ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 151–160
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 151–160
पृष्ठ 151
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १०० ९ कृष्णमण्डलस्थानीयाश्च्छन्दोमाः, कनीनिकागतेन्द्रियस्थानीयं दशममहः ॥ चतुर्थदृष्टान्तेन प्रशंसति— यथा वै कर्ण, एवं पृष्ठ्यः षळहस्तद्यथाऽन्तरं कर्णस्यैव छन्दोमा, अथ येनैव शृणोति, तद्दशममहः ॥४ ॥
हिन्दी - ( चतुर्थ दृष्टान्त से दशम दिन की प्रशंसा कर रहे हैं- ) यथा वै कर्णः ( शरीर में ) जिस प्रकार कान होता है एवं पृष्ठ्यः षडहः उसी प्रकार पृष्ठ्य षडह है, यथा कर्णस्यान्तरम् जिस प्रकार कर्ण में छिद्र होते हैं एवं छन्दोमा उसी प्रकार छन्दोम ( त्र्यह ) है । अथ येन एव जिस ( श्रोत्रेन्द्रिय ) से शृणोति ध्वनि को सुनता है तद्दशमः अहः उसी प्रकार यह दशम दिन है । सा ० भा ० – कर्णशब्देन शष्कुल्याकारं गोलकमुच्यते । तत्स्थानीयः पृष्ठ्यः षडहः । तस्य कर्णस्य ‘ अन्तरं ’ यन्मध्यवर्ति च्छिद्रं तत्स्थानीयाश्च्छन्दोमाः । तच्छिद्रावस्थितेनेन्द्रियेण जनः शब्दं ‘ शृणोति ', तदिन्द्रियस्थानीयं दशममहः ॥ अथ तस्मिन् दशमेऽहनि कंचिन्नियमं विधत्ते— ( दशमेऽहनि कञ्चिन्नियमविधानम् ) श्रीर्वै दशममहः, -श्रियं वा एत आगच्छन्ति, ये दशममहरागच्छन्ति, तस्माद्दशममहरविवाक्यं भवति, मा श्रियोऽववादिष्मेति दुरववदं हि श्रेयसः ॥५ ॥
हिन्दी— ( उस दशम दिन में कुछ नियमों का विधान कर रहे हैं— ) श्रीः वै दशमहः यह दशम दिन ( समृद्धि आदि स्वरूप ) श्री है । ये दशममहः आगच्छन्ति जो दशम दिन .का सम्पादन करते हैं एते श्रियं वै आगच्छन्ति ( दशम दिन का अनुष्ठान करने वाले ) श्री को प्राप्त करते हैं । तस्मात् इसी कारण दशममहः दशम दिन अविवाक्यं भवति विवाक्य से रहित ( मन्त्रादि में प्रमाद से रहित अथवा सन्देह स्थल पर विवेचन करना वर्जित ) होता है । मा श्रियः विवादिष्म इसलिए हमें ( श्री की ) निन्दा नहीं करनी चाहिए दुरववदं हि श्रेयसः क्योंकि श्रेय वाले व्यक्ति का ( आचरण ) अनिन्दनीय होता है । सा ० भा०– यदेतद्दशममहः, सा ' श्रीर्वै ' भोग्यवस्तुसमृद्धिस्वरूपमेव ' ऋध्नोति यो द्वादशाहेन यजते ' – इति श्रुत्यन्तरात् । अतो ये दशममहः ' आगच्छन्ति ' अनुतिष्ठन्ति, ते श्रियमेव प्राप्नुवन्ति; यस्माच्छ्रीरूपमेतदहः, तस्माद्विवाक्यरहितं भवति; यदि प्रमादान्मन्त्रेऽन्यत्र वा कश्चित्किंचिद्विरुद्धमाचरेत्, तदानीं तद्विरुद्धमन्येन ' वाच्यं ' वक्तव्यम्, – अत्र त्वया विरुद्धमनुतिष्ठतं; तदेवं सम्यगनुतिष्ठेत्यभिज्ञेन कर्मान्तरे वक्तव्यम्, इह तु तस्य विरुध्यमान-वचनस्य निषिद्धत्वादिदमहः ' अविवाक्यम् ' । तथा च आश्वलायन आह— ' नास्मिन्नहनि ऐ.ब्रा.उ.- १०
पृष्ठ 152
पाठ पढ़ें पाठ छिपाएँ
१०१०: ऐतरेयब्राह्मणम् [ २४.३ पञ्चमपञ्चिकायां केनचित् कस्यचिद्विवाच्यमविवाक्यमित्येतदाचक्षते; संशये बहिर्वेदि स्वाध्यायप्रयोगोऽ-न्तर्वेदीत्येके ' इति । परेण प्रयुज्यमानं विरुद्धं दृष्ट्वाऽपि तन्न ब्रूयादिति नियमस्योपपत्तिरुच्यते— ' श्रियो माऽववादिष्मेति ' – इति । दशमस्याह्नः श्रीरूपत्वात् तस्य यदवदनं तच्छ्रिया एव भवति । अवमतस्य विरुद्धस्य वदनम् ' अववदनं ' निन्दा | यदि दशममहः ' अववादिष्प ' निन्दां कुर्मः, तर्हि श्रिया एव निन्दा संपद्यते । अतो वयं श्रियो ' माऽववादिष्म ' निन्दां कुर्म इति विवार्च्य परित्यजतामित्यभिप्रायः । लोकेऽपि श्रेयसो विद्यैश्वर्यादिनाऽधिकस्य पुरुषस्याचरणं ‘ दुरव-वदं हि ' अववादेन निन्दया रहितम् । अत एव पित्राचार्यादीनां निन्दां न कुर्वन्ति, द्वेषिभि: क्रियामाणामपि न शृण्वन्ति । तदेवमविवाच्यत्वधर्मोऽत्र विहितः । यद्वा, वाक्यद्वयमिदम्, -दशममहरागच्छन्तीत्यन्तो दशमस्याह्नो विधिः, तस्मादित्यादिरविवाक्यत्वनियमविधिः । सोऽपि शाखान्तरेऽप्येवमाम्नायते— ' तस्माद् दशमेऽहन्यविवाक्ये उपहताय न व्युच्यम् ' इति ॥ अथैतस्मिन् दशमेऽहनि मानसग्रहाय प्रसर्पणं विधत्ते — ते ततः सर्पन्ति ॥ ६ ॥
हिन्दी - ( इस दशम दिन में मानसग्रह के लिए प्रसर्पण का विधान कर रहे हैं— ) ते वे ( अनुष्ठान करने वाले ) ततः उस ( पत्नी संयाजपर्यन्त कर्म ) के बाद सर्पन्ति ( समुचित मार्ग से मानस ग्रह के लिए ) प्रयत्न करते हैं । सा ० भा०- - ' ते ' अनुष्ठातारः ' ततः ' पत्नीसंयाजान्तानुष्ठानादूर्ध्वं प्राञ्च उदेत्य मान-साय प्रसर्पेयुः । प्रसर्पणं नाम तदर्थः प्रयत्नः । सर्वेष्वहर्गणेषु कर्मस्वन्तिमादह्न इतराण्यहानि पत्नीसंयाजान्तानि; अन्तिमं त्वेकमेवोदवसानीयान्तम् । तथा च आश्वलायन आह— ‘ प्रातरनुवाकाद्युदवसानीयान्तान्यन्त्यानि; पत्नीसंयाजान्तानीतराणि ' ३ इति । तथा सत्यपि वालस्येतरत्वन्यायेन पत्नीसंयाजान्तत्वे प्राप्ते वचनेन तत ऊर्ध्वं मानसग्रहो विधत्ते । तदर्थं ‘ प्रसर्पन्ति ’ सदसो विनिर्गत्य यथायथं मार्गेण गच्छेयुः ॥ गतानां तेषां तीर्थदेशे मार्जनं विधत्ते-ते मार्जयन्ते ॥७ ॥
हिन्दी - ते मार्जयन्ते वे मार्जन ( शुद्धि ) करते हैं ॥ सा ० भा ० – मार्जनादूर्ध्वं होमार्थं स्थानविशेषप्राप्तिं विधत्ते— ते पत्नीशालां संप्रपद्यन्ते ॥८ ॥
. हिन्दी - ते पत्नीशालां सम्प्रपद्यन्ते पुनः वे ( गार्हपत्याग्नि के समीप में ) पत्नीशाला ( १ ) आश्व ० श्री ० ८.१२.१०-१२ । ( २ ) तै ० सं ० ७.३.१-२ । ( ३ ) आश्व ० श्रौ ० ७.१.४,५ ।
पृष्ठ 153
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०११ को जाते हैं । सा ० भा ० - पत्नी हि गार्हपत्यस्य समीपेऽवतिष्ठत इति सैव ' पत्नीशाला ', तत्र गच्छेयुः ॥ गतानां तेषां होमं विधत्ते— ( तत्र गार्हपत्याग्नौ होमविधानम् ) तेषां य एतामाहुतिं विद्यात् स ब्रूयात् समन्वारभध्वमिति, स जुहुयात् ॥ ९ ॥
हिन्दी - तेषां य एताम् आहुतिं विद्यात् उन ( पत्नीशाला गये लोगों ) में जो ( व्यक्ति ) इस ( आगे कही जाने वाली ) आहुति को जानता है, सः ब्रूयात् वह ( अन्य लोगों से ) कहे कि समन्वारभध्वम् आप लोग अन्वारब्ध होइए ( अर्थात् मेरा स्पर्श कीजिए ) । सः जुहुयात् और ( उनसे अनुज्ञा प्राप्त करके ) वह ( आहुति को जानने वाला व्यक्ति ) आहुति देवें ॥ सा ० भा ० - – ' तेषां ' होमार्थं गार्हपत्यसमीपं गतानां मध्ये ' यः ' पुमान् ' एतां ' वक्ष्य-माणामाहुतिं जानाति, ' सः ' पुमान् इतरान् प्रति ' समन्वारभध्वं ' यूयं सर्वेऽपि मां स्पृशेत ब्रूयात् । तैः समन्वारब्धः ‘ सः ' पुमान् आहुतिं जुहुयात् ॥ तत्र मन्त्रं दर्शयति-इह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्नेऽवाट् स्वाहाऽवाळिति ॥१० ॥
