ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 221–230
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 221–230
पृष्ठ 221
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०७ ९ हिन्दी – ( ब्रह्मा के कार्य को बतला रहे हैं - ) तस्मात् इसी कारण यदि यज्ञे यदि यज्ञ में ऋक्तः आर्तिः स्यात् ऋचा ( ऋग्वेद के मन्त्र ) में दोष हो जाय, यदि यजुष्टः यदि यजुष् ( यजुर्वेद के मन्त्र ) में और यदि सामतः यदि साममन्त्र में दोष हो जाय, यदि अविज्ञात यदि अनजाने में अथवा सर्वव्यापवा सभी वेद के मन्त्रों में ( दोष हो जाय ) तो उसे ब्रह्मणः एव निवेदन्ते ( सभी ऋत्विक् ) ब्रह्मा से ही कहते हैं । तस्मात् इसी कारण यदि यज्ञे यदि यज्ञ में ऋक्तः आर्तिः भवति ऋचाओं से दोष होता है तो भूरिति भूः इस मन्त्र से ब्रह्मा गार्हपत्ये जुहुयात् ब्रह्मा गार्हपत्याग्नि में होम करे, यदि यजुष्टः यदि यजुष् से ( दोष होता है तो ) भुव इति आग्नीध्रीये ' भुव: ' इस मन्त्र से आग्नीध्रीय स्थान पर अथवा अन्वाहार्यपचने वा हविर्यज्ञेषु अथवा हविर्यज्ञ में अन्वाहार्य पचन में ( होम करे ) । यदि सामतः यदि साम से ( दोष होता है तो ) स्वरित्याहवनीये ' स्व: ' इस मन्त्र से आहवनीयाग्नि में ( होम करें ) । यदि अविज्ञाता सर्वव्यापद् वा अनजाने में अथवा सभी वेदों के मन्त्रों से ( दोष हो जाय तो ) भूर्भुवः स्वरिति सर्वा अनुगुत्य ' भूर्भुव: स्व: ' इन सभी को कहकर आहवनीये एव जुहुयात् आहवनीय अग्नि में ( ब्रह्मा ) होम करे ॥ सा ० भा ० — तस्माद् ब्रह्मा यज्ञभारमर्थं वहति । भिषक्त्वेन परिहर्तुं च शक्नोति, तस्माद्यघृगादिभ्यः किंचिद्वैकल्यं भवेत्, तदानीमितरे सर्वे ते तस्मै ब्रह्मण एवं तद्वैकल्यं निवेदयन्ते । ‘ तस्माद् ’ इतरैर्निवेदितत्वात् स ब्रह्मा पूर्वोक्तप्रकारेण तत्तत्प्रायश्चित्तं जुहुयात् ॥ ब्रह्मणः कर्तव्यान्तरं दर्शयति-( ब्रह्मणः कर्त्तव्यान्तरः ) स प्रस्तोतोपाकृते स्तोत्र आह ब्रह्मन्स्तोष्यामः प्रशास्तरिति, स भूरिति ब्रह्मा प्रातः सवने ब्रूयादिन्द्रवन्तः स्तुध्वमिति भुव इति माध्यंदिने सवने ब्रूयाद् इन्द्रवन्तः स्तुध्वमिति; स्वरिति तृतीयसवने ब्रूयाद् इन्द्रवन्तः स्तुध्वमिति; भूर्भुवः स्वरित्युक्थ्ये वाऽतिरात्रे वा ब्रूयाद् इन्द्रवतः स्तुध्वमिति ॥५ ॥
हिन्दी— ( ब्रह्मा के अन्य कर्तव्य को दिखला रहे हैं - ) स्तोत्रे उपाकृते ( अध्वर्यु द्वारा ) स्तोत्र पाठ की अनुज्ञा प्राप्त होने पर सः प्रस्तोता वह ( प्रस्तावभाग का गान करने वाला ) प्रस्तोता ( नामक ऋत्विक् ) आह ( ब्रह्मा से ) कहता है कि प्रशास्तः ब्रह्मन् हे अनुज्ञा देने वाले ब्रह्मन्! स्तोष्यामः हम स्तोत्रपाठ करेंगे । तत्पश्चात् सः ब्रह्मा वह ब्रह्मा प्रातःसवने प्रात: कालीन सवन में भूरिति भूः यह ( कहकर ) इन्द्रवन्तः स्तुतध्वम् इन्द्रदेवताक स्तुति को पढ़ो इति ब्रूयात् ऐसा कहे । मध्यन्दिने सवने मध्यान्दिनसवन में भुवः इति भुवः यह ( कहकर ) इन्द्रवन्तः स्तुध्वम् इन्द्रदेवताक स्तुति को पढ़ों इति ब्रूयात् इस प्रकार कहें । तृतीयसवने तृतीय सवन में स्वरिति स्वः यह ( कहकर )
पृष्ठ 222
पाठ पढ़ें पाठ छिपाएँ
