ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 171–180

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 171–180

पृष्ठ 171

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 171 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १०२ ९ वाले! त्वम् तुम अस्माकं नाम्ना हमारे दिये गये अन्न से अथवा नामख्यापन से द्यां गच्छ ( उस ) द्युलोक को जाओ याम् जिस द्युलोक में देवाः देवतागण और प्रजापतिगृह्यपतयः प्रजा का पालन करने वाले गृहपति देवों ने ऋद्धिम् आध्नुवन् समृद्धि को प्राप्त किया है । ताम् ऋद्धिम् उसी समृद्धि को रात्स्यामः हम लोग प्राप्त करे । ( इस ग्रह मन्त्र का होता ऋत्विक् पाठ करता है ) ॥ सा ० भा ० — तेषामिति पदेनोक्ताः प्रजापतिगृहपतियुक्ता देवरूपा ये यजमानाः सन्ति, त एव ‘ एतं ' मानसं ग्रहमगृह्णत । ग्रहणकाले वाचस्पतिं संबोध्य ब्रुवते, – हे ' वाचस्पते ' बृहस्पते! हे ‘ विधे ’ जगतो विधातः! हे ' नामन् ' सर्वस्य नमयितः! सर्ववशीकारयुक्तेत्यर्थः । तादृशस्य ते ' नाम विधेम ' ख्यातिं करवाम । यद्वा, ' नाम ' अन्नं हविलक्षणं ' विधेम ' सम्पादयामः । त्वमप्यस्माकं प्रजापतियुक्तानां देवानां ' विधि: (? धे: ' ) कीर्त्तिमन्नं च सम्पादय । तेनास्मद्दत्तेन ' नाम्ना ' हविर्लक्षणेनान्नेन कीर्त्या वा युक्तो द्यां स्वर्गं गच्छ । प्रजापतिर्गृह-पतिर्येषां देवानां ते ‘ प्रजापतिगृहपतयः ' तादृशा देवा याम् ' ऋद्धिम् ' ऐश्वर्यम् अराध्नुवन् ' तामृद्धिं तादृशमैश्वर्यं वयमपि यजमाना ' रात्स्यामः ' इत्येष ग्रहमन्त्र:, ' तमपि होता पठेत् ॥ मन्त्रान्तराणि विधत्ते— अथ प्रजापतेस्तनूरनुद्रवति ब्रह्मोद्यं च ॥ १४ ॥

हिन्दी— ( इस पाठ के बाद होता के तनूसंज्ञक और ब्रह्मोद्यसंज्ञक मन्त्रों के शंसन का विधान कर रहे हैं— ) अथ अब ( चतुहोतृ मन्त्र के पाठ के बाद ) होता ऋत्विक् प्रजापतेः तनूः प्रजापति के तनु ( संज्ञक बारह मन्त्रों ) के बाद ब्रह्मोद्यं ब्रह्मोद्य ( संज्ञक मन्त्र ) को अनुद्रवति अनुक्रम से पढ़े ॥ सा ० भा ० - – चतुर्होतृग्रहमन्त्रपाठानन्तरं होता प्रजापतितनूसंज्ञकान् मन्त्रान् ब्रह्मोद्य-( १ ) तैत्तिरीयारण्यके तु एष एव ग्रहमन्त्रः किञ्चिद्विभिन्नः ( ३.१ ) । ( २ ) ( i ) ' ते वा एतमिति मानसग्रहमाह । नामेत्युदकनाम । इह तद्वान् लक्ष्यते । यथा ते वा एतं ग्रहमगृह्णत हे बृहस्पते अहमपि तथा विधेयत्वान्नाम्नि सलिले मनोग्रहं गृह्णामीति । यथा च ग्रहणमन्त्रः । अनया त्वपात्रेण समुद्रं रसया प्राजापत्य... गृह्णामीति । विधेमेत्यात्मनि बहुवचनम् । नामेत्युदकम् । किञ्चास्माकं विधेः क्रियायाः आद्यामृद्धिं हे वाचस्पते गच्छेति । तांविशिनष्टियां देवा इति । किञ्च वयमपि तामृद्धिं रात्स्यामः ' - इति गोविन्दस्वामी । ( ii ) एतं मानसाख्यं ग्रहम् । हे वाचस्पते नामन्, ङिलुक्, नाम्नि सर्ववाङ्मये । हे विधे ' निर्वाहक, विधेम परिचरेम, ते तव, नाम रूपम् । विधेः; सम्बुद्ध्यलोपः, हे विधे त्वमस्माकं नाम्ना सुपोऽर्थे टा, नामसु रूपेषु वपुष्षुः आद्याम् आद्ये त्वलोपः उपभोग्यताम् । गच्छ अन्तर्णीतण्यर्थः गमय । गृहपतिर्येषां ते देवाः समृद्धिं प्रापुः; तां वयं रात्स्यामोऽ-नुभवेमेति — इत्यध्वर्युर्ग्रहं श्रुत्वा तस्माद्देशादपव्रजेत् ॥ इति षड्गुरुशिष्यः ।

