ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 211–220
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: १०६ ९ विद्यायै इन तीनों विद्याओं ( वेदों ) में यत् शुक्रम् जो ( व्याहृतित्रयरूप ) सारतत्व था तेन उस ( व्याहृतित्रयरूप सारतत्व ) से ब्रह्मत्वम् अकरोत् ब्रह्मा ( ऋत्विक् का काम किया । सा ० भा ० — पुरा ‘ प्रजापतिः ' स्वेच्छया ' यज्ञमतनुत ' विस्तारितवान् । केन प्रकारेणेति? सोऽभिधीयते, — ‘ तं ’ यज्ञसाधनसमूहमाहृत्य तेन साधनेन यागं कृतवान् । वेदत्रयगतैर्मन्त्रैः क्रमेण हौत्राध्वर्यवौद्गात्राणि निष्पाद्य ', ततः ' त्रय्यै विद्यायै ' वेदत्रयरूपायां विद्यायां यदेतत् ‘ शुक्रं ’ सारं व्याहृतित्रयादिरूपम्, तेन सारेण ब्रह्मत्वं कृतवान् ॥ अथ ब्रह्मयज्ञवद्देवतायज्ञं दर्शयति— ( देवयज्ञकथनम् ) स प्रजापतिर्यज्ञं देवेभ्यः संप्रायच्छत्, ते देवा यज्ञमतन्वत, तमाहरन्त, तेनायजन्त, त ऋचैव हौत्रमकुर्वन् यजुषाऽऽध्वर्यवं, साम्नोद्गीथं, यदेवैतत् त्रय्यै त्रिद्यायै शुक्रं, तेन ब्रह्मत्वमकुर्वन् ॥४ ॥
( १ ) ' हौत्रं होतृवर्गकृत्यम्; उद्गात्राद्यञ् । अध्वर्युवर्गकृत्यम्, उद्गातृवर्गकृत्यम् । डसर्थे ङेद्वयम् ।...... ब्रह्मत्वमोंव्याहृतियुक् प्रोक्तं वेदचतुष्टये ' इति षड्गुरुशिष्यः । ( २ ) अत्र गोविन्दस्वामी - अत्र ऋगादयः शब्दा वेदोपलक्षणार्थाः । वाक्योपक्रमणे वेदशब्द-श्रवणात् त्रयो वेदा अजायन्त इति । अनुजातविरोधित्वात् तदनुवशेनोपसंहारो वर्णनीयः । होत्रादयश्चत्वारो महर्त्विजः । तदीया अर्धिनो मैत्रावरुणादयः । तृतीयिनश्चाच्छावाकादयः । वादिनश्च ग्रावस्तोत्रादयः । आह च - तस्यत्विजश्चत्वारस्त्रिपुरुषा इति । होत्रमिति होत्रा-दीनां चतुर्णां पदार्थजातं लक्षितम् । तदृग्वेदेनाकरोत् । अकरोदित्यत्र णिलोपो द्रष्टव्यः । अकारयदिति यावत् । एवं यजुषाध्वर्यवं साम्नोद्गीथमिति च । यद्यप्युद्गीथशब्दो भक्तिविशेषवचनस्तथापीह सामवेदविहितपदार्थमात्रोपलक्षणार्थः । एवमुत्तरेष्वप्युद्गीथ-शब्दप्रयोगेषु वेदितव्यम् । त्रयाणां वेदानां समाहारस्त्रयी । षष्ठ्यर्थे चतुर्थी, त्रय्याः शुक्रेण व्याहृतिर्ब्रह्मत्वमकरोत् । ननु अथर्ववेदेन ब्रह्मत्वं कस्मान्न क्रियते । ऋग्विदं ऋग्वेदपारगमेव होतारं वृणीष्व । यजुर्वेदमध्वर्युम् । सामविदमुद्गातारम् । अथर्वाङ्गिरोविदं ब्रह्मणम् इत्यथर्वश्रुतिरप्यस्ति । उच्यते — सत्यमस्ति यतः श्रुतिः । यदेतत् त्रय्यै विद्यायै इत्यपि च श्रुतिरस्त्येव । किञ्च वेदेषु तत्र तत्र लोकाग्निव्याहृतिसवनसंस्तुतास्त्रय एव वेदाः । आथर्वणे तु आहवनीयादिसम्बद्धयज्ञकर्मव्यापारो नास्ति । तत्र हि शान्तिक- पौष्टिक - पुण्याह- स्वस्त्यना-युष्म - मङ्गलादिषु प्रायशो व्यापारः । तथा हि न्यायविदः - श्रुतिविरुद्धस्मृत्युदाहरण-वेलायामग्नीषोमीयसंस्थावधि भोजनप्रतिषेधप्रतिपादकश्रुतिविरोधित्वेनाथर्ववेदपठित-क्रीतराजकभोज्यान्नवचनं स्मृतिपदे चोदाहरन्ति । तदुपपादयिषुर्भट्टाचार्य आह— ' क्रीत-राजकभोज्यान्नं च यद्यप्यथर्ववेदेऽस्ति, तथापि तस्याहवनीयसम्बद्धयज्ञकर्माधिकाराभा-वाद् ’ – इति । अतस्तद्वेदविहितब्रह्मत्वं तन्त्रे मन्तव्यम् । तस्माद् यज्ञेषु त्रय्या विद्याया ब्रह्मत्वम् इति स्थितम् । वक्ष्यति ' त्रय्या विद्ययेति ब्रूयादिति ' – इति ।
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
१०७०: ऐतरेयब्राह्मणम् [ २५.७ पञ्चमपञ्चिकायां हिन्दी— ( अब ब्रह्मयज्ञ के समान देवयज्ञ को दिखला रहे हैं - ) सः प्रजापतिः उस प्रजापति ने यज्ञम् यज्ञ को देवेभ्यः सम्प्रायच्छत् देवतओं के लिए दे दिया । ते देवाः यज्ञम् अतन्वत उन देवताओं ने यज्ञ का विस्तार किया । तम् आहरन्त उस ( यज्ञ के साधन ) को एकत्रित किया और तेन अयजन्त उस साधन से यज्ञ का सम्पादन किया । ते उन देवताओं ने ऋचा एव होत्रम् अकुर्वन् ऋचा ( ऋग्वेद के मन्त्रों ) से होता का कर्म किया, यजुषा आध्वर्यवम् यजुष् ( मन्त्रों ) से अध्वर्यु का और साम्ना उद्गीथम् साम ( मन्त्रों ) से उद्गाता का ( कर्म किया ) । त्र्ययै विद्यायै यद् एव एतत् शुक्रम् तीनों विद्याओं में जो यह ( व्याहृतिरूप ) सारतत्व था तेन ब्रह्मत्वम् अकुर्वन् उससे ब्रह्मा का
कर्म किया ।
सा ० भा ० — पूर्ववाक्यवद् व्याख्येयम् ॥
अथ प्रश्नोत्तराभ्यां प्रायश्चित्तं विधत्ते-( देवयज्ञे प्रायश्चित्तविधानम् ) ते देवा अब्रुवन् प्रजापतिं, - यदि नो यज्ञ ऋक्त आर्तिः स्यात्, यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा का प्रायश्चित्तिरिति; स प्रजापतिरब्रवीद्देवान्, –यदि वो यज्ञ ऋक्त आर्तिर्भवति, भूरिति गार्हपत्ये जुहवाथ, यदि यजुष्टो, भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषु, यदि सामतः, स्वरित्याहवनीये; ' यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुगुत्याऽऽ हवनीय एव जुहवाथेति ॥५ ॥
हिन्दी - ( अब प्रश्नोत्तर द्वारा प्रायश्चित्त का विधान कर रहे हैं - ) ते देवाः प्रजापतिम् अब्रुवन् उन देवताओं ने प्रजापति से कहा- यदि अविज्ञाता यदि अनजाने में यदि नः यज्ञे यदि हमारे यज्ञ में ऋक्तः अर्तिः स्यात् ऋचाओं ऋग्वेद ( के मन्त्रों ) में कोई दोष हो जाय यदि यजुषोः यदि सामतो यदि यजुष् मन्त्रों अथवा यदि साम मन्त्रों में ( दोष हो जाय ) तो का प्रायश्चित्तिः- ( उस विषय में ) कौन - सा प्रायश्चित्त है । ( उत्तर - ) सः प्रजापतिः देवान् अब्रवीत् उस प्रजापति ने देवताओं से कहा – यदि वः यज्ञे ऋक्तः आर्तिः भवति यदि तुम्हारे यज्ञ में ऋग्वेद के मन्त्रों में दोष हो जाय तो गार्हपत्ये भूरिति जुहवाथ गार्हपत्याग्नि में ‘ भू: ’ इस मन्त्र में आहुति देना, यदि यजुष्टः भुव इति आग्नीध्रीये यदि यजुष मन्त्रों में ( दोष हो जाय तो ) ' भुव: ' इस मन्त्र से आग्नीध्रीय स्थान वाली अग्नि में अथवा अन्वाहार्य पचन में अथवा हविर्यज्ञों में ( आहुति देना ) । यदि सामतः स्वरित्या-हवनीये यदि साममन्त्रों में ( दोष हो जाय तो ) ' स्व: ' इस मन्त्र से आहवनीय अग्नि में ( आहुति देना ) । यदि अविज्ञाता सर्वव्यापद्वा यदि अनजाने में अथवा सभी वेद के मन्त्रों ( १ ) छान्दोग्येऽप्येवमेव द्रष्टव्यम् ( छा ० उप ० ४.१७.३ ) ।
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०७१ में दोष हो जाय तो भूर्भुवः स्वः इति सर्वा अनुद्रुत्य ' भूर्भुव: स्व: ' इन सभी का उच्चारण करके आहवनीये जुहवाथ आहवनीय अग्नि में आहुति देना ॥ सा ० भा ० – ' ते देवाः प्रजापतिं ' प्रत्येवमपृच्छन्, –'नः ' अस्मदीये ' यज्ञे यदि ' कदाचिद् ‘ ऋक्त: ’ ऋङ्मन्त्रात् ' आर्ति: ' नाशो भवेत्; तथा यजुर्मन्त्रात् साममन्त्राद्वा कदाचिद् आर्तिः स्यात् । एताः सर्वा आर्तयोऽस्माभिर्विज्ञाताः, यदि कदाचिदविज्ञाता च सर्वाऽप्यार्ति-भवेत् । इदानीं प्रायश्चित्तिर्वक्तव्येति देवप्रश्नः । ऋङ्मन्त्रवैकल्ये गार्हपत्ये भूरिति होम: । यजुर्मन्त्रवैकल्ये सत्याग्नीध्रीये धिष्णिये भुव इति होमः । सोऽयं सोमयागे द्रष्टव्यः । हविर्यागे आग्नीध्रीयाभावात् । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि दाक्षायणयज्ञः, कौण्डपायिनामयनं सौत्रामणी वा सप्तमी; त एते हविर्यज्ञा:, तेष्वाग्नीधीयाभावात् ' अन्वाहार्य-पचने ' दक्षिणाग्नौ ’ ‘ जुहवाथ ' हे देवा यूयं जुहुत । सामभ्रेषे स्वरित्याहवनीये होमः । यद्यविज्ञातो भ्रेषः यदि वा वेदत्रयभ्रेषसमुच्चयः तत्रोभयत्रापि भूर्भुवः स्वरित्येतास्तिस्रो व्याहृती: सर्वा ‘ अनुद्रुत्य, उच्चार्याऽहवनीय एव ' जुहुत ' ' ॥ अनेनार्थवादेन प्रायश्चित्तविधिमुन्नीय व्याहृतिप्रशंसापूर्वकं तं विधिमुपसंहरति— एतानि ह वै वेदानामन्तः श्लेषणानि यदेता व्याहृतयस्तद् यथाऽऽ-त्मनाऽऽत्मानं संदध्याद् यथा पर्वणा पर्वं, यथा श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं संश्लेषयेदेवमेवैताभिर्यज्ञस्य विश्लिष्टं संदधाति; सैषा सर्वप्रायश्चित्तिर्यदेता व्याहृतयस्तस्मादेषैव यज्ञे प्रायश्चित्तिः कर्तव्याः ॥६ ॥
हिन्दी – ( व्याहृति की प्रशंसापूर्वक उस विधि का उपसंहार कर रहे हैं— ) यद् एता व्याहृतयः जो ये व्याहृतियाँ हैं, वे एतानि ह वै ये ( तीनों व्याहृतियाँ ) ही वेदानाम् अन्तःश्लेषणानि वेदों के आन्तरिक - बन्धन का साधन हैं । यथा आत्मना आत्मानं संदध्यात् जिस प्रकार अपने से अपने को जोड़े, यथा पर्वणा पर्वम् जैसे गाँठ से गाँठ को, यथा श्लेष्मणा चर्मण्यम् वा जैसे श्लेष्म से चर्म को, अथवा यथा अन्यत् विश्लिष्टं संश्लेषयेत् जैसे अन्य विश्लिष्ट अङ्ग को जोड़े, एवमेव उसी प्रकार एताभिः ( १ ) अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्था: –इति गौ ० धर्मसूत्र ८. १ ९ । ( २ ) ‘ एतां दर्शपूर्णमासयोर्दक्षिणामकल्पयन् यदन्वाहार्यम् ' – इति शत ० ब्रा ० १.२.३.५ । ' अन्वाहरति यज्ञसम्बन्धि दोषजातं परिहरत्यनेनेति अन्वाहार्यो नाम ऋत्विग्भ्यो देय ओदनः— इति च तत्र सा ० भा ० । ' अन्वाहार्य दक्षिणाग्नावधिश्रयति ' – इति कात्या ० श्र ० २.५.२७ ( ३ ) ' भूर्भुव: सुवरिति सर्वप्रायश्चित्तानि ' - इति तै ० आ ० ४.२०.१ सा ० भा ० ।
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
१०७२: ऐतरेयब्राह्मणम् [ २५.८ पञ्चमपञ्चिकायां इस ( व्याहृतियों ) से यज्ञस्य विश्लिष्टं संदधाति विश्लिष्ट ( अङ्ग ) को जोड़ता है । यद् एताः व्याहृतयः जो ये व्याहृतियाँ हैं, सा एषा सर्वप्रायश्चितिः वे ये सभी दोषों के प्रायश्चित्त हैं । तस्मात् इसी कारण यज्ञे यज्ञ में ( परिहार के लिए ) एषा एव प्रायश्चित्तिः ये ( व्याहृतियाँ ) ही प्रायश्चित्त हैं । सा ० भा ० — या एता व्याहृतयः सन्ति, ' एतानि ह वै ' त्रीण्येव व्याहृतिरूपाणि, वेदानां सम्बन्धीनि ‘ अन्तःश्लेषणानि ' अन्तर्बन्धनसाधनानि । तत्र दृष्टान्तोऽभिधीयते, यथा लोके ‘ आत्मनाऽऽत्मानं संदध्यात् ' आत्मशब्दः स्वरूपमात्रवाचित्वात् सर्वद्रव्यपरः । एकेन द्रव्येण द्रव्यान्तरं संधीयते । एतच्च छन्दोगैर्विस्पष्टमाम्नातम् — “ तद् यथा लवणेन सुवर्णं संदध्यात्, सुवर्णेन रजतम्, रजतेन त्रपु त्रपुणा सीसम्, सीसेन लोहम्, लोहेन दारु, दारुणा चर्मेति ' ' । क्षारादिना सुवर्णादीनां संधानं सुवर्णकारादिषु प्रसिद्धम् । | तदेतदभिप्रेत्याऽऽत्मनाऽऽ-त्मानं संदध्यादित्युक्तम् । यथा च हस्तपादादिष्वेकेन पर्वण पर्वान्तरं संश्लिष्टं यथा च ' श्लेष्मणा ' धात्वन्तरं संश्लिष्टं, चर्मणा च ' चर्मण्यं ' पादत्राणादिकम्, ' अन्यद्वा ' शकटादिषु किंचिंद्विश्लिष्टमङ्गं, चर्ममय्या रज्ज्वा संश्लेषयेत् । अनेनैव प्रकारेण ' ' एताभिर्व्याहृतिभि-र्यज्ञस्य विश्लिष्टमङ्गं संश्लिष्टं भवति । या एता व्याहृतयः, सैषा सर्वस्य वैकल्यस्य प्रायश्चित्तिः । तस्माद् यज्ञे वैकल्यपरिहारार्थमेषैव प्रायश्चित्तिः कर्तव्या ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चपञ्चिकायां पञ्चमाध्याये ( पञ्चविंशाध्याये ) सप्तमः खण्डः ॥७ ॥ ( ३२ ) ( १८५ )
॥ इस प्रकार ऐतरेयब्राह्मण के पचीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा ० भा ० — व्याहृतिहोमप्रसङ्गेन ब्रह्मा बुद्धिस्थस्तस्य तत्कर्तृत्वात् । तथा च आश्वलायन आह — ' जुहोति जपतीति प्रायश्चित्ते ब्रह्मणाम् ' इति ' । अतः प्रश्नोत्तराभ्यां ब्रह्मत्वं निर्णेतुमुपक्रमते— ( १ ) छा ० उप ० ४.१७.७ । ( २ ) ' सूच्या वासः सन्ददियात् - इतः पूर्वम्, पृ ० ४४१ । ( ३ ) व्याहृतिहोमकर्तृत्वादिति यावत् । ( ४ ) आश्व ० श्रौ ० १.१.१६ ।
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०७३ ( ब्रह्मत्वनिर्णयः ) तदाहुर्महावदा ३ः, यदृचैव होत्रं क्रियते, यजुषाऽऽध्वर्यवं, साम्नोद्-गीथं, व्यारब्धा त्रयो विद्या भवत्यथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयात् ॥ १ ॥
हिन्दी – ( प्रश्न - ) तत् उस ( प्रायश्चित्त के प्रसङ्ग ) में महावदाः आहुः यत् ब्रह्मवादी लोग कहते हैं कि ऋचा एव होत्रं क्रियते ऋचा के द्वारा होता का कर्म किया जाता है, यजुषा आध्वर्यवम् यजुष के द्वारा अध्वर्यु का और साम्ना उद्गीथम् साम के द्वारा उद्गाता का कर्म किया जाता है । इस प्रकार त्रयी विद्या व्यारब्धा भवति ( वेदरूप ) त्रयी विद्या विवेचित की जाती है अथ केन ब्रह्मत्वं क्रियते तो किसके द्वारा ब्रह्मा का कर्म किया जाता है? ( उत्तर - ) त्रय्या विद्यया इति त्रयी विद्या द्वारा ही ब्रह्मा का कर्म होता है । सा ० भा ० — ' तत् ' तत्र प्रायश्चित्तप्रसङ्गे ' महावदाः ' ' ब्रह्मवादिनः ‘ आहुः ’ चोदयन्ति । महान्तं प्रौढं वेदं वदन्तीति महावदाः । प्लुतिस्तेषां प्रशंसार्था । ' यद् ' यस्मात् कारणादृग्यजुः-सामेति हौत्राध्वर्यवोद्गात्राणां करणात् ' त्रयी ' वेदत्रयरूपा विद्या ' व्यारब्धा ' विविच्य होत्रादिभिः स्वीकृता भवति । अथर्ववेदश्च नात्र मिश्रयितुं शक्यते । आहवनीयादिकर्तव्यस्य तत्राभावात् । अथ तस्मात् कारणात् केन साधनेन ब्रह्मत्वं क्रियते? इति चोद्यम् । तस्य ' त्रय्या ' वेदत्रयरूपया ‘ विद्यया ' ब्रह्मत्वं कर्तव्यमित्युत्तरं प्रतिब्रूयात् । अत एव संप्रदायविद आहु: -“ अथर्वक्षेत्रवान् ब्रह्मा वेदेष्वन्येषु भागवान् । तस्माद् ब्रह्माणं ब्रह्मिष्ठमिति ह्यारण्यके श्रुतम् ॥ इति ॥ ब्रह्मणो मनसा वैकल्यराहित्यानुसंधानं विधत्ते— अयं वै यज्ञो योऽयं पवते, तस्य वाक् च मनश्च वर्तन्यौ; वाचा च हि मनसा च यज्ञो वर्तत, इयं वै वागदो मनस्तद्वाचा त्रय्या विद्ययैकं पक्षं संस्कुर्वन्ति, मनसैव ब्रह्मा संस्करोति ॥ २ ॥
हिन्दी - योऽयं पवते यह जो वायु बह रही है अयं वै यज्ञः यज्ञ ( वायु ) ही यज्ञ है । तस्य उस ( यज्ञ ) के वाक् च मनः च वर्तन्यौ वाणी और मन प्रवृत्ति के मार्ग हैं वाचा ( १ ) ( i ) ' महच्छब्देन ब्रह्मोच्यते । ब्रह्म च वेदः । तं ये वदन्ति ( अभिधीय ) ते महावदा: ' -इति गोविन्दस्वामी ।
( ii ) घञ् कर्मणि वदेर्वृद्धिर्न वदो वेद उच्यते ।
स वेदस्तु महान् येषां ते तथोक्ता महावदाः ॥
( २ ) ‘ धर्मिष्ठमिति’— इति वा पाठः । तु ० ऐ ० आ ० ३.२.३ । ' यस्माद् वेदत्रयाभिज्ञानरूपस्य वेदपुरुषस्य हिरण्यगर्भोपासको ब्रह्मा रसस्तस्माद् ब्रह्मनामसाम्याद् यागेऽपि ब्रह्माणमृत्विजं ब्रह्मिष्ठमतिशयेन वेदत्रयगतं कुर्वीत । ' इति तत्र सायणः । ऐ.ब्रा.उ.: १४
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
१०७४: ऐतरेयब्राह्मणम् [ २५.८ पञ्चमपञ्चिकायां च हि मनसा च क्योंकि वाणी से और मन से यज्ञो पवते ( प्रयोगानुसन्धान करने वाले के द्वारा ) यज्ञ सम्पादित होता है । इयं वै वाक् वाक् ही यह ( पृथिवी ) है, अदो मनः और मन वह ( स्वर्गस्वरूप ) है । तद् वाचा त्र्यय्या विद्यया उस वाणी रूप त्रयी विद्या के द्वारा ( होता इत्यादि ) ( रथ रूप यज्ञ के ) एकं पक्षं संस्कुर्वन्ति एक भाग का सम्यक् रूप सम्पादन करते हैं और मनसा ब्रह्मा संस्करोति ब्रह्मा मन से ( अन्य भाग को संस्कृत करता है ॥ सा ० भा ० – ‘ यः ' ‘ अयं ' वायुः ' पवते ' अन्तरिक्षे संचरति; अयमेव यज्ञस्वरूपो वायुसदृशो यज्ञः । यथा वायोः संचारमार्गः तथा ' तस्य ' यज्ञस्य ' वाक् च मनश्च ' ' वर्तन्यौ ' प्रवृत्तिमार्गौ । यस्माद् ‘ वाचा ’ मन्त्ररूपया ' मनसा ' च प्रयोगानुसंधात्रा ' यज्ञो वर्तते ' तस्मादुभौ मार्गौ । तत्र वाग् ‘ इयं वै ’ भूमिस्वरूपैव मनस्तु ' अदः ' स्वर्गरूपम् । ' तत् ' तथा सति वाग्रूपया ' त्रय्या विद्यया ' होत्रादयो रथस्थानीयस्य यज्ञस्यैकं ' पक्षं ' भागं ' संस्कुर्वन्ति ' सम्यक्संपादयन्ति । ब्रह्मा मनसैव ' संस्करोति ' सम्यक्संपादयति; अन्यं भागमिति शेषः । होत्रादिभिर्वाचाऽनुष्ठीयमानेष्वङ्गेषु वैकल्यराहित्यं ब्रह्माऽनुसंदध्यादित्यर्थः । छन्दोगा-श्चैतमर्थमामनन्ति —‘एष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा; वाचा होताऽध्वर्युरुद्गाताऽन्यतराम् ” इति । अथ ब्रह्मणो मौनं विधातुं वाग्व्यवहारे बाधां दर्शयति— ( ब्रह्मणः मौनविधानम् ) ते हैके ब्रह्माण उपाकृते प्रातरनुवाके स्तोमभागाञ्जपित्वा भाषमाणा उपासते तद्वैतदुवाच ब्राह्मण उपाकृते प्रातरनुवाके ब्रह्माणं भाषमाणं दृष्ट्वाऽर्धमस्य यज्ञस्यान्तरगुरिति; तद्यथैकपात्पुरुषो यन्नेकतश्चक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवमेव स यज्ञो भ्रेषं न्येति, - यज्ञस्य भ्रेषमनु यजमानो भ्रेषं न्येति ॥ ३ ॥
हिन्दी— ( ब्रह्मा के मौन रखने के लिए वाग्व्यवहार में बाधा को दिखला रहे हैं— ) कुछ यज्ञ - प्रयोगों में - ते ह एके ब्रह्माण: वे ( वेदज्ञान - सम्पन्न ) कुछ ब्रह्मा ( ऋत्विक् ) ( होता द्वारा पठनीय ) प्रातरनुवाके प्रातरनुवाक में उपाकृते अनुज्ञात होने पर स्तोमभागान् जपित्वा स्तोमसंज्ञक मन्त्रों का जप करके भाषमाणा उपासते बात - चीत करते हुए समीप में बैठते हैं । उपाकृते प्रातरनुवाके अनुज्ञात प्रातरनुवाक में भाषमाणं ब्राह्मणं दृष्ट्वा बात - चीत करते हुए ब्रह्मा को देखकर तद् ह एतद् ब्राह्मणः उवाच तब ( किसी अन्य यज्ञ में शास्त्रभिज्ञ ) ब्राह्मण ने यह कहा— अस्य यज्ञस्य अर्धम् इस यज्ञ के आधे भाग को ( १ ) छा ० उप ० ४.१६ । ‘ स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति, अन्यतरामेव वर्त्तनि संस्करोति, हीयतेऽन्यतरा – इत्यादिस्तत्खण्डशेषः समग्र एवैतदर्थकः ।
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १०७५ अन्तः अगुः ( ऋत्विक् और यजामानों ने ) अन्तरित कर दिया । तद् यथा जैसे कि एकपाद् यन् पुरुषः एक पैर वाला पुरुष गमन करता हुआ एकतश्चक्रो रथो वा अथवा एक चक्के वाला रथ वर्तमानं श्रेषं न्येति गमन करता हुआ गिर जाता है, एवमेव स यज्ञे भ्रेषं नेति इसी प्रकार वह ( मौनरहित ब्रह्मा से युक्त ) यज्ञ भी भ्रष्ट हो जाता है । यज्ञस्य भ्रेषमनु यज्ञ की भ्रष्टता के बाद यजमानो भ्रेषं न्येति यजामन भी भ्रष्ट ( असफल ) हो जाता है ॥ सा ० भा०- - केषुचिद् यज्ञप्रयोगेषु वर्तमानाः ' ते ' वेदत्रयाभिज्ञत्वेन प्रसिद्धा ' एके ब्रह्माण: ' केचिद् ब्रह्मसंज्ञका ऋत्विजो होत्रा पठितव्ये प्रातरनुवाकेऽध्वर्युणा ' उपाकृते ' अनुज्ञाते सति, तत ऊर्ध्वं ' रश्मिरसि क्षयाय त्वां ' ' - इत्यादीन् स्तोमभागसंज्ञकान् मन्त्रान् ’ जपित्वा मौनमकृत्वा ‘ भाषमाणाः ' वाग्व्यवहारं कुर्वन्तः ' उपासते ' समीपे तिष्ठन्ति । तदानीं कश्चिच्छास्त्राभिंज्ञो ब्राह्मण आगत्य कस्मिंश्चिद् यज्ञे प्रातरनुवाकोपाकरणाद् ऊर्ध्वं ' भाषमाणं ’ वाग्व्यवहारं कुर्वन्तं ब्रह्माणं दृष्ट्वा वाक्यमेतदुवाच- ' अस्य यज्ञस्यार्धमन्तरगुः ' - इति । ऋत्विग्यजमाना एकं यज्ञभागमन्तरितं कृतवन्त इति । तथा सति यथा लोके कश्चिदेकपा-त्पुरुषो द्वितीयं पादं संकुचितं कृत्वा प्रसारितेनैकेनैव पादेन ' यन् ' मार्गे गच्छन् ' भेषं ’ प्राप्नोति; एवमेव मौनरहितेन ब्रह्मणा युक्तः स यज्ञो भ्रेषं न्येति । तं च यज्ञभ्रेषम् ' अनु ' पश्चाद् यजमानो भ्रेषं न्येति ॥ इत्थं वाग्व्यवहारे बाधमुक्त्वा मौनं विधत्ते— तस्माद् ब्रह्मोपाकृते प्रातरनुवाके वाचंयमः स्यादोपांश्वन्तर्यामयोर्हो-मादुपाकृतेषु पवमानेष्वोदृचोऽथ यानि स्तोत्राणि सशस्त्राण्या तेषां वषट्काराद् वाचंयम एव स्यात्; तद्यथोभयतः पात् पुरुषो यन्नुभयत-श्चक्रो वा रथो वर्तमानो न रिष्यत्येवमेव स यज्ञो न रिष्यति, -यज्ञ-स्यारिष्टिमनु यजमानो न रिष्यति ॥४ ॥
हिन्दी – ( अब वाग्व्यहार में बाधा को कहकर मौन का विधान कर रहे हैं - ) तस्मात् इसलिए ( उपर्युक्त बाधा के कारण ) ब्रह्मोपाकृते प्रातरनुवाके प्रातरनुवाक के ( १ ) ता ० ब्रा ० १.९.१ । ( २ ) स्तोमभागमन्त्रास्तु तै ० सं ० ४.४.१.१ आम्नाताः; ' तस्मात् वासिष्ठो ब्रह्मा कार्य:, प्रैव जायते; रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्याह ' – इत्यादिभिर्व्याख्याताः तै ० सं ० ३.५.२.१ । पुनः पञ्चमेऽस्य रश्मिरसिमन्त्रस्य ' रश्मिरित्येवादित्यम् असृजत् ' – इत्यादित्यसृष्टिपरतया व्याख्यानं च आम्नातम् ( ५.३.६.१ ) । द्र ० वाज ० सं ० १५.६ । ( ३ ) द्र ० ' इन्द्रो ह..... ब्रह्मा वाचंयमो बुभूषेति ' इति षड् ० ब्रा ० १.५ । ( ४ ) अर्थात् आ + उत् + ऋच: = ओदृच: ।
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
१०७६: ऐतरेयब्राह्मणम् [ २५.९ पञ्चमपञ्चिकायां लिए उपाकरण के पश्चात् ब्रह्मा को वाचंयमः स्यात् वाणी का नियमन करना चाहिए ( = मौन रहना चाहिए तथा ) उपांश्वन्तर्यामयोः होमात् उपांशु और यन्तर्यामग्रह होम तक उपाकृतेषु पवमानेषु तथा पवमान ( स्तोत्रों ) के ही ( अध्वर्यु द्वारा ) अनुज्ञात होने पर एवं ओदृचः अन्तिम ऋचा के पाठ की समाप्ति तक ( मौन रहना चाहिए ) । अथ इसके बाद यानि सशस्त्राणि स्तोत्राणि जो सशस्त्र स्तोत्र हैं तेषां वषट्कारात् उन ( स्तोत्रों ) के वषट्कार तक ( ब्रह्मा को ) वाचंयमः एव स्यात् वाणी का नियमन करना चाहिए तद्यथा वह ( नियमन ) जैसे उभयतः पात् पुरुषः दोनों पैर वाला पुरुष यन् गमन करता हुआ उभयश्चक्रो वा रथः अथवा दोनों चक्कों वाला रथ वर्तमानो न रिष्येत गमन करते हुए नहीं गिरता, एवमेव स यज्ञो न रिष्यति उसी प्रकार वह ( मौन ब्रह्मा वाला ) यज्ञ भ्रष्ट ( असफल ) नहीं होता । यज्ञस्य अरिष्टिम् अनु यज्ञ की पूर्णता के बाद यजमानो न रिष्यति यजमान भी च्युत नहीं होता ॥ सा ० भा ० — यस्माद् भाषणे बाधोऽस्ति, ' तस्माद् ' ब्रह्मा प्रातरनुवाकोपाकरणादूर्ध्वं ‘ वाचंयमः ’ मौनी स्यात् । कियन्तं कालमिति? तदुच्यते – ' उपांश्वन्तर्यामयोः ' ' ग्रहयोः आहोमाद् होमसमाप्तिपर्यन्तं; तथा पवमानस्तोत्रेषु ' त्रिष्वप्यध्वर्युणा ' उपाकृतेषु ' अनुज्ञातेषु सत्सु ‘ ओदृचः ’ उत्तमा समाप्तिकालीना येयमृगस्ति, तत्समाप्तिपर्यन्तम्, वाचंयमः स्यादित्यनुवर्तते । ‘ अथ ’ अनन्तरं यान्यन्यान्याज्यादिस्तोत्राणि शस्त्रसहितानि सन्ति, तेषाम् ‘ आवषट्काराद् ’ वौषळितिमन्त्रोच्चारणपर्यन्त; तत्तत्स्तोत्रप्रारम्भादूर्ध्वं तदा तदा वाचंयम एव स्यात् । तथा सति लोके ‘ यथोभयतः पात् ' पादद्वयोपेतः पुरुषो ' यन् ' मार्गे गच्छन् ' न रिष्यति ' न विनश्यति; तथा च ' उभयतश्चक्रः ' चक्रद्वयोपेतो रथो मार्गे वर्तमानो न विनश्यति; एवमेव मौनिना ब्रह्मणा युक्तः स यज्ञो न विनश्यति । यज्ञस्य ' अरिष्टिं ' विनाशाभावमनु यजमानोऽपि ‘ न रिष्यति ' न विनश्यति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चपञ्चिकायां पञ्चमाध्याये ( पञ्चविंशाध्याये ) अष्टमः खण्डः ॥८ ॥ ( ३३ ) ( १८६ )
॥ इस प्रकार ऐतरेयब्राह्मण के पचीसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ नवमः खण्डः सा ० भा ० — अथ ब्रह्मणः कांश्चित् कर्तव्यविशेषान् विधातुं चोद्यम् उद्भावयति— ( १ ) बहिष्पवमानम्, माध्यन्दिनपवमानम्, आर्भवपवमानमिति त्रीणि पवमानस्तोत्राणि ।
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०७७ ( ब्रह्मणः कर्त्तव्यविशेषः ) तदाहुर्यद् ग्रहान्मेऽग्रहीत् प्राचारीन्म आहुतीर्मेऽहौषीदित्यध्वर्यवे दक्षिणा नीयन्त उदगासीन्म इत्युदगात्रेऽन्ववोचन् मेऽशंसीन्मेऽयाक्षीन् म इति होत्रे, किंस्विदेव चक्रुषे ब्रह्मणे दक्षिणा नीयन्तेऽकृत्वाऽऽ होस्विदेव हरता इति ॥ १ ॥
हिन्दी – ( ब्रह्मा के कुछ कर्त्तव्यविशेषों को कहने के लिए प्रश्नोत्तर का विधान कर रहे हैं — ) ( प्रश्न- ) तदाहुः उस ( ब्रह्मा के विषय ) में ( कुछ याज्ञिक ब्राह्मण ) यह कहते हैं— ) ग्रहान्मे अग्रहीत् ( अध्वर्यु ने ) मेरे ( ऐन्द्रवायव इत्यादि ) ग्रहों को ग्रहण किया है, मे प्राचारीत् ( इसने ) मेरे लिए प्रचरण ( गमन कार्य ) किया है, आहुतिमें अहौषीत् मेरे लिए आहुति दिया है— इति अध्वर्यवे दक्षिणा नीयन्ते यह सोचकर यजमान द्वारा ) अध्वर्यु के लिए दक्षिणा दी जाती है । मे उदगासीत् मेरे लिए सामगान किया है इति उदगात्रे यह सोचकर उद्गाता के लिए ( दक्षिणा दी जाती है ) । मे अन्ववोचत् ( इसने ) मेरे लिए ( वाक्या इत्यादि का ) अनुवाचन किया है, मेऽशंसीत् मेरे लिए ( अनुवाकों का ) शंसन किया है, मे अयाक्षीत् मेरे लिए ( याज्या का ) पाठ किया है इति होत्रे यह सोचकर होता के लिए ( दक्षिणा दी जाती है ) । किंस्विदेव चकुषे ब्रह्मणे किन्तु ब्रह्मा के किस कार्य के लिए ( सोचकर ) दक्षिणा नीयन्ते ( यजमान द्वारा ) दक्षिणा दी जाती है आहोस्वित् अकृत्वा अथवा किसी कार्य को न करके हरता दक्षिणा को लेता है । सा ० भा ० – ' तत् ' तस्मिन् ब्रह्मणि चोद्यमाहुः । किं चोद्यमिति? तदुच्यते – यजमानेन ‘ अध्वर्यवे ' यदा ' दक्षिणा ' ' नीयन्ते ' प्रदीयन्ते तदानीं यजमानस्यायमभिप्राय: – असावध्वर्युः ' मे ' मदर्थं ' ग्रहान् ' ऐन्द्रवायवादीनग्रहीत्, तथा ' मे ' मदर्थं ' प्राचारीत् ' ग्रहप्रचारं कृतवान् । तथा ‘ मे ’ मदर्थमाहुतीः ‘ अहौषीत् ' हुतवानिति । यदोद्गात्रे दक्षिणा नीयन्ते तदानीमयमभि-प्रायः — असावुद्गाता ‘ मे ' मदर्थम् ' उदगासीत् ' औद्गात्रं कृतवानिति । यदा होत्रे दक्षिणा नीयन्ते, तदानीमयमभिप्रायः - अयं होता ' मे ' मदर्थम् ' अन्ववोचत् ' पुरोनुवाक्यादीनामनुवचनं कृतवान्, तथा ' मे ' मदर्थम् ' अशंसीत् ' शंसनं कृतवान्, तथा ' मे ' मदर्थम् ' अयाक्षीत् ’ याज्यां पठितवानिति । एवं तेन तेन कृतं कार्यं स्मृत्वा यस्माद् दक्षिणां ददाति, तस्माद् ब्रह्मणेऽपि तत्कृतं कार्यं स्मृत्वा दक्षिणा दातव्या । तथा सति ‘ किंस्विदेव ' किं नाम कार्य ' चक्रुषे ' कृतवते ' ब्रह्मणे ' यजमानेन दक्षिणा नीयन्ते, ' आहोस्विदकृत्वैव ' अथवा किमपि कार्यम् ‘ अकृत्वा ' ‘ हरता ’ ' एव ' ब्रह्मा दक्षिणां हरेत्? एतच्चायुक्तमिति चोद्यम् ॥ तस्योत्तरमाह— यज्ञस्य हैष भिषग् यद् ब्रह्मा; यज्ञायैव तद्भेषजं कृत्वा हरति ॥ २ ॥
हिन्दी — ( उपर्युक्त प्रश्न का उत्तर दे रहे हैं — ) यद् ब्रह्मा जो ब्रह्मा है एषः ह यज्ञस्य
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
१०७८: ऐतरेयब्राह्मणम् [ २५.९ पञ्चमपञ्चिकायां भिषक् यह यज्ञ का भिषक् ( वैद्य ) होता है । तद् यज्ञाय भेषजं कृत्वा वह यज्ञ के लिए चिकित्सा करके ही ( वैकल्यरूप रोग की शान्ति करके ) हरति ( दक्षिणा को ) लेता है । सा ० भा०—– यो ब्रह्माऽस्ति, एष यज्ञस्य ' भिषक् ' चिकित्सकः । ‘ तत् ’ तस्मात् कारणाद् ‘ यज्ञायैव ’ ‘ भेषजं कृत्वा ' यज्ञस्याङ्गवैकल्यरोगं शमयित्वा, दक्षिणां हरति; तस्माद्धोत्रादिवदुपकारित्वादयं दक्षिणाया योग्य एव ॥ पक्षान्तररूपेण ब्रह्मणो दक्षिणाधिक्यं दर्शयति-अथो यद् भूयिष्ठेनैव ब्रह्मणा छन्दसां रसेनाऽऽर्त्विज्यं करोति यद् ब्रह्मा; तस्माद् ब्रह्माऽर्धभाग्घ वा एष इतरेषामृत्विजामग्र आस यद् ब्रह्माऽर्धमेव ब्रह्मण आसार्धमितरेषामृत्विजाम् ॥ ३ ॥
हिन्दी— ( ब्रह्मा के दक्षिणा की अधिकता को दिखला रहे हैं — ) यद् ब्रह्मा जो ब्रह्मा ( ऋत्विक् ) है वह छन्दसां रसेन भूयिष्ठेन ब्रह्मणा वेदों के सारभूत ( व्याहृतियों ) के अधिक मन्त्र से आर्त्वित्वं करोति ऋत्विक् कर्म को करता है तस्माद् ब्रह्मा इस कारण ब्रह्मा कहा जाता है । इतरेषामृत्विजाम् अग्रे अन्य ऋत्विजों में पहले एष: अर्धभाग् ह आस यह ( ब्रह्मा ) आधे ( प्रयोग का ) भागीदार होता है; क्योंकि यद् ब्रह्मा जो ब्रह्मा है, असौ वह इतरेषामृत्विजाम् अन्य ऋत्विजों में ब्रह्मणः अर्धम् यज्ञ का आधा ( कार्य सम्पादित करता है ) ॥ सा ० भा०- - अपि यो ब्रह्माऽस्ति, ' भूयिष्ठेनैव ' अतिबहुलेनैव ' च्छन्दसां रसेन ' वेदसारभूतेन व्याहृतिप्रणवरूपेण ' ब्रह्मणा ' मन्त्रेणैव ' यद् ' यस्मात् कारणादार्त्विज्यं करोति, तस्मात् कारणादुपकारबाहुल्यादयं ब्रह्मेतिविशिष्टेन नाम्ना व्यवह्नियत इति शेषः । किंच यो ब्रह्माऽस्ति, एषः ‘ अग्रे ’ प्रथममेवेतरेषाभृत्विजाम् ' अर्धभाग्घ वै ' अर्धप्रयोगं भजत्येव— वेदत्रये यावान् प्रयोगो विततोऽस्ति; स च सर्वोऽपीतरैर्ऋत्विग्भिर्वाचाऽनुष्ठीयते ब्रह्मणा तु मनसेत्येतावानेव विशेषः, प्रयोगस्तूमयत्र समान एव । अयमेवार्थोऽर्धमेवेत्यादिन स्पष्टी-क्रियते । ब्रह्मणो यज्ञस्यार्थमेव मनसाऽनुष्ठीयमानम्, ' इतरेषामृत्विजां ' होत्रादीनां वाचाऽनुष्ठीय-मानमर्ध; तस्मादुपकारबाहुल्यं सिद्धम् ॥ पूर्ववद्व्याहृतिप्रायश्चित्तमुक्तं तत्कर्तृत्वं ब्रह्मणो विधत्ते— तस्माद् यदि यज्ञ ऋक्त आर्तिः स्याद्, यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा, ब्रह्मण एव निवेदयन्ते, तस्माद् यदि यज्ञ ऋक्त आर्तिर्भवति, भूरिति ब्रह्मा गार्हपत्ये जुहुयाद्; यदि यजुष्टो भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषुः यदि सामतः स्वरित्याहवनीये; यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुगुत्याऽऽहवनीय एव जुहुयात् ॥४ ॥