ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 21–30
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 21–30
पृष्ठ 21
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८७ ९. पृचा घृतावृधेति पुनरावृत्तं पुनर्निनृत्तं तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥९ ॥
हिन्दी - ( अन्य तृच को कह रहे हैं - ) ( घृतेन द्यावापृथिवी ' इति यह ( तृच ) द्यावा पृथिवीयम् द्यावापृथिवी से सम्बन्धित है । ( इसके द्वितीय पाद में ) घृतश्रिया, घृतपृचा / ' और घृतवृधा, इति पुनरावृत्तम् इसमें ( घृत पद ) पुनरावृत्त हुआ है जो पुनर्निनृतम् ( इस पुनरावृत्ति के कारण यह ) पुनः निर्वृत्त है । तृतीयेऽहनि तृतीय दिन में प्रयुक्त तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप ॥ सा ० भा ० – द्यावापृथिवीदेवताकत्वं विस्पष्टम् । घृतश्रियेत्यादिः द्वितीयः पादः; तत्र घृतशब्दस्य पुनः पुरावृत्तिरेकं लिङ्गम् । तया चावृत्त्या नृत्तगततालानुकरणप्रतीतेः ' पुनर्निनृत्तं ’ लिङ्गान्तरम् ॥ ऋभुदेवताकं सूक्तान्तरं विधत्ते— ( ऋभुदेवताकं सूक्तान्तरविधानम् ) ' अनश्वो जातो अनभीशुरुक्थ्य ' इत्यार्भवं ', रथस्त्रिचक्र इति त्रिवत्, तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ १० ॥
· हिन्दी — ( ऋभुदेवताक सूक्त को कह रहे हैं — ) ' अनश्वो जातो अनभीशुरुक्थ्य ' इति आर्भवम् यह सूक्त ऋभु देवता से सम्बन्धित है I । रथस्त्रिचक्रः ( इस सूक्त की प्रथम ऋचा के द्वितीय पाद में ) ‘ रथस्त्रिचक्र: ' ( शब्द ) त्रिवत् त्रि शब्द से युक्त है, अतः तृतीयेऽहनि तृतीय दिन में ( प्रयुक्त ) यह तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप है. ॥ सा ० भा ० — द्वितीयस्या ऋचश्चतुर्थपादे ' ऋभवो वेदयामसि ' इति श्रवणात् ऋभुदेवताकत्वम् । प्रथमाया ऋचो द्वितीयपादे ' रथस्त्रिचक्रः ' इति त्रिशब्दोपेतं लिङ्गम् ॥ बहुदेवताकं सूक्तान्तरं विधत्ते-( बहुदेवताकसूक्तान्तरविधानम् ) ' परावतो ये दिधिषन्त आप्यमिति ' ' वैश्वदेवम्, अन्तो वै परावतोऽ-न्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ ११ ॥
हिन्दी— ( विश्वदेव से सम्बन्धित सूक्त कह रहे हैं — ) ' परावतो ये दिधिषन्त आप्यम् ’ इति वैश्वदेवम् यह सूक्त विश्वेदेवा से सम्बन्धित है; क्योंकि ( इसकी द्वितीय ऋचा के पूर्वार्ध में ) ‘ देवा: ' और प्रथम ऋचा के चतुर्थ पाद में ' देवा: आसते ' यह बहुवचनान्त प्रयोग हुआ है ) । अन्तो वै परावतः परावतः ( शब्द दूर स्थान का वाचक होने के कारण ) अन्त वाला है । तृतीयम् अहः तृतीय दिन अन्तः ( त्र्यह का ) अन्तिम ( दिन ) है | अतः तृतीयेऽहनि ( १ ) ऋ ० ४.३६ । ( २ ) ऋ ० १०.६३
पृष्ठ 22
पाठ पढ़ें पाठ छिपाएँ
८८०: ऐतरेयब्राह्मणम् [ २१.२ पञ्चमपञ्चिकायां तृतीय दिन ( प्रयुक्त यह सूक्त ) तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप है ॥ सा ० भा ० — द्वितीयस्या ऋचः पूर्वार्ध एवं पठ्यते— ' विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः ' इति । तत्र ' देवा: ' इति बहुवचनम्; अत्र प्रथमाया ऋचश्चतुर्थ-पादे ‘ देवा आसते ’ इति बहुवचनम्; तेन वैश्वदेवं बहुदेवताकम् इदम् । ' परावत ' इत्यनेन शब्देन दूरदेशोऽभिधीयते; स च निवासदेशापेक्षयाऽन्तो भवति । तृतीयमहश्च त्र्यहस्यान्तः । अतः पूर्ववत् अर्थतोऽन्तवल्लिङ्गमस्ति ' ॥ तदेतत् वैश्वदेवसूक्तं प्रशंसति— तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानां प्रियं धामोपागच्छत् स परमं लोकमजयत् ॥ १२ ॥