पृष्ठ 172

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 172 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३०: ऐंतरेयब्राह्मणम् [ २४.६ पञ्चमपञ्चिकायां ` संज्ञकं मन्त्रञ्च ‘ अनुद्रवति ' अनुक्रमेण ब्रूयात् । द्वादशसंख्याकाः प्रजापतितनुसंज्ञका अन्नादा चेति च शब्दान्तानि द्वादश पदानि प्रजापतेस्तन्वः । तत्र द्वे द्वे पदे उपादाय क्रमेण प्रशस्यते ॥ तत्र प्रथमं पदयुग्ममाह— ( प्रजापतितनुसंज्ञकमन्त्राः ) अन्नादा चान्नपत्नी चान्नादा, मदग्निरन्नपत्नी तदादित्यः ॥ १५ ॥

· हिन्दी — ( प्रजापति तनुसंज्ञक बारह मन्त्रों के दो - दो करके पाठ किया जाता है उनमें प्रथम दो मन्त्रों को कह रहे हैं - ) अन्नादा चान्नेपली च अन्न को खाने वाले और अन्न की पत्नी । अन्नादा तद् अग्निः अन्न को खाने वाला वह अग्नि है और अन्नपत्नी तद्:. आदित्यः अन्न पत्नी वह आदित्य है । सा ० भा ० — अन्नादादयः प्रजापतेर्मूर्तिविशेषस्य वाचकाः शब्दाः । अन्नादेति यदस्ति, तदयमग्निः, अन्नपत्नीति यदस्ति, तदसावादित्यः; एतदुभयं प्रजापतितनुरूपम् ॥ द्वितीयं युग्ममाह– भद्रा च कल्याणी च; भद्रा तत्सोमः, कल्याणी तत्पशवः ॥ १६ ॥.

हिन्दी - ( अब द्वितीय दो मन्त्रों को कह रहे और कल्याणी । भद्रा तत् सोमः भद्र वह सोम हैं,

पशु हैं ।

सांभा ० — पूर्ववद्व्याख्येयम् ॥

तृतीयं युग्ममाहं— अनिलया चापभया चानिलया तद्वायुर्न तन्मृत्युः सर्वं ह्येतस्माद् बीभाय ॥ १७ हिन्दी – ( तृतीय दो मन्त्रों को कह रहे हैं -हैं — ) भद्रा च कल्याणी च भद्रा कल्याणी तत् पशवः कल्याणी वे ह्येष कदा च नेलयत्यंपभया ॥ ) अनिलया चापभया च गृहविहीन और भयविहीन | अनिलया तद्वायुः अनिलया वह वायु: है ह्येषः क्योंकि यह ( वायु ) कदा च न इलयति कभी भी नहीं निवास करती ( सदैव बहती रहती है ) । अपभया तद् मृत्युः अपभया वह मृत्यु है ह्येतस्मात् क्योंकि इस ( मृत्यु ) से सर्वं बिभाय सभी भयभीत रहते हैं । सा ० भा ० — एष वायुः कदाचिदपि ' नेलयति ' न हि । इलयतिर्गतिकर्मा ' । ' नेलयति ’ न गच्छतीति न हि, किंतु सदा गच्छत्येव । अमुमर्थ अनिलयेति शब्दो ब्रूते । निलयो ( १ ) चुरादि ० १२७ /

पृष्ठ 173

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 173 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्डः ]. सायणाचार्यकृतभाष्योपेतम्: १०३१ निवासः, स नास्ति यस्या वायुमूर्त्तेः सेयम् ' अनिलया ' । अपगतं भयं यस्या मृत्युमूर्त्तेः सेयम् ‘ अपभया ’ । सर्वमपि जगत् ' एतस्मात् मृत्योः बीभाय ' भीतिं प्राप्नोति तादृशो मृत्युः कस्मादस्मादन्यस्माद्भीतिं प्राप्नुवात् ॥ अनेन न्यायेन पूर्वोक्तानामपि मूर्तीनां निरुक्तयो द्रष्टव्याः । अन्नपत्नीत्यत्रान्नादाऽग्नि-मूर्त्तिः; अन्नस्य पत्नी पालयित्री सूर्यमूर्ति: । ' आदित्याज्जायते वृष्टि: ९ इति न्यायेन पालयि-तृत्वम् । सोममूर्त्तेः शैत्यहेतुत्वात्, दृष्टिप्रियत्वाच्च भद्रत्वम् । पशुमूर्तेः क्षीरादिप्रदानेन . कल्याणत्वमिति तासां निरुक्तयः ॥ चतुर्थपदयुग्ममाह— अनाप्ता चानाप्या चानाप्ता तत्पृथिव्यनांप्या तद् द्यौः ॥ १८ ॥

हिन्दी— ( चतुर्थ मन्त्रयुगल को कह रहे हैं - ) अनाप्ता चानाप्या च प्राप्त न की हुई और प्राप्त न की जाने योग्य । अनाप्ता तत् पृथिवी अनाप्त ( प्राप्त न हुई ) यह पृथिवी और अनाप्या तद् द्यौः अनाप्य ( कभी भी प्राप्त न किया जाने योग्य ) यह द्यौ है । सा ० भा०- - दूरस्थस्य ' ग्रामादेः संयोगे सति प्राप्तिरित्युच्यते; पृथिव्यामेवोत्पन्नस्यं मनुष्यादेः दूरवर्तित्वपूर्वकः पृथिवीसंयोगो नास्ति, तस्मादसंयोगपूर्वस्य संयोगस्य प्राप्ति-शब्दार्थस्याभावात् ‘ अनाप्ता ं ’ भूमिः । उपरि दूरदेशवर्तित्वेन प्राप्तुमयोग्यत्वाद् द्यौः ‘ अनाप्या ’ ॥ पञ्चमं युग्ममाह— अनाधृष्या चाप्रतिधृष्या चानाधृष्या तदग्निप्रतिधृष्या तदादित्यः ॥ १ ९ ॥ हिन्दी — ( पञ्चम मन्त्रयुग्म को कह रहे हैं - ) अनाधृष्य चाप्रतिघृष्या च न जीता ज़ाने वाला और जीता जाने में अशक्यः । अनाधृष्या तद् अग्निः न जीता जाने वाला वह अग्नि है और अप्रतिधृष्या जीता जाने में अशक्य तदादित्यः वह आदित्य है ॥ सा ० भा ० — आगत्यं समीपं प्राप्य हस्तस्पर्शेन घर्षितुमभिभवितुमशक्योऽग्निः । आ--दित्यो यथा न प्रकाशते तथा कंचित् प्रत्तिबन्धं कृत्वा घर्षितुमभिभवितुमशक्य आदित्यः ॥ षष्ठं युग्ममाह— अपूर्वा चाभ्रातृव्या चापूर्वा तन्मनोऽ भ्रातृव्या तत्संवत्सरः ॥ २० ॥

हिन्दी — ( षष्ठ मन्त्रयुग्म को कह रहे हैं - ) अपूर्व्या चाभ्रातृव्या च जो पूर्व में नहीं है और जो अशत्रु ( शत्रुविहीन ) है, अपूर्व्या तद् मनः अपूर्व्य वह मन है और अभ्रातृव्या तत्संवत्सरः शत्रु - विहीन वह संवत्सर है । सा ० भा ० — न विद्यते पूर्वं प्रथमप्रवृत्तमिन्द्रियं यस्या मनोमूर्ते सेयम् ‘ अपूर्वा ’; ( १ ) मनसः पूर्वत्र नास्ति न द्वेषो वत्सरस्य च । ( १ ) मं ० सं ० ३.७६ ।

पृष्ठ 174

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 174 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३२: ऐतरेयब्राह्मणम् [ २४.६ पञ्चमपञ्चिकायां सर्वमपीन्द्रियजातं मनसा सङ्कल्पिते विषये पश्चात्प्रवर्तते; अतो नान्यस्य पूर्वप्रवृत्तिः । ‘ संवत्सरः ’ ” कालात्मा सर्वं जगज्जरयति; न च तं कालं जरयितुं समर्थः कश्चिदन्योऽस्ति; तस्मात् संवत्सरमूर्तिर्भ्रातृव्यरहिता ॥ द्वादशपदरूपा प्रजापतितनूरुपसंहरति— एता वाव द्वादश प्रजापतेस्तन्व एष कृत्स्नः नः प्रजापतिस्तत्कृत्स्नं प्रजापतिमाप्नोति दशममहः ॥ २१ ॥

हिन्दी— ( द्वादश पदरूप प्रजापतितनु संज्ञक मन्त्र का उपसंहार कर रहे हैं— ) एता वाव ये ही द्वादशः बारह प्रजापतेः प्रजापति के शरीर ( मूर्तियाँ ) हैं । ( इन मूर्तियों से युक्त ) एषः प्रजापतिः यह प्रजापति कृत्स्नः सम्पूर्ण है । दशममहः दशम दिन कृत्नं प्रजापतिम् आप्नोति सम्पूर्ण प्रजापति को प्राप्त करता है । सा ० भा ० — अन्नादेत्यारभ्य अभ्रातृव्येत्यन्ता द्वादशसंख्याका मूर्तयो याः प्रोक्ताः, एता एव प्रजापतेर्जगन्निर्वाह ( हि ) कास्तन्वः । ' एष: ' द्वादशभिस्तनूभिर्युक्तः प्रजापतिः ' कृत्स्नः ’ संपूर्णः । तथा सत्येतत्पदपाठेन कृत्स्नं प्रजापतिरूपं दशममहः प्राप्नोति । ब्रह्मोद्यमन्त्रविधिमनूद्य तन्मन्त्रस्वरूपं दर्शयति— ( ब्रह्मोद्यमन्त्रविधिः तन्मन्त्रस्वरूपं च ) अथ ब्रह्मोद्यं वदन्त्यग्निर्गृहपतिरिति हैक आहुः, सोऽस्य लोकस्य गृहपतिर्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपति-रसौ वै गृहपतिर्योऽसौ तपत्येष पतिर्ऋतवो गृहाः । येषां वै गृह-पतिं देवं विद्वान् गृहपतिर्भवति, राध्नोति स गृहपति, राध्नुवन्ति ते यजमानाः । येषां वा अपहतपाप्मानं देव विद्वान् गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं ध्नतेऽध्वर्यो अरा-त्स्मारात्स्म ॥ २२ ॥

हिन्दी— ( अब ब्रह्मोद्यसंज्ञक मन्त्र को कह रहे हैं - ) अथ अब प्रजापतितनु संज्ञक ( द्वादश पदों के शंसन के बाद ) ब्रह्मोद्यं वदन्ति ब्रह्मोद्य ( संज्ञक ) मन्त्र का पाठ करते हैं । अग्निः गृहपतिः अग्नि गृहपति है— इति ह एके आहुः ऐसा कुछ ( ब्राह्मण ) लोग कहते हैं । ( इस मत का खण्डन और अन्य मत की स्थापना ) स वह ( अग्नि ) अस्य लोकस्य इस ( पृथिवीलोक ) का गृहपतिः गृहपति है, अतः वायुः गृहपतिः वायु गृहपति है इति ह एके आहु ऐसा कुछ अन्य ( ब्राह्मण ) लोग कहते हैं । ( इस मत का भी खण्डन और ( १ ) मनसः पूर्वत्र नास्ति न द्वेषो वत्सरस्य च । स्वजीवनं प्रार्थयन्ते सर्वे संवत्सरानुगम् ॥ इति षड्गुरुशिष्यः ।

पृष्ठ 175

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 175 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०३३ अन्य मत का प्रतिष्ठापन - ) सः वह ( वायु तो ) अन्तरिक्षस्य गृहपतिः अन्तरिक्ष ( लोक ) का गृहपति है अतः असौ यः तपति जो यह ( सूर्य ) तपता है, एषः पतिः वही स्वामी है ( यह मत सभी लोगों द्वारा स्वीकृत है ); क्योंकि ऋतवः ( उससे उत्पन्न ) ऋतुएँ गृहाः निवास - स्थान हैं । येषां जिन ( ऋतुरूप निवास स्थानों ) के गृहपतिं देवम् गृहपति देवता को विद्वान् जानने वाला गृहपतिः भवति स्वयं गृह का स्वामी होता है । सः गृहपतिः वह गृहपति राध्नोति ( सभी भोगों से ) समृद्धता को प्राप्त करता है । ते यजमानाः ( उस गृहपति के साथ सभी ) वे यजमानगण राघ्नुवन्ति समृद्धि को प्राप्त करते हैं । येषां वै जिन ( ऋतुओं ) के स्वामी अपहतपाप्मानं देवम् निष्पाप करने वाले देवता सूर्य को विद्वान् जानने वाला गृहपतिः भवति स्वयं गृहपति होता है और सः गृहपतिः वह गृहपति पाप्मानम् अपहते अपने पापों को दूर कर देता है । ते यजमानाः ( उस गृहपति के साथ सभी ) यजमानगण पाप्मानम् अपघ्नते अपने पाप को विनष्ट कर देते हैं । अध्वय हे अध्वर्यु! अरात् स्म हम समृद्ध हो गये हैं ॥ सा ० भा ० — ' अथ ' द्वादशपदानुद्रवणादनन्तरं ब्रह्मोद्यनामकं मन्त्रं वदेयुः । ब्राह्मणा-नामुद्यं संवादो ‘ ब्रह्मोद्यम् ' । अग्निरित्यादिकस्तन्मन्त्रः । ' एके ' ब्राह्मणा अग्निः ' गृहपतिः ’ स्वामीत्याहुः । सोऽस्येत्यादिना तन्मतमन्यैर्ब्राह्मणैर्दृष्यते, – अग्निः ' अस्य ' ' लोकस्य ' भूलोकमात्रस्य गृहपतिः; न तु सर्वलोकस्येति दूषणवादिनामपरितोषः । तच्छ्रुत्वापरे ब्राह्मणा वायुर्गृहपतिरित्याहुः तदपि मतमन्यैर्ब्राह्मणैर्दृष्यते, स वायुरन्तरिक्षलोकमात्रस्य गृहपतिः न तु --सर्वस्य । योऽसावादित्यस्तपति सोऽसावेव गृहपतिरिति सर्वैरङ्गीकार्यं मतम् । कथं गृहपति-त्वमिति? तदुच्यते — ‘ एषः ' प्रकाशमान आदित्यः पतिः तेन निष्पाद्या वसन्ताघृतवो गृहाः । तस्मादृतुलक्षणानां गृहाणां पतिरित्ययमर्थो नाग्निवाय्वोरस्ति, आदित्ये तु विद्यते, तत्संचारादृतुनिष्पत्तेः । किञ्च ' येषाम् ' ऋतूनां गृहरूपाणां स्वामिनमादित्यं देवं गृहपतित्वेन विद्वान् पुरुषः स्वयमपि गृहपतिर्भवति । स च गृहपतिः ' राध्नोति ' सर्वैर्भोगैः समृद्धो भवति । तादृशेन गृहपतिना युक्तास्ते यजमानाः सर्वेऽपि ' राध्नुवन्ति ' समृद्धिं प्राप्नुवन्ति । तेषामृतु-गृहाणां स्वामित्वादादित्यस्य गृहपतित्वं युक्तमित्यर्थः । सत्रे दीक्षिताः सर्वेऽपि यजमानाः, तेषु मुख्यो गृहपतिरिति विवेकः । किंच येषामृतूनां स्वामिनमादित्यदेवम् ‘ अपहतपाप्मानं सर्वपापरहितं विद्वान् पुरुषः स्वयं गृहपतिर्भवति, स गृहपतिः पाप्मानमपहते । ये त्वन्ये यजमानास्तेऽपि पाप्मानमपघ्नते । तादृशामृतूनां स्वामिनो गृहपतित्वं युक्तम् । हेऽध्वर्यो

वयम् ‘ आरात्स्म ' समृद्धा अभूम ' । अभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥

( १ ) ( i ) प्रजापतिरकामयत — इत्यारभ्य, एतवान् ग्रन्थः सत्रेषु विशेषतो द्वादशाहहोतृप्रयोग-विषयः समाम्नातः । कल्पे तु ' सत्राणाम् ' – इत्युपक्रम्य ( ७.१.१ ) ' एतावत् सात्रं होतृकर्मान्यत्र महाव्रतात् ’ — इत्यन्तैः ( ८.१३.३० ) सूत्रैः सत्रविधय उक्ताः, द्वादशाहप्रयोगा अपि तदन्तर्गता एव । तत्रापि ‘ गार्हपत्ये जुह्वते ' – इत्यादि ग्रन्थस्तु ( ८.१३.१-२९ ), ते

पृष्ठ 176

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 176 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ २४.६ पञ्चमपञ्चिकायां १०३४: ऐतरेयब्राह्मणम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां चतुर्थाध्याये ( चतुर्विंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( २५ ) ( १७८ ) ॥। इस प्रकार ऐतरेयब्राह्मण के चौबीसवें अध्याय के षष्ठ खण्ड की

' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ -॥ इति श्रीमद्राजाधिराजपरेश्वरवैदिकामार्गप्रवर्तकबीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो श्रीमत्सायणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाश ' नामभाष्ये ऐतरेयब्राह्मणभाष्यस्य पञ्चपञ्चिकायाः चतुर्थोऽध्यायः ( चतुर्विंशोऽध्यायः ) ॥२४ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के चौबीसवें अध्याय की ' शशिप्रभा'-नामक हिन्दी व्याख्या समाप्त ॥ पत्नीशीलां सम्पद्यन्ते ’ — इत्यादिखण्डत्रयस्य व्याख्यानायानुवाद इवेति । सामब्राह्मणे तु D ‘ अग्निना पृथिव्यौषधिभिः ' – इत्यादि ( १०.१.१ ), देवतासु वा एष प्रतिष्ठितः— इत्यन्तश्च ( १५.१२.८ ) विस्तृतग्रन्थो द्वादशाहौद्गात्रविधायक आम्नातः । कात्यायन-श्रौतसूत्रेऽपि द्वादशाध्यायीयसूत्रैरेष एव द्वादशाहो वर्णितः । समाम्नातञ्च तदाध्वर्यवं शतपथे सामान्यतः, तैत्तिरीयसंहितायां च सप्तमे काण्डे, द्वितीयप्रपाठकीये सप्तमाद्यनुवाकेष्विति.। ( ii ). ‘ अध्वर्यु ' अरात्स्म ' इति याज्यात्वेन प्रयुक्तः, तु ० आश्व ० श्री ० ८.१२.१५,१६ ।

पृष्ठ 177

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 177 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ पञ्चमपञ्चिकायां पञ्चमोऽध्यायः [ अथ पञ्चविंशोऽध्यायः ], प्रथमः खण्डः सायणभाष्यम् – दशममहरविवाक्यमभिधाय द्वादशाहः समापितः । अथाग्निहोत्र-मभिधीयते । तत्राध्वर्युं प्रति यजमानोऽग्न्युद्धरणकर्तव्यतां ब्रूयात् । तदाह आपस्तम्बः— ‘ उद्धरेत्येव सायमाह यजमान उद्धरेति प्रातः " इति ॥ तत्र सायंकालीनं यजमानकर्तव्यं विधत्ते— ( अग्निहोत्रनिरूपणम् ) ( तत्र सायंकालीनं यजमानकर्त्तव्यविधानम् ) उद्धराहवनीयमित्यपराह्न आह; यदेवाह्ना साधु करोति, तदेव तत्प्रा-झुद्धृत्य तदभये निधत्ते ॥ १ ॥

