ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 231–240
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 231–240
पृष्ठ 231
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १०८ ९ ( पाषाणस्तुतिविधि:) तदाहुः कथमभिष्टुयादित्यक्षरशा ३ः, चतुरक्षरशा ३ः, पच्छा ३ः, अर्धर्चशा ३:, ऋक्शा ३:, इति तद्यदृक्शो न तदवकल्पेतऽथ यत्पच्छो नो एव तदवकल्पतेऽथ यदक्षरशश्चतुरक्षरशो वि तथा छन्दांसि लुप्येरन्, बहूनि तथाऽक्षराणि हीयेरन्नर्धर्चश एवांभिष्टुयात् प्रतिष्ठाया एव ॥ ६ ॥
हिन्दी — तदाहुः इस ( विषय ) में कुछ याज्ञिकों ने प्रश्न किया है - कथम् अभिष्टुयात् किस प्रकार पाषाण की स्तुति करनी चाहिए— अक्षरशः ( ऋचाओं के ) एक - एक अक्षर पर अवसान से, चतुरक्षरशः चार - चार अक्षरों के अवसान से, पच्छः प्रत्येक पाद के अवसान से, अर्धर्चशः आधी ऋचा के अवसान से, ऋक्शः अथवा ऋचा के अवसान से ( उच्चारण करके ग्रावस्तुति करनी चाहिए )? तद् यत् ऋक्शः जो यह ऋचा के अवसान से ग्रावस्तुति करे तद् न अवकल्पते वह सम्भव नहीं है ( क्योंकि ऋचाओं का पाठ अर्धर्च के अवसान के साथ होता है ), यत् पच्छः जो पाद के अवसान के साथ ( ग्रावस्तुति करे ) तद् एव नो अवकल्पते तो वह भी सम्भव नहीं है ( क्योंकि यह अध्ययन के विपरीत है ) । अथ और यद् अक्षरशः चतुरक्षरशः जो प्रत्येक अक्षर अथवा चार-चार अक्षरों के अवसान के साथ ( ग्रावस्तुति करे ) तथा तो वैसा करने पर छन्दांसि विलुप्येरन् छन्द विशेष रूप से लुप्त हो जाता है । तथा बहूनि अक्षराणि हीयेरन् उस प्रकार ( अक्षरशः तथा चतुरक्षरशः अवसान के साथ स्तुति करने से ) बहुत से अक्षर में ( संहिताकालीन द्वित्वादि के अभाव से ) न्यूनता हो जाती है । अतः प्रतिष्ठायै एव ( यजमान की ) प्रतिष्ठा के लिए अर्धर्चशः एव अभिष्टुयात् आधी ऋचा पर ही ( अवसान करके पाषाण की स्तुति करनी चाहिए ) ॥ सा ० भा ० — ‘ तत् ’ तत्राभिष्टवे ब्रह्मवादिनः प्रश्नमाहुः – केन प्रकारेणाभिष्टुयादिति? कियन्तः प्रकाराः संभाव्यन्त इति चाकाङ्क्षायां ते प्रकारा उपन्यस्यन्ते, — अक्षरशोऽभिष्टुयादि-त्येकः प्रकारः; प्रत्यक्षरमवसायावसायाभिष्टुयादित्यर्थः । अक्षरचतुष्टयेऽवसानं द्वितीयः प्रकारः । पादेऽवसानं तृतीयः प्रकारः । अर्धर्चेऽवसानं चतुर्थः । ऋचि समाप्तायावसानं पञ्चमः । प्लुतयः सर्वा विचारार्थाः । किं प्रत्यक्षरमवसानम्, उताक्षरचतुष्टयेऽवसानम्, उत पादेऽवसानम्, आहोस्विदर्धर्चेऽवसानम्, अथवा कृत्स्नायामृच्यवसानमिति संशयः? तत्र पक्षान्तराणि दूषयित्वाऽर्धर्चपक्ष एव स्वीकार्यः । कथमिति? तदुच्यते— यदि ' ऋक्श ' इति पक्षः स्यात्? तत् ‘ नावकल्पते ’ न संभवति । अध्ययनवैपरीत्प्रसङ्गात्, –अध्ययनकालेऽर्धर्चेऽवसानं कुर्वन्ति, न तु कृत्स्नामृचं मध्येऽवसानरहितां पठन्ति । पादावसानपक्षेऽपि स एव दोषः । एकै-काक्षरचतुरक्षरपक्षयोर्दोषान्तरमप्यस्ति,, - - तथा सत्यक्षरावसानपक्षे बहून्यक्षराणि ‘ हीयेरन् ’ ऐ.ब्रा.उ: १५
पृष्ठ 232
पाठ पढ़ें पाठ छिपाएँ
१० ९ ०: ऐतरेयब्राह्मणम् [ २६.२ षष्ठपञ्चिकायां विनश्येयुः । संहिताकालीनस्य द्वित्वादेरभावात् । ततश्छन्दोभङ्गः । अर्धर्चपक्षे तु यथा-ध्ययनमेवाभिष्टवान्न कोऽपि दोषः । तस्मादयमेव पक्षः सिद्धान्तः । अर्धर्चयोः द्वित्वात् पक्षद्वयसादृश्येन प्रतिष्ठार्थमेतत् सम्पद्यते ॥ इममर्धर्चपक्षं प्रशंसति ---द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्विप्रतिष्ठं चतु--ष्पात्सु पशुषु प्रतिष्ठापयति; तस्मादर्धर्चश एवाभिष्टुयात् ॥ ७ ॥
हिन्दी - ( अर्धर्च द्वारा अवसान करके ऋचा से ग्रावस्तुति करने की प्रशंसा कर रहे हैं— ) द्विप्रतिष्ठः वै पुरुषः पुरुष दो पादों वाला होता है, चतुष्टपादाः पशवः और पशु चार पाद वाले होते हैं । ( इस प्रकार अर्धर्च पर अवसान करके ) द्विप्रतिष्ठं यजमानमेव दो पैरों वाले यजमान को चतुष्पात्सु पशुषु प्रतिष्ठापयति चार पैर वाले पशुओं में प्रतिष्ठापित करता है । तस्मात् इसी कारण अर्धर्चशः एव अभिष्टुयात् आधी ऋचा पर अवसान करके ही ( पाषाण ) की स्तुति करनी चाहिए ॥ सा ० भा ० — अर्धर्चयोर्द्वित्वाद् यजमानसाम्यम्, ऋचां पादचतुष्टयोपेतत्वात् पशुसाम्यम् ॥ अथ मध्यंदिनकालीनमभिष्टवं प्रश्नोत्तराभ्यां प्रशंसति— तदाहुर्यन्मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टौति, कथमस्येतरयोः ` सवनयोरभिष्टुतं भवतीति; यदेव गायत्रीभिरभिष्टौति, गायत्रं वै प्रातःसवनं तेन प्रातःसवने, ऽथ यज्जगतीभिरभिष्टौति जागतं वै तृतीयसवनं तेन तृतीयसवने ॥८ ॥
हिन्दी— ( मध्यन्दिनकालीन ग्रावस्तुति की प्रश्नोत्तर द्वारा प्रशंसा कर रहे हैं— ) ( प्रश्न - ) तदाहुः उस विषय में ( कुछ याज्ञिक ) पूछते हैं — मध्यन्दिने मध्यान्दिने एव प्रत्येक दिन मध्यन्दिन ( सवन ) में ही गाव्णः अभिष्टौति पाषाण की स्तुति करता है तो वह इतरयोः सवनयोः अन्य ( प्रात: कालीन और सायंकालीन ) दोनों ( सवनों ) में कथम् अभिष्टुतं भवति किस प्रकार से ग्रावस्तुति होती है? ( उत्तर- ) यद् एव गायत्रीभिः अभिष्टौति जो गायत्री द्वारा ( पाषाण की ) स्तुति करता है तो गायत्रं वै प्रातः सवनम् प्रातःसवन गायत्री से सम्बन्धित होता है अतः तेन उस ( गायत्री ) के द्वारा प्रातःसवने प्रात: कालीन सवन में ( स्तुत होता है ) । अथ यद् जगतीभिः अभिष्टौति और जो जगती द्वारा ( पाषाण की ) स्तुति करता है तो जगतं वै तृतीयसवनम् तृतीयसवन् जगती से सम्बन्धित है अतः तेन उस ( जगती ) के द्वारा तृतीयसवन में ( पाषाण ) स्तुत हो जाता है । सा०.भा ० – ‘ तत् ’ तत्राभिष्टवे चोद्यमाहुः । यस्मात्कारणादयं ग्रावस्तुत् तत्प्रयोगसंब-
पृष्ठ 233
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १० ९ १ न्धिनि ' माध्यंदिने ' एव सवने ग्राव्णामभिष्टवं करोति । एवं सति केन प्रकारेण ' अस्य ' ग्राव-स्तुतः प्रातःसवनतृतीयसवनयोरभिष्टवः सिद्ध्यतीति प्रश्नः? ऋक्षु यद्गायत्रीजगतीछन्दोद्वयं तद्द्वाराऽन्ययोरपि सवनयोरभिष्टवसिद्धिरित्युत्तरम् ॥ वेदनं प्रशंसति-एवमु हास्य मध्यंदिने मध्यंदिने एव ग्राव्णोऽभिष्टुवतः सर्वेषु सवनेष्वभिष्टुतं भवति य एवं वेद ॥ ९ ॥
हिन्दी — ( इस तथ्य को जानने की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह एवम् इस प्रकार से मध्यन्दिने मध्यन्दिने एव प्रतिदिन माध्यन्दिन ( सवन ) में ही गाव्णः अभिष्टुवतः पाषाण की स्तुति करने वाले की सर्वेषु सवनेषु सभी सवनों में अभिष्टुतम् ( पाषाण ) अभिस्तुत हो जाता है ॥ सा ० भा०- - ' एवमु ह ' अनेनैव गायत्रीजगतीछन्दोद्वारेण ॥ अथ ग्रावस्तुतः संप्रैषनिरपेक्षत्वं प्रश्नोत्तराभ्यां दर्शयति-तदाहुर्यदध्वर्युरेवान्यानृत्विजः संप्रेष्यत्यथ कस्मादेष एतामसंप्रेषितः प्रतिपद्यत इति; मनो वै ग्रावस्तोत्रीयाऽसंप्रेषितं वा इदं मनस्तस्मादेष एतामसंप्रेषितः प्रतिपद्यते ॥ १० ॥
हिन्दी – ( अब ग्रावास्तुत की सम्प्रेष - निरपेक्षता को प्रश्नोत्तर के द्वारा दिखला रहे हैं— ) ( प्रश्न- ) तदाहुः उस विषय में कुछ लोग प्रश्न करते हैं — अध्वर्युः एव अध्वर्यु ही अन्यान् ऋत्विजः सम्प्रेष्यति अन्य ऋत्विजों को सम्प्रेषित करता ( आदेश देता है ) अथ कस्मात् तो किस कारण से एताम् असम्प्रेषितः इसको सम्प्रेषित न होकर भी प्रतिपद्यते प्रतिपादन करता है? ( उत्तर- ) मनो वै ग्रावस्तोत्रीय ग्रावस्तोत्रीय ऋचाएँ मन रूप हैं इदं मनः असम्प्रेषितः वै और यह मन निश्चित रूप से सम्प्रेषित नहीं होता । तस्मात् इसी कारण एषः यह ( स्तोता ) असम्प्रेषितः विना प्रैष के ही प्रतिपादन करता है 11 सा ० भा०- -'तत् ' तत्र ग्रावस्तुद्विषये प्रश्नमाहुः । यस्मात्कारणादध्वर्युः सर्वानन्यानृ-त्विजः संप्रेष्यत्येव, न तूदास्ते, तथा सत्यृत्विगन्तरवद् ग्रावस्तुदध्वर्युणा संप्रेषणीयः? तच्च नास्ति । कस्मात् कारणात् असंप्रेषित ' एषः ' ग्रावस्तुत् ' एताम् ' ऋचं प्रारभत इति प्रष्टृणामभिप्रायः । तत्रेदमुत्तरम् - येयमृग्ग्रावस्तोत्रसंबन्धिनी विद्यते, सेयं मनःस्वरूपा । मनश्चेदमिन्द्रियान्तरेण केनचिदपि असंप्रेषितमेव प्रवर्तते । तस्मात् ' एषः ' ग्रावस्तुत् संप्रैष-निरपेक्ष एव ‘ एतां ’ स्तोत्रीयामृचं प्रतिपद्यते ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-
पृष्ठ 234
पाठ पढ़ें पाठ छिपाएँ
१० ९ २: ऐतरेयब्राह्मणम् [ २६.३ षष्ठपञ्चिकायां भाष्ये षष्ठपञ्चिकायां प्रथमाध्याये ( षड्विंशाध्याये ) द्वितीयः खण्डः || २ || ( १८ ९ ) ॥ इस प्रकार ऐतरेयब्राह्मण के छब्बीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा ० भा०— ग्रावस्तुत ऋत्विजः कर्तव्यमभिधाय सुब्रह्मण्याख्यस्य ऋत्विजः कर्तव्यं निरूपयति-( सुब्रह्मण्याख्यर्त्विजः कर्त्तव्यविधानम् ) वाग्वै सुब्रह्मण्या, तस्यै सोमो राजा वत्सः; सोमे राजनि क्रीते सुब्रह्मण्यामाह्वयन्ति, यथा धेनुमुपह्वयेत् तेन वत्सेन; यजमानाय सर्वान् कामान् दुहे ॥ १ ॥
हिन्दी – ( अब सुब्रह्मण्य नामक ऋत्विक् के कर्त्तव्य का निरूपण कर रहे हैं - ) वाग् वै सुब्रह्मण्या वाणी ही सुब्रह्मण्या है; क्योंकि वाणी धेनुरूप है । तस्यै सोमो राजा वत्सः उस ( वाणीरूप धेनु ) का राजा सोम बछड़ा स्थानीय है । सोमे राजनि क्री इसलिए सोम राजा के क्रय होने पर ( ऋत्विक् उसी प्रकार ) सुब्रह्मण्याम् आह्वयन्ति सुब्रह्मण्या ( रूप धेनु ) का आह्वान करते हैं । यथा तेन वत्सेन धेनुम् उपह्वयेत् जिस प्रकार बछड़े के द्वारा ( दुहने के लिए ) गाय बुलायी जाती है । यजमानाय सर्वान् कामान् दुहे ( इस आह्वान के द्वारा ) यजमान के लिए सभी कामनाओं को सम्पादित किया जाता है ॥ ( १ ) ‘ सुब्रह्मण्या’– नाम निगदोऽयं यजुर्विशेष एव; मीमांसादर्शने तथैव सिद्धान्तित्वात् ( जै ० सू ० २.१.३८-४५ ) । शतपथब्राह्मणे ( ३.३.४.१७ ) पठितः; सामान्यतो व्याख्यातश्च ( २.३४.२८ ) । सामवेदीयषड्विंशब्राह्मणे त्वयं समग्रः पठितोऽक्षरशो व्याख्यातः, सामेति च निद्दिष्टः ( १.१.२ ); तथा सामकल्पेषु लाट्यायनकेऽप्ययं प्रपठ्य विहितः ( १.३ ), सुब्रह्मण्य - नाम - सामवेदीयर्त्विजा गीयतेऽपि; तस्माद् याज्ञिकैः सामेति च व्यपदिश्यते । तस्य पाठस्त्वेवम् — ‘ सुब्रह्मण्यो ३ म् । सुब्रह्मण्यो ३ म् । सुब्रह्मण्यो ३ म् । इन्द्रागच्छ हरिव आ गच्छ मेधातिथेर्मेष वृषणश्वस्य मेने । गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण । अहे सुत्यामगच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छतागच्छत'- इति । तैत्तिरीयारण्यकेऽप्ययं ‘ ब्रुवाणः ’ – इत्यन्तोधीयते ( १.१२.३,४ ) अस्य च व्याख्यानान्तरं मीमांसाभाष्यवर्त्तिकयोः द्रष्टव्यम् ( जै ० सू ० ) ९.१.१५.४२-४४ ) ।
पृष्ठ 235
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १० ९ ३ सा ० भा०– ' सुब्रह्मण्या ' शब्देन ' इन्द्रागच्छ हरिव आगच्छ ' - इत्यादिर्निगद र उच्यते । सा च सुब्रह्मण्या वागेव, शब्दरूपैव सती धेनुसदृशी । तस्याः सुब्रह्मण्यायाः धेनोः सोमो राजा वत्सस्थानीयः । तस्मात् सोमक्रयादूर्ध्वम् ऋत्विजः तत्तत्प्रयोगेषु सुब्रह्मण्यामाह्वयेयुः, उक्तं निगदं पठेयुरित्यर्थः । यथा लोके दोहनार्थं कांचिद्धेनुं तदीयवत्सप्रदर्शनेन समीपं प्रत्याह्वयते, तद्वदेतद् द्रष्टव्यम् । एतेनाह्वानेन यजमानार्थं सर्वान् कामान् ' दुहे ' संपादयति ॥ वेदनं प्रशंसति-सर्वान् हास्मै कामान् वाग्दुहे य एवं वेद ॥ २ ॥
हिन्दी – ( इस तथ्य के वेदन की प्रशंसा कर रहे - ) यः एवं वेद जो इस प्रकार जानता है अस्मै इसके लिए वाग् वाणी सर्वान् कामान् दुहे सभी कामनाओं को सम्पादित · ( पूर्ण ) करती है ॥ प्रश्नोत्तराभ्यां सुब्रह्मण्यां प्रशंसति-तदाहुः किं सुब्रह्मण्यायै सुब्रह्मण्यात्वमिति; वागेवेति ब्रूयाद्, - वाग्वै ब्रह्म च सुब्रह्म चेति ॥ ३ ॥
हिन्दी — ( प्रश्नोत्तर के द्वारा सुब्रह्मण्या की प्रशंसा कर रहे हैं - ) ( प्रश्न - ) तदाहु इस विषय में कुछ लोग पूछते हैं - सुब्रह्मण्यायै सुब्रह्मण्यात्वं किम् सुब्रह्मण्या का सुब्रह्मण्यात्व क्या है? ( उत्तर- ) वागिति ब्रूयात् वाग् ही ( सुब्रह्मणात्व ) है — ऐसा कहना चाहिए; क्योंकि वाग्वै ब्रह्म वाणी ही ब्रह्म है और ( ब्रह्म ही ) सुब्रह्म सुब्रह्म है ॥ सा ० भा०- –'तत् ' तत्र सुब्रह्मण्याख्ये निगदरूपे ' मन्त्रे नामनिमित्तं पृच्छन्ति । वागेवेति तदुत्तरम् । ‘ वाग्वै ’ इत्यादि तदुपपादनम् | ' ब्रह्म ' वेदो ' वाग्वै ' वागात्मक एव । तस्मिन्नपि वेदे सुष्ठु ब्रह्म सारभूतं वेदवाक्यं, तद्रूपेयं वाग्देवता । तस्मात्सारभूतस्य.निगदस्य सुब्रह्मण्येति ` ` नामधेयम् । पुंलिङ्गशब्दाभिधेयस्य निगदस्य सुब्रह्मण्येति स्त्रीलिङ्गशब्देनाभिधानं वाग्रूपत्व-( १ ) ' सुब्रह्मण्या ' – नाम निगदोऽयं यजुर्विशेष एव; मीमांसादर्शने तथैव सिद्धान्तित्वात् ( जै ० सू ० २.१.३८-४५ ) । शतपथब्राह्मणे ( ३.३.४.१७ ) पठितः; सामान्यतो व्याख्यातश्च ( २.३४.२८ ) । सामवेदीयषड्विंशब्राह्मणे त्वयं समग्रः पठितोऽक्षरशो व्याख्यातः,, सामेति च निद्दिष्टः ( १.१.२ ); तथा सामकल्पेषु लाट्यायनकेऽप्ययं प्रपठ्य विहितः ( १: ३ ), सुब्रह्मण्य - नाम - सामवेदीयर्त्विजा गीयतेऽपि; तस्माद् याज्ञिकैः सामेति च व्यपदिश्यते । तस्य पाठस्त्वेवम् — ‘ सुब्रह्मण्यो ३ म् । सुब्रह्मण्यो ३ म् | सुब्रह्मण्यो ३ म् । इन्द्रागच्छ हरिव आ गच्छ मेधातिथेर्मेष वृषणश्वस्य मेने । गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण । अहे सुत्यामगच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छतागच्छत ’ — इति । तैत्तिरीयारण्यकेऽप्ययं ‘ ब्रुवाणः ' - इत्यन्तोधीयते ( १.१२.३,४ ) अस्य च व्याख्यानान्तरं मीमांसाभाष्यवर्त्तिकयोः द्रष्टव्यम् ( जै ० सू ० ) ९.१.१५.४२-४४ ) ।
पृष्ठ 236
पाठ पढ़ें पाठ छिपाएँ
१० ९ ४: ऐतरेयब्राह्मणम् [ २६.३ षष्ठपञ्चिकायां विवक्षयेति ॥ एतमर्थं प्रश्नोत्तराभ्यां दर्शयति— तदाहुरथ कस्मादेनं पुमांसं सन्तं स्त्रीमिवाऽऽचक्षत इति? वाग्घि सुब्रह्मण्येति ब्रूयात् तेनेति ॥४ ॥
हिन्दी – ( इस अर्थ को प्रश्नोत्तर द्वारा दिखला रहे हैं— ) ( प्रश्न - ) तदाहुः इस विषय में पूछते हैं - कस्मात् किस कारण से पुमांसं सन्तम् एनम् पुल्लिङ्ग होते हुए इस ( सु-ब्रह्मण्य ) को स्त्रीम् इव आचक्षते स्त्री के समान ( सुब्रह्मण्या ) कह जाता है? ( उत्तर- ) वाग् हि सुब्रह्मण्या वाणी ही सुब्रह्मण्या है अतः तेन इसी ( वाग् के स्त्रीलिङ्ग होने ) के कारण इति ब्रूयात् यह ( स्त्रीलिङ्ग ) कहना चाहिए ॥ पुनरपि प्रश्नोत्तराभ्यां सुब्रह्मण्याह्वानस्य देशविशेषं निरूपयति— ( सुब्रह्मण्यायाः स्थानविशेषनिरूपणम् ) तदाहुर्यदन्तर्वेदीतर ऋत्विज आर्त्विज्यं कुर्वन्ति, बहिर्वेदि सुब्रह्मण्या; कथमस्यान्तर्वेद्यात्र्त्विज्यं कृतं भवतीति? वेदेर्वा उत्करमुत्किरन्ति, यदेवोत्करे तिष्ठन्नाह्वयतीति ब्रूयात्, तेनेति ॥ ५ ॥
हिन्दी - ( पुनः प्रश्नोत्तर के द्वारा सुब्रह्मण्या कहने का स्थानविशेष कह रहे हैं - ) ( प्रश्न- ) तदाहुः इस विषय में कुछ लोग पूछते हैं - इतरः ऋत्विजः अन्य ऋत्विक् अन्तर्वेदिः वेदि के मध्य में आर्तिज्यं करोति ( अपना ) ऋत्विक् कर्म करते हैं और सुब्र-ह्मण्याः बहिर्वेदिः सुब्रह्मण्या को वेदि के बाहरी भाग में आह्वान किया जाता है । अस्य इस ( सुब्रह्मण्या ) का अन्तर्वेदिः वेदि के मध्य में आर्त्विज्यं कथं कृतं भवति ऋत्विक्-कर्म का सम्पादन किस प्रकार होता है? ( उत्तर - ) वेदेः वेदि से उत्करम् उत्किरन्ति अनावश्यक धूल इत्यादि ( उत्कर ) को ( वेदि के बाहर किन्तु उत्तर की ओर ) फेंकते हैं । यद् एव उत्करे तिष्ठन् जो ( उत्तर भाग में फेके गये ) उत्कर पर स्थित होकर आह्वयति ( सुब्रह्मण्या का ) आह्वान करता है ( वह वेदि के मध्य में किया हुआ हो जाता है ) तेन उसी कारण ब्रूयात् ( वेदि के मध्य में किया हुआ ) कहना चाहिए ॥ सा ० भा ० — अध्वर्युहोतृप्रभृतयः सर्वेऽप्यृत्विजो वेदिमध्ये एवाऽऽर्त्विज्यं कुर्वन्ति, ‘ सुब्रह्मण्या’१ वेदेर्बहिर्भागे सुब्रह्मण्याख्येन ऋत्विजाऽऽहूयते । तथा सति केन प्रकारेण ‘ अस्य ' सुब्रह्मण्यनाम्न ऋत्विजो वेदिमध्ये आर्त्विज्यं कृतं स्यादिति प्रश्नः तस्येदमुत्तरं, -( १ ) ‘ सुब्रह्मण्या ' इति सुंपां सुलुक् ( पा ० सू ० ७.३.३ ९ ) इत्यात्वे रूपम् । अपि वा आबन्तोऽप्ययं दृश्यते, – ' सुब्रह्मण्ये सुब्रह्मण्यामाह्वय ' - इति कात्या ० श्रौ ० ८.२.१४ । ( २ ) ‘ शालायाः पुरस्तादन्तर्वेदिदेशे पत्नीयजमानयोरन्वारब्धयीर्भवति ' — इति लाट्या ० श्रौ ० १.३.१ ।
पृष्ठ 237
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: १० ९ ५ वेदेः सकाशात् ‘ उत्करम् ’ उद्धर्तव्यं पांसुम् ' उत्किरन्ति ' उद्धृत्य बहिर्दशे वेर्देरुत्तरभागे प्रक्षिपन्ति । तत्र कृतं सुब्रह्मण्याह्वानं वेदिमध्य एव कृतं भवेत् । यस्मादेव कारणाद् अयं सुब्रह्मण्या उत्करदेशे तिष्ठन् सुब्रह्मण्यामाह्वयति, ' तेन ' कारणेनेत्युत्तरवादिनो वचनम् ॥ सुब्रह्मण्याह्वानस्योत्करदेशं विधाय पुनः प्रश्नोत्तराभ्यां प्रशंसति— तदाहुरथ कस्माद् उत्करे तिष्ठन् सुब्रह्मण्यामाह्वयतीत्यृषयो वै सत्र-मासत, तेषां यो वर्षिष्ठ आसीत् तमब्रुवन् सुब्रह्मण्यामाह्वय त्वं नो नेदिष्ठाद् देवान् ह्वयिष्यसीति; वर्षिष्ठमेवैनं तत्कुर्वन्त्यथो वेदिमेव तत्सर्वा प्रीणाति ॥ ६ ॥
हिन्दी— ( सुब्रह्मण्याह्वान के उत्कर स्थान को कहकर पुनः प्रश्नोत्तर द्वारा प्रशंसा कर रहे हैं - ) ( प्रश्न - ) तदाहुः इस विषय में ( पुनः प्रश्न करते हुए कुछ लोग ) कहते हैं— कस्मात् उत्करे तिष्ठन् किस कारण से उत्कर पर स्थित होकर सुब्रह्मण्याम् आह्वयति सुब्रह्मण्या को आहूत करते हैं? ( उत्तर ) ऋषयो वै सनम् आसत् ( पहले कभी ) ऋषियों ने सत्र को किया । तेषां यो वर्षिष्ठः आसीत् उन ( ऋषियों ) में जो वयोवृद्ध था तम् ( उससे ) अब्रुवन् ( अन्य ऋषियों ) कहा - त्वं सुब्रह्मण्याम् आह्वय तुम सुब्रह्मण्या का आह्वान करो । नः नेदिष्ठाद् देवान् ह्वयिष्यसि हम लोगों में वृद्ध होने के कारण तुम देवों को आहूत करने में समर्थ हो । ( इन ऋषियों के कहने के अनुसार ) वर्षिष्ठमेव एनं तत् कुर्वन्ति इस ( सुब्रह्मण्या के आह्वान ) को वयोवृद्ध ही ( उत्कर स्थान में स्थित होकर ) करते हैं । इस प्रकार वेदिमेव तत्सर्वा प्रीणाति वेदि को ही वह अपरिच्छिन्न रूप से प्रसन्न करता है । सा ० भा ० – आहवनीयदेशान् परित्यज्य सुब्रह्मण्याह्वानस्योत्करदेशस्वीकारे किं कार-णम्? इति प्रश्नः । तस्येदमुत्तरम् - ऋषयो हि पुरा सत्रमासत्, ' तेषाम् ' ऋषीणां मध्ये यो ‘ वर्षिष्ठः ’ अतिशयेन वृद्ध आसीत्, तं प्रत्येवमब्रुवन् – हे महर्षे! सुब्रह्मण्यामाह्वय, ' नः ’ अस्माकं मध्ये त्वमेव ‘ नेदिष्ठाद् ' वयोवृद्धत्वेन देवलोकप्राप्तेः प्रत्यासन्नत्वे सत्यन्तिकतम-त्वात् देवान् ‘ ह्वयिष्यसि ’ आह्वातुं समर्थोऽसि । एवमृषिभिरुक्तत्वादत्राप्युत्करदेशे तिष्ठन्तं सुब्रह्मण्याह्वानकर्तारमेनं ‘ वर्षिष्ठमेव ' अतिशयेन वृद्धमेव कुर्वन्ति । उत्करस्य वेदिगतपांसु-रूपत्वात् तत्सामीप्ये सति वेदि ' सर्वा ' निरवशेषां ‘ प्रीणाति ' तोषयति ॥ अथ सुब्रह्मण्याख्यस्यर्त्विज्यः समीपे दक्षिणात्वेन वृषभानयनं प्रश्नोत्तराभ्यां निरूपयति— तदाहुः कस्मादस्मा ऋषभं दक्षिणांमभ्याजन्तीति; वृषा वा ऋषभो योषा सुब्रह्मण्या, तन्मिथुनं, तस्म मिथुनस्य प्रजात्या इति ॥७ ॥
हिन्दी— ( अब वृषभ के ले जाने का प्रश्नोत्तर द्वारा निरूपण कर रहे हैं— ) ( प्रश्न- ) तदाहुः उस ( सुब्रह्मण्या के ) विषय में ( प्रश्न करते हुए कुछ लोग ) कहते हैं-कस्मात् किस कारण से अस्मै इस ( सुब्रह्मण्या ) के लिए दक्षिणाम् दक्षिणा के रूप में
पृष्ठ 238
पाठ पढ़ें पाठ छिपाएँ
१० ९ ६: ऐतरेयब्राह्मणम् [ २६.३ षष्ठपञ्चिकायां वृषभम् अभ्याजन्ति वृषभ को समीप में लाते हैं? ( उत्तर ) वृषा वै ऋषभः यह वृषभ वीर्य - सेचन करने वाला है ( अत: पुरुष है ) और योषा सुब्रह्मण्या सुब्रह्मण्या स्त्री है । तद् मिथुनम् ( ये दोनों वृषभ और सुब्रह्मण्या ) मिथुन हैं । मिथुनस्य प्रजात्यै मिथुन की सन्तानोत्पत्ति के लिए तस्मै उस ( सुब्रह्मण्या ) के लिए ( वृषभ लाया जाता है ) ॥ सा ० भा ० – ‘ तत् ’ तस्मिन् सुब्रह्मण्यस्य विषये प्रश्नमाहुः । अस्मै सुब्रह्मण्याय ' ऋषभ ' पुंगर्वं दक्षिणां कृत्वा ' अभ्यांजन्ति ' समीपमानयन्ति । तत्र किं कारणमिति प्रश्नाभि-प्रायः । तस्येदमुत्तरं — योऽयं दक्षिणात्वेन नीयमानः ऋषभः, सोऽयं ' वृषा वै ' सेचनसमर्थ: पुरुष-स्वरूप एव; सुब्रह्मण्या तुळे स्त्रीलिङ्गशब्दाभिधेयत्वात् योषिद्रूपा; तदुभयं मिलित्वा मिथुनं भवति । तस्य मिथुनस्य ‘ प्रजात्यै ' प्रजोत्पादनार्थम् ऋषभानयनमित्युत्तरवादिनोऽभिप्रायः ॥ सुब्रह्मण्यस्य कर्तव्यमुक्त्वा आग्नीध्रस्यर्त्विजः कर्तव्यं विधत्ते— ( अग्निीप्रर्त्विजः कर्तव्यविधानम् ) उपांशु पात्नीवतस्याऽऽग्नीध्रो यजति, रेतो वै पात्नीवत उपांश्विव वै रेतसः सिक्तिः ॥८ ॥
.हिन्दी – ( अब अग्नीध्र नामक ऋत्विक् के कार्य को बतला रहे हैं - ) आग्नीध्रः आग्नीध्र ( नामक ऋत्विक् ) पत्नीवतस्य पत्नीवत ( नामक ग्रह ) के लिए उपांशु यजति उपांशु रूप से याग करता है । रेतो वैं पत्नीवतः यह पत्नीवत ग्रह हो रेत रूप हैं । उपांश्विव वै उपांशु अवस्था ( धीरे - धीरे बात करते हुए एकान्त ) में ही रेतसः सिक्तिः वीर्य का सेचन ( होता है ) || सा ० भा ० — पात्नीवताख्यो यो ग्रहविशेषः, तस्य मन्त्रे ' उपांशु ' शनैरुच्चार्या आ-ग्नीध्रो यजेत् । योऽयं ‘ पात्नीवतः ' ग्रहः स रेतसः स्वरूपम् । लोकेऽपि रेतसः ‘ सिक्तिः ’ सेचनम् ‘ उपांश्विव वै ’ ध्वनिमन्तरेण रहस्येव क्रियते । अतस्तत्साम्यार्थमुपांशुत्वं युक्तम् ॥ अत्र पात्नीवतग्रहे ‘ सोमस्याग्ने वीहि’— इत्येतमनुवष्ट्कारं निषेधति— ( पत्नीवतग्रहेऽनुवषट्कारनिषेधः ) नानुवषट्करोति; संस्था वा एषा यदनुवषट्कारो नेद्रेतः संस्थापया-नीत्यसंस्थितं वै रेतसः समृद्धं; तस्मान्नानुवषट्करोति ॥९ ॥
हिन्दी— ( पत्नीवतग्रह् में वषट्कार का निषेध कर रहे हैं— ) न अनु वषट् करोति ( पत्नीवतग्रह में एक ही वषट्कार होता है ) बाद में ( अन्य ) वषट्कार नहीं करता है । यद् अनुवषट्कारः जो यह बाद वाला वषट्कार है एषा संस्था यह संस्था ( ग्रह की समाप्ति ) है । न इत् रेतः संस्थापव्यानि ( पत्नीवतग्रहरूप ) वीर्यसेक की समाप्ति न करूँ ( इसलिए ( १ ) तु आश्व ० ५.५.१ ९ ।
पृष्ठ 239
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १० ९ ७ अनुवषट्कार ) नहीं किया जाता । रेतसः असंस्थितं वै समृद्धम् वीर्यसेचन का न रुकना ही ( पुत्रोत्पत्ति से ) समृद्ध होता है । तस्मात् इसी कारण से न अनुवषट्करोति बाद वाला वषट्कार ( अनुवषट् ) नहीं करता है । सा ० भा ० – सर्वत्र ग्रहेषु वषट्कारानुवषट्काराभ्यां हूयते । अत्र तु पात्नीवतग्रहे वषट्कारहोंम एक एव, न त्वितरः । तत्र हेतुः ' संस्था वै ' इत्यादिः । योऽमनुवषट्कारोऽस्ति, सोऽयं ‘ संस्था वै ' ग्रहस्य समाप्तिरेव । तथा सति स पात्नीवतग्रहरूपं रेतो ' नेत् संस्थाप-यानि ' सर्वथा समाप्तिं न करवाणीत्यभिप्रेत्य तत्समाप्तेर्भीतो भवेत् । ' असंस्थितम् ' असमाप्त-मनुपरतं रेतसः सेचनमपत्योत्पत्त्या समृद्धं भवति; तस्मादेव नानुवषट्कुर्यात् । तथा च
यज्ञगाथां पठन्ति -“ ऋतुयाजान् द्विदेवत्यान् यश्च पात्नीवतो ग्रहः ।
आदित्यग्रहसावित्रौ तान् स्म माऽनुवषट्कृथाः " - इति ' ॥
अथ पात्नीवतग्रहभक्षणे देशं विधत्ते-( पत्नीग्रहभक्षणस्थानविधानम् ) ) नेष्टुरुपस्थ आसीनो भक्षयति, पत्नीभाजनं वै नेष्टाऽग्निः पत्नीषु रेतो दधाति प्रजात्या अग्निनैव तत्पत्नीषु रेतो दधाति प्रजात्यै ॥ १० ॥
हिन्दी – ( पत्नीग्रह के भक्षण में स्थान का विधान कर रहे हैं - ) नेष्टुः उपस्थे आसीनः नेष्टा ( पत्नीवत ग्रह का यजन करने वाला नेष्टा नामक ऋत्विक् ) के समीप में बैठकर भक्षयति ( पत्नीवतग्रह - शेष का ) भक्षण करता है । पत्नीभाजनं वै नेष्टा नेष्टा पत्नीस्थानीय है । अग्निः अग्निं ( स्थानीय आग्नीध्र ) पत्नीषु पत्नियों में प्रजात्यै ( प्रजो-त्पादन के लिए रेतो दधाति रेतसिञ्चन करता है । ( यजमान भी ) अग्निना एव अग्नि के द्वारा ही तत्पत्नीषु अपनी पत्नियों में प्रजात्यै सन्तानोत्पत्ति के लिए रेतः दधाति वीर्य-सेचन करता है ॥ सा ० भा ० — योऽयमाग्नीध्रः पत्नीवतं यजति, सोऽयं नेष्टुः ' उपस्थे ' समीप आसीनः शेषं भक्षयेत् । नेष्टृनामक ऋत्विक् ' पत्नीभाजनं वै ' पत्नीस्थानीयः, ‘ नेष्टः पत्नीमुदानय’-इत्येवं नेष्टृपत्न्योरानयनद्वारा सम्बन्धश्रवणात् ' । अतस्तत्समीपे भक्षणे सत्यग्निरूप आग्नीध्रः पत्नीषु रेतः स्थापयति; तच्च प्रजननाय संपद्यते । ' तत् ' ते नानुष्ठानेन यजमानोऽपि ( १ ) द्र ० आश्व ० श्रौ ० ५.५.२१ । ( २ ) तै ० सं ६.५.८.६ । ' अथ संप्रेष्यति अग्नीन्नेष्टुरुपस्थमासीद्, नेष्टः पत्नीमुदानय, उद्गात्रा संख्यापय..... वृषा अग्नीद् योषा नेष्टा, मिथुनमेवैतत् प्रजननं क्रियते; उदानयति नेष्टा पत्नीं, तामुद्गात्रा संख्यापयति ' - इति शत ० ब्रा ० ४.४.२.१७,१८ । द्र ० शाङ्खा ० श्रौ ० ८.५.३,४ ।
पृष्ठ 240
पाठ पढ़ें पाठ छिपाएँ
[ २६.३ षष्ठपञ्चिकायां १० ९ ८: ऐतरेयब्राह्मणम् ‘ अग्निनैव ’ अग्न्यनुग्रहेणैव पत्नीषु रेतोऽवस्थापयति 1 । तदपि ‘ प्रजात्यै ’ वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥ ११ । हिन्दी – यः एवं वेद जो इस प्रकार जानता है, वह प्रजया प्रजा और पशुओं से समृद्ध होता है ॥ अथ सुब्रह्मण्याविषये कंचिद्विशेषं विधत्ते— संपद्यते ॥ । पशुभिः प्रजायते दक्षिणा अनु सुब्रह्मण्या संतिष्ठते; वाग्वै सुब्रह्मण्याऽन्नं दक्षिणाऽ-न्नाद्य एव तद्वाचि यज्ञमन्ततः प्रतिष्ठापयन्ति, प्रतिष्ठापयन्ति ॥१२ ॥
हिन्दी— ( यहाँ सुब्रह्मण्या के विषय में कुछ विशेष विधान कर रहे हैं — ) दक्षिणा अनु दक्षिणा देने के बाद सुब्रह्मण्या सन्तिष्ठते सुब्रह्मण्या समाप्त ( पूर्ण ) हो जाती है । वाग्वै सुब्रह्मण्या वाक् ही सुब्रह्मण्या है और दक्षिणा एव अन्नाद्यः दक्षिणा ही अन्न है । तत् इससे अन्ततः अन्त में ( सुब्रह्मण्या की समाप्ति के समय ) वाचि एव ( अन्नाद्य में और ) वाक् में ही यज्ञं प्रतिष्ठापयति यज्ञ को प्रतिष्ठापित करता है ॥ सा ० भा ० – दक्षिणासु नीतासु ता दक्षिणा: ' अनु ' पश्चात्सुब्रह्मण्या ' संतिष्ठते ' समा-प्यते । सुब्रह्मण्याया वाग्रूपत्वात् दक्षिणायाश्चान्नरूपत्वात् ‘ अन्ततः ’ समाप्तिवेलायामिमं यज्ञं ‘ अन्नाद्ये वाचि ’ द्वयोरेवैतयोः ' प्रतिष्ठापयन्ति ' प्रतिष्ठतं कुर्वन्ति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां प्रथमाध्याये ( षड्विंशाध्याये ) तृतीयः खण्डः || ३ || ( १० ९ ) ॥ इस प्रकार ऐतरेयब्राह्मण के छब्बीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिरापरमेश्वैदिकमार्गप्रवर्तकवीरबुक्काभूपालसाम्राज्यधुरधंर-माधवाचार्यदेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश'-नाम भाष्ये ऐतरेयब्राह्मणभाष्यस्य कृतौ षष्ठपञ्चिकायाः प्रथमोऽध्यायः ( षड्विंशाऽध्यायः ) ॥१ ॥
॥ इस प्रकार ऐतरेयब्राह्मण की छब्बीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