ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 91–100

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 91–100

पृष्ठ 91

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ४ ९ तद्यदेते सूक्ते ' षष्ठेऽहनि शंसति, यज्ञस्य प्रज्ञात्यै, स्वर्गस्य लोकस्यानुख्यात्यै ॥ ५ ॥

हिन्दी— ( दोनों सूक्तों की प्रशंसा करके उसकी विधि का निगमन कर रहे हैं — ) तत् इसी कारण यज्ञस्य प्रज्ञात्यै यज्ञ के प्रकृष्ट रूप से ज्ञान के लिए और स्वर्गस्य लोकस्य अनुख्यातै स्वर्गलोक के अवगम के लिए षष्ठेऽहनि षष्ठ दिन एते सूक्ते इन दोनों सूक्तों का शंसति शंसन करता है ॥ सा ० भा ० -- यस्मात् सूक्तद्वयशंसनेनाङ्गिरोभिर्यज्ञः स्वर्गश्च प्रज्ञात, तस्माद्धोता तदुभयं शंसेत्, तच्च यज्ञस्वर्गयोरवगमाय भवति ॥ पुनरपि सूक्तयोर्महिमानं दर्शयितुमुपाख्यानमेवाह— तं स्वर्यन्तोऽब्रुवन्नेतत् ते ब्राह्मण सहस्रमिति, तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुह-मिति, सोऽब्रवीन्मह्यं वा इदमदुरिति, तमब्रवीत् तद्वै नौ तवैव पितरि प्रश्न इति; स पितरमैत् तं पिताऽब्रवीन्ननु ते पुत्रकादू ३ रित्यदुरेव म इत्यब्रवीत् तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति; तं पिताऽब्रवीत् - तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति; स पुनरेत्याब्रवीत् - - तव ह वाव किल भगव इदमिति मे पिताऽऽहेति सोऽब्रवीत् - तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति ॥ ६ ॥

हिन्दी - ( दोनों सूक्तों की महत्ता को दिखलाने के लिए पुनः उपाख्यान को कह रहे हैं— ) तम् उस ( नाभानेदिष्ठ ) से स्वर्यन्तः स्वर्ग के जाने के लिए उद्युक्त हुए ( अङ्गिराओं ) ने अब्रुवन् कहा— ब्राह्मण हे ब्राह्मण! ते सहस्रम् ( यज्ञभूमि में अवशिष्ट ) सहस्र धन तुम्हारे लिए है । तत् समाकुर्वाणम् एनम् तब उस धन को इकट्ठा करने वाले इस ( नाभानेदिष्ठ ) से उत्तरतः उत्थाय ( यज्ञभूमि के उत्तर की ओर से उठकर ) कृष्णशवासी काला वस्त्र पहने हुए पुरुषः किसी पुरुष ने अब्रवीत् कहा- मम वै इदम् यह मेरा ही है, मम वै वास्तुहम् यज्ञभूमि में परित्यक्त वस्तु मेरी ही है । सः अब्रवीत् तब उस ( नाभानेदिष्ठ ) ने कहा — मह्यं वै इदम् अदुः इसे मेरे लिए ही ( अङ्गिराओं ) ने दिया है । तम् अब्रवीत् उस ( नाभानेदिष्ठ ) से ( उस पुरुष ने कहा - तद् वै नौ तब यह हम दोनों का है । तव एव पितरि प्रश्नः ( इस निर्णय के विषय में ) तुम्हारे पिता से पूछा जाय । सः वह ( नाभानेदिष्ठ ) से पिता अब्रवीत् पिता ( मनु ) ने कहा – पुत्रक हे पुत्र! ननु ते ( १ ) ऋ ० १०.६१-६२ ।

पृष्ठ 92

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ५०: ऐतरेयब्राह्मणम् [ २२.९ पञ्चमपञ्चिकायां अदुः क्या तुम्हारे लिए ( अङ्गिराओं ने ) दिया है? मे एव अदुः मेरे लिए ही है इति अब्रवीत् इस प्रकार ( नाभानेदिष्ठ ) ने कहा । तत्तु मे एव वह तो मेरा ही है । ( तब क्या हुआ - ऐसा पूछने पर उस नाभानेदिष्ठ ने कहा- ) उत्तरत: उपोदतिष्ठन् यज्ञभूमि के उत्तर की ओर से उठकर कृष्णशवासी कृष्णवर्ण वाला वस्त्र धारण किये हुए पुरुषः पुरुष ने कहा — मम वै इदम् यह मेरा ही है, मम वै वास्तुमहम् यज्ञभूमि में परित्यक्त वस्तु मेरी ही है । तं पिता अब्रवीत् तब उस ( नाभानेदिष्ठ ) से पिता ( मनु ) ने कहा – पुत्रक हे पुत्र! तस्य एव तत् वह उसी का है, सः वह ( पुरुष ) तुभ्यम् तुम्हारे लिए तत् दास्यति उसको देगा । सः वह ( नाभानेदिष्ठ ) पुनः एत्य अब्रवीत् पुन: ( यज्ञभूमि में ) आकर कहा — भगव हे भगवन्! तव वाव इदम् यह तुम्हारा ही है इति मे पिता आह ऐसा मेरे पिता ने कहा है । सः अब्रवीत् तब उस ( पुरुष ) ने कहा - तत् अहं तुभ्यमेव ददामि तो उसे मैं तुम्हारे लिए ही दे रहा हूँ; क्योंकि यः एव सत्यम् अवादीः जो तुमने सत्य बोला है । सा ० भा ० – ‘ तं ’ नाभानेदिष्ठं ' स्वर्यन्तः ' स्वर्गं प्राप्नुवन्तोऽङ्गिरसोऽब्रुवन्—– हे ' ब्राह्मण ' नाभानेदिष्ठ ‘ एतद् ’ गोसहस्रं यज्ञभूमाववशिष्टं ' ते ' तुभ्यं दत्तमिति शेषः । अत्र शाखान्तरानु-सारेण गोसहस्रमित्यर्थो लभ्यते । शाखान्तरे चैवमाम्नायते— ' ते सुवर्गं लोकं यन्तो य एषां पशव आसंस्तानस्मा अददुः ' इति । ' तद् ' गोसहस्रं ' समाकुर्वाणं ' सम्यगात्मसात्कुर्वन्तम् ' एनं ' नाभानेदिष्ठं कश्चित्पुरुषो यज्ञभूमेरुत्तरतः ' उपोत्थाय ' समीप एवोत्थितो भूत्वेदम-ब्रवीत् — कीदृशः पुरुषः? ' कृष्णशवासी ' अतिशयेन कृष्णं मलिनं वस्त्रं ' कृष्णशं ' तद्वस्ते आच्छादयतीति कृष्णशवासी । अत्रायं मलिनवस्त्रः पुरुषः पशुस्वामी रुद्र इत्यवगन्तव्यम् । तथा च शाखान्तरे पठ्यते— ' तं ' पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आगच्छत् ' इति । स रुद्रः किमब्रवीदिति, तदभिधीयते — हे नाभानेदिष्ठ ' इदं ' पशुसहस्रं ममैव स्वम् । तत्रेयमुपपत्तिः, ' वास्तुहं ' वास्तौ यज्ञभूमौ हीनं कर्मान्ते परित्यक्तं वास्तुहं, तादृशं सर्वं ममैव स्वमिति सर्वत्र सम्प्रतिपन्नमिति । एवं पुरुषेणोक्तः स नाभानेदिष्ठः पुनरेनमब्रवीत् — हे रुद्रः मह्यमेवेदं सहस्रमङ्गिरसो दत्तवन्त इति । तं तथा वदन्तं नाभानेदिष्ठं पुनः पुरुषोऽब्रवीत् — हे नाभानेदिष्ठ, ‘ तद्वै ’ तस्मिन्नेव त्वदीयं मदीयमिति सन्देहे सति ' नौ ' आवयोरुभयोरपि ' तवैव पितरि ' मनौ निर्णयार्थं प्रश्नोऽस्त्विति । ततः ' सः ' नाभानेदिष्ठः पितरं प्रष्टुम् ' ऐत् ' आगतवान् । स पिता तेन पृष्टस्तमब्रवीत् —हे ‘ पुत्रक ' बालक तुभ्यमङ्गिरसो महर्षयः ' अदुः ' ननु दत्तवन्तः किम्? प्लुतिः प्रश्नार्था । एवं पित्रा पृष्टः स नाभनेदिष्ठः ' मे ' मह्यम् ' अदुरेव ' दत्तवन्तः एवेत्यब्रवीत् । तर्हि कस्तव विचारः? इत्याशङ्किते स नाभनेदिष्ठ एवमुवाच - ते महर्षयो दत्तवन्त एव, किं तु तद्गोसहस्रं कश्चित्पुरुषो मलिनवस्त्रः सन् यज्ञभूमेरुतरत उत्थाय, ' इदं ' गोसहस्रं ( १ ) तै ० सं ० ३.१.९.५ । ( २ ) सामश्रमिमते तु ‘ कृष्णशवासी ' - इत्यव्याख्यानं कृष्णवर्णः शवखादकश्च कृष्णशवासी कश्चिदनार्या, ‘ रुद्रः ’ भयानकाकृतिः स्यात् । सशयोरेकत्वं छान्दसम् ।

पृष्ठ 93

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ५१ ममैव स्वं, यज्ञवास्तौ हीनत्वादित्यभिधाय ' आदिता ' आदानं कृतवान्, अपहृतवानित्यर्थः । तथा ब्रुवुन्तं पुत्रं प्रति पिता अब्रवीत् — हे ' पुत्रक ' शिशो ' तद् ' यज्ञवास्तौ हीनं गोसहस्रं तस्यै रुद्रस्य स्वं, पशुपतित्वात् यज्ञावशिष्टस्वामित्वाच्च; किन्तु तथा सत्यपि तव हानिर्नास्ति, ‘ सः ' रुद्रः ‘ तद् ’ गोसहस्रं तुभ्यं दास्यतीति । यज्ञकाले तत्सर्वमङ्गिरसां धनं भवति, समाप्ते तु यज्ञे यदवशिष्टं, तस्य रुद्र एव स्वामीति नाङ्गिरसां दातुमधिकारोऽस्तीत्यभिप्रायः । तथा रुद्रवचनं शाखान्तर एवमाम्नायते— ' न वै तस्य तदीशत इत्यब्रवीद् यज्ञ वास्तौ हीयते मम वै तत् ' इति । ततो दास्यतीति वचनं श्रुत्वा ' सः ' नाभानेदिष्ठः पुनरपि रुद्रस्य समीपमेत्येदमब्रवीत् — हे ' भगवन् ' पूज्य! रुद्र! ' तव ह वाव किल ' तवैव सर्वम् ‘ इदं ’ स्वमिति मदीयः पिता प्राहेति । ततः ' सः ' रुद्रोऽब्रवीत् — हे नाभानेदिष्ठ! ' तत् ' सर्वं तुभ्य-मेव ददामि, यस्त्वं सत्यमेवावादी:, न त्वनृतमुक्तवानसि, तस्मात् परितोषात् सत्यवादिने तुभ्यमेव ददामीति ॥ इत्थमुपाख्यानं परिसमाप्य प्रसङ्गात् पुरुषार्थत्वेन सत्यवदनं विधत्ते— तस्मादेवंविदुषा सत्यमेव वदितव्यम् ॥७ ॥

हिन्दी – ( उपाख्यान को कहकर पुरुषार्थता के रूप से सत्य बोलने का विधान कर रहे हैं— ) तस्मात् इसी कारण से विदुषा सत्यमेव वदितव्यम् विद्वान् को सत्य बोलना

चाहिए ।

सा ० भा०- - ' एवं विदुषा ' सत्यस्य श्रेयोहेतुत्वं जानता ॥

उपाख्यानस्य सर्वस्य तात्पर्यं दर्शयति— स एष सहस्रसनिर्मन्त्रो यन्नाभानेदिष्ठः ॥८ ॥

हिन्दी – ( उपाख्यान का तात्पर्य दिखला रहे हैं - ) यद् नाभानेदिष्ठ जो नाभानेदिष्ठ ( ऋषि ) द्वारा दृष्ट ( सूक्त ) है सः एषः वह यह सहस्रसनिः मन्त्रः सहस्रों वस्तुओं को प्राप्त कराने वाला है । सा ० भा ० — नाभानेदिष्ठेन महर्षिणा दृष्टो यो मन्त्रसमूहः, स एषः ' सहस्रसनिः ’ सहस्रसंख्याकस्य वस्तुनः सनिर्लाभो यस्मिन् मन्त्रे सोऽयं सहस्रसनिः ॥ वेदनं प्रशंसति— उपैनं सहस्रं नमति प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेद ॥ ९ ॥

( १ ) तै ० सं ० ३.१.९.६ । ( २ ) ऋ ० १०.६१,६२ सूक्तयोः सोपक्रमं सायणीयं भाष्यं सर्वमिहालोच्यम् । शां ० ब्रा ० २८.४ ता ० ब्रा ० २०.९.२ ।

पृष्ठ 94

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ५२: ऐतरेयब्राह्मणम् [ २२.१० पञ्चमपञ्चिकायां " हिन्दी – ( इसके ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सहस्रं प्र नमति सहस्र संख्याक धन प्राप्त करता है और षष्ठेन अह्ना षष्ठ दिन के ( अनुष्ठान ) द्वारा स्वर्गं लोकं जानाति स्वर्गलोक को जान जाता है । · सा ० भा ० - – ' एनं वेदितारं सहस्रसंख्याकं धनम् ' उपनमति ' प्राप्नोति, स च कालान्तरे षष्ठमहरनुष्ठाय तेन स्वर्गं लोकं प्रजानाति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां द्वितीयाध्याये ( द्वाविंशाध्याये ) नवमः खण्डः ॥९ ॥ ( १४ ) ( १६७ )

॥ इस प्रकार ऐतरेयब्राह्मण के बाइसवें अध्याय के नवम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ दशमः खण्डः सा ० भा ० — अथ नाभानेदिष्ठीयेन सूक्तद्वयेन सह पठितव्यानि मन्त्रान्तराणि विधत्ते— ( नाभानेदिष्ठीयेन सूक्तद्वयेन सह पठितव्यानि मन्त्राणि ) तान्येतानि सहचराणीत्याचक्षते, - नाभानेदिष्ठं बालखिल्या वृषा-कपिमेवयामरुतं तानि सहैव शंसेत् ॥ १ ॥

हिन्दी— ( अब नाभानेदिष्ठीय दोनों सूक्तों के साथ पठनीय अन्य मन्त्रों को बतला रहे हैं— ) तानि एतानि वै ( कहे गये ) ये ( चार प्रकार के मन्त्र ) सहचराणि सहचर ( साथ-साथ रहने वाले हैं — नाभानेदिष्ठ, बालखिल्य, वृषाकपि, एवयामरुत । तानि सहैव शंसेत् उनको साथ - साथ पढ़ना चाहिए ॥ सा ० भा ० – ‘ तान्येतानि ’ वक्ष्यमाणानि चतुर्विधमन्त्रजातानि ‘ सहचराणि ’ प्रयोग-काले सहैव वर्तन्ते — इत्येवं याज्ञिका आचक्षते । तत्र ' नाभानेदिष्ठं ' सूक्तद्वयं यदस्ति ', बालखिल्यैर्महर्षिभिर्दृष्टाः ‘ अभि प्र वः सुराधसम् ' इत्याद्या बालखिल्यनामका मन्त्रा ये सन्ति, वृषाकपिना महर्षिणा दृष्टं ' वि हि सोतोरसृक्षतेति ' सूक्तं यदस्ति, एवयामरुन्नाम्ना महर्षिणा दृष्टं ‘ प्र वो महे मतयो यन्तु विष्णवे ' इति सूक्तं यदस्ति तानि चत्वारि सहैव शंसेत् ॥ सहशंसनाभावे बाधं दर्शयति-( १ ) ऋ ० १०.६१,६२ / ( २ ) ऋ ० ८.४ ९ -५ ९ । ( ३ ) ऋ ० १०.८६ । ( ४ ) ऋ ० ५.८७ ।

पृष्ठ 95

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ५३ यदेषामन्तरियात् तद् यजमानस्यान्तरियात् ॥ २ ॥

हिन्दी— ( साथ - साथ शंसन के अभाव में बाधा दिखला रहे हैं - ) यद् एषाम् अन्तरियात् यदि इनमें से ( किसी को ) लुप्त कर दिया जाय ( पाठ न किया जाय ) तद् यजमानम् अन्तरियात् तो वह ( होता ) यजमान को ही लुप्त ( विनष्ट ) कर देता है ॥ सा ० भा०- -यदि कथञ्चित् ' एषां ' चतुर्णां मध्ये एकमपि ' अन्तरियाद् ' अन्तरितं लुप्तं कुर्यात् तदानीं यजमानस्य सम्बन्धि श्रेयः ' अन्तरियाद् ' विनाशयेत् ॥ सामान्याकारेण बाधमुक्त्वा पुनर्विशेषाकारेण बाधं दर्शयति— यदि नाभानेदिष्ठं, रेतोऽस्यान्तरियाद्; यदि बालखिल्याः, प्राणा-नस्यान्तरियाद्; यदि वृषाकपि, मात्मानमस्यान्तरियाद्; यद्येवया-मरुतं, प्रतिष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च ॥ ३ ॥

