ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 251–260

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 251–260

पृष्ठ 251

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 251 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११० ९ एवैतयाऽहरहर्निह्वयन्ते; न हैषां विहवेऽन्य इद्राग्नी वृङ्क्त, यत्रैवं विद्वानच्छावाक एतामहरहः शंसति ॥५ ॥

हिन्दी - ( अच्छावाक्शस्त्र की आरम्भणीय ऋचा को कह रहे हैं - ) ' यत्सोम आ सुते नर ' इति अच्छावाकस्य यह अच्छावाक ( शस्त्र ) की ( आम्मणीय ऋचा है ) । इसके द्वितीय पाद ‘ इन्द्राग्नी अजोहवुः ' में ' अजोहवुः ' शब्द आह्वानार्थक अथवा होमार्थक है । एतया इस ऋचा से इन्द्राग्नी एव इन्द्राग्नी को ही अहरहः निह्वयन्ते प्रतिदिन आहूत करते हैं । यत्र जहाँ एवं विद्वान् अच्छावाकः इस प्रकार जानने वाला अच्छावाक अहरहः प्रतिदिन एताम् इस ( ऋचा ) का शंसति शंसन करता है ' एषां विहवे उसके आह्वान वाले यज्ञ में अन्यः कोई अन्य ( शत्रु ) इन्द्राग्नी न ह वृङ्क्ते इन्द्राग्नी का निराकरण करने में समर्थ नहीं होता ॥ सा ० भा०- –‘यत्सोमः ' इत्यास्यामृचि ' इन्द्राग्नी इति द्वितीयः पादः । अजोहवुरिति

होमार्थ आह्वानार्थो वा धातुः । अन्यत् पूर्ववद् व्याख्येयम् ॥

उक्तानामारम्भणीयानामृचां त्रयं प्रशंसति— ता व एता स्वर्गस्य लोकस्य नावः संपारिण्यः स्वर्गमेवैताभिर्लोक-मभिसंतरन्ति ॥ ६ ॥

हिन्दी – ( उपर्युक्त तीनों आरम्भणीय ऋचाओं की प्रशंसा कर रहे हैं - ) ताः वै एताः वे ( पूर्वोक्त तीनों ) ये ( ऋचाएँ ) स्वर्गस्य लोकस्य स्वर्ग लोक को सम्पारिण्यः नावः पार कराने वाली नाव - स्थानीय है । एताभि: ( इन ऋचाओं से स्वर्गं लोकम् अभि सन्तरन्ति स्वर्गलोक को प्राप्त करते हैं । सा ० भा ० — ' ता: ' पूर्वोक्ता ' ऋजुनीती ' ