ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 161–170

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 161–170

पृष्ठ 161

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०१ ९ सा ० भा ० — साङ्गवेदाध्ययन - तदर्थानुष्ठानशीलः ' अनूचानः ' । तादृशं कंचिद्ब्राह्मणं सभामध्ये वाग्मित्वेन रहितं यदि ' यशो नच्छेत् ' विद्वानयमिति कीर्ति न प्राप्नुयात्, तदानीमयं ब्राह्मणो ग्रामान्निर्गत्य विजनमरण्यदेशं प्राप्य तत्र दर्भस्तम्बानामग्रमूर्ध्वमुखत्वेन प्रथित्वा स्वस्य दक्षिणपार्श्वे कंचिद्वेदविदं विप्रमुपवेश्य तत्संनिधौ चतुर्होतॄनामकान् मन्त्रान् व्याचक्षीत । उच्चैरुच्चारणं ‘ व्याख्यानम् ' । ' इति ' एतत्प्रयोगं कश्चिद्ब्रह्मवाद्याह स्मेत्यन्वयः । तमिमं यज्ञसंयुक्तं प्रयोगं पूर्ववत्प्रशंसति— देवानां वा एतद् यज्ञियं गुह्यं नाम, यच्चतुर्होतारस्तद्यच्चतुर्होतॄन् व्याचक्षीत देवानामेव तद् यज्ञियं गुह्यं नाम प्रकाशं गमयति; तदेनं प्रकाशं गतं प्रकाशं गमयति, गच्छति प्रकाशं य एवं वेद ॥ १० ॥

हिन्दी — यत् चतुर्होतारः जो चतुर्होतृ मन्त्र है वह देवानाम् देवताओं का एतद् यज्ञियं गुह्यं नाम यह यज्ञीय गुप्त नाम है । तत् यत् तो जो चतुर्होतॄन् व्याचक्षीत् चतुहोतृ मन्त्र का व्याख्यान करता है, वह देवानाम् एव देवताओं के ही तद् यज्ञियं गुह्यं नाम उस यज्ञीय गुप्त नाम को प्रकाशं गमयति प्रकाश में ले आता है । अतः वह एनं प्रकाशं गतम् इस प्रकाश को प्राप्त ( नाम ) को प्रकाशं गमयति प्रकाश में लाता है । यः एवं

वेद जो इस प्रकार जानता है वह प्रकाशं गच्छति स्वयं प्रकाश प्राप्त करता है ।

सा ० भा०- - पूर्ववद् व्याख्येयम् ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चपञ्चिकायां चतुर्थाध्याये ( चतुर्विशाध्याये ) चतुर्थः खण्डः ॥४ ॥ ( २४ ) ( १७६ )

॥ इस ऐतरेयब्राह्मण के चौबीसवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा ० — अथ चतुर्होतृव्याख्यानस्य प्रकारं यज्ञाङ्गसाकल्येनाभिधातुमुपक्रमते— ( चतुर्होतृव्याख्यानप्रकारविधानम् ) ( तत्रौदुम्बरशाखास्पर्शनम् ) अथौदुम्बरीं समन्वारभन्ते ॥ १ ॥

हिन्दी – ( अब चतुर्होतृ के व्याख्यान के प्रकार को यज्ञाङ्ग की सम्पूर्णता के साथ कहने के लिए उपक्रम कर रहे हैं - ) अथ औदुम्बरीम् अब ( चतुर्होतृ के व्याख्यान के

पृष्ठ 162

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२०: ऐतरेयब्राह्मणम् [ २४.५ पञ्चमपञ्चिकायां बाद सद् में रखी हुई ) उदुम्बर ( गुलर ) की शाखा को समन्वारभन्ते अच्छी प्रकार से अन्वारभण ( स्पर्श ) करते हैं । सा ० भा०- -चतुर्होतृव्याख्यानोद्योगानन्तरं येयमौदुम्बरी शाखा सदस्यन्तर्निहिता, तां शाखां सर्वे संभूयोपस्पृशेयुः ॥ तत्र मन्त्रं दर्शयति— इषमूर्जमन्वारभ इति ॥ २ ॥

हिन्दी — ( अन्वारभण के मन्त्र को कह रहे हैं - ) इषम् ऊर्जम् अन्वारभे हम अन्न और ( दुग्धादि रूप ) रस का अन्वारभण कर रहे हैं ॥ सा ० भा ० — अन्नरूपां रसरूपां वै तामौदुम्बरीम् ' अन्वारभे ' इति हस्तेन स्पृशामि । ' इति ' शब्दो मन्त्रसमाप्त्यर्थः ॥ मन्त्रार्थमौदुम्बर्या दर्शयति— ऊर्वा अन्नाद्यमुदुम्बरः ॥३ ॥

हिन्दी— ( उदुम्बर के अर्थ को दिखला रहे हैं— ) ऊर्क अन्नाद्यं वै उदुम्बरः उदुम्बर ( दुग्धादि रूप ) रस और अन्न रूप है ॥ सा ० भा ० — योऽयमुदुम्बरवृक्षः, सोऽयं रसरूपोऽन्नरूपश्च ॥ तमेतमर्थमुपपादयति— यद्वैतद्देवा इषमूर्जं व्यभजन्त, तत उदुम्बरः समभवत्, तस्मात् सः त्रिः संवत्सरस्य पच्यते ॥४ ॥

हिन्दी— ( इस अर्थ का उपपादन कर रहे हैं — ) यत् देवाः जो देवताओं ने इषम् ऊर्जं व्यभजत अन्न और रस ( रूप वस्तु को पृथिवी पर बैठकर ) विभाजित किया ततः तो उदुम्बरः समभवत् वह उदुम्बर हो गया । तस्मात् इसी कारण से सः वह ( उदुम्बर ) त्रिः संवत्सरस्य पच्यते एक वर्ष में अनेक बार फल देता है ॥ सा ० भा ० – ' देवाः ' पुरा यदेतदनं रसरूपं वस्तु क्वचिद्भूमावुपविश्य ‘ व्यभजन्त ’ एतावदस्यैतावदस्येति विभागं कृतवन्तः । तदानीं तस्माद् भूमौ पतितादन्नरसभेदाद् बीजभूतादयमौदुम्बरवृक्षः समुत्पन्नः तस्मात् संवत्सरस्य मध्ये भोक्तृणामन्नसिद्ध्यर्थं ‘ सः ’ वृक्षः ‘ त्रिः पच्यते ’ त्रिरित्युपलक्षणम्, बहुकृत्वः फलं गृह्णाति ॥ औदुम्बरीस्पर्शमुपसंहरति— तद्यदौदुम्बरीं समन्वारभन्त, इषमेव तदूर्जमन्नाद्यं समन्वारभन्ते ॥५ ॥

हिन्दी - ( अब उदुम्बर की शाखा के अन्वारभण का उपसंहार कर रहे हैं - ) तद्

पृष्ठ 163

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०२१ यत् तो जो औदुम्बरीं समन्वारभन्ते उदुम्बर की शाखा का अन्वारभण ( स्पर्श ) करते हैं तत् तो ऊर्जम् अन्नाद्यं समन्वारभन्ते रस और अन्न को ही स्पर्श करते हैं । औदुम्बरीस्पर्शादूर्ध्वं मौनं विधत्ते— ( मौनविधानम् ) वाचं यच्छन्ति, वाग्वै यज्ञो यज्ञमेव तद् यच्छन्ति ॥ ६ ॥

हिन्दी - ( उदुम्बर की शाखा के स्पर्श के बाद मौन रहने का विधान कर रहे हैं— ) वाचं यच्छन्ति ( उदुम्बर की शाखा के स्पर्श के बाद ) वाणी का नियमन करते हैं ( मौन रहते हैं ) । वाग् वै यज्ञम् वाणी ही यज्ञ है अतः यज्ञमेव तद् यच्छन्ति उस ( वाग्नियमन ) ) से यज्ञ को ही नियमित करते हैं ॥ सा ० भा ० — यज्ञस्योच्चार्यमाणमन्त्रसाध्यत्वाद् वाग्रूपत्वम् । अतो वाङ्नियमेन यज्ञ-स्यैव नियमो भवति ॥ मौनस्य कालविशेषं विधत्ते— अहर्नियच्छन्त्यहर्वै स्वर्गो लोकः; स्वर्गमेव तं लोकं नियच्छन्ति ॥७ ॥

हिन्दी - ( मौन रहने का काल - निर्धारण कर रहे हैं - ) अहः नियच्छन्ति दिन में ( वाणी का ) नियमन करते हैं; क्योंकि अहः वै स्वर्गो लोकः दिन ही स्वर्गलोक है ( इस मौन से ) तं स्वर्गं लोकम् एव नियच्छति उस स्वर्गलोक को अपने अधीन कर लेता है ॥ सा ० भा ० - सूर्यास्तमयादर्वाक्स्वर्गवत्प्रकाशसद्भावेनाह्नः स्वर्गत्वम् । तस्मिन्नहनि वाङ्नियमेन स्वर्ग एव नियतः स्वाधीनो भवति ॥ विधिसिद्ध्यर्थमहनि कतिपयेषु क्षणेषु वाचं नियम्य पश्चान्मौनपरित्यागप्राप्तौ निषेधति— न दिवा वाचं विसृजेरन् यद्दिवा वाचं विसृजेरन्नहर्भ्रातृव्याय परिशिष्युः ॥८ ॥

हिन्दी - ( दिन में मौन तोड़ने का निषेध कर रहे हैं - ) न दिवा वाचं विसृजेरन् दिन में वाणी को नहीं बोलना चाहिए । यदि वा वाचं विसृजेरन् यदि दिन में वाणी को बोलते हैं तो अहः दिन को भ्रातृव्याय परिशिष्यः शत्रुओं के लिए दे देता है । सा ० भा ० — अहनि वाग्विसर्गे सति यजमानाः सर्वेऽप्यहः सम्बन्धं परित्यज्य शत्रवे तदहः ‘ परिशिष्युः ’ ” दद्युरित्यर्थः ॥ अहनि निषिद्धस्य वाग्विसर्गस्य रात्रौ प्राप्तौ सत्यां तदपि निषेधति— ( १ ) परिशिषिर्दानार्थः, लिङि यासुट्, श्नसोरल्लोपः = दद्युः । इति षड्गुरशिष्यः ॥ ( २ ) सूत्र्यते हि — ‘ मनसात्मानमाप्याय्यौदुम्बरीं समन्वारभ्य वाचं यच्छन्त्या नक्षत्रदर्शनात् ' इति आश्व ० श्रौ ० ८.१३.२३ ।

पृष्ठ 164

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२२: ऐतरेयब्राह्मणम् [ २४.५ पञ्चमपञ्चिकायां न नक्तं वाचं विसृजेरन्, यन्नक्तं वाचं विसृजेरन् रात्रीं भ्रातृव्याय परिशिष्युः ॥ ९ ॥

हिन्दी— ( रात्रि में भी मौनत्याग का निषेध कर रहे हैं - ) न नक्तं वाचं विसृजेरन् रात्रि में भी वाणी को नहीं बोलना चाहिए । यदि नक्तं विसृजेरन् यदि रात्रि में वाणी को

बोलते हैं तो रात्रीं भ्रातृव्याय परिशिष्यः रात्रि को शत्रुओं के लिए दे देता है ।

सा ० भा०- - पूर्ववद् व्याख्येयम् ॥

यद्यहनि रात्रौ च निषेधः, कदा तर्हि वाग्विसर्ग इत्याशङ्क्याऽऽह— समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्तावन्तमेव तद् द्विषते लोकं परिशिषन्ति ॥१० ॥

हिन्दी - ( दिन और रात्रि में मौनत्याग का निषेध करके अब मौनत्याग के काल को कह रहे हैं — ) सूर्य: ( जब ) सूर्य समयाविषितः स्यात् अस्तमय समय वाला होवें अथ वाचं विसृजेरन् तब वाणी को बोलना चाहिए । इससे तावन्तमेव उतने समय तक ही द्विषते शत्रु के लिए लोकम् स्थान को परिशिषन्ति अवशिष्ट करते हैं ॥ सा ० भा ० - यदा सूर्यः ' समयाविषितः ' अस्तमयसमयं प्राप्तः, अर्धास्तमितः ' स्यात्, तदानीं वाग्विसर्गः । तथा सति संपूर्णास्तमयपर्यन्तमल्पमेव कालं ' द्विषते ' ' लोकं ' शत्रोः स्थानं ‘ परिशिषन्ति ' प्रयच्छन्ति 1 । अहो रात्रिश्चेति कालद्वयं स्वार्थमेव भवति ॥ पक्षान्तरं विधत्ते— अथो खल्वस्तमित एव वाचं विसृजेरंस्तमोभाजमेव तद् द्विषन्तं भ्रातृव्यं कुर्वन्ति ॥ ११ ॥