हिन्दी - – यदि नाभानेदिष्ठम् अन्तरियात् यदि होता नाभानेदिष्ट सूक्त को छोड़ दे ( तो वह ) अस्य रेतः इस ( यजमान ) के ( पुत्रोत्पन्न करने वाले ) वीर्य को ( ही विनष्ट करता है ), यदि बालखिल्याः अन्तरियात् यदि बालखिल्यों को छोड़ दे ( तो वह ) अस्य प्राणान् इस ( यजमान ) के प्राणों को ( अलग कर देता है ), यदि वृषाकपिम् अन्तरियात् यदि वृषाकपि को विलुप्त करे ( तो वह ) अस्य आत्मानम् इस यजमान की आत्मा ( मध्य देह ) को ही विच्छिन्न करता है, यदि एवयामरुतम् यदि एवयामरुत का ( परित्याग करे तो वह ) प्रतिष्ठाया एनं दैव्यैः मानुष्यैः च्यावयेत् - इस ( यजमान ) को दैवी और मानुषी प्रतिष्ठा से च्युत करता है । सा ० भा ० – यद्ययं होता नाभानेदिष्ठमन्त्रान् विलोपयेत् तदानीमस्य यजमानस्य पुत्राद्युत्पादकं रेतो विलोपयेत् । बालखिल्यानामन्तराये यजमानस्य प्राणविच्छेदः । वृषाकपिसूक्तस्यान्तराये यजमानस्य ' आत्मानं ' मध्यदेहं विच्छिन्द्यात् । एवयामरुतस्य अन्तराये यजमानं दैव्या मानुष्याश्च प्रतिष्ठायाः प्रच्यावयेत् । अविघ्नेन कर्मसमाप्तिर्दैवी प्रतिष्ठा; तत्साधनभूतधनादिसंपत्तिर्मानुषी प्रतिष्ठा ॥ अन्तराये बाधमुक्त्वा, तदनुष्ठाने लाभं दर्शयति— नाभानेदिष्ठेनैव रेतोऽसिञ्चत्, तद्बालखिल्याभिर्व्यकरोत्, सुकीर्तिना काक्षीवतेन योनिं व्यहापयदुरौ यथा तव शर्मन् मदेमेति, तस्माज्ज्या-यान् सन् गर्भः कनीयासं सन्तं योनिं न हिनस्ति; ब्रह्मणा हि स क्लृप्त एवयामरुतैतवै करोति, तेनेदं सर्वमेतवै कृतमेति यदिदं किंच ॥४ ॥

हिन्दी – ( अब शंसन करने से लाभ को दिखला रहे हैं - ) नाभानेदिष्ठेन एव नाभानिदिष्ठ ( सूक्त के शंसन से यजमान में ) होता ने रेतोऽसिञ्चत् रेत का सिञ्चन किया

पृष्ठ 96

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ५४: ऐतरेयब्राह्मणम् [ २२.१० पञ्चमपञ्चिकायां और तद्बालखिल्याभिः उसे बालखिल्यों से व्यकरोत् ( गर्भाकार रूप में ) व्यक्त किया । सुकीर्तिना कक्षीवतेन कक्षीवान् के पुत्र सुकीर्ति द्वारा ( दृष्ट सूक्त ) से योनिं व्यहापयत् ( गर्भ के निकलने के लिए मार्ग रूप ) योनि को यह कहते हुए विस्तृत किया कि ( हे इन्द्र! ) उरौ यथा जिस प्रकार विस्तृत ( गृह ) में ( मनुष्य सुखपूर्वक रहता है उसी प्रकार ) तव शर्मन् मदेम तुम्हारी अनुकम्पा से हम लोग ( विस्तृत योनि में सङ्कोच - रहित होकर ) प्रसन्न होवें । तस्मात् इसी कारण ( लोक में ) ज्यायान् सन् गर्भः प्रौढ़ हुआ गर्भ भी कनीयासं सन्तं योनिम् छोटी ( सङ्कुचित ) हुई योनि ( के द्वार ) को न हिनस्ति नहीं मारता ( क्षतिग्रस्त नहीं करता है ) ब्रह्मणा हि क्योंकि ब्रह्मा द्वारा सुकीर्ति ( नामक मन्त्र ) से ही सः क्लृप्तः वह ( योनि ) निर्मित की गयी है । ( होता ) एवयामरुता एवयामरुत् ( नामक सूक्त ) से एवै करोति सर्वत्र जाने के योग्य बनाता है तथा तेन उस ( सूक्त ) से यदिदं किञ्च जगत् में जो कुछ भी है, इदं सर्वम् इस सभी को एतवै कृतम् गमन योग्य बनाया ( अतः इस सूक्त से यजमान को गमन का सामर्थ्य प्रदान करता है ) ॥ सा ० भा ० — अत्र मन्त्रसमूहात् यजमानस्य नूतनं जन्म वर्ण्यते । यद्वा, पुत्रोत्पादनं वर्ण्यते ॥ यन्नाभानेदिष्टं सूक्तद्वयमस्ति, तेनैव होता रेतः सिक्तवान् भवति । यास्तु बालखिल्या ऋचस्ताभिस्तद्रेतो ‘ व्यकरोत, विवृतं गर्भाकारमकरोत् । कक्षीवानित्यभिहितः कश्चिदृषिः, तस्य पुत्र सुकीर्तिनामकः तेन दृष्टम् ' अप प्राच इन्द्र ' – इति ' सूक्तमपि तन्नामकम् । तच्च वृषाकपिसूक्तत् ‘ प्रागेव ’ समीपे शंसनीयम् । तेन ' सुकीर्तिना ' होता योनिं ‘ व्यहापयत् ' गर्भ-निर्गमाय विवृतमकरोत् । अत एव तस्या ऋचश्चतुर्थपादे ' उरौ यथा ' – इत्यादिराम्नायते । तस्यायमर्थः — हे, इन्द्र यथा जनः ' उरौ ' विस्तीर्णे ' शर्मन् ' शर्मणि सुखहेतौ गृहे विस्रम्भेण तिष्ठति, तथा तव प्रसादाद् वयं विस्तीर्णे योनिप्रदेशे ' मदेम ' सङ्कोचाभावेन हृष्टाः स्मः ' । इत्येष पादो योनिविवृतेर्गमकः । यस्मादनेन विवृत्तिः कृता, तस्माल्लोके जायमानो गर्भो ‘ ज्यायान् सन् ’ योनिद्वारापेक्षयाऽत्यन्तं प्रौढः सन्नपि, स्वापेक्षया ' कनीयांसम् ' अत्यल्पं सन्तं योनिं ‘ न हिनस्ति ' न विनाशयति । यस्माद् ' ब्रह्मणा ' सुकीर्तिनामकेन मन्त्रेण ' सः ' योनिः ‘ क्लृप्तः ’ निर्मितः तस्मादविनाशो युक्तः । एवयामरुन्नामकेन सूक्तेन यजमानम् ' एतवै ' सर्वत्र गन्तुं समर्थ कृतं सत् पश्चाद् ' एति ' गच्छति; तस्मात् इदमेव सूक्तं यजमानस्यापि गमनसामर्थ्यं प्रयच्छति ॥ आग्निमारुतशस्त्रस्य प्रतिपत्सूक्तं विधत्ते— ( षष्ठेऽ हन्याग्निमारुतशस्त्रविधानम् ) अहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतस्य ' प्रतिपदहश्चाहश्चेति पुन-( १ ) ऋ ० १०.१३१ । ( २ ) एतेनैव भाष्यकारेण अस्य पादस्य संहितायाम् अन्यविधोऽर्थः कृतः । ( ३ ) ऋ ० ६.९।