हिन्दी – ( आहुति के मन्त्र का विधान कर रहे हैं - ) इह रम ( हे यजमान्! ) यहाँ रमण करो, इह रमध्वम् ( पुत्रादि प्रजाओं के साथ ) यहाँ ( इन लोगों के मध्य ) रमण करो, इह धृतिः यहाँ धृति ( प्रजाओं का धारण ) इह स्वधृतिः यहाँ स्वधृति ( वेदादि का धारण ) होवे । अग्ने हे अग्नि देव! अवाट् ( इस रथन्तररूप से अनुष्ठान का ) वहन करो, स्वाहा हे ( अग्नि की पत्नी ) स्वाहा! अवाद् ( बृहत्सामरूप से इस अनुष्ठान का ) वहन करो ॥ सा ० भा ० — हे यजमानाः, ' इह ' अस्मिँल्लोके ' रम ' रमणं कुरुत । हे पुत्रपौत्रादिकाः प्रजा:, ‘ इह ' एतेषु यजमानेषु ' रमध्वं ' क्रीडत, ' इह ' यजमानेषु ‘ धृतिः ’ अपत्यानां प्रजानां धारणमस्तु | ‘ इह ' यजमानेषु ' स्वघृतिः ' वेदशास्त्रदिरूपायाः वाचः स्वाधीनत्वेन धारण-मस्तु । हे अग्ने, ' अवाट् ' रथंतररूपेण यज्ञस्य वहनं कुरु । हे ' स्वाहा ' देवि! अग्निजाये,
‘ अवाट् ’ बृहत्सामरूपेण यज्ञस्य वहनं कुरु । ' इति ' शब्दो मन्त्रसमाप्त्यर्थः ॥
यथोक्तं मन्त्रार्थमभिप्रेत्य क्रमेण मन्त्रावयवानां सर्वेषां तात्पर्यं दर्शयति— स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रमयतीह रमध्वमिति यदाह
पृष्ठ 154
पाठ पढ़ें पाठ छिपाएँ
१०१२: ऐतरेयब्राह्मणम् [ २४.३ पञ्चमपञ्चिकायां प्रजामेवैषु तद्रमयतीह धृतिरिह स्वधृतिरिति यदाह प्रजां चैव तद्वाचं च यजमानेषु दधात्यग्नेऽवाळिति रथंतरं स्वाहाऽवाळिति बृहत् ॥ ११ ॥
हिन्दी – ( उपर्युक्त मन्त्र के अभिप्राय से मन्त्र के अवयवभूत शब्दों के तात्पर्य को दिखला रहे हैं— ) यद् जो ' इह रम् ' ( यहाँ रमण करो ), इत्याह यह कहा गया है, ( इस कथन से ) अस्मिन् लोके इस पृथिवी लोक में ही एनान् इन ( यजमानों ) को रमयति रमण कराता है । यत् जो इह रमध्वम् यहाँ क्रीड़ा ( रमण ) करो इत्याह यह कहा गया है, इससे एषु इनमें प्रजाम् ( पुत्र - पौत्रादि प्रजाओं ) को रमयति रमण कराता है । यत् जो इह धृतिः इह स्वधृतिः यहाँ धृति और यहाँ स्वधृति इति आह यह कहा गया है, इससे यजमा-नेषु यजमानों में प्रजां च वाचं च एव ( पुत्रादि ) प्रजा और वाणी को ही दधाति धारण कराता है | ‘ अग्ने अवाट् ' हे अग्ने यज्ञका वहन करो इति रथन्तरम् यह रथन्तर और स्वाहा अवाट् हे स्वाहा! यज्ञ का वहन करो इति यह बृहत् बृहत् है ।. सा ० भा ० - — ' सः ' मन्त्र इह रमेति भागमाहेति यदस्ति, तेनास्मिन्नेव लोके ' एनान् '
यजमानान् रमयति । एवमुत्तरभागा अपि योज्याः ॥
बृहद्रथंतररूपं भागद्वयं विशेषेण प्रशंसति —. ( बृहद्रथन्तरयोः प्रशंसनम् ) देवानां वा एतन्मिथुनं यद्बृहद्रथंतरे, देवानामेव तन्मिथुनेन मिथुन-मवरुन्धते; देवानां मिथुनेन मिथुनं प्रजायन्ते, प्रजात्यै ॥१२ ॥
हिन्दी— ( बृहत् और रथन्तर रूप दोनों भागों की प्रशंसा कर रहे हैं— ) यद् बृहद्-रथन्तरे जो बृहत् और रथन्तर हैं, वह देवानां य मिथुनम् देवताओं का जो मिथुन है, तन्मिथुनेन ( उस बृहत् और रथन्तर ) के मिथुन से देवानां मिथुनम् अवरुन्थे देवताओं के मिथुन को प्राप्त करता है । देवानां मिथुनेन देवताओं के मिथुन से प्रजात्यै ( मनुष्य ) सन्तानोत्पत्ति के लिए मिथुनं प्रजायन्ते मिथुन को उत्पन्न करते हैं ॥ सा ० भा ०. – यदेतद् अन्त्यमन्त्रद्वयं बृहद्रथंतररूपमुक्तम्, तदेतद्देवानां संबन्धि मिथु-नम् । अतस्तद्भागद्वयपाठेन देवसंबद्धेनैव मिथुनेन मानुषं मिथुनं प्राप्नुवन्ति । ततो देव-संबन्धिमिथुनानुग्रहणे मानुषमिथुनमुत्पादयन्ति । ततः सोऽयं मन्त्रो यजमानस्य प्रजोत्पाद-नाय संपद्यते ॥ वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥ १३ ॥