हिन्दी— ( वैश्वदेव सूक्त की प्रशंसा कर रहे हैं — ) तदु यह ( सूक्त ) गायम् गय ( ऋषि ) द्वारा दृष्ट है । एतेन इस ( सूक्त के प्रभाव ) से प्लातो गयः प्लत ( नामक ऋषि ) के पुत्र गय ( नामक ऋषि ) ने विश्वेषां देवानाम् विश्वेदेवों के प्रियं धाम उपागच्छत् परम निवास - स्थान को प्राप्त किया और सः परमं लोकम् अजयत् उन्होंने परमलोक को जीता ॥ सा ० भा०- -'तदु ' तदेतत्सूक्तं ' गायं ' गयेन दृष्टम् । प्लतनामकस्य ' पुत्रो गयनामको महर्षिः ‘ एतेन ’ परावत इत्यादिसूक्तेन विश्वेषां देवानां प्रियं स्थानं प्राप्य तैरनुगृहीत उत्तमं लोकं जितवान् ॥ " वेदनं प्रशंसति-उप विश्वेषां देवानां प्रियं धाम गच्छति, जयति परमं लोकं य एवं वेद ॥ १३ ॥
हिन्दी – ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह विश्वेषां देवानाम् विश्वेदेवों के प्रियं धाम उपगच्छति परम निवास - स्थान को प्राप्त करता है और परमं लोकं जयति परम लोक को जीतता है । शस्त्रान्तरस्य प्रतिपत्सूक्तं विधत्ते— ( आग्निमारुत्शस्त्रस्य प्रतिपद्विधानम् ) वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपद्; अन्तो वै ( १ ) ‘ अन्तपरावच्छब्दौ दूराथौ ’ — इति षडगुरुशिष्यः । ( २ ) गयो नाम प्लतेः पुत्रो न तु प्लतस्य, ' एवा प्लतेः सूनुः रवीवृधदिति ' ( १०.६३.१७ ) लिङ्गात् । प्लातवचनं त्वामग्ने गय ( सूत्र ५. ९ ) इति वदस्यात्रेयत्वं मा भूत् । इति ऋक्सर्वानुक्रमण्यां १०.६३ सूत्रे षड्गुरुशिष्यः । ( ३ ) ऋ ० ३.२.१ ।
पृष्ठ 23
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८८१ धिषणाऽन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥१४ ॥
हिन्दी – ( आग्निमारुतशस्त्र के प्रतिपद् सूक्त को कह रहे हैं — ) ' वैश्वानराय धिषणा-मृतावृधे ' इति यह ( ऋचां ) आग्निमारुतस्य प्रतिपद् आग्निमारुत ( शस्त्र ) की प्रतिपद् है । अन्तो वै धिषणा ( अन्त करण : से उद्भूत होने के कारण ) स्तुति अन्त है । अन्तः तृतीयम् अहः तृतीय दिन ( त्र्यहः का ) अन्त है । तृतीयेऽहनि तृतीय दिन ( प्रयुक्त यह ऋचा ) तृतीयस्य अह्नः रूपम् तृतीयं दिन का रूप है । सा ० भा ० - अत्र धिषणेत्यन्तःकरणवाचकः श्रूयते । अन्तःकरणं च भूम्यादेरन्तं प्राप्तुं शक्नोति । तथा चान्यत्र श्रूयते — ' न वा इमामश्वरथो न वाऽश्वतरीरथः सद्यः पर्याप्तुम् अर्हति; मनो वा इमां सद्यः पर्याप्तुमर्हति ' – इति । ' अन्तः सहसा ' भूम्याद्यन्तप्राप्तिहेतुत्वाद्
‘ धिषणा ’ ” शब्दोऽन्तस्योपलक्षकः । अन्तस्तृतीयमित्यादि पूर्ववत् ॥
` मरुद्देवताकं सूक्तं विधत्ते— ( मरुद्देवताकसूक्तविधानम् ) ' धारावरा मरुतो धृष्ण्वोजस ' R इति मारुतं बह्वभिव्याहृत्यमन्तो वै बह्वन्तस्तृतीयं महस्तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ १५ ॥