पृष्ठ 97

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ५५ रावृत्तं पुनर्निनृत्तं षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥५ ॥

हिन्दी – ( अब आग्निमारुतशस्त्र के प्रतिपत् सूक्त का विधान कर रहे हैं - ) ' अहश्च कृष्णमहरर्जुनम् ' इति आग्निमरुतस्य प्रतिपत् यह ( सूक्त ) आग्निमरुत ( शस्त्र ) का प्रतिपत् है । इसमें ‘ अहश्च अहश्च ' इति पुनरावृत्तम् यह पुनरावृत्त है और पुनर्निनृत्तं च ( ध्वनि इत्यादि के समान होने से ) पुनर्निनृत्त है जो षष्ठेऽहनि षष्ठ दिन प्रयुक्त षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है । सा ० भा ० – अहः शब्दोऽत्र पुनः पुनः पठ्यमानत्वात् पुनरावृत्तिमित्युच्यते; ताल-ध्वनिसमानत्वाच्च पुर्निनृत्तमिति लिङ्गद्वयम् ॥ मरुद्देवताकं सूक्तं विधत्ते— ' मध्वो वो नाम मारुतं यजत्रा इति ' मारुतं बह्वभिव्याहृत्यमन्तो वै बह्वन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥६ ॥

हिन्दी – ( अब मरुद्देवताक सूक्त को कह रहे हैं — ) ' मध्वो वो नाम मारुतं यजत्रा ' इति मारुतम् यह मरुत् देवता वाला ( सूक्त ) है । बह्वभिव्याहृत्यम् ( जिसमें मरुद्देवता के विषय में ) बहुत ( से अर्थ का ) प्रतिपादन किया गया है । ' अन्तो वै बहुः ' बहुत ही अन्त ( का सूचक ) है । अन्तः वै षष्ठमहः यह षष्ठ दिन ( मध्यम त्र्यह का ) अन्त है । अतः षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त यह सूक्त ) षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है ॥ सा ० भा ० – अस्मिन् सूक्ते मरुद्विषयमभिव्याहरणीयमर्थजातं बह्वस्ति, बहुत्वं चैकत्वद्वित्वापेक्षया, संख्यायामवसानत्वाद् अन्तो भवति, तदेतदन्तवत्त्वं लिङ्गम् ॥ अच्युतत्वलिङ्गयुक्तामृचं विधत्ते— ' जातवेदसे सुनवाम सोममिति ' ' जातवेदस्याऽच्युता ॥७ ॥