हिन्दी – ( अब अग्निहोत्र का कथन कर रहे हैं, उसमें अध्वर्यु के प्रति यजमान को अग्न्युद्धरण की कर्त्तव्यता को कहना चाहिए । उस विषय में यजमान के सायंकालीन • कर्तव्य को कह रहे हैं - ) अपराह्ने सायंकाल सूर्यास्त से पहले ( अग्निहोत्र करने वाला यजमान अध्वर्यु से ) कहता ( प्रैष करता ) है कि आहवनीयम् उद्धर ( हे.अध्वर्यु! ) आहव-नीय ( नामक ) अग्नि का उद्धरण करो ( अर्थात् गार्हपत्याग्नि से प्रज्ज्वलित अग्नि को आहवनीय स्थान में ले जाओ ) । इस प्रकार अह्ना यद् एव साधु करोति ( यजमान ) दिन में जो भी शुभ ( पुण्य ) करता है, तद् एव प्राङ् उद्धृत्य उंन ( सभी ) को सामने लाकर तदभंये उस भयरहित ( आहवनीय स्थान ) में निधत्ते निहित कर देता है ( रख देता है ) ॥ सा ० भा ० — अग्निहोत्रस्याध्वर्युरेक एव ऋत्विग्भवति । तथा च शाखान्तरे श्रूयते— ' ‘ तस्मादग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक् ' इति । तमध्वर्युं यजमानः प्रेष्यति । हेऽध्वर्यो,. आहवनीयाख्यं वह्निमुद्धरेति । ज्वलन्तमग्नि गार्हपत्यादुद्धृत्य प्राञ्चं प्रणीयाऽऽहवनीयस्थाने निधेहीत्यर्थः । तथा च आश्वलायन आह— ' गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत् ' इति । ' ‘ उद्धर आहवनीयम् ’ —— इति ' अमुं प्रैषम् ' अपराह्ने ' सायंकाले सूर्यास्तम॑यात् प्राग् यजमानो ` ब्रूयात् । एवं सति अह्ना सर्वेणापि यदेव पुण्यं यजमानः करोति, तत्सर्वं प्राङ्ग्द्धृत्य भयरहि आहवनीयस्थाने निहितवान् भवति * ॥ ( १ ) आप ० श्रौ ० ६.१.४ । ( २ ) तै ० ब्रा ० २.३.६ । ( ३ ) आश्व ० श्रौ ० २.२.१ । ( ४ ) उद्धरणप्रकारोद्धरणमन्त्रादिकं सर्वम् आश्वलायनीयश्रौतसूत्रेषु ( २.२ ) द्रष्टव्यम् ।

पृष्ठ 178

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 178 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३६: ऐतरेयब्राह्मणम् [ २५.१ पञ्चमपञ्चिकायां प्रात: कालीनं यजमानकर्तव्यं विधत्ते— ( प्रातःकालीनं यजमानकर्तव्यविधानम् ) उद्धराहवनीयमिति प्रातराह; यदेव रात्र्या साधु करोति; तत्प्राङुद्-धृत्य तदभये निधत्ते ॥२ ॥

हिन्दी— ( यजमान के प्रातः कालीन कर्त्तव्य को कर रहे हैं - ) प्रातः प्रातःकाल ( यजमान अध्वर्यु से ) आह कहता ( प्रैष करता ) है कि उद्धर आहवनीयम् ( हे अध्वर्यु! ) आहवनीय ( अग्नि ) का उद्धरण करो । इससे रात्र्या यदेव साधु करोति रात्रि में जो शुभ कर्म ( यजमान ) करता है तदेव उसी को ही प्राङ् उद्धृत्य सामने लाकर तदभये उस अभय - स्थान ( आहवनीय स्थान ) में निधत्ते रख देता है ॥ सा ० भा ० – पूर्ववद् व्याख्येयम् ॥ आहवनीयोद्धरणं प्रशंसति— यज्ञो वा आहवनीयः, स्वर्गो लोक आहवनीयः ॥ ३ ॥

हिन्दी — ( आहवनीय अग्नि के उद्धरण की प्रशंसा करते हैं— ) यज्ञो वै आहवनीयः आहवनीय ही यज्ञ है और स्वर्गो लोकः आहवनीय अहवनीय ही स्वर्गलोक है ॥ सा ० भा ० — आहवनीयस्य यज्ञनिष्पादनेन स्वर्गहेतुत्वाद् भयरूपत्वम् ॥ वेदनं प्रशंसति-यज्ञ एव तत् स्वर्गे लोके स्वर्गं लोकं निधत्ते य एवं वेद ॥ ४ ॥

हिन्दी — ( इस वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो है वह यज्ञे एव स्वर्गे लोके यज्ञ रूपी स्वर्ग लोक में ही स्वर्गं लोकं को प्रतिष्ठित करता है ॥ सा ० भा ० - आहवनीयोद्धरणस्य वेदिता स्वर्गसाधनयज्ञात्मके स्थापितवान् भवति ॥ अथाग्निहोत्रहोमद्रव्यं क्षीरादिरूपं प्रशंसितुमुपक्रमते— ( अग्निहोत्रहोमद्रव्यप्रशंसनोपक्रमः ) इस प्रकार जानता निधत्ते स्वर्गलोक स्थाने स्वर्गं लोकं यो वा अग्निहोत्रं वैश्वदेवं षोळशकलं पशुषु प्रतिष्ठितं वेद; वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति ॥ ५ ॥

हिन्दी— ( अग्निहोत्र के क्षीरादि रूप वाले होमद्रव्य की प्रशंसा कर रहे हैं— ) यो वै जो वैश्वदेवं षोडशकलं अग्निहोत्रं जो विश्वेदेव से सम्बन्धित सोलह कलाओं ( अवस्थाओं ) वाले अग्निहोत्र को पशुषु प्रतिष्ठितं वेद पशुओं में प्रतिष्ठित हुआ जानता · है, वह वैश्वदेवेन षोडशकलेन अग्निहोत्रेण वैश्वदेव से सम्बन्धित सोलह अवस्थाओं

पृष्ठ 179

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 179 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०३७ वाले पशुषु प्रतिष्ठितेन पशुओं में प्रतिष्ठित ( अग्निहोत्र हविर्द्रव्य ) के द्वारा राघ्नोति समृद्ध होता है । सा ० भा ० — ' यः ' पुमानग्निहोत्रशब्देन कर्मवाचिनोपलक्षितहोमद्रव्यं वेद, स पुमानग्निहोत्रकर्मणा ‘ राध्नोति ' समृद्धो भवति । कीदृशमग्निहोत्रद्रव्यं? ' वैश्वदेवं ' वक्ष्यमाणा रुद्रादयो विश्वे देवाः, तेषां सम्बन्धि, ' षोळशकलं ' षोळशावस्थम् । ते चावस्थाविशेषा रौद्रं गवीत्यादिना वक्ष्यन्ते । गवि स्थितत्वादेव पशुषु प्रतिष्ठितम् । अग्निहोत्रेणेत्यत्रापि विशेषण-त्रयं द्रव्यद्वारा योजनीयम् ॥ होमद्रव्यस्य बहुदेवतासम्बन्धं षोळशावस्थोपेतत्वं च दर्शयति— रौद्रं गविसद् वायव्यमुपावसृष्टमाश्विनं दुह्यमानं, सौम्यं दुग्धं, वारुणमधिश्रितं, पौष्णं समुदयन्तं, मारुतं विष्यन्दमानं, वैश्वदेवं बिन्दुमत्, मैत्रं शरोगृहीतं, द्यावापृथिवीयमुद्वासितं, सावित्रं प्रक्रान्तं, वैष्णवं ह्रियमाणं, बार्हस्पत्यमुपसन्नमग्नेः, पूर्वाहुतिः, प्रजापतेरुत्त-रैन्द्रं हुतम् ॥ ६ ॥

हिन्दी – ( होमद्रव्य के बहुदेवताकत्व षोडशावस्था से युक्तत्व को दिखला रहे हैं— ) गविसद् रौद्रम् गाय में विद्यमान ( दुग्धरूप हविर्द्रव्य ) रुद्र देवता से सम्बन्धित होता है, उपासृष्टं वायव्यम् ( बछड़े के पीते समय ) चुआ हुआ ( दुग्धरूप हविर्द्रव्य ) वायु देवता से सम्बन्धित होता है, दुह्यमानम् आश्विनम् ( गाय से ) दुहा जाता हुआ ( दुग्धरूप हविर्द्रव्य ) अश्विनों से सम्बन्धित है, दुग्धं सौम्यम्, दुहा जा चुका ( दुग्धरूप हविर्द्रव्य ) सोमदेवताक है, अधिनितं वारुणम् पकाने के लिए अग्नि पर रखा गया ( दुग्धरूप हविर्द्रव्य ) वरुण देवता से सम्बन्धित है, समुदयन्तं पौष्णम् उबलता हुआ ( दुग्धरूप हविर्द्रव्य ) पूषा ( देवता ) का है, विष्यन्दमानं मारुतम् उबल कर बाहर गिरने वाला ( दुग्धरूप हविर्द्रव्य ) मरुत् देवता से सम्बन्धित है, विन्दुमत् वैश्वदेवम् बूँद ये युक्त ( दुग्धरूप हविर्द्रव्य ) विश्वदेवा से सम्बन्धित है, शरोगृहीतं मैत्रम् मलाई के रूप प्राप्त मित्र देवता का है, उद्वासितं द्यावापृथिवीयम् ( अग्नि - स्थान से ) बाहर हटाया हुआ द्यावापृथिवी से सम्बन्धित है, प्रकान्तं सावित्रम् हवनार्थ लिया जाने वाला ( दुग्धरूप हविर्द्रव्य ) सविता देव से सम्बन्धित है, ह्रियमाणं वैष्णवम् होम में ले जाया जाने वाला विष्णु देवता का है, उपसन्नं बार्हस्पत्यम् ( लाकर ) वेदि पर रखा गया बृहस्पति देवता वाला है, पूर्वाहुतिः ( उस हविर्द्रव्य से ) दी गयी पूर्वाहुति अग्नेः अग्नि देवता से सम्बन्धित है, उत्तरा प्रजापतेः बाद वाली ( आहुति ) प्रजापति से सम्बन्धित है और हुतम् ऐन्द्रम् होम कर दी गयी आहुति इन्द्र देवता से सम्बन्धित होती है ॥ सा ० भा ० — होमद्रव्यं क्षीरं ' गवि सत् ' गो शरीरे यदा तिष्ठति, तदा ' रौद्रं ' रुद्र-

पृष्ठ 180

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 180 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०३८: ऐतरेयब्राह्मणम् [ २५.१ पञ्चमपञ्चिकायां देवताकं ' वेदितव्यम् । ‘ उपावसृष्टं ' वत्सेन संसृष्टं प्रस्तुतं यदा भवति, तदा वायुदेवताकं; दुह्यमानत्वदशायामश्विदेवताकं; दुग्धत्वदशायां सोमदेवताकम् ‘ अधिश्रितं ' पाकार्थमग्नौ स्थापितं वरुणदेवताकम् । ‘ समुदयन्तं ’ ’ पात्रमध्ये स्थित्वा संतापवशेन सम्यगूर्ध्वदशायां पूषदेवताकम् । ‘ विष्यन्दमानम् ’ ऊर्ध्वमुद्गतस्य पात्राद् बहिर्विशेषेण स्यन्दनदशापन्नं मरुद्देवताकम् ।‘बिन्दु-मद् ' बुबुदवद्विश्वेषां देवानां सम्बन्धि । ' शरोगृहीतं ' सारप्रचयभावापन्नं ' मित्रदेवताकम् । ‘ उद्वासितम् ’ अग्निस्थानाद् बहिरवस्थापितं द्यावापृथिवीदेवताकम् । ' प्रकान्तं ' होतुं हरणायोप-क्रान्तं सवितृदेवताकम् । ‘ ह्रियमाणं ' होमस्थाने नीयमानं विष्णुदेवताकम् । ' उपसन्नं ' नीत्वा वेद्यामासादितं बृहस्पतिदेवताकम् । तेन द्रव्येण या ' पूर्वाहुतिः ', साऽग्निसम्बन्धिनी । उत्तराऽऽ-हुतिस्तु प्रजापतिसम्बन्धिनी । ' हुतं ' होमोत्तरकालीनम् इन्द्रदेवताकम् । एवं हविषः षोड-शावस्थाः तत्तद्देवतासम्बन्धाश्च दर्शिताः ४ ॥ तत्सर्वमुपसंहरति-एतद्वा अग्निहोत्रं वैश्वदेवं षोळशकलं पशुषु प्रतिष्ठितम् ॥७ ॥

हिन्दी— ( अब उपसंहार कर रहे हैं - ) एतद् वै यह ही वैश्वदेवं षोडशकलम् अग्निहोत्रम् विश्वदेवा से सम्बन्धित सोलह अवस्था वाला अग्निहोत्र पशुषु प्रतिष्ठितम्

पशुओं में प्रतिष्ठित है ।

' सा ० भा ० – ' अग्निहोत्रं ' तदर्थं क्षीरम् ॥

तद्वेदनं प्रशंसति— वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति य एवं वेद ॥८ ॥

हिन्दी — ( उसके जानने की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह वैश्वदेवेन षोडशकलेन विश्वेदेवा से सम्बन्धित सोलह अवस्था वाले पशुषु ( १ ) तु ० शत ० ब्रा ० ११.५.३.५ । ( २ ) सम्यग् उद्गतोऽन्तो यस्य द्रव्यस्य तत्समुदन्तं द्रव्यम् । परितः स्थालीसंबद्धप्रदेशोऽन्त इत्युच्यते । इति नारायण: ( आश्व ० श्रौ ० २.३.८ ) । द्र ० तै ० ब्रा ० २.१.७ । कात्या ॰ श्री ० २५.२.३ । ( ३ ) ( क ) ' क्षीरमध्ये घनीभूतं यच्छरः सारं तन्मित्रस्य प्रियम् ' इति तै ० ब्रा ० २.१.३ सा ० भा ० । ( ख ) ‘ शरसा करेण पाण्या वा गृहीतं मित्रदैवतम् ', उद्वासोऽवरोध:, ( प्रकान्तम् = ) नीतम्, ( उपसन्नम् = ) आहवनीयस्थकुशेषु सादितम्, ( पूर्वाहुतिः = ) सायंप्रातरग्निसूर्यदेवत्याग्नेः प्रियाहुतिः — इति षड्गुरुशिष्यः । ( ४ ) तै ० ब्राह्मणे ( २.१.७ ) ऽप्येता एव षोडशांवस्थास्ततद्देवताश्चाम्नांताः ।