१०८०: ऐतरेयब्राह्मणम् [ २५.९ पञ्चमपञ्चिकायां इन्द्रवन्तः स्तुध्वम् इन्द्र देवता की स्तुति को पढ़ो इति ब्रूयात् ऐसा कहें । उक्थे वा अतिरात्रे वा उक्थ अथवा अतिरात्र में भूर्भुवः स्वः इति भूर्भुवः स्वः ( कहकर ) इन्द्रवन्तः स्तुतध्वम् इन्द्र देवताक स्तुति को पढ़ो इति ब्रूयात् इस प्रकार कहें ॥ सा ० भा ० – अध्वर्युणा स्तोत्रे ' उपाकृते ' प्रारब्धमनुज्ञाते सति ‘ प्रस्तोता ' स्तोत्रसाधने साम्नि प्रथमस्य प्रस्तावभागस्य गाता प्रस्तोतृनामक ऋत्विक्, ब्रह्माणं प्रत्यनुज्ञामनेन मन्त्रेण प्रार्थयेत् । ‘ ब्रह्मन्इत्यादिर्मन्त्रः । हे ' प्रशास्तः ' अस्माकं प्रशासनस्याऽऽज्ञापनस्य कर्त्तः! हे ब्रह्मंस्त्वदनुज्ञया वयं स्तोष्याम इति । ततस्तेन प्रार्थितो ब्रह्मा ' भू: ' - इत्येतां प्रथमां व्याहृति-मुक्त्वा, हे उद्गातारः! ‘ इन्द्रवन्त: ' इन्द्रविषयस्तुतिपराः सन्तः ‘ स्तुध्वं ’ स्तोत्रं कुरुतेति ब्रूयात् । एवमितरत्रापि योज्यम् ॥ ब्रह्मणा प्रयुक्तस्यानुज्ञानमन्त्रस्याभिप्रायं दर्शयति— स यदाहेन्द्रवन्तः स्तुध्वमित्यैन्द्रो वै यज्ञ, इन्द्रो यज्ञस्य देवता, सेन्द्र-मेव तदुद्गीथं करोतीन्द्रान्मागात्, इन्द्रवन्तः स्तुध्वमित्येवैनांस्तदाह तदाह ॥४ ॥
हिन्दी - ( ब्रह्मा द्वारा प्रयुक्त अनुज्ञानं मन्त्र का अभिप्राय दिखला रहे हैं - ) सः उस ( ब्रह्मा ) ने यदाह जो कहा कि इन्द्रवतः स्तुध्वम् इन्द्रदेवताक स्तुति करो तो इन्द्रो वै यज्ञः यह यज्ञ इन्द्र ( से सम्बन्धित ) है और इन्द्रो यज्ञस्य देवता इन्द्र ही यज्ञ का देवता है । सः वह ( उद्गाता ) इन्द्रमेव इन्द्र ( से सम्बन्धित ही ) उद्गीथं करोति सामगान करता है । हे उद्गाता! इन्द्रान्मागात् इस इन्द्र से पृथक् मत होवो । इसलिए इन्द्रवतः स्तुध्वम् इन्द्रदेवताक स्तुति करो - इति एवम् इस प्रकार ( ब्रह्मा ) एनान् आह इस उद्गाताओं से कहता है ॥ सा ० भा ० — ‘ सः ’ ब्रह्मा ‘ इन्द्रवतः स्तुध्वमिति ' यद्वाक्यमाह, तस्याभिप्राय उच्यते, — ‘ यज्ञः ’ सोमयागः ‘ ऐन्द्रो वै ' इन्द्रसम्बन्ध एव । इन्द्रो हि तस्य यज्ञस्य देवता; अतः ‘ तदुद्गीथं ’ सामगैः क्रियमाणमुद्गानं ' सेन्द्रम् ' इन्द्रसहितमेव करोति । इन्द्रमुद्गीथमिन्द्रात् ‘ मागात् ’ माऽपगच्छतु । तस्माद् हे उद्गातारो यूयम् ' इन्द्रवन्त: ' इन्द्रविषयतां पर्यवेक्षन्तः, एवं भूत्वा स्तुध्वम् । ‘ इति अनेनैव प्रकारेण ' एनान् ' उद्गातृन् प्रति ब्रह्मा ' तद् ' वाक्यमाह । अभ्यासोऽध्यायपरिसमाप्त्यर्थः ' ॥ ( १ ) अस्मिन्नध्याये नव खण्डाः सन्ति; तत्राद्येषु षट्सु अग्निहोत्रमाम्नातम्; तत उत्तरमृत्वि-क्कार्योपदेशप्रकरणमारब्धमिति सप्तमाष्टमयोः खण्डयोः ब्रह्मर्त्विक्कार्योपदेशा उक्ताः; ग्रावस्तुदादीनां कार्याण्यपि परस्ताद् वक्ष्यन्ति । आश्वलायनीयद्वितीयाध्यायस्य प्रथम-कण्डिकायामग्न्याधानमुक्ता द्वितीयादिषु चतसृषूक्तमग्निहोत्रम् । ब्रह्मकर्तव्योपदेशस्तु ‘ अथ ब्रह्मणः ' ( आश्व ० श्रौ ० १.१२.१ ) - इत्याद्युपक्रम्येतः पुरस्तादेवोक्तः ।
पृष्ठ 223
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्ः १०८१ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां पञ्चमाध्याये ( पञ्चविंशाध्याये ) नवमः खण्डः ॥९ ॥ ( ३४ ) ( १८७ )