हिन्दी - ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह प्रजया पशुभिः प्रजायते वह प्रजा और पशुओं से समृद्धि को प्राप्त करता है ।
पृष्ठ 155
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १०१३ सा ० भा ० – गार्हपत्ये यथा होमा विहितः तथैवाग्नीध्रीये कंचिद्धोम विधत्ते — ( आग्नीध्रीये होमविधानम् ) ते ततः सर्पन्ति, ते मार्जयन्ते, त आग्नीध्रं संप्रपद्यन्ते; तेषां य एता-माहुतिं विद्यात् स ब्रूयात् समन्वारभध्वमिति स जुहुयात् ॥ १४ ॥
हिन्दी - ( गार्हपत्याग्नि में होम का विधान करके उसी प्रकार आग्नीघ्रीय में होम का विधान कर रहे हैं— ) ततः तब ते प्रसर्पयन्ति वे वहाँ से प्रसर्पण करते ( बाहर निकलते ) हैं और ते मार्जयन्ते वे मार्जन करते हैं । ते आग्नीध्रं सम्प्रपद्यन्ते ( पुनः ) वे आग्नीघ्र को जाते हैं । तेषाम् उन लोगों में यः एताम् आहुतिं विद्यात् जो इस ( आग्नीध्र की आहुति को जानें सः ब्रूयात् वह ( अन्य लोगों से ) कहे – समन्वारभध्वम् आप लोग मुझसे अन्वारब्ध होइए ( अर्थात् मेरा स्पर्श करें ) इति सः जुहुयात् इस प्रकार ( कहकर ) वह होम करे || सा ० भा ० – गार्हपत्यस्थानाद् बहिर्निर्गत्य मार्जनं कृत्वा आग्नीध्रीयं प्राप्य, तत्र पूर्ववज्जुहुयात् ॥ तस्मिन् होमे मन्त्रमाह— उपसृजन् धरुणं मातरं धरुणो धयन्, रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति ॥ १५ ॥
हिन्दी - ( उस आग्नीध्र होम के मन्त्र को कह रहे हैं - ) धरुणः ( सम्पूर्ण जगत् का ) धारयिता ( प्रजापति ) धरुणं मातरं उपसृजन् धर्त्ता माता - पिता को ( हमसे ) मिलाते हुए . ( अथवा अनिष्ट से वियुक्त करते हुए ) धयन् ( हमारे द्वारा होम किए गये आज्य का ) पान करते हुए अस्मासु हमारे प्रति रायस्पोषम् धन और पुष्टि तथा इषम् ऊर्जम् अन्न और - ( दुग्धादि ) रस को दीधरत् धारण करे ( सम्पादित करें ), स्वाहा ॥ सा ० भा ० — अत्र देवताया अस्पष्टत्वात् ' अनिरुक्तः प्रजापतिर्देवता'- इति श्रुत्यन्तरेण प्रजापतिर्देवता । तस्य मन्त्रस्यायमर्थः – ' धरुणः ' सर्वस्य जगतो धारयिता प्रजापतिः ' धरुणम् ’ अस्माकं धर्तारं पितरं मातरं च ' उपसृजन् ' अस्माभिः संयोजयन्, अनिष्टाद्वा वियोजयन्नस्मा-भिर्हुतमाज्यं ‘ धयन् ’ पिबन् ' रायस्पोषं ' धनपुष्टिम् ' इषम् ' अन्नम् ' ऊर्जं ' क्षीरादिरसं चास्मासु ‘ दीधरत् ’ धारयतृ संपादयतु । तस्य प्रजापतेरिदं स्वाहुतमस्तु । ' इति ' शब्दो मन्त्रसमाप्त्यर्थः ॥ आहुतिं प्रशंसति— रायस्पोषंमिषमूर्जमवरुन्य आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेता-माहुतिं जुहोति ॥ १६ ॥
हिन्दी - ( आहुति की प्रशंसा कर रहे हैं - ) यत्र एवं विद्वान् जहाँ इस प्रकार जानने
पृष्ठ 156
पाठ पढ़ें पाठ छिपाएँ