' हिन्दी— ( अच्युत चिह्न वाली ऋचा का विधान कर रहे हैं --- ) ' जातवेदसे सुनवाम सोमम् ' इति जातवेदस्या यह ( ऋचा ) जातवेदस् देवता से सम्बन्धित और अच्युता पूर्व में विहित है ॥ जातवेदोदेवताकं सूक्तं विधत्ते— ' स प्रत्नथा सहसा जायमान इति जातवेदस्यं, समानोदर्कं, षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥८ ॥

हिन्दी – ( अब जातवेदस् देवताक सूक्त को कह रहे हैं - ) ' स प्रत्नथा सहसा जायमानः ' इति जातवेदस्यम् यह ( सूक्त ) जातवेदस् देवता वाला और समानोदर्कम् ( १ ) ऋ ० ७.५७ | ( २ ) ऋ ० १.९९। ( ३ ) ऋ ० १.९ ६ ।

पृष्ठ 98

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ५६: ऐतरेयब्राह्मणम् [ २२.१० पञ्चमपञ्चिकायां समान अवसान वाला है जो षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त ) षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है । धारयन्नित्येतस्य पुनः पुनः पठितस्यानुवादेन तदभिप्रायं सदृष्टान्तं दर्शयति-.. धारयन् धारयन्निति शंसति, प्रस्रंसाद्वा अन्तस्य बिभाय; तद्यथा-पुनराग्रन्थं पुनर्निग्रन्थमन्तं बध्नीयान्मयूखं वाऽन्ततो धारणाय निहन्यात् तादृक्तद्यद्धारयन् धारयन्निति शंसति संतत्यै ॥९ ॥

हिन्दी – ‘ धारयन् ' ‘ धारयन् ' इति शंसति इस प्रकार ( पुनरावृत्ति करके शंसन करता है अन्तस्य बिभाय प्रस्रंसाद् वै ( शस्त्र के अन्त में शैथिल्य से डरता भी है । तद्यथा जैसे कि कोई रज्जु बनाने वाला पुनराग्रन्थम् बार - बार वट कर अन्तं पुनर्निग्रन्थं बध्नी - यात् अन्त में कसकर गाँठ लगाता है अथवा ( जिस प्रकार ) चर्मकार धारणाय गीले चमड़े की सिकुड़न के निवारण के लिए भूमि में चर्म को अन्ततः कोनों को मयूखम् कील से निहन्यात् ठोक देता है तादृक् उसी प्रकार संतस्यै दृढ़ीकरण के लिए तद् धारयन् धारयन् इति धारयन् धारयन् इस पुनरावृत्ति पूर्वक शंसति होता शंसन करता है ॥ सा ० भा ० – होताऽस्मिन् सूक्ते चतुर्थेषु पादेषु ' धारयन् धारयन् ' - – इति पुनः पुनः पठित्वा शंसति; तस्य कोऽभिप्राय? इति, सोऽभिधीयते, – ' अन्तस्य ' शस्त्रस्यावसान-प्रदेशस्य ‘ प्रस्रंसात् ’ प्रकर्षेण स्रंसनाच्छैथिल्याद् अयं होता ' बिभाय ' भीति प्राप्तवान् । स्रंसनपरिहारार्थे दृष्टान्तोऽभिधीयते, - तद्यथा लोके रज्जुं निर्मिमाण पुरुषः ' पुनराग्रन्थं ' पुनः पुनराग्रथ्याऽऽग्रथ्य ‘ पुनर्निग्रन्थं ' पुनः पुनर्निर्मथ्य निर्मथ्य तस्या रज्जोरन्तं बध्नीयात्, दीर्घर-ज्ज्वा अग्रं सूक्ष्मं पुनः पृष्ठतः प्रत्याकृष्य वेष्टनं कृत्वा ग्रथनं नाम, तस्य दृढीभावो निर्ग्रन्थमकरोत् । अन्योऽपि दृष्टान्तः, अभिधीयते — यथा वा लोके चर्मकार आर्द्रस्य चर्मणः संकोचनिवारणाय भूमौ तत्प्रसार्य दृढमाकृत्य चर्मणोऽन्ते ‘ मयूखं ' शङ्कं चर्मणो धारणाय ‘ भूमौ निहन्यात् ' दृढं भूमिप्रविष्टं कुर्यात्; होतुः पुनर्धारयन्निति शंसनं यदस्ति, तदेतत्तादृशं

