॥ २७ ॥

हिन्दी — ‘ अभि त्वा शूर नोनुम् ' इति रथन्तरस्य योनिम् इस रथन्तर की योनि को अनु निवर्तयति ( पूर्वोक्त धाय्या के ) बाद में शंसन करता है; क्योंकि आयतनेन ( अयुग्म रूप ) स्थान से एतद् अहः यह ( सप्तम ) दिन राथन्तरम् रथन्तर से सम्बन्धित है ॥ सा ० भा ० — नितरां वर्तनमनुष्ठानं निवर्तनं, न तु परित्यागः | ‘ आयतनेन ' अयुग्मत्व-स्थानेन रथंतरसम्बन्धः ॥ ( १ ) ऋ ० १०.७४.६ । ( २ ) ऋ ० ७.३२.२२ ।