॥। इस प्रकार ऐतरेयब्राह्माण के पचीसवें अध्याय के नवम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाभ्राज्यधुरंधर-माधवाचार्यदेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश'-नाम भाष्ये ऐतरेयब्राह्मणभाष्यस्य कृतौ पञ्चपञ्चिकायाः पञ्चमोऽध्यायः ( पञ्चविंशोऽध्यायः ) ॥२५ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के पचीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
विश्वे वै पञ्च ( १ ) गौर्वै दश ( २ ) । यद्वा एति च प्रेति च चत्वारि ( ३ ) ।
यद्वै समानोदर्कं षट् ( ४ ) । उद्धराहवनीयं नव ( ५ ) ॥५ ॥
हिन्दी — पञ्चमपञ्चिका में ' विश्वे वै ' ( से प्रारम्भ प्रथम अध्याय ) पाँच खण्डों वाला, ‘ गौर्वै ’ ( से प्रारम्भ द्वितीय अध्याय ) दश खण्डों वाला, ' यद्वा एति च प्रति च ' ( सं प्रारम्भ तृतीय अध्याय ) चार खण्डों वाला, ' यद्वौ समानोदर्कम् ' ( से प्रारम्भ चतुर्थ अध्याय ) छ: खण्डों वाला और ‘ उद्धराहवनीय ' ( से प्रारम्भ पञ्चम अध्याय ) नव खण्डों वाला है ॥ विश्वे वै देवा, देवासुरा वै, सं च त्वे जग्मु, रुद्यन्नु खलु वा चत्वारि ॥ हिन्दी — पञ्चमपञ्चिका में ' विश्वे वै देवाः ' से प्रारम्भ खण्डों का प्रथम दशक, ‘ देवासुरा वै ’ से प्रारम्भ द्वितीय दशक, ' सं च त्वे जग्मु ' से प्रारम्भ तृतीय दशक और ‘ रुद्यन्नु खलु वा से प्रारम्भ खण्ड चतुष्टय है । इस प्रकार इस पञ्चिका में कुल चौंतीस खण्ड हैं ॥। इति ऐतरेयब्राह्मणस्य पञ्चमपञ्चिका ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के पञ्चमपञ्चिका की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 224
पाठ पढ़ें पाठ छिपाएँ
अथ षष्ठपञ्चिकायाम् प्रथमोऽध्यायः [ अथ षड्विंशोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम्— अथाग्निहोत्रं पयसः प्रशंसा तद्दोहनापत्तिर्विनिष्कृतिश्च । तस्य प्रशंसाऽप्युदिते च होमो ब्रह्मर्त्विजो व्याहृतयोऽप्यधीताः ॥१ ॥.
ब्रह्मण: कर्तव्यविधानेन ग्रावस्तुदबुद्धिस्थः तस्याग्निष्टोमे कर्तव्यं ' विधातुमुपाख्यान-माह -( सोमयागः क्रमागतः ) ( तत्र ग्रावस्तुतिविधानार्थमाख्यायिका ) देवा ह वै सर्वचरौ सत्रं निषेदुस्ते ह पाप्मानं नापजघ्निरे; तान् हो-वाचार्बुदः काद्रवेयः सर्प ऋषिर्मन्त्रकृदेका वै वो होत्राऽकृता, तां वोऽहं करवाण्यथ पाप्मानमपहनिष्यध्व इति; ते ह तथेत्यूचुस्तेषां ह स्म स मध्यंदिने मध्यंदिन एवोपोदासर्पद् ग्राव्णोऽभिष्टौति ॥ १ ॥
हिन्दी— ( अग्निष्टोम में ग्रावास्तुति का विधान करने के लिए उपाख्यान कह रहे हैं— ) देवाः ह वै ( पहले किसी समय ) देवताओं ने निश्चित रूप से सर्वचरौ सर्वचरु ( नामक स्थान ) में सत्रं निषेदुः ( किसी ) सत्र को अनुष्ठित किया । उससे ते ह वे ( देवता निश्चित रूप से पाप्मानं न अपजघ्निरे ( दरिद्रता रूपी ) पाप को विनष्ट नहीं कर पाये । तान् उन देवताओं से काद्रवेयः सर्पः मन्त्रकृद् ऋषिः अर्बुदः कद्रु नामक स्त्री के पुत्र और सर्परूप शरीर को धारण करने वाले मन्त्रद्रष्टा ऋषि अर्बुद ने उवाच कहा— देवताओं! वः तुम लोगों के होत्रा होता द्वारा एका अकृता एक क्रिया नहीं की गयी है । वः तुम लोगों के लिए ताम् उस क्रिया को अहं करवाणि मैं कर रहा हूँ । अथ इसके ( १ ) द्र ० ' एतस्मिन् काले ग्रावस्तुत प्रपद्यते ' - इत्यादि आश्व ० श्रौ ० ५.१२ ।
( २ ) वर्णितं त्वादितो हौत्रं दीक्षणीयादिकर्मसु ।
अविवाक्यान्तिमेष्वत्र प्रसङ्गादग्निहोत्रकम् ॥
तत्र प्रसङ्गाद् ब्रह्मत्वं सकलं खलु वर्णितम् । कार्य ग्रावस्तुतो वक्तुमितिहासं ब्रवीत्यथ ॥ - इति षड्गुरुशिष्यः ।
पृष्ठ 225
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०८३ बाद ( उसके प्रभाव से ) पाप्मानम् अपहनिष्यध्वे ( अपने दरिद्रतारूप ) पाप को विनष्ट कर देना । ते उन ( देवताओं ) ने तथा इति ऊचुः वैसा ही करो - यह कहा । ( तब से ) तेषाम् उन ( देवताओं ) के मध्यन्दिने मध्यन्दिने एव प्रत्येक माध्यन्दिन ( सवन ) के समय ही सः वे ( ऋषि कर्बुक ) उपोदासर्पत् उत्सुकतापूर्वक आये और गाव्णो अभिष्टौति सोमाभि-सवनीय पत्थर की स्तुति किया ॥ सा ० भा ० — पुरा कदाचिद् देवाः ' सर्वचरु ' नामके देशविशेषे ' ‘ सत्रं ’ किंचिद् अनुष्ठितवन्तः । ‘ ते ’ देवास्तेन सत्रेण स्वकीयं ' पाप्मानं ' दारिद्र्यहेतुं ' नापजघ्निरे ' न नाशित-वन्तः । ‘ तान् ’ पापक्षयरहितान् देवान् ‘ अर्बुदः ' तन्नामकः कश्चिदृषिरागत्योवाच । कीदृ-शोऽर्बुदः? ‘ काद्रवेयः ’ कद्रुनामधारिण्याः स्त्रियाः पुत्रः ' ' सर्पः ’ सर्पजातीयदेहधारी, ‘ ऋषि: ’ अतीन्द्रियार्थद्रष्टा ‘ मन्त्रकृत् करोतिधातुस्त्वत्र दर्शनार्थः । मन्त्रस्य ' प्रैते वदन्तु प्र वयं वदाम ’ — इत्यादिसूक्तस्य ' द्रष्टा । तेनार्बुदेन किमुक्तमिति? तदुच्यते - हे देवाः ' एका वै वो होत्रा ' एकैव होतृवेदोत्पन्ना क्रिया ' व: ' युष्माकम् ' अकृता ' नानुष्ठिता, तद्वैकल्येन पापक्षयो नासीत् । ‘ तां ’ क्रियां ‘ वः ' युष्मदर्थमहं करवाणि, अनन्तरं पाप्मानं यूयमपहनिष्यध्वे । ' इति ' एतदृषिवाक्यं देवा * अङ्गीचक्रुः । ततः ' सः ' अर्बुदः ‘ तेषां ' देवानां सत्रे प्रतिदिनं मध्यंदिनसमय एव ' उप ' समीपम् उत्सुकः सन्नागच्छत् । आगत्य च ये सोमाभिषवार्था: ' ग्रावाणः ’ पाषाणाः ५ सन्ति, तान् पूर्वोक्तेन सूक्तेन ' अभिष्टौति ' अभितः स्तुतिं कृतवान् ॥ इदानीं ग्रावस्तुत ऋत्विजः ' त्वेतत्सूक्तेन ग्राव्णामभिष्टवं विधत्ते— तस्मान्मध्यन्दिने मध्यन्दिने एव ग्राव्णोऽभिष्टुवन्ति तदनुकृति ॥ २ ॥
हिन्दी — तस्मात् इसी कारण मध्यन्दिने मध्यन्दिने एव प्रत्येक मध्यन्दिन ( सवन ) में ही तदनुकृति उन्हीं की अनुकृति स्वरूप प्राष्णो अभिष्टुवन्ति ( सोम सवन के ) पत्थर ( १ ) द्र ० शाङ्खा ० ब्रा ० २ ९.१ । ( २ ) ' अर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशः ' - इति शत ० ब्रा ० १३.४.३.९। ' अर्बुदः काद्रवेयस्तस्य सर्पा विशः...... विषविद्यां निगदेत् ' - इति च आश्व ० श्रौ ० १०.७.५ । ( ३ ) ऋ ० १०.९ ४.१ । ( ४ ) ' ह = तदा । ते = देवाः । तेषां देवानां सोऽर्बुदः प्रत्यहं मध्यंदिने उद् = बिलाद् उद्गम्य, उप = समीपे, असर्पत् = अगच्छत् । ' इति षड्गुरुशिष्यः । ( ५ ) द्र ० निरु ० ९.१.८, ९ ( ६ ) ‘ तस्यत्विजः । चत्वारस्त्रिपुरुषाः । तस्य तस्योत्तरे त्रयः । होता मैत्रावरुणोऽच्छावाको ग्राव-स्तुदध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता ब्रह्मा ब्राह्मणाच्छस्याग्नीध्रः पोतोद्गाता प्रस्तोता प्रति-हर्त्ता सुब्रह्मण्य इति । एतेऽहींनैकाहैर्याजयन्ति । एत एवाहिताग्नथ इष्टप्रथमयज्ञा गृहपति-सप्तदशा: ' - इति आश्व ० श्रौ ० ४.१.३-८ ।
पृष्ठ 226
पाठ पढ़ें पाठ छिपाएँ
[ २६.१ षष्ठपञ्चिकायां १०८४: ऐतरेयब्राह्मणम् की स्तुति करते हैं ॥ सा ० भा ० — यस्मादर्बुदेनाभिष्टुतिः कृता, तस्मात् सोमप्रयोगेषु सत्रेषु तत्तन्मध्यन्दिने काले एव ‘ प्रैते वदन्तु’— इति सूक्तेन ग्राव्णामभिष्टवमृत्विजः कुर्युः । ' तदनुकृति ' –कृति क्रियाविशेषणम् । ‘ तस्य ' अर्बुदस्य ' अनुकृति ' अनुरूपं यथा भवति तथेत्यर्थः ॥ अर्बुदस्य वृत्तान्तं लोकप्रसिद्ध्या द्रढयति— स ह स्म येनोपोदासर्पत्तद्धाप्येतर्ह्यर्बुदोदासर्पणी नाम प्रपदस्ति ॥ ३ ॥
हिन्दी – ( अर्बुद के वृत्तान्त को लोक प्रसिद्धि से दृढ़ कर रहे हैं — ) सः ह उस ( अर्बुद नामक ऋषि ) ने येन जिस ( मार्ग ) से उपोदासर्पत् उत्सुक होकर अभिसर्पण ( आगमन ) किया तद्ध उस ( स्थान ) को एतर्हि इस समय भी अर्बुदोदासर्पणी नाम अर्बुदोदासर्पणी नाम प्रपदस्ति दिया गया है ॥ सा ० भा०– ' सह ' स तु अर्बुदाख्यः सर्पदेहो महर्षि:, येन मार्गेण ' उपोदासर्पत् ’ तत्समीपं प्रति बिलादुद्गम्याऽऽगच्छत् । ' तद्ध ' तस्मिन्नेव देशे ' एतर्हि ' इदानीमपि ' अर्बुदो-दासर्पणी — इत्यनेन नामधेयेन युक्ता ' प्रपत् ' मार्गोऽस्ति । प्रपद्यते गम्यतेऽनयेति ' प्रपत् ’ ॥ अथाभिष्टवकाले ग्रावस्तुत उष्णीषेण नेत्रवेष्टनं विधत्ते— तान् ह राजा मदयाञ्चकार ते होचुराशीविषो वै नो राजानमवेक्षते, हन्तास्योष्णीषेणाक्ष्यावपिनह्यामेति; तथेति; तस्या होष्णीषेणाक्ष्या-वपिनद्युस्तस्मादुष्णीषमेव पर्यस्य ग्राव्णोऽभिष्टुवन्ति तदनुकृति ॥४ ॥
हिन्दी - ( सर्परूप अर्बुद द्वारा उनकी विष की दृष्टि से देखे गये ) राजा ( वल्ली रूप ) राजा ( सोम ) ने ( स्वयं विषाक्त होकर ) तान् उन ( देवताओं ) को मदयाञ्चकार उन्मत्त ( मयुक्त ) कर दिया । ( तब ) ते ह उन ( देवताओं ) ने निश्चित रूप से ऊचुः ( परस्पर ) कहा — आशीविषः वै आशीविष वाले ( सर्परूप अर्बुद ) नः राजानाम् हम लोगों के राजा ( सोम ) को अवेक्षते देख रहे हैं । हन्त यह कष्ट की बात है । अस्य इस ( सर्परूप अर्बुद ) के अक्ष्यौ दोनों नेत्रों को उष्णीषेण अपिनह्याम् उष्णीष ( शिर के ढकने के साधन रूप छोटे वस्त्र ) से हमलोग बाँध देते ( ढक देते ) हैं । तथा इति ( वे परस्पर विचार करके ) वैसा ही ( करने का निश्चय किया ) । ( पुनः ) तस्य उस ( अर्बुद ) के अक्ष्यौ दोनों नेत्रों को उष्णीषेण उष्णीष से अपिनह्युः बाँध दिया । तस्मात् इसी कारण से ( ऋत्विक् लोग ) तदुनुकृति उसी का अनुकरण करते हुए उष्णीषेण उष्णीष से पर्यस्य ( मुख को ) बाँधकर ग्राव्योऽ-भिस्तुवन्ति पाषाण की स्तुति करते हैं | सा ० भा ० — ग्राव्णामभिषवार्थमर्बुदाख्ये सर्परूपे महर्षी समागते सति तदीय-विषदृष्ट्याऽवलोकितः सोमो ‘ राजा ' वल्ल्यात्मकः; स्वयमपि विषयुक्तः सन्, ‘ तान् ’ समीप-
पृष्ठ 227
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १०८५ वर्तिनो देवान् ‘ मदयाञ्चकार उन्मत्तान् परवशान् कृतवान् । तदानीं ' ते ' देवाः परस्परमिद-मूचुः, — ' आशीविषः' सर्परूपोऽयमर्बुदो ' नः ' अस्माकं राजानं विषदृष्ट्या ' अवेक्षते ' ' हन्त ' कष्टमेतत्सम्पन्नम्, अतस्तत्परिहाराय केनचित् ' उष्णीषेण ' शिरोवेष्टनसाधनेनाल्पवस्त्रेणा-स्यार्बुदस्य ‘ अक्ष्यावपिनह्याम ' चक्षुषोर्बन्धनं करवाम इति विचार्य त्रिः प्रदक्षिणं तस्य मुख-मुष्णीषेण वेष्टयित्वा तदीयचक्षुषोर्बन्धनं कृतवन्तः । यस्माद्देवैरेवं कृतम्, ' तस्मात् ' ऋत्वि-जोऽपि ‘ उष्णीषमेव ’ ‘ पर्यस्य ' परितो मुखं वेष्टयित्वा ' ग्राव्ण: ' सोमाभिषवार्थान् पाषाणन-भिष्टुवन्ति । ' तस्य ' अर्बुदस्य ' अनुकृतिः सादृश्यं यथा भवति तथेत्यनेनाभिप्रायेण वेष्टनम् ॥ अथ ग्रावस्तुतः पूर्वोक्तसूक्ताद् अन्या अप्यृचो विधत्ते— तान् ह राजा मदयामेव चकार, ते होचुः, -स्वेन वै नो मन्त्रेण ग्राव्णोऽभिष्टौति, हन्तास्यान्याभिर्ऋग्भिमन्त्रमापृणचामेति; तथेति; तस्य हन्याभिर्ऋग्भिर्मन्त्रमापपृचुस्ततो हैनान्न मदयांचकार; तद्यद-स्यान्याभिर्ऋग्भिर्मन्त्रमापञ्चन्ति शान्त्या एव ॥५ ॥
हिन्दी - तान् ह उन ( देवताओं ) को पुनः राजा राजा ( सोम ) ने मदयामेव चकार मस्त ही कर दिया । ते ह ऊचुः तब उन ( देवताओं ) ने परस्पर कहा – ( ये अर्बुद ) स्वेन मन्त्रेण वै अपने ही मन्त्र से नः ग्राव्णः अभिष्टौति हमारे ( सोमसवन करने वाले ) पत्थर की स्तुति करते हैं हन्त यह खेद की बात है । अतः अस्य इस ( पाषाण ) की अन्याभिः ऋग्भिः अन्य ऋचाओं के साथ अस्य मन्त्रम् इस ( अर्बुद ) के मन्त्र को अपृणचाम् हम मिला दें । तथेति ( तब देवों ने ) वैसा ही करने का निश्चय किया । तस्य मन्त्रम् उस ( अर्बुद ) के मन्त्र को ( देवताओं ने ) अन्याभिः ऋग्भिः अन्य ऋचाओं से अपृचुः मिला दिया । ततः तत्पश्चात् ( सोम ने ) एनान् इन ( देवताओं ) को न मदयाञ्चकार मदमस्त नहीं किया । तद् यत् तो जो अन्याभिः ऋग्भिः अन्य ऋचाओं से अस्य मन्त्रम् इस ( अर्बुद ) के मन्त्र को आपृञ्चन्ति मिला देते हैं, वह शान्त्यै एव शान्ति के लिए ही है । ( १ ) ' अशीविषेण तान् देवान् मत्तान् भ्रान्तानथा करोत् । बुद्ध्यभावो णिचि मदेः छान्दसो लिट्परोऽनुकृञ् ॥ - इति षड्गुरुशिष्यः । ( २ ) ' आशीर्दष्ट्रा तत्र विषं यस्यास्तयाशीविषः स तु । ' – इति षड्गुरुशिष्यः । अत्युग्रो दृष्टिविषयवद्राहोः सोमो बिभेतिहि । अतोऽस्य पट्टेन मुखं छादयाम द्रुतं त्विह । अक्ष्यौ = अक्षिणी । ' ई च द्विवचने ' ( पा ० सू ० ७.१.७७ ) ( ३ ) ( क ) अथस्मा अध्वर्युरुष्णीषं प्रयच्छति । तदञ्जलिना प्रतिगृह्य, त्रिः प्रदक्षिणं शिरः समुखं वेष्टयित्वा, यदा सोमांशूनभिषवाय व्यापोहन्त्यथ ग्राव्णोऽभिष्टुयात् ' इति आश्व ० श्रौ ० ५.१२.६,७ । ( ख ) ‘ अपिनेहुरिति प्राप्तेऽपिनद्युश्छान्दसस्त्विह ' – इति षड्गुरुशिष्यः ।
पृष्ठ 228
पाठ पढ़ें पाठ छिपाएँ
[ २६.१ षष्ठपञ्चिकायां १०८६: ऐतरेयब्राह्मणम् सा ० भा ० — पुनरपि सोमो ' राजा ' ' तान् ' देवान् पूर्ववत् ' मदयांचकारैव '; ततस्ते देवाः परस्परमूचुः, –दृष्टिविषपरिहारेऽप्ययं सर्पदेह ऋषिः स्वकीयेनैव सूक्तरूपेण मन्त्रेण ग्राव्णोऽभिष्टौति । अतो मन्त्रसम्बद्धेन विषेणास्माकमुन्मादो जायते ' हन्त ' कष्टमेतत् । अतो मन्त्रगतविषपरिहाराय ‘ अस्य ' अर्बुदस्य ' मन्त्रं ' सूक्तम् ' अन्याभिः ' ' आप्यायस्व समेतु ते ' इत्यादिभिर्ऋग्भिः १ ‘ आपृणचाम ' ' पृची सम्पर्के ' – इति धातुः सर्वतः संपृक्तं करवाम । तदेतत् सर्वे देवा, अङ्गीकृत्य तथैव चक्रुः । ' ततः ' ऋगन्तरसंपर्कात् तत्सूक्तगतोग्रत्वे सति ‘ एतान् ’ देवान् सोमो राजा ‘ न मदयांचकार ' उन्मादं नाकरोत् । तस्माद् कारणाद् अर्बुदस्य ‘ मन्त्रं ’ सूक्तम् ‘ अन्याभिः ’ आप्यायस्व ' – इत्यादिभिः ' अभिष्टवकाले संपृक्तं कुर्युः । तच्च शान्त्यर्थमेव भवति ॥ देवानामभिष्टवकृतां पापशान्तिं दर्शयति— ते ह पाप्मानमपजघ्निरे, तेषामन्वपहतिं सर्पाः पाप्मानमपजघ्निरे, त एतेऽपहतपाप्मानो हित्वा पूर्वां जीर्णां त्वचं नवयैव प्रयन्ति ॥ ६ ॥
हिन्दी — ते ह उन ( देवताओं ) ने निश्चित रूप से पाप्मानम् उपजघ्निरे ( अर्बुद द्वारा अनुष्ठित अभिषव द्वारा दरिद्रता रूप ) पाप को विनष्ट कर दिया । तेषाम् अपहतिं अनु उन देवताओं के ( पाप को ) विनष्ट होने के बाद सर्पाः ( अर्बुद के सम्बन्धी ) सर्पों ने पाप्मानम् अपजघ्निरे ( अपने ) पाप को विनष्ट कर दिया । ते एते अपहतपाप्मानः वे ये विनष्ट पाप वाले सर्प पूर्वां जीर्णां त्वचः हित्वा पूर्ववर्ती पुरानी त्वचा ( केचुल ) को छोड़कर नवया एव प्रयन्ति नयी ( त्वचा ) के साथ ही चारो ओर सर्पण करते हैं ॥ सा ० भा ० – ' ते ' देवाः, अर्बुदानुष्ठितेनाभिष्टवेन दारिद्र्यादिहेतुं ‘ पाप्मानं ’ नाशित-वन्तः । तेषां देवानाम् ‘ अपहतिं ' पापविनाशम् ‘ अनु ’ पश्चाद् अर्बुदसम्बन्धिनः सर्पाः सर्वेऽपि स्वकीयं पाप्मानं नाशितवन्तः । ' ते ' सर्पाः स्वशरीरगतां पूर्वसिद्धां ‘ जीर्णां त्वचं हित्वा ’ ‘ नवयैव ' नूतनयैव त्वचा युक्ताः ' प्रयंन्ति ' सर्वतः प्रसर्पन्ति । ‘ एते ' नूतनत्वग्युक्ताः सर्पा अपहत पाप्मान इत्युच्यन्ते । वेदनं प्रशंसति— अप पाप्मानं हते य एवं वेद ॥ १ ॥
हिन्दी — ( इसके वेदन की प्रशंसा कर रहे हैं — ) यः एवं वेद जो इस प्रकार जानता है, वह पाप्मानम् अप हते ( अपने ) पाप को विनष्ट कर देता है ॥ ( १ ) ' आप्यायस्व समेतु त इति तिस्रः ' - इति आश्व ० श्रौ ० ५.१२.१५ । ( २ ) रुधादिगणीय २५ । ( ३ ) ऋ ० १.९१.१६-१८ ।
पृष्ठ 229
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्ः १०८७ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां पञ्चमाध्याये ( षड्विंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( १८८ )
॥ इस प्रकार ऐतरेयब्राह्मण के छब्बीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — अथ प्रश्नोत्तराभ्यामभिष्टवगतानामृचां संख्यां विधत्ते— ( पाषाणस्तुतिमन्त्रसंख्याविधानम् ) तदाहुः कियतीभिरभिष्टुयादिति, शतेनेत्याहुः; शतायुर्वै पुरुषः शत-वीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति ॥ १ ॥
हिन्दी— ( प्रश्नोत्तर द्वारा पाषाणस्तुति के ऋचाओं की संख्या का विधान कर रहे हैं— ) ( प्रश्न- ) तदाहुः इस ( विषय ) में प्रश्न करते हैं कि कियतीभिः कितनी ( ऋचाओं ) से अभिष्टुयात् ( पाषाण की ) स्तुति करनी चाहिए? ( उत्तर ) शतेन एक सौ ( ऋचाओं ) से ( ग्रावस्तुति करनी चाहिए ) इत्याहुः ऐसा ( कुछ याज्ञिक ) कहते हैं; क्योंकि शतायुर्वै पुरुषः पुरुष सौ ( वर्ष ) की आयु वाला, शतवीर्यः सौ वीर्य ( पराक्रम ) वाला और शतेन्द्रियः सौ इन्द्रियों वाला होता है । ( इसलिए सौ ऋचा की स्तुति से ) एनम् इस ( यजमान ) को तद् आयुषि उस आयु में वीर्ये वीर्य में और इन्द्रिये इन्द्रिय में दधाति प्रतिष्ठित करता है ॥ सा ० भा ० — शतसंख्याकासु नाडीषु संचारादिन्द्रियाणां तदीयवीर्यस्य च शतसंख्या-वत्वम् । तत्संख्याकानामृचां पाठेन ' एनं ' यजमानं दीर्घायुष्यादिगुणयुक्तं करोति ॥ पक्षान्तरं विधत्ते— त्रयस्त्रिंशत्या वेत्याहुस्त्रयस्त्रिंशतो वै स देवानां पाप्मनोऽपाहंस्त्रय-स्त्रिंशद्वै तस्य देवा इति ॥ २ ॥