हिन्दी – ( अब मरुद्देवताक सूक्त को कह रहे हैं - ) ' धारावरा मरुतो धृष्ण्योजस ’ इति मारुतम् यह मरुत् देवता से सम्बन्धित ( सूक्त ) है और बह्वभिव्याहृत्यम् बहुत ( देवताओं ) को अभिव्याहरणीय है अतः अन्तः अन्त वाला है । बह्वन्तः वै तृतीयम् अह्नः यह तृतीय दिन ( त्र्यहः का ) अन्त वाला दिन है । तृतीयेऽहनि तृतीय दिन में ( प्रयुक्त यह सूक्त ) तृतीयस्याह्नः रूपम् तृतीय दिन का रूप है । सा ० भा ० — मारुतत्वमत्र विस्पष्टम् । बहुविधम् ' अभिव्याहृत्यम् ' अभिव्याहरणीयं शंसनीयमृग्जातं यस्मिन् सूक्ते तद् ' बह्वभिव्याहृत्यम् ' । अत्र हि पञ्चदशर्चः शंसनीया इति बहुत्वम् । बहूनां देवानामभिव्याहरणीयानां विद्यमानत्वाद् बहुत्वम् । तस्य बहुत्वस्य
अनेकत्वद्वित्वापेक्षयाऽन्तत्वम् । अतोऽन्तवल्लिङ्गमस्ति ॥
ऋगन्तरं विधत्ते— ( १ ) ( क ) ' वाग् धिषणा । अन्तो निर्णयः । . मनोगतं त्वर्थरूपं वाचा निर्णयते खलु । आरण्यके ( ऐ ० आ ० ३.१.१ ) हि वक्ष्यते - मनसा अग्रे संकल्पयत्यथ वाचा व्याहरतीति — इति षड्गुरुशिष्यः । ( ख ) अन्तो वै विपरीतलक्षणा । नहि वाचोऽन्तोऽस्ति । नहि वै वागपक्षीयते — इति लिङ्गाद् ' – इति गोविन्दस्वामी । ( २ ) ऋ ० २.३४ । ऐ.ब्रा.उ.- २
पृष्ठ 24
पाठ पढ़ें पाठ छिपाएँ
८८२: ऐतरेयब्राह्मणम् [ २१.२ पञ्चमपञ्चिकायां ' जातवेदसे सुनवाम सोममिति ' ' जातवेदस्याऽच्युता ॥ १६ ॥
हिन्दी— ' ( अन्य ऋचा को कह रहे हैं - ) ' जातवेदसे सुनवाम सोमम् ' इति जात-वेदस्या यह ऋचा जातवेदस् ( नामक अग्नि ) से सम्बन्धित है और अच्युता ( सभी दिनों
में प्रयुक्त होने के कारण ) अच्युत है ।
· सा ० भा ० — अच्युतत्वं सर्वेषामह्नां साधारणं लिङ्गम् ॥
जातवेदोदेवताकं सूक्तं विधत्ते— ( जातवेददेवताकसूक्तविधानम् ) ' त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति ' जातवेदस्यं पुरस्तादुदर्कं तृती-येऽहनि तृतीयस्याह्नो रूपम् त्वं त्वमित्युत्तरं त्र्यहमभिवदति सन्तत्यै ॥१७ ॥
हिन्दी— ( जातवेदस् देवता से सम्बन्धित सूक्त को कह रहे हैं — ) ' त्वमग्ने प्रथमो अङ्गिरा ऋषि: ' इति जातवेदस्यम् यह ( सूक्त ) जातवेदस् से सम्बन्धित है | पुरस्ताद् उदर्कम् ( प्रत्येक ऋचा में ) पहले ( त्वमग्ने होने से ) समानता है जो तृतीयेऽहनि तृतीय दिन ( प्रयुक्त ) तृतीयस्याह्नः रूपम् तृतीय दिन का निरूपक है । त्वं त्वम् इति ' त्वं त्वं ' ( यह प्रत्येक ऋचा में कथन ) उत्तरं त्र्यहम् उत्तरवर्ती तीन ( चतुर्थ, पञ्चमं और षष्ठ ) दिन को अभिवदति कहता ( अभिलक्षित ) करता है । सन्तत्यै ( यह कथन प्रथम और द्वितीय त्र्यह की ) निरन्तरता के लिए होता है । सा ० भा ० — यद्यपि ' त्वमग्ने ' इत्यग्निरेव देवता प्रतीयते; तथाऽप्यसौ जातवेदःशब्द-वाच्यो भवति । जातस्य सर्वस्य जगतो वेदितत्वात् । तस्मादेतत् सूक्तं ‘ जातवेदस्यम् ' । तच्च ‘ पुरस्तादुदर्कम् ’ उदर्कशब्दोऽवसानवचनः, अवसानं च विच्छेदः । सोऽपि द्विविध: -पुरस्ताद् उपरिष्टाच्च । उपक्रमात् पूर्व शंसनीयस्याभावात् अयं पूर्वकालीनो विच्छेदः पुरस्ता-- दुदर्क इत्युच्यते । शंसनादूर्ध्वकालीनो विच्छेद उपरिष्टादुदर्कः । समानोदर्कत्वं च तृतीय-स्याह्नों लिङ्गं युक्तम् । तत्रोपरिष्टादुदर्कसाम्यं सजनीयादिषूदाहृतम् । अत्र पुरस्तादुदर्कसाम्यं लिङ्गत्वेनोदाह्रियते । तथा ह्यस्मिन् सूक्ते सर्वास्वप्यृक्षु ' त्वमग्ने ' इति पदद्वयं समाम्नातम् । तदिदं समानोदर्कत्वमेकं लिङ्गम् । असकृदभिधानादेव पुनरावृत्तलिङ्गं च वक्तुं शक्यम् । किंच, लोके कंचित्पुरुषं संबोध्याभिमुखीकृत्य त्वमिति वदन्ति; एवमत्राप्युत्तरत्र्यहमभिमुखी-कृत्यैव प्रत्यृचं त्वं त्वमिति शब्दः प्रयुज्यते; तच्च प्रथमद्वितीययोस्त्र्यहयोश्च ' सन्तत्यै ' विच्छेदराहित्याय भवति ॥ वेदनपूर्वकमनुष्ठानं प्रशंसति— ( १ ) ऋ ० १.९९। ( २ ) ऋ ० १.३१ ।