१०१४: ऐतरेयब्राह्मणम् [ २४.४ पञ्चमपञ्चिकायां वाला विद्वान् एताम् आहुतिं जुहोति इस आहुति का होम करता है, वह आ यजमानेभ्यः च अपने और यजमानों के लिए रायस्पोषम् धन और पुष्टि को तथा इषम् ऊर्जम् अन्न और ( क्षीरादि ) रस को अवरुन्धे प्राप्त कर लेता है ॥ सा ० भा ० -- – ' आत्मने ' होत्रे ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये पञ्चपञ्चिकायां चतुर्थाध्याये ( चतुर्विंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( २ ) ( १७५ )
॥ इस प्रकार ऐतरेयब्राह्मण के चौबीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थ खण्डः सा ० भा०- — आग्नीध्रीये होमादूर्ध्वं कर्तव्यानि तानि दर्शयति— ( आग्नीध्रीयहोमादूर्ध्वं कर्त्तव्यादि ) ते ततः सर्पन्ति; ते सदः सम्प्रपद्यन्ते; यथायथमन्य ऋत्विजो व्यु-त्सर्पन्ति; संसर्पन्त्युद्गातारस्ते सर्पराज्ञ्या ऋक्षु स्तुवते ॥ १ ॥
हिन्दी - ( आग्नीध्रीय होम के बाद करणीय कर्त्तव्यों को कह रहे हैं - ) ततः तब ते सर्पन्ति वे वहाँ से निकलते हैं और ते सदः सम्प्रपद्यन्ते वे ( उत्तर वेदि के दक्षिण पूर्व के कोने पर स्थित ) सदस् में प्रवेश करते हैं । अन्यः ऋत्विजः ( उद्गाता से ) अन्य ऋत्विक् यथायथम् अपने समुचित ( मार्ग ) से अर्थात् अपने मार्ग का अतिक्रमण न करते हुए व्युत्सर्पन्ति विविध प्रकार से जाते हैं और उद्गातारः वे उद्गातागण ( मानव नामक स्तोत्र के लिए ) संसर्पन्ति समवेत रूप से जाते हैं और ते वे सर्पराज्ञ्या ऋक्षु सर्पराज्ञी से सम्बन्धित ( ‘ आयं गौ: ' इन तीन ) ऋचाओं में स्तुवते स्तोत्र करते हैं । सा ० भा०- - ' ते ' कृतहोमाः सर्वे ' ततः ' आग्नीध्रीयादग्नेः ' सर्पन्ति ' निर्गच्छन्ति । निर्गतास्ते सदः प्रविशेयुः । प्रवेशवेलायाम् उद्गातृभ्योऽन्य ऋत्विजो ‘ यथायथं ' स्वमार्गम-नतिक्रम्य ‘ व्युत्सर्पन्ति ’ विविधं गच्छन्ति; उद्गातारस्तु ' संसर्पन्ति ' संभूय गच्छेयुः । गतास्ते सामगाः सर्पराज्ञ्याः संबन्धिनीष्वृक्षु ' आयं गौः ' इत्यादिषु स्तोत्रं कुर्युः 1 । सर्पराज्ञीति भूमेर-( १ ) आर ० आ ० ५.४-६ ऋक्षु आर ० गा ० ६.२.८-१० सार्पराज्ञानि ( योनिसामानि ); उ ० आ ० ६.१.११ । तृचे ऊह्य ० गा ० ५.१.९ ( यामं स्तोत्रम् ) । ‘ प्रजापतेस्तिस्रः सर्पराज्ञ्याः सर्पाणां बार्बुदस्य वा सर्पस्य – इति आर्षेय ब्रा ० ३.२ ९ । ' तिसृभिः स्तुवन्ति..... सर्पराज्ञ्या ऋग्भिः स्तुवन्ति..... स्तुतमनुशंसति ' – इति ता ० ब्रा ० ९.८ ।
पृष्ठ 157
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः चतुर्थः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १०१५ वतारस्वरूपा काचिद्देवता; तया दृष्टा मन्त्रा अपि सर्पराज्ञीशब्देनोच्यन्ते ' । अत्र तु ' ऋक्ष्विति ' पृथगुपादानात् ‘ सर्पराज्ञ्याः ’ इति षष्ठ्यन्तत्वाच्च देवतावाच्येवायं शब्दः ± ॥ एतदेवाभिप्रेत्य तत्सम्बद्धा ऋचस्तां च देवतां प्रशंसति इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञीयं वा अलोमिकेवाग्र आसीत् सैतं मन्त्रमपश्यदाऽयं गौः पृश्निरक्रमीदिति; तामयं पृश्निर्वर्ण आविश-न्नानारूपो यं यं काममकामयत, यदिदं किंचौषधयो वनस्पतयः सर्वाणि रूपाणि ॥२ ॥
हिन्दी – ( इसी अभिप्राय से उससे सम्बन्धित ऋचाओं और उनके देवता की प्रशंसा ( १ ) ( i ) ' सर्पराज्ञ्या इति पदे यलोपः छान्दसस्त्विह ' - इति षड्गुरुशिष्यः । ( ii ) सर्पराज्ञी ब्रह्मवादिनी सा यासामृचामृषिः ताः सर्पराज्ञाः सर्पराजन्या ऋच: । ताश्च ' आयं गौः ' इति तिस्रः । ननु सयकारेण प्रयोगेण भवितव्यम्, किमिदं ' सर्पराज्ञा ' इति यकारशून्यः प्रयोगः । स्मरति च शब्दवित् ‘ आण् नद्या ' इति । यणादेशे च यकारो अवश्यंभावी । अथ यकारशून्यं प्रयुञ्जत इति चेद् अन्यथापि प्रयुञ्जत एव । अत उभयोर्लक्षणयुक्तः प्रयोगोऽनुसरणीयः । अत्रोच्यते — यकारशून्योऽपि प्रयोगोऽस्तीति त्वयाभ्युपगतम् । अस्ति चेत्, स एव नियम्यते । ननु सयकारोऽपि प्रयोगोऽस्त्येव । स हि लक्षणयुक्तः । तद्युक्तश्च प्रयोगोऽनुसरणीय इत्युक्तम् । उच्यते— ' उक्तस्त्वयैव परिहारो लक्षणयुक्तः प्रयोग इति वदता । कथम्? सयकारः प्रयोग उपपद्यत इत्यभिप्राय साधुः इति । अत्राह - लक्षणं चेन्नाद्रियते किमिति गाव्यादयः शब्दा अपभ्रंशाः । लक्षणयुक्तः प्रयोगस्तत्रानादिरिति चेत्, अत्रापि तुल्यं वक्तव्यो वा विशेषः । अयकारः प्रयोगो दुर्हण उच्यते परमार्थस्तत्र प्रयोगः इह त्वक्षरग्रह-णार्थः । ततः किं गाव्यादिनापि शब्देन तत्राभिप्रेतार्थसिद्धिः इत्यत्रानादरः प्रयोगे स्यात् । इह तु स्वाध्यायोऽन्यथा न सिद्ध्यति इत्यभिप्रायः । अनादित्वस्मरणाच्च तत्र गोशब्दः ___ सास्नादिमति साधुः; इतरेऽपभ्रंशा इति । किञ्च सावकाशनिरवकाशत्वाच्च न केवलमेतद् वाक्यगतसर्पराज्ञीशब्दं प्रत्ययणादेशस्मरणम्— इकोऽचि परतो यणः स्युर्लोकवेदप्रयोगयोः । इक्प्रयोगप्रसङ्गे तु यणसाधुरिति स्मृतिः ॥ (? ) किञ्चालाक्षणिकश्च प्रयोगो वेदे विद्यते - जहाका अणुका इत्येवमादयः । किञ्च प्रयोगमूलं हि लक्षणम् । न लक्षणवशात् प्रयोग: शासितव्यः । अतो विनाशाच्छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् सयकारः प्रयोगस्त्याज्य इति स्थितम् ' – इति गोविन्दस्वामी । ( २ ) ( i ) ' आयं गौरिति..... सर्पराज्ञीनामर्षिका, सैव देवता सूर्यो वा ' - इति ऋग्भाष्ये सायणः ( १०.१८ ९ ) । ‘ सर्पराज्ञी नाम ब्रह्मवादिनी ' - इति तु ताण्ड्यभाष्ये ( ९.८.७ ) । ( ii ) एवं च सायणमते ' सर्पराज्ञ्या ' इति एव सयकारकः पाठः ।
पृष्ठ 158
पाठ पढ़ें पाठ छिपाएँ
१०१६: ऐतरेयब्राह्मणम् [ २४.४ पञ्चमपञ्चिकायां कर रहे हैं— ) इयम् यह ( पृथिवी ) सर्पराज्ञीम् सर्पराज्ञी है क्योंकि सर्पतः हि सर्पण ( गमन ) करने वाले ( मनुष्यादि ) जङ्गम की राज्ञी स्वामिनी है । इयं वै यह ( पृथिवी ) ही पूर्वम् अलोमिका इव आसीत् ( वनस्पति इत्यादि के पैदा होने के पूर्व ) रोमरहिता के समान थी । सा उस पृथिवी ने ( वनस्पति इत्यादि रूप लोप की उत्पत्ति के लिए साधनभूत ) ‘ आयं गौ पृश्निस्क्रमीत् ’ इमं मन्त्रम् इस मन्त्र दर्शन किया । ( उस मन्त्र के प्रभाव से ) ताम् उस ( भूमि ) में अयं पृश्निवर्ण: इस ( दृश्यमान ) पृश्निवर्ण ( अनेक नील - पीतादि वर्णों ) ने आविशन् प्रवेश किया । नानारूपः इस अनेक रूपों वाली ( पृथिवी ) ने यं यं कामम् अकामयत् जिस - जिस काम की अभिलाषा किया तो यत् किञ्च इदम् यह जो कुछ भी ओषधयः वनस्पतयः ओषधियाँ और वनस्पतियाँ हैं, सर्वाणि रूपाणि वे सभी रूप ( इस पृथिवी को प्राप्त हो गये ) ॥ सा ० भा ० – या भूमिरस्ति, सेयमेव देवताशरीरं धृत्वा ब्रह्मवादिनी भूत्वा ' सर्पराज्ञी ’ शब्देनोच्यते । यस्माद् ‘ इयं ’ पृथिवी ' सर्वत: ' सञ्चरतो जङ्गमस्य मनुष्यादे ' राज्ञी ' स्वामिनी; सर्वेषां मनुष्यादीनां तदाश्रयेणावस्थानात्; अतः सर्पराज्ञीत्युच्यते । ' इयमेव ' अग्रे ' वृक्षाद्यु-त्पत्तेः पूर्वमेव ‘ अलोमिकेव ' रोमरहितेवासीत् ' । ततो रोमोत्पत्त्यर्थं सा भूमिः साधनभूतम् ‘ आयं गौः ' इति ‘ मन्त्रम् ' अपश्यत् । तन्मन्त्रप्रसादेन ' तां ' भूमिम् ' अयं ' दृश्यमानः ' पृश्निर्वर्ण आविशत् ' । पृश्निशब्दस्य व्याख्यानं ' नानारूप: ' इति, नीलपीतादिरित्यर्थः ' । ' किंच ’ लोके ‘ ओषधयो ‘ वनस्पतयः ’ सर्वाणि ' अन्यानि ' रूपाणि ' तृष्णादीनि ' यदिदं ' किचित् स्थावररूप-मस्ति, तन्मध्ये यं यं कामम् ' असौ भूमिः ' अकामयत ', स सर्वोऽप्येनां प्राविशत् ॥ वेदनं प्रशंसति— पृश्निरेनं वर्ण आविशति, नानारूपो यं यं कामं कामयते य एवं वेद ॥ ३ ॥
हिन्दी - ( इस तथ्य के ज्ञान की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है, वह यं यं कामं कामयते जिस - जिस वस्तु की कामना करता है एनम् उसमें पृश्निः नानारूपः अनेक प्रकार के रूपों वाला भोग्य - पदार्थ आविशति प्रवेश करते हैं ( अर्थात् उसे प्राप्त होते हैं ) ॥ सा ० भा ० — वर्णशब्देन नीलपीतादिवाचिना सर्वमपि भोग्यजातमुपलक्ष्यते ॥ स्तोत्रशब्दयोः प्रकारविशेषं विधत्ते-मनसा प्रस्तौति, मनसोद्गायति, मनसा प्रतिहरति, ( १ ) ' सर्पसम्बन्धद्वारा एतन्नाम् ' – इत्याद्यार्षेयभाष्ये सायणः ( ३.२५ ९ ) । ( २ ) तु ० ‘ ओषधिवनस्पतयो लोमानि भूत्वेति ' ह्यारण्यके वक्ष्यते ( ऐ ० आ ० २.४.२ ) । ( ३ ) द्र ० निरु ० २.४.२; १०.४.२ ।
पृष्ठ 159
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०१७ वाचा शंसति ॥४ ॥
हिन्दी – ( स्तोत्र के प्रकार- विशेष को कह रहे हैं - ) मनसा प्रस्तौति ( उद्गाताओं में प्रस्तोता ) मन से ( मौन होकर ) प्रस्ताव भांग को प्रस्तुत करता है । मनसा उद्गायति ( उद्गाता ) मन से उद्गीथ याग का गान करता है । मनसा प्रतिहरति ( प्रतिहर्ता ) मन से ( प्रतिहार भाग का ) प्रतिहार करता है । वाचा शंसति किन्तु ( होता ऋत्विक् ) वाणी से ( बोलकर ) शंसन करता है ॥ सा ० भा ० — उद्गातृणां मध्ये प्रस्तोतुः प्रस्तावभागः ' उद्गातुरुद्गीथभागः प्रति-हर्तुः प्रतिहारभागः । तान् भागान् मनसैव तेऽनुतिष्ठेयुः । होता तु वाचा शंसेत् ॥ द्विविधमपि विधिं प्रशंसति— वाक्च वै मनश्च देवानां मिथुनं; देवानामेव तन्मिथुनेन मिथुनमव-रुन्धते, देवानां मिथुनेन मिथुनं प्रजायन्ते, प्रजात्यै, प्रजायते प्रजा पशुभिर्यं एवं वेद ॥ ५ ॥
हिन्दी – ( मौन होकर और बोलकर इस प्रकार दोनों प्रकार की विधि की प्रशंसा कर रहे हैं— ) वाक्च मनश्च वाणी और मन- ये दोनों देवानां मिथुनम् देवताओं का मिथुन है । देवानां मिथुनेन वै देवताओं के मिथुन से ही मिथुनम् अवरुन्धते ( मनुष्य के ) मिथुन ( पति और पत्नी ) को प्राप्त करता है । देवानां मिथुनेन देवताओं के मिथुन से मिथुनं प्रजायन्ते मिथुन ( प्रजा = पुत्र और पुत्री ) को उत्पन्न करता है । प्रजात्यै प्रजोत्पादन के लिए ( यह दो प्रकार का अनुष्ठान होता है ) यः एवं वेद जो इस प्रकार जानता है, वह प्रजया
पशुभिः प्रजा ( पुत्रादि ) और पशुओं से प्रजायते समृद्ध होता है ।
सा ० भा ० — बृहद्रथंतरमिथुनवद् व्याख्येयम् ॥
होतुः सर्पराज्ञ्याः शंसनादूर्ध्वं चतुर्होतृमन्त्रान् विधत्ते— ( चतुर्होतृमन्त्रविधानम् ) अथ चतुर्होतृन् होता व्याचष्टे, तदेव तत् स्तुतमनुशंसति ॥६ ॥
हिन्दी— ( होता के द्वारा सर्पराज्ञी मन्त्र के शंसन के बाद चतुहोतृ मन्त्रों का विधान कर रहे हैं— ) अथ इसके बाद होता चतुर्होतृमन्त्रान् व्याचष्टे होता चतुर्होतृ मन्त्रों का व्याख्यान करता है तदेव तत् स्तुतम् उससे जो ( उद्गाताओं द्वारा ) स्तुत होता है, वह सभी अनुशंसति साथ - साथ शंसन करता है । सा ० भा ० — चतुर्होतृमन्त्रास्तद्व्याख्यानप्रकारश्चोपरिष्टात् अभिधास्यते । तेन व्या-ख्यानेन यदुद्गातृभिः ‘ स्तुतं ’, ‘ तदेवं ' सर्वमनुशस्तं भवति ॥ तमेतं मन्त्रसमूहं प्रशंसति—
पृष्ठ 160
पाठ पढ़ें पाठ छिपाएँ
१०१८: ऐतरेयब्राह्मणम् [ २४.४ पञ्चमपञ्चिकायां देवानां वा एतद् यज्ञियं गुह्यं नाम, यच्चतुर्होतारस्तद्यच्चतुर्होतॄन् होता व्याचष्टे, - देवानामेव तद् यज्ञियं गुह्यं नाम प्रकाशं गमयति ॥७ ॥
हिन्दी— ( उस चतुहोतृ मन्त्र के समूह कीं प्रशंसा कर रहे हैं — ) यत् चतुर्होतारः जो चतुहोतृ मन्त्र हैं वे देवानां वै देवताओं के ही एतद् यज्ञियं गुह्यं नाम ये यज्ञीय गुप्त नाम है । तद् यत् तो जो होता चतुर्होतृन् व्याचष्टे होता ( ऋत्विक् ) चतुर्होतृ ( मन्त्रों का ) व्याख्यान करता है तो वह, देवानाम् एव देवताओं के ही तत् यज्ञियं गुह्यं नाम उस यज्ञीय गुप्त नाम को प्रकाशं गमयति प्रकाश में लाता है । सा ० भा०- य एते चतुर्होतृमन्त्राः सन्ति, तदेतन्मन्त्रस्वरूपं देवानां संबन्धि यज्ञयोग्यं नाम; ततो होतृव्याख्याने देवसंबन्धि योग्यं नाम प्रकाशितं करोति ॥ वेदनं प्रशंसति-तदेनं प्रकाशं गतं प्रकाशं गमयति, गच्छति प्रकाशं य एवं वेद ॥ ८ ॥
हिन्दी – ( इस तथ्य के जानने की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है, वह एनं प्रकाशं गतम् इस प्रकाशित ( नाम ) को प्रकाशं गमयति प्रकाश में लाता है और प्रकाशं गच्छति स्वयं प्रकाश को प्राप्त करता है । सा ० भा०- – यदुक्तार्थवेदिता होता ' एनं ' होतारं ' तद् ' देवानां गुह्यं नाम स्वयं ‘ प्रकाशं ' ' गतं ' सत् पश्चात् ' प्रकाशं गमयति ' । ततो वेदिता ' प्रकाशं गच्छति ' तेन नाम्नाऽनुगृहीतः प्रख्यातो भवतीत्यर्थः । यद्वा, तदेनमित्यादि पूर्वशेषः । ' तद् ' देवानां गुह्यं नाम स्वयं ' प्रकाशं गतं ' सत्पश्चाद् ' एनं ' होतारं ' प्रकाशं गमयति ' । गच्छतीत्यादिकैव विद्वत्प्रशंसा ॥ तदेवं क्रत्वङ्गेन चतुर्होतृव्याख्यानं विधाय तत्प्रशंसां कर्तुं क्रतुनिरपेक्षलौकिककाम्य-फलसिद्ध्यर्थं चतुर्होतृव्याख्यानं विधत्ते— यं ब्राह्मणमनूचानं यशो नछेदिति ह स्माऽऽहारण्यं परेत्य दर्भस्त-म्बानुद्ग्रथ्य दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन् व्याचक्षीत ॥९ ॥
हिन्दी— ( क्रतु के अङ्गभूत चतुर्होतृ मन्त्र के व्याख्यान को कहकर उसकी प्रशंसा करने के लिए चतुर्होतृ के व्याख्यान का विधान कर रहे हैं - ) यं अनूचानं ब्राह्मणम् जिस वेद के पाठ करने वाले ब्राह्मण को यशः न ऋछेत् यश प्राप्त न होवे, तो वह अरण्यं परेत्य अरण्य ( निर्जन वन ) में जाकर दर्भस्तम्बान् उद्यथ्य कुश के शिरों को बाँधकर ब्रह्माणं दक्षिणतः उपवेश्य किसी वेदज्ञ ब्राह्मण को दाहिनी ओर समीप में बैठाकर चतुर्होतॄन् व्याचक्षीत् चतुर्होतृ मन्त्रों का ऊँची ध्वनि में पाठ करना चाहिए - इति ह स्म आह ऐसा ( किसी ) ब्रह्मवादी ने कहा है ।