हिन्दी – त्रयत्रिंशत्या वै तैतीस ऋचाओं से ही ( पाषाण स्तुति करनी चाहिए ) इत्याहुः ऐसा ( कुछ याज्ञिक ) कहते हैं । त्रयोत्रिंशतः तैंतीस ( ऋचाओं ) से सः उस ( अर्बुद ) ने देवानां पाप्मानम् देवताओं के पाप को अपाहन् विनष्ट किया, इसलिए त्रयत्रिंशत् वै तैंतीस ही तस्य देवाः उस ( अर्बुद ) के देवता हैं ॥ सा ० भा ० — अथवा ‘ त्रयस्त्रिंशत्या ' ऋचां त्रयस्त्रिंशत्संख्यया अभिष्टव इत्याहुः । तत्र
पृष्ठ 230
पाठ पढ़ें पाठ छिपाएँ
[ २६.२ षष्ठपञ्चिकायां १०८८: ऐतरेयब्राह्मणम् हेतुरुच्यते— देवानां सम्बन्धिनी या त्रिंशदस्ति, अस्याः सकाशात् ‘ सः ’ अर्बुदः ‘ पाप्मनः ’ अपाहन् विनाशितवान् । ' तस्यार्बुदस्य ' समीपस्था देवाः, ‘ त्रयस्त्रिंशद्वै ' अष्टौ वसवः, पापानि रुद्रा, द्वादशाऽऽदित्याः, प्रजापतिश्च, वषट्कारश्चेत्येवं देवसंख्या द्रष्टव्या ' ॥ एकादश पक्षान्तरं विधत्ते— अपरिमिताभिरभिष्टुयादपरिमितो वै प्रजापतिः; प्रजापतेर्वा एषा होत्रा यद् ग्रावस्तोत्रीया, तस्यां सर्वे कामा अवरुध्यन्ते; स यदपरिमिता-भिरभिष्टौति, सर्वेषां कामानामवरुद्ध्यै ॥ ३ ॥
हिन्दी — अपरिमिताभिः अभिष्टुयात् अपरिमित ( ऋचाओं ) से ( पाषाण की ) स्तुति करनी चाहिए; क्योंकि अपरिमितः वै प्रजापतिः प्रजापति अपरिमित ( महिमा ) वाले और प्रजापतेः वै प्रजापति से सम्बन्धित यद् ग्रावस्तोत्रियाः जो ग्रावस्तोत्र के होत्रा होता ( के वेद ) से उत्पन्न एषा यह ( क्रिया ) है ( वह अपरिमित है ) । अतः तस्याम् उस ( क्रिया ) में सर्वे कामाः अवरुन्ध्यन्ते सभी कामनाएँ अन्तर्हित हो जाती हैं । सः यद् अपरिमिताभिः वह जो अपरिमित ( ऋचाओं ) से अभिष्टौति स्तुति करता है, वह सर्वेषां कामानाम् अवरुन्ध्यै सभी कामनाओं की प्राप्ति के लिए होता है । सा ० भा०- - एतावत्येवेति संख्यानिर्बन्धरहिता ' अपरिमिताः ' । प्रजापतेरपरिमित-महिमत्वात् ग्रावस्तोत्रसम्बन्धिन्या होतृवेदोत्पन्नायाः क्रियायाः प्रजापतिसम्बद्धत्वाद् अपरिमितत्वं युक्तम् । तस्यां च क्रियायां सर्वे कामा: स्वाधीना भवन्ति । अतोऽपरिमिताभिरभिष्टवः सर्व-कामप्राप्त्यै संपद्यते ॥ वेदनं प्रशंसति— सर्वान् कामानवरुन्धे य एवं वेद ॥४ ॥
हिन्दी— ( इसके वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वान् कामान् अवरुन्धे सभी कामनाओं को प्राप्त करता है ॥ तृतीयस्य पक्षस्य मुख्यत्वं दर्शयति—— तस्मादपरिमिताभिरेवाभिष्टुयात् ॥ ५ ॥
हिन्दी — तस्मात् इसी कारण अपरिमिताभिः एव अभिष्टुयात् अपरिमित ( ऋचाओं ) से ( ग्रावा की ) स्तुति करना चाहिए ॥ प्रश्नोत्तराभ्यामभिष्टवे प्रकारविशेषं विधत्ते-( १ ) ‘ तिस्र एव देवता इति नैरुक्ता अग्निः पृथिवीस्थानो वायुर्वेन्द्रो वान्तरिक्षस्थानः सूर्यो द्युस्थानस्तासां महाभाग्याद् एकैकस्या अपि बहूनि नामधेयानि ' – इति निरु ० ७.२.१ ।