पृष्ठ 25
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८८३ संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति ॥ १८ ॥
हिन्दी - ( वेदनपूर्वक अनुष्ठान की प्रशंसा कर रहे हैं - ) ये विद्वांसः जो विद्वान् एवम् इस प्रकार ( त्वं शब्द से सूचित निरन्तरता को ) जानते हुए यन्ति अनुष्ठान को कर हैं, वे सन्ततैः परस्पर सम्बद्ध और अव्यवच्छिन्नैः व्यवच्छेदरहित ( निरन्तर ) त्र्यहै: त्र्यह के द्वारा यन्ति अनुष्ठान करते हैं । सा ० भा०- - ' ये ' पुरुषाः प्रत्यृचं त्वं शब्दैः सूचितं त्र्यहयो: सातत्यं विद्वांसोऽनुतिष्ठन्ति, ते पुरुषाः ‘ संततैः ’ परस्परसम्बद्धैः, अत एव विच्छेदरहितख्त्र्यहैरनुतिष्ठन्ति, तेषां विघ्नो न भवतीत्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां प्रथमाध्याये ( एकविंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( १५५ )
॥ इस प्रकार ऐतरेयब्राह्मण के इक्कीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा ० भा ० — द्वादशाहमध्यवर्तिनो नवरात्रस्य ' त्रयश्च वा एते त्र्यहाः ' इति यत्पूर्व-मुक्तम्; तत्र प्रथमत्र्यहोऽभिहितः । स च पृष्ठ्यषडहस्य पूर्वो भागः । अथ तस्योत्तरो भागो नवरात्रे मध्यमस्त्र्यहो वक्तव्यः । तस्मिश्च यत्प्रथममहस्तन्नवरात्रे चतुर्थमहर्भवति । तत्र शस्त्रक्लृप्तिमुपरिष्टाद् विधास्यते । आदौ तावन्यूङ्खो वक्तव्यस्तदर्थं प्रस्तौति— ( द्वादशाहे नवरात्रस्य चतुर्थाह्नः निरूपणम् ) ( तत्र न्यूङ्खकथनप्रस्तावना ) आप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि तृतीयेऽहन्येतदेव तत उच्छिष्यते वागित्येव तदेतदक्षरं त्र्यक्षरं वागित्येकमक्षरमक्षरमिति त्र्यक्षरम् ॥ १ ॥
हिन्दी – ( अब न्यूङ्ख के कथन के लिए प्रस्तावित कर रहे हैं - ) तृतीयेऽहनि ( पूर्वोक्त ) त्र्यह में स्तोमाः आप्यन्ते ( त्रिवृत्, पञ्चदश और सप्तदश ) सभी स्तोम समाप्त हो जाते हैं तथा छन्दांसि आप्यन्ते ( गायत्री, त्रिष्टुप् और जगती - ये ) छन्द समाप्त हो जाते हैं । ततः इस ( अग्नि, इन्द्र और विश्वेदेव ) के बाद वाग् इति एव उच्छिष्यते केवल वाक् ही अवशिष्ट रह जाता है । तद् एतद् अक्षरम् वह यह ( वाक् ) शब्द त्र्यक्षरम् ( वकार, आकार और ककार - इन तीनों से युक्त ) तीन अक्षरों वाला है और एकम् अक्षरम् ( उस
पृष्ठ 26
पाठ पढ़ें पाठ छिपाएँ
८८४: ऐतरेयब्राह्मणम् [ २१.३ पञ्चमपञ्चिकायां शब्द में केवल एक आकार स्वरवर्ण होने के कारण ) एक अक्षर वाला है । ( वाग्देवता के नाम में एकरूपता और त्रिरूपता होने के कारण ) अक्षरम् ( वहीं ) अक्षर वाक् इति वाक् - इस ( नाम ) से कथित त्र्यक्षरम् त्र्यक्षर होता है । सा ० भा ० - - पूर्वोक्तेषु त्र्यहः सु त्रिवृत्त- पञ्चदश- सप्तदशाख्याः ' स्तोमाः ' आप्यन्ते ' समाप्ता इत्यर्थः । तथा गायत्रीत्रिष्टुब्जगतीत्येतानि ' च्छन्दांस्याप्यन्ते ' समाप्तानि । तत ऊर्ध्वम् ‘ एतदेव ’ वक्ष्यमाणम् ‘ उच्छिष्यते ' पूर्वमनुक्तत्वाद् उत्कर्षेणावशिष्यते । तस्यैवावशिष्टस्य ‘ वागिति ’ निर्देशः । एवकारस्तु पूर्वोक्तदेवताव्यावृत्त्यर्थः । ' अग्निर्वै देवता ', ' इन्द्रो वै देवता ',, विश्वे वै देवा देवता ’ – इत्येवं तस्य तस्याह्नो निर्वाहकं देवतात्रयं पूर्वमुक्तत्वात् नावशिष्टम् । वाग्देवता पूर्वमनुक्तत्वादवशिष्टा । तस्य वाचकं “ वागित्येतत् ' शब्दरूपं ' तदेतदक्षरं ' वकारादिवर्णात्मकं पुनरपि ‘ त्र्यक्षरं ' त्रिभिरक्षरैरुपेतम् । कथमेतदिति? तदेतत् स्पष्टीक्रियते— वागित्युक्ते सत्येकाक्षरं भवति । वकारगकाराक्षराभ्यां युक्तस्याकारक्षरस्यैकत्वात् । तदेवाक्षर-मिति वाग्देवतानाम्नोच्चार्यमाणं त्र्यक्षरं भवति । अतो वाग्देवताया नामन्येकरूपत्वं त्रिरूपत्वं च सम्पन्नम् ॥ तत्र रूपत्रयसंपत्तौ प्रयोजनमाह— स एवैष उत्तरत्र्यहो वागेकं गौरेकं द्यौरेकम् ॥ २ ॥
हिन्दी – ( वाग्देवता के तीनों रूपों की सम्पत्ति के प्रयोजन को बतला रहे हैं— ) सः एव वह ( वाग्देवता का त्र्यक्षर समुदाय ) ही एषः उत्तरः त्र्यहः यह उत्तरवर्ती ( चतुर्थ, पञ्चम और षष्ठ दिन रूप ) त्र्यह है । उनमें वाग् एकम् ( लोकत्रय प्रसिद्ध ) वाग्देवता एक ( स्वरूप ) है, गौः एकम् गौ देवता एक ( दूसरा स्वरूप ) है और द्यौः एकम् द्यौ देवता एक ( तीसरा स्वरूप ) है ॥ सा ० भा ० — वाग्देवताया अक्षरशब्देन व्यवहारे सति योऽयमकारादीनां त्रयाणां समूहः, स एष एव ‘ उत्तरस्त्र्यहः ’ चतुर्थपञ्चमषष्ठाहरूपोऽभवत् । उत्तरस्याहस्त्रयस्य निर्वाहकं देवतात्रयस्वरूपं सम्पन्नमित्यर्थः । तत्र लोकत्रयप्रसिद्धा या वाग्देवता तदेकं स्वरूपम्, या च गौर्देवता तद्वितीयं स्वरूपम्, याऽपि द्यौर्देवता तत्तृतीयं स्वरूपम् ॥ एवं सति किं फलितमित्याशङ्क्य फलितं दर्शयति— ततो वै वागेव चतुर्थमहर्वहति ॥ ३ ॥
हिन्दी - ततः वै ( तीन देवता हैं ) इसलिए वाग् एव वाग्देवता ही चतुर्थम् अहः वहति चतुर्थ दिन ( द्वितीय त्र्यह के प्रथम दिन ) का निर्वहन करते हैं ( अर्थात् वाक् चतुर्थ दिन के निर्वाहक देवता हैं ) ॥ सा ० भा ० — यस्माद्देवतात्रयं निष्पन्नं ' ततो वै ' तस्मादेव कारणाद् वागेव प्रथमदेवता मध्यमत्र्यहस्य प्रथमं नवरात्रापेक्षया चतुर्थमहर्वहति ॥
पृष्ठ 27
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८८५ एतस्मिन्नहनि न्यूङ्खं विधत्ते— ( चतुर्थेऽहनि न्यूङ्खविधानम् ) तद् यच्चतुर्थमहर्न्यूङ्खयन्त्येतदेव तदक्षरमभ्यायच्छन्त्येतद्वर्धयन्त्येत-त्प्रविभावयिषन्ति चतुर्थस्याह्न उद्यत्यै ॥४ ॥
हिन्दी – ( चतुर्थ दिन के निर्वाहक देवता वाक् हैं ) तत् इसीलिए यत् चतुर्थमहः न्यूङ्खयन्ति जो चतुर्थ दिन न्यूङ्ख ( ओकार का विशेष प्रकार से उच्चारण ) करते हैं चतुर्थस्य अह्नः उद्यत्यै तो चतुर्थ दिन के उत्कर्ष के लिए एतद् एव यही तद् अक्षरम् उस ( वाग्देवता के वाचक ) अक्षर को अभ्यायच्छन्ति अभिलक्ष्य करके उद्यम करते हैं, एतद् वर्धयन्ति इसे बढ़ाते भी हैं और एतत् प्रविभावयिषन्ति इस ( अक्षर के ) प्रभुत्व और विभुत्व की इच्छा करते हैं ॥ सा ० भा ० — यस्मात्कारणाद् वागेव चतुर्थस्याह्नो निर्वाहिका, तस्मात्कारणाद् यदि चतुर्थमहरुपेता न्यूङ्खयन्ति, ओकारस्य सूत्रोक्तप्रकारेणोच्चारणविशेषं कुर्युः, तदानीमेतदेव वागित्येतदक्षरं देवताया वाचकम् ' अभि ' लक्ष्य ' आयच्छन्ति ' उद्यमं कुर्वन्ति । न केवलमुद्यमः किं त्वेतदक्षरं ‘ वर्धयन्ति ’ । वृद्धिंप्रकार एव ' प्रविभावयिषन्ति ' इत्यनेन स्पष्टीक्रियते । प्रभुत्वं विभुत्वं वाऽक्षरस्य कर्तुमिच्छन्ति । प्रभुत्वं = सामर्थ्यं, विभुत्वं = विशालत्वम् ॥ न्यूङ्खस्वरूपम्, आश्वलायनेन वर्णितम् —'चतुर्थेऽहनि प्रातरनुवाकप्रतिपद्यर्थर्चाद्योर्न्यङ्खः । द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तं त्रिः । तस्य तस्य चोपरिष्टाद् अपरिमितान् पञ्च वाऽर्थैकाराननु-दात्तान् उत्तमस्य तु त्रीन्, पूर्वमक्षरं निहन्यते न्यूङ्खयमाने ' ' इति । अस्यायमर्थः– चतुर्थेऽहनि प्राप्ते सति प्रातरनुवाकस्य येयमृक्प्रथमाऽस्ति, तस्या ऋचो यौ द्वावर्धचौ तयोरर्धर्चयोर्यावादी, तयोराद्योर्न्यङ्खः कर्तव्यः । नितरामत्यन्तविषमप्रकारेण ' ऊङ्खनम् ' उच्चारणं ' न्यूङ्ख ' ' । कथमिति? तदेव स्पष्टीक्रियते — ‘ आपो रेवती: क्षयथेति ' ' प्रातरनुवाकस्य प्रतिपत् । तस्याः पूर्वार्धस्याऽऽदौ योऽयं द्वितीयः स्वर ओकारः पकारादूर्ध्वभावी, तं त्रिमात्रोपेतमुदात्तस्वरयुक्तं त्रिवारमुच्चारयेत् । त एते त्रय ओङ्काराः संपद्यन्ते । तत्रैकैकस्यौकारस्योपरि पुनरप्योकारा अर्धस्वरूपा ह्रस्वमात्रा अपरिमिताः पञ्च वोच्चारणीयाः । ते चार्धीकाराः सर्वेऽप्यनुदाताः । उत्तमस्य तु त्रिमात्रस्योकार-( १ ) आश्व ० श्री ० ७.११.१-५ / ( २ ) तदपि निदर्शनायोदाहरिष्यामः— ' आपो ३ ओ ओ ओ ओ ओ ओ ३ ओ ओ ओ ओ ओ ओ ३ रेवती क्षयथा हि वस्वः क्रतुश्च भद्रं विभृथामृतञ्च । रायो ३ ओ ओ ओ ओ ओ आ ३ ओ ओ ओ ओ ओ ओ ३ ओ ओ ओश्च स्थः स्वपत्यस्य पत्नी: सरस्वती तद् गृणते वयोधो ३ मापो३'- -इति आश्व ० श्रौ ० ७.११.७ । ( ३ ) ऋ ० १०.३०.१२ ।
पृष्ठ 28
पाठ पढ़ें पाठ छिपाएँ
८८६: ऐतरेयब्राह्मणम् [ २१.३ पञ्चमपञ्चिकायां स्योपरि त्रीनर्धौकारानुच्चारयेत् । तेष्वर्धीकारेषु प्रथममक्षरं ' निहन्यात् ' अत्यन्तनीचस्वरेणानुदात्तं कुर्यादिति । एवं सति - उदात्तास्त्रिमात्रास्त्रय ओकारा अर्धैकारास्त्रयोदश इत्येवमोकाराः षोडश संपद्यन्ते । प्रथमद्वितीययोस्त्रिमात्रयोर्मध्ये पञ्चानुदाता अर्धीकाराः, द्वितीयतृतीययोस्त्रिमात्रयो-र्मध्ये पञ्चानुदाता अर्धीकाराः; तृतीयस्य त्रिमात्रस्योपरिष्टाद् अनुदात्ता अर्धीकारास्त्रयः, सोऽय-मुच्चारणविशेषो न्यूङ्ख इत्युच्यते । सोऽयं न्यूङ्खश्चतुर्थस्याह्न ' उद्यत्यै ' उद्यमनाय सर्वस्मादुत्कर्षाय भवति ॥ तमिमं न्यूङ्खं प्रशंसति — अन्नं वै न्यूङ्खो यदेळवा अभिगेष्णाश्चरन्त्यथान्नाद्यं प्रजायते, तद्यु-च्चतुर्थमहर्न्यूङ्खयन्त्यन्नमेव तत्प्रजनयन्त्यन्नाद्यस्य प्रजात्यै; तस्माच्च-तुर्थमहर्जातवद्भवति ॥५ ॥
हिन्दी - ( अब न्यूङ्ख की प्रशंसा करते हैं - ) अन्नं वै न्यूङ्खः न्यूङ्ख ( अन्न का साधन होने के कारण ) अन्नरूप वाला है । यदा इळवा: जब इळा ( अन्न ) वाले ( कृषक ) अभि ( वर्षा करते हुए पर्जन्य को ) अभिलक्षित करके गेष्णाः प्रसन्नतापूर्वक गाते हुए चरन्ति विचरण करते हैं अथ उस ( वर्षा ) के बाद अन्नाद्यं प्रजायते अन्न का उत्पादन करते हैं तत् उसी प्रकार चतुर्थम् अहः चतुर्थ दिन यद् न्यूङ्खयन्ति जो न्यूङ्ख करते हैं तत् तो ( इस न्यूङ्ख के उच्चारण से ) अन्नमेव प्रजनयन्ति अन्न को ही उत्पन्न करते हैं । अन्नाद्यस्य प्रजात्यै ( इस प्रकार यह न्यूङ्ख ) अन्न के उत्पादन के लिए होता है । तस्मात् इसी ( अन्न उत्पादन के लिए होने ) के कारण चतुर्थमहः चतुर्थ दिन जातवद् भवति जात ( = उत्पत्ति ) शब्द से युक्त होता है ॥ .सा ० भा०- - योऽयमुक्तो न्यूङ्खेऽस्ति, तदेतत् ‘ अन्नं वै ' अन्नसाधनत्वादन्नस्वरूपमेव । कथमेतदिति तदुच्यते — इळाशब्दोऽन्नवाची, तद्येषां कर्षकाणामस्ति, ते कर्षकाः ' इळवाः ’ । ते च वर्षन्तं पर्जन्यम्‘अभि ' लक्ष्य ' गेष्णाः ' हर्षेण गायन्तो यदा चरन्ति, अथ तदानीमन्नाद्यं प्रजायते । स्वकालवृष्टिसमृद्धिं च दृष्ट्वा कर्षका हृष्यन्ति । हृष्टाश्च गायन्तीति यदस्ति, तत्सदृशमिदं चतुर्थेऽहनि न्यूङ्खरूपमुच्चारणम् । अतोऽनेनोच्चारणेनान्नमुत्पादयन्ति । तदेव-मन्नाद्यस्य ‘ प्रजात्यै ’ उत्पादनार्थं संपद्यते । ' तस्मात् ' अन्नप्रजातियुक्तत्वादेव चतुर्थमहः ' जात-वद्भवति ' । जातवत्त्वमेतस्मिन्नहनि मन्त्रवचनेनोपरिष्टाद् वक्ष्यते ॥ न्यूङ्खस्य मन्त्रमध्ये स्थानविशेषं विधत्ते— - ( न्यूङ्खमन्त्रमध्ये स्थानविशेषविधानम् ) चतुरक्षरेण न्यूङ्खयेदित्याहुश्चतुष्पादा वै पशवः पशूनामवरुद्धयै ॥ ६ ॥
हिन्दी - ( मन्त्र के मध्य में न्यूङ्ख के स्थान - विशेष का विधान कर रहे हैं - ) चतु-रक्षणेन ( मन्त्र के आदि के ) चार अक्षरों के साथ न्यूङ्खयेत् न्यूङ्ख करना चाहिए ( अर्थात्
पृष्ठ 29
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८८७ मन्त्र के आदि वाले चार अक्षरों का उच्चारण करके न्यूङ्ख करना चाहिए ) इत्याहुः - ऐसा कुछ याज्ञिक कहते हैं ( क्योंकि ) चतुष्पादाः वै पशवः पशु चार पैर वाले होते हैं ( अतः ) पशूनाम् अवरुद्ध्यै पशुओं को प्राप्त करने के लिए ( मन्त्र के आदि वाले चार अक्षरों के साथ न्यूङ्ख करना चाहिए ॥ सा ० भा ० - – मन्त्रे योऽयमादौ चतुरक्षरो भाग:, तेन ' न्यूङ्खयेत् ' चत्वार्यक्षराण्युच्चार्य तदन्ते यथोक्तं न्यूङ्खं प्रयुञ्ज्यादिति केचिद्याज्ञिका आहुः । चतुःसंख्यया ` पादचतुष्टयोपेतानां पशूनां प्राप्तिर्भवतीति तदभिप्रायः ॥ पक्षान्तरं विधत्ते— त्र्यक्षरेण न्यूङ्खयेदित्याहुस्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै ॥७ ॥
हिन्दी – ( न्यू के स्थान के विषय में दूसरे मत को कह रहे हैं - ) त्र्यक्षरेण न्यूङ्खयेत् ( मन्त्र के आदि वाले ) तीन अक्षरों के साथ न्यूङ्ख करना चाहिए— इत्याहुः ऐसा कुछ आचार्य कहते हैं ( क्योंकि ) त्रयो वा इमे त्रिवृतो लोकाः ये तीनों लोक ( संख्या में ) तीन होते हैं ( अतः ) एषामेव लोकानाम् अवरुद्ध्यै इन तीनों लोकों की प्राप्ति करने के लिए ( मन्त्र के तीन अक्षरों के साथ न्यूज करना चाहिए ) ॥ सा ० भा०- – पूर्ववद्व्याख्येयम् ॥ पक्षद्वयमुक्त्वा तृतीयपक्षं विधत्ते-एकाक्षरेण न्यूङ्खयेदिति ह स्माऽऽह लाङ्गलायनो ब्रह्मा मौद्गल्य एकाक्षरा वै वागेष वाव संप्रति न्यू न्यूजयति यं एकाक्षरेण न्यूङ्खयतीति ॥८ ॥