पूर्वोक्तदृष्टान्तसमानं द्रष्टव्यम् । तदेतच्छंसनं यज्ञस्य ' संतत्यै ' भवति ॥

वेदनपूर्वकमनुष्ठानं प्रशंसति— संततैत्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति, यन्ति ॥ १५ ॥

हिन्दी —ये एवं विद्वांसः जो इस प्रकार जानने वाले यन्ति ( इस मध्यम तीसरे दिन का ) अनुष्ठान करते हैं, वे सन्ततैः व्यवच्छिन्नैः त्र्यहैः निरन्तर विच्छेदरहित ( मध्यम ) त्र्यह

( तीसरे दिन ) के द्वारा यान्ति ( अनुष्ठान को ) सम्पादित करते हैं ।

सा ० भा ० - – पूर्ववद् व्याख्येयम् । अभ्यासोऽध्यायसमाप्त्यर्थः ॥

पृष्ठ 99

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ५७ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये पञ्चमपञ्चिकायां द्वितीयाध्याये ( द्वाविंशाध्याये ) दशमः खण्डः ॥१० ॥ ( १५ ) ( १६८ )

॥ इस प्रकार ऐतरेयब्राह्मण के बाइसवें अध्याय के दशम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।

पुमर्थाश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपाल साम्राज्यधुरंधर-माधवाचार्यादेशता श्रीमत्सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाशे ' नामभाष्ये ऐतरेयब्राह्मणभाष्यस्य पञ्चमपञ्चिकायाः द्वितीयोऽध्यायः ॥२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के बाइसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 100

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ पञ्चमपञ्चिकायां तृतीयोऽध्यायः [ अथ त्रयोविंशोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम् — द्वादशाहगते नवरात्रे त्रयस्त्र्यहाः । तत्र प्रथमद्वितीयौ त्र्यहावुक्तौ । तावता पृष्ठ्यः षडहः समाप्तः । यस्तु तृतीयस्त्र्यहस्तत्र यानि त्रीण्यहानि तानि च्छन्दोम-नामकानि । तत्र प्रथमं नवरात्रापेक्षया सप्तमं यदहरस्ति, तत्र मन्त्रलिङ्गं दर्शयति— ( छन्दोमनामकतृतीयत्र्यहर्विधानम् ) ( तत्र द्वादशाहे नवरात्रस्य सप्तमस्याह्नो विधानम् ) यद्वा एति च प्रेति च तत्सप्तमस्याह्नो रूपम् ॥ १ ॥

हिन्दी - ( अब द्वादशाहगत नवरात्र के सप्तम दिन के मन्त्रों के चिह्नों को कह रहे हैं— ) यद्वै एति च प्रेति च जो यह आ और प्र उपसर्ग ( वाला मन्त्र ) है, तत् सप्तमस्याह्नो

रूपम् यह सप्तम दिन का भी निरूपक है ।

सा ० भा ० — आकारः प्रशब्दश्चेति लिङ्गद्वयं सप्तमस्याह्नो निरूपकम् ॥

प्रथमेऽहनि यल्लिङ्गजातमस्ति तदस्मिन्नतिदिशति— यद्ध्येव प्रथममहस्तदेवैतत् पुनर्यत्सप्तमम् ॥ २ ॥

हिन्दी - यद् हि एव जो ही प्रथमः अहः ( प्रथम त्र्यह का ) प्रथम दिन ( वाला रूप ) है तद् एव एतत् वह ही यह पुनः सप्तममहः पुनः ( छन्दोम त्र्यह के प्रथम दिन अर्थात् ) सप्तम दिन ( वाला रूप ) है । सा ० भा ० — नवरात्रे प्रथममहर्यादृशलिङ्गोपेतं तदेवैतत् पुनरनुसंधीयमानं यत्सप्तम-महस्तद्भवति ॥ तान्यतिदिष्टानि लिङ्गानि दर्शयति— ( सप्तमाह्नो मन्त्रलिङ्गानि ) यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्, यत्प्रथमे पदे देवता निरुच्यते, यदयं लोकोऽभ्युदितः ॥ ३ ॥

हिन्दी – ( उस सप्तम दिन के अतिदिष्ट चिह्नों को दिखला रहे हैं - ) यद् युक्तवत् जो मन्त्र युक्त ( युजिर् धातु ) से युक्त हो, यद् रथवत् जो रथ ( शब्द ) से युक्त हो, यद् आशुवत् जो आशु ( शब्द ) से युक्त हो, यत् पिबवत् जो ( पीना अर्थ वाली ) पा ( धातु )