हिन्दी – ( सायंकाल मौनत्याग के विषय में अन्य पक्ष को कह रहे हैं— ) अथ खलु अथवा अस्तमितः एव वाचं विसृजेरन् ( सूर्य के ) अस्त होने पर ही बोले तो द्विषन्तं भ्रातृव्यम् द्वेष करने वाले शत्रु को तमोभाजमेव कुर्वन्ति तम का भागी ( अन्धकारमग्न ) बना देते हैं | सा ० भा०- ' अथो खलु ' अथवेत्यर्थः । सूर्ये साकल्येनास्तमिते सत्येव पश्चाद्वाग्वि-सर्गेण शत्रुं ‘ तमोभाजम् ' अन्धकारमग्नं कुर्वन्ति ॥ ( १ ) समयाध्युषित - समयाविषितशब्दौ सन्धिकालपरौ । तत्र समयाध्युषितः प्रातः सन्धिकालः, ‘ समयाविषितस्तु सायंसन्धिकाल इति विशेषः । द्र ० कात्या ० श्री ४.१५.१ । आश्व ० गृ ० १.७३ । म ० सं ० २.१५ । तै ० सं ० ६.६.११.६ । व्याख्यानं च तस्य १.४.४५.१५ । अनुपदसूत्र ३.१२ । ‘ समण्डले दिनं सूर्ये नक्तं निर्मण्डले सति । समयाविषितः कालस्त्वर्धमण्डलसंयुते ’ – इति षड्गुरुशिष्यः ।

पृष्ठ 165

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः पञ्चमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १०२३ वाग्विसर्गस्य देशविशेषं विधत्ते— आहवनीयं परीत्य वाचं विसृजेरन् यज्ञो वा आहवनीयः, स्वर्गों लोक आहवनीयो, यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गं लोकं यन्ति ॥ १२ ॥

हिन्दी – ( मौनत्याग के स्थान - विशेष का विधान कर रहे हैं - ) सदस से बाहर-आहवनीयं परीत्य आहवनीय ( अग्नि ) की प्रदक्षिणा करके वाचं विसृजेरन् वाणी को बोलना चाहिए; क्योंकि यज्ञो वै आहवनीयः आहवनीय ( अग्नि ) ही यज्ञ है और स्वर्गो लोकः आहवनीयः आहवनीय स्वर्गलोक है अतः यज्ञेनैव स्वर्गेण यज्ञरूपी स्वर्ग के द्वारा ही स्वर्गं लोकं यन्ति स्वर्गलोक को प्राप्त करते हैं । सा ० भा ० — सदसो निर्गत्य आहवनीयं परितः प्रदक्षिणीकृत्य तत्र वाग्विसर्गः कर्तव्यः । आहवनीयस्य यज्ञनिष्पादकद्वारा स्वर्गहेतुत्वेन तदुभयात्मकत्वे सति यज्ञस्वर्गात्मकेनैवाऽऽ-हवनीयेन यजमानाः स्वर्गं प्राप्नुवन्ति ॥ वाग्विसर्गे मन्त्रविशेषं विधत्ते-( वाग्विसर्गे मन्त्रविशेष: ) यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति वाचं विसृजन्ते ॥ १३ ॥

हिन्दी— ( मौनत्याग के विषय में मन्त्र - विशेष को कह रहे हैं— ) इह यद् ऊनम् अकर्म इस ( क्रतु ) में जो अपूर्ण अकर्म हो अथवा यद् अत्यरीरिचाम् जो अतिरिक्त ( कर्म ) हो गया हो तत् वह ( दोष ) पितरं प्रजापतिम् ( हमारे ) पालक प्रजापति के पास अप्येतु चले जाँय - इति इस ( मन्त्र ) से वाचं विसृजन्ते वाणी को बोलते हैं ॥ सा ० भा०- -'इह ' क्रतौ ' यत् ' अङ्गम् ' ऊनम् ' असम्पूर्णं, यदपि ' अकर्म ' स्वरूपेणैव तदङ्गं न कृतम्, ‘ यत् ’ अप्यङ्गम् ' अत्यरीरिचाम ' अतिरिक्तं द्विवारं त्रिवारं वा वयमनुष्ठिवन्तः, ‘ तत् ’ सर्वं दोषकरमङ्गजातं ' पितरम् ' अस्माकं पालकं प्रजापतिम् ' अप्येतु ' प्राप्नोतु । ' इति ' अनेन मन्त्रेण वाग्विसर्गः कर्तव्यः ॥ उक्तमन्त्रं प्रशंसति-प्रजापतिं वै प्रजा अनु प्रजायन्ते, प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा, ( १ ) ' यज्ञनिष्पादकत्वद्वारा ' - इति वा पाठ: । ( २ ) ‘ यद् इह कर्मणि ऊनं विकलम् । अकर्म = अकार्ष्म, मन्त्रे घसेति ( पा ० सू ० २.४.८० ) च्लिलुक् । यच्चात्यरीरिचाम, णिचो लुङ् चङ्, अतिरिक्तं कृतवन्तः स्म । तत् सर्वं प्रजापतिं सर्वस्य पितरं पालकम् अपि साधु एतु गच्छतु इत्यर्थं मत्वा व्याचक्षाणः स्तौति-प्रजापतिम् । इति षड्गुरुशिष्यः ।

पृष्ठ 166

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२४: ऐतरेयब्राह्मणम् [ २४.५ पञ्चमपञ्चिकायां नैनानूनं नातिरिक्तं हिनस्ति ॥ १४ ॥

हिन्दी— ( उस मन्त्रत्याग के मन्त्र की प्रशंसा कर रहे हैं— ) प्रजापतिम् अनु वै प्रजापति के अनुरूप ही प्रजाः प्रजायन्ते प्रजाएँ पैदा होती हैं । प्रजापतिः ऊनातिरि-क्तयोः प्रतिष्ठा प्रजापति ही न्यूनता ( कमी ) तथा अतिरिक्त ( अधिकता के ) दोष की प्रतिष्ठा ( आश्रय ) हैं । अतः एनान् इन ( यजमानों ) को ऊनम् अतिरिक्तम् ( यज्ञ की ) न्यूनता अथवा अधिकता ( का दोष ) न हिनस्ति विनष्ट नहीं करता है ॥ सा ० भा ० — सर्वाः प्रजाः प्रजापतिमेवानु प्रजायन्ते; तस्य स्रष्टुत्वात् तदनुरूपैव सर्वोत्पत्तिः । अतः स्रष्टा प्रजापतिरेव न्यूनातिरिक्तदोषयोः ' प्रतिष्ठा ' आश्रयः समाधानहेतुः । तस्मादेतन्मन्त्रपाठेन ‘ एनान् ' यजमानान् ऊनातिरिक्तद्वयदोषो न बाधते ॥ वेदनपूर्वकमनुष्ठानं प्रशंसति— प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य एवं विद्वांस एतेन वाचं विसृजन्ते ॥ १५ ॥

हिन्दी— ( इसको जानने के लिए अनुष्ठान की प्रशंसा कर रहे हैं— ) यः एवं विद्वांसः जो इस प्रकार का ( जानने वाला ) विद्वान् है एतेन वाचं विसृजन्ते इस ( मन्त्र ) के साथ वाणी को बोलते हैं वे ऊनातिरिक्तानि न्यूनता तथा अधिकता ( के दोषों ) को प्रजापतिम् प्रजापति को अभ्यत्यर्जन्ति समर्पित कर देते हैं । सा ० भा ० — मन्त्रेण वाग्विसर्गं कुर्वाणा यजमाना ऊनातिरिक्ताङ्गकृतं दोषमभिलक्ष्य प्रजापतिमेव ‘ अभ्यत्यर्जन्ति ' अतिशयेन प्राप्नुवन्ति ', स एव समादधातीत्यर्थः ॥ मन्त्रेण वाग्विसर्गमुपसंहरति— तस्मादेवं विद्वांस एतेनैव वाचं विसृजेरन् ॥ १६ ॥

हिन्दी— ( अब मौनत्याग का उपसंहार कर रहे हैं - ) तस्मात् इसी कारण एवं विद्वांसः इस प्रकार जानने वाला विद्वान् एतेनैव इस मन्त्र से ही वाचं विसृजेरन् वाणी को बोले ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां चतुर्थाध्याये ( चतुर्विशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( २४ ) ( १७७ )

॥ इस प्रकार ऐतरेयब्राह्मण के चौबीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ' सृजन्ति ' - इति गोविन्दस्वामी, ' गमयन्ति ' – इति षड्गुरुशिष्यः ॥

पृष्ठ 167

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १०२५ अथ षष्ठः खण्डः सा ० भा ० - चतुर्होतृमन्त्रव्याख्यानार्थमाहावं विधत्ते— ( चतुर्होतृमन्त्रव्याख्यानार्थमाहावविधानम् ) अध्वर्यो इत्याह्वयते चतुर्होतृषु वदिष्यमाणस्तदाहावस्य रूपम् ॥१ ॥

हिन्दी – ( चतुर्होतृ मन्त्र के व्याख्यान के लिए होता द्वारा किये जाने वाले आहाव का विधान कर रहे हैं— ) चतुर्होतृषु वदिष्यमाणः चतुर्होतृ मन्त्रों में ऊँची ध्वनि से उच्चारण करने के लिए उद्युक होता ( नामक ऋत्विक् ) अध्वर्यो हे अध्वर्यु! इति आह्वयते इस प्रकार आहाव करता है । तद् आहावस्य रूपम् यही ( यहाँ ) आहाव का स्वरूप है । सा ० भा०- — चतुर्होतृनामकेषु मन्त्रेषूच्चैरुच्चारणं कर्तुमुद्युक्तो होता ' हेऽध्वय ' इत्याह्वानं कुर्यात् । यथा शस्त्रादौ ' शोंसावोम् ' इत्याह्वानं करोति, तद्वदत्रापि सम्बोधनमेवाहावस्य स्वरूपम् ॥ चतुर्होतृव्याख्यानकालेऽध्वर्योः प्रतिगरविशेषं विधत्ते— ( तत्र प्रतिगरविशेषविधानम् ) ओं होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु ॥ २ ॥

हिन्दी — ( अब अध्वर्यु द्वारा किये गये प्रतिगर- विशेष का विधान कर रहे हैं— ) ओं होतः हे होता! तुम्हारा अभीष्ट सिद्ध होवे तथा होतः हे होता! वैसा ही करो - इति इंस मन्त्र से अध्वर्युः प्रतिगृणाति अध्वर्यु प्रतिगर ( होता के लिए उत्साहवर्धक वचन ) कहता है । दशसु पदेषु दस पदों में अवसितेऽवसिते प्रत्येक अवसान पर ( अध्वर्यु प्रतिगर कहे ) || सा ० भा ० - हे होत! ' ॐ ' त्वदभिलषितमस्तु । हे होतः तथा क्रियतामित्यध्या-हारः । अनेन मन्त्रेणाध्वर्युः प्रतिगरं ब्रूयात् । होतुरुत्साहजनकं प्रतिवचनं ‘ प्रतिगरः ’ । वक्ष्य-माणेषु होत्रा प्रयोज्येषु दशसंख्याकेषु पदेषु ' मध्ये एकैकस्मिन् पदे ‘ अवसिते ' समाप्ते सति ( १ ) ( i ) पदं = वाक्यम्; पदं स्थाने शरे त्राणे पदाङ्के पादचिह्नयोः । शब्देऽशुवस्तुवाक्येषु व्यवसायापदेशयोः ॥ इति निघण्टुः ( वैजयन्त्यां द्व्यक्षरकाण्डे नपुंसकलिङ्गाध्याये ) ।

( ii ) तेषामित्यादिदशकेऽध्वर्युः प्रतिगरं वदेत् ।

पञ्चस्वादित ओं होतस्तथा होतश्च पञ्चसु ॥

पदेषु वाक्येऽवसिते समाप्तेऽस्तेर्लङीट्तिपः । - इति षड्गुरुशिष्यः । ऐ.ला.उ. ११

पृष्ठ 168

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२६: ऐतरेयब्राह्मणम् [ २४.६ पञ्चमपञ्चिकायां तदा तदा पुनः पुनरध्वर्युः ‘ ओं होत: ' इत्यादिमन्त्रेण प्रतिगरं ब्रूयात् । अवसितशब्दस्य वीप्सा प्रतिपदं प्रतिगरप्रयोगार्थम् ॥ तत्र प्रथमं पदं दर्शयति ----( चतुर्होतृसंज्ञकमन्त्राः ) तेषां चित्तिः स्रुगासी ३ त् ॥३ ॥

हिन्दी — ( प्रथम पद को कह रहे हैं - ) तेषाम् उन ( प्रजापतिरूप गृहपति के साथ देवता रूपं यजमानों ) का ( मानस कर्म में ) चित्तिः ( होमसाधनभूत सम्यग् ज्ञान रूप मनोवृत्ति ) स्रुग् आसीत् स्रुवास्थानीय थी ॥ सा ० भा ० — देवकर्तृके सत्रे प्रजापतिर्गृहपतिरन्ये देवा यजमानास्ते च मन्त्रान्तरे वक्ष्यन्ते । त एवात्र तेषामिति तच्छब्देन परामृश्यन्ते । ' तेषां ' प्रजापतिरूपगृहपतियुक्तानां देवतात्मनां यजमानानां मानसे कर्मणि ' चित्तिः स्रुगासी ३ त् ' । ' चितो संज्ञाने ' इति धातोश्चि-त्तिशब्दनिष्पत्तिः । इदं वस्त्वोद्देशमेव न त्वन्यथेति या सम्यग्ज्ञानरूपा मनोवृत्तिः, सा ‘ चित्तिः ’ । सैव एतेषां होमसाधनभूतजुहूस्थानीयाऽऽसीत् । अमूर्तायाश्चित्तेर्जुहूरूपत्वम्

आश्चर्यमिति द्योत्यितुं प्लुतिः । एवमुत्तरत्रापि द्रष्टव्यम् ॥

द्वितीयं पदं दर्शयति— चित्तमाज्यमासी ३ त् ॥ ४ ॥

हिन्दी— ( द्वितीय पद को कह रहे हैं - ) चित्तम् चित्त ( अन्तःकरण ) आज्यम् आसीत् आज्यस्थानीय था ॥ सा ० भा ० — पूर्वोक्तायाश्चित्तिरूपाया वृत्तेराधारभूतं यदन्तःकरणं ' तत् चित्तम् ' । तदे-वात्राज्यस्थानीयमासीत् ॥ तृतीयं पदं दर्शयति— वाग् वेदिरासी ३ त् ॥ ५ ॥

हिन्दी— ( तृतीय पद को कह रहे हैं — ) वाग् वेदिरासीत् वागिन्द्रिय वेदिस्थानीय था!! सा ० भा ० – यद् ' वाग् ' इन्द्रियम्, तद्वेदिस्थानीयमासीत् ॥ चतुर्थं पदं दर्शयति— आधीतं बर्हिरासी ३ त् ॥६ ॥

हिन्दी— ( चतुर्थ पद को कह रहे हैं - ) आधीतं बर्हिरासीत् अधीत वेद कुश-स्थानीय था ॥ ( १ ) भ्वादि ० ३ ९ |

पृष्ठ 169

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०२७ सा ० भा०- -'आ ' समन्ताद् ' धीतं ' मनसा व्यातं यद्वस्तु, तदेव बर्हिस्थानीयमासीदिति ॥ पञ्चमं पदं दर्शयति— केतो अग्निरासी ३ त् ॥७ ॥

हिन्दी — ( पञ्चम पद को कह रहे हैं - ) केतो अग्निरासीत् ज्ञान सा ० भा ० - ' कित ज्ञाने इति ' ' धातुः । ' चित्तिः ' सम्यग्ज्ञानम्, विशेषः । स च केतोऽग्निस्थानीय आसीदिति ॥ षष्ठं पदं दर्शयति— विज्ञातमग्नीदासी ३ त् ॥ इति ॥८ ॥

अग्निस्थानीय था | ' केत: ' ज्ञानमात्रमिति .हिन्दी – ( षष्ठ पद को कह रहे हैं - ) विज्ञातम् अग्नीद् आसीत् मन द्वारा विशेष रूप से ज्ञात ( अन्तर्दृष्टि ) अग्नीध्र नामक ऋत्विक् थी ॥ सा ० भा ० — मनसा ‘ विज्ञातं ' विशेषेण निश्चितं यद्वस्तु, तत् ‘ अग्नीत् ' आग्नीध्चनामक ऋत्विगासीत् ॥ सप्तमं पदं दर्शयति-प्राणो हविरासी ३ त् ॥ ९ ॥

हिन्दी— ( सप्तम पद को कह रहे हैं - ) प्राणः हविः आसीत् प्राणवायु हवि-स्थानीय थी । सा ० भा ० – योऽयं प्राणवायुः, स हविस्थानीय आसीत् ॥ अष्टमं पदं दर्शयति-सामाध्वर्युरासी ३ त् ॥ १० ॥

हिन्दी – ( अष्टम पद को दिखला रहे हैं - ) साम अध्वर्युः आसीत् ( गेय ) साम अध्वर्युस्थानीय था ॥ सा ० भा ० — यद् गीयमानं ' साम ', तद् अध्वर्युस्थानीयमासीदितिः ॥. नवमं पदं दर्शयति-वाचस्पतिर्होतासी ३ त् ॥ ११ ॥

हिन्दी – ( नवम पद दिखता रहे हैं - ) वाचस्पति: होता आसीत् वाणी का स्वामी ( बृहस्पति ) होता स्थानीय थे ॥ सा ० भा ० — योऽयं ‘ वाचस्पतिः ' बृहस्पतिः, सोऽयं होतृस्थानीय एवाऽऽसीत् ॥ ( १ ) भ्वादि ० ९९ ३ ।

पृष्ठ 170

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२८: ऐतरेयब्राह्मणम् [ २४.६ पञ्चमपञ्चिकायां दशमं पदं दर्शयति-मन उपवक्तासी ३ त् ॥ १२ ॥

हिन्दी— ( दशम पद को दिखला रहे हैं - ) मनः उपवक्ता आसीत् मन ( चित्तवृत्ति-रहित अन्तःकरण ) उपवक्ता ( होता के समीप वक्ता मैत्रावरुण ) नामक ऋत्विक् था ॥ सा ० भा ० — यद्यप्येकमेवान्तःकरणं चित्तशब्देन मनः शब्देन चाभिधीयते, तथाऽ-प्यवस्थाविशेषो द्रष्टव्यः । चित्तिकेत्वादिवृत्तिजनकत्वाकारेण ' चित्तम् '; वृत्तिरहितस्व-रूपावस्थानाकारेण ‘ मन: ’, तच्च ' उपवक्ता ' होतुः समीपस्थो वक्ता मैत्रावरुण आसीत् । एतेषां दशानां पदानामेकैकस्मिन् पदेऽवसिते सत्यध्वर्युः ' ॐ होतः तथा होत: ' इति प्रतिगरं ब्रूयात् । सोऽयं दशपदात्मकश्चतुर्होतृसंज्ञको मन्त्रसंघातः ' ॥ अथ ग्रहसंज्ञकं मन्त्रं दर्शयति-( ग्रहसंज्ञकमन्त्रः ) ते वा एतं ग्रहमगृह्णत; वाचस्पते विधे नामन्, विधेम ते नाम, विधे-स्त्वमस्माकं नाम्ना द्यां गच्छ, यां देवाः प्रजापतिगृहपतय ऋद्धिम-राध्नुवंस्तामृद्धिं रात्स्यामः ॥१३ ॥

हिन्दी- ( अब ग्रहसंज्ञक मन्त्र को कह रहे हैं - ) ते उन ( यजमानों ) ने एतं ग्रहम् अगृह्णत इस ग्रह का ग्रहण किया । ( ग्रह को लेते समय वाचस्पति को सम्बोधित करते हुए इस प्रकार कहते हैं ) विधे वाचस्पते हे जगत् के विधाता वाचस्पते! नामन् हे सभी को ऩमित करने वाले! ते नाम विधेम हम तुम्हारे नाम को ख्यापित कर रहे हैं अथवा तुम्हारे लिए ( हविरूप ) अन्न को सम्पादित कर रहे हैं । विधिः हे जगत् की सृष्टि करने ( १ ) ( i ) तैत्तिरीयब्राह्मणेऽपि द्वितीयाष्टकीयो द्वितीयः प्रपाठकः समग्र एवैतद्विषकः । तैत्तिरीया-रण्यके किञ्चित्पाठभेदेन इमे दश मन्त्राः समाम्नाताः ( ३.१ ) । तद्भाष्ये त्वेषां सायणीय-व्याख्यानानि सुष्ठुतराणीव गम्यन्ते । ' चित्त्यादयो दश शरीरगताः पदार्थविशेषाः, स्रुगाद-यस्तु दश पदार्था होमनिष्पादका: ' - इत्येव तत्सारमिति सङ्क्षेपः । ( ii ) इत्थं दशपदो मन्त्रश्चतुर्होत्राख्य ईरितः चित्तिर्ज्ञानं मनश्चित्तमाधीतं स्मरणं महत्तम् केतो रहस्य विज्ञातं व्याप्तिर्वाक् च ऋगुच्यते मुखघ्राणगतो वायुः प्राणो गीतिषु सामनी (? वाचस्पतिर्देवमन्त्री ह्युद्गातर्युपवक्तृगीः इति यज्ञोपकरणं देवानामिह कीर्त्तितम् ग्रहाख्यमन्त्रमाहाथ पदषट्कसमन्वितम् यस्य प्रतिगरोऽध्वर्योर्नास्ति ब्राह्मणसूत्रयोः

॥१ ॥

सामाख्या ॥ २ ॥

॥३ ॥

॥ ४ ॥ इति षड्गुरुशिष्यः ॥