हिन्दी - ( अब तृतीय मत को कह रहे हैं - ) एकाक्षरेण न्यूङ्खयेत् ( मन्त्र आदि वाले ) एक अक्षर के साथ न्यूङ्ख करना चाहिए इति ऐसा लाङ्गलायनों ब्रह्मा मौद्गल्यः लाङ्गल ( नामक ऋषि ) के पौत्र ब्राह्मण मौद्गल्य ( मुद्गल ऋषि के पुत्र ) ने आह ह स्म निश्चित रूप से कहा है ( क्योंकि ) एकाक्षरा एषः वाक् यह वाक् देवता एक अक्षर वाला होता है ( अत:) यः एकाक्षरेण न्यूङ्खयति जो एकाक्षर के साथ न्यूङ्ख करता है, वहीं न्यूङ्ख न्यूङ्खति सम्यग्रूपेण न्यूस करता है । ( १ ) ( क ) ' द्युभूखाख्यास्त्रयो लोका अन्योन्यस्योपकारिणः - इति षड्गुरुशिष्यः । ( ख ) ‘ लोकानां त्रिवृत्त्वं पृथिव्यप्तेजसां त्रिवृत्करणात् । तथाहि श्रुतिः - ' तासां त्रिवृत्तं त्रिवृतमेकैकां कर-वाणि'- ( छा ० उ ० ६.३ ) - इति गोविन्दस्वामी । ( ग ) ' इमे हि लोकाः त्रयो भवन्ति, त्रिवृतश्च भवन्ति, प्रत्येकं पार्थिवाप्यतैजसस्वभावत्वादिगुणाश्च भवन्ति ' - भट्टभास्करः ।
पृष्ठ 30
पाठ पढ़ें पाठ छिपाएँ
८८८: ऐतरेयब्राह्मणम् [ २१.३ पञ्चमपञ्चिकायां सा ० भा०- - लाङ्गलाख्यस्य महर्षेः पौत्रो ‘ लाङ्गलायनः ' । मुद्गलाख्यस्य पुत्रो ‘ मौद्गल्यः ’ । स च ' ब्रह्मा ' इत्येतन्नामको ब्राह्मणः । स ह्येकमक्षरमुच्चारयेन्यूङ्खयेदिति वक्ति । तत्रेयमुपत्तिः, —येयं वागहर्देवतेति पूर्वमुक्ता, सेयमेकाक्षरा; तथा सति यः पुमानेकाक्षरेण न्यूङ्खयति, एष एव संप्रति सम्यङ्न्यूङ्खमनुतिष्ठति । अक्षरसंख्याया देवतानुसारित्वादिति तस्य महर्षेरभिप्रायः । तदेतत्पक्षत्रयमङ्गीकृत्य स्वाभिप्रेतपक्षं विधत्ते-द्व्यक्षरेणैव न्यूङ्खयेत् प्रतिष्ठाया एव; द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशंवो यजमानमेव तद्द्द्विप्रतिष्ठिं चतुष्पात्सु पशुषु प्रतिष्ठापयति, तस्माद् द्व्यक्षरेणैव न्यूङ्खयेत् ॥९ ॥
हिन्दी – ( अब अपने अभीष्ट मत को कह रहे हैं - ) द्व्यक्षरेण न्यूङ्खयेत् ( मन्त्र के आदि वाले ) दो अक्षरों के साथ न्यूङ्ख करना चाहिए ( क्योंकि ) प्रतिष्ठाया एव ( यह यजमान की ) प्रतिष्ठा के लिए होता है । द्विप्रतिष्ठोः पुरुषः पुरुष दो प्रतिष्ठा ( पादों ) वाला होता है चतुष्पादाः वै पशवः और पशु चार पैरों वाले होते हैं । तत् इस प्रकार ( दो अक्षर के साथ न्यूङ्ख करने से ) द्विप्रतिष्ठिं यजमानम् एव दो पैरों वाले यजमान को चतुष्पात्सु पशुषु प्रतिष्ठापयति चार पैर वाले पशुओं में प्रतिष्ठित करता है । तस्मात् इसी कारण यक्षरेणैव न्यूङ्खयेत् दो अक्षरों के साथ न्यूस करना चाहिए ॥ सा ० भा०- -एवकारः पूर्वोक्तपक्षत्रयव्यावृत्त्यर्थः । ' प्रतिष्ठाया एव ' यजमानस्य प्रतिष्ठार्थमेव हि द्विसंख्या:, द्वाभ्यां पदाभ्यामवस्थितत्वात् पुरुषो ‘ द्विप्रतिष्ठः ” । स्पष्टमन्यत् ॥ प्रातरनुवाके विशेषेण स्थानं विधत्ते— मुखतः प्रातरनुवाके न्यूङ्खयति; मुखतो वै प्रजा अन्नमदन्ति, मुखत एव तदन्नाद्यस्य यजमानं दधाति ॥ १० ॥
हिन्दी – ( प्रातरनुवाक में न्यूङ्ख के स्थान - विशेष का विधान कर रहे हैं - ) प्रात-रनुवाके प्रातरनुवाक में मुखतः मुख से ( अर्थात् अर्धर्च के आदि के द्वितीय अक्षर से ) न्यूङ्खयति न्यूङ्ख करता है ( क्योंकि ) प्रजा मुखतः वै प्रजाएँ मुख से ही अन्नम् अदन्ति अन्न को खाती हैं । तत् तो अन्नाद्यस्य मुखतः एव खाद्यान्न के प्रारम्भ में ही यजमानं दधाति यजमान को प्रतिष्ठित करता है । सा ० भा ० – प्रातरनुवाके मुखत अर्धर्चस्याऽऽदौ द्वितीयस्मिन्नक्षरे न्यूङ्खयेत् । प्रजानां सर्वासां मुखेनैवान्नादनात् । तथा सति यजमानमन्नाद्यस्य ' मुखत एव ' समीप एव स्थापयति ॥ आज्यशस्त्रे स्थानविशेषं विधत्ते— मध्यत आज्ये न्यूङ्खयति; मध्यतो वै प्रजा अन्नं धिनोति, मध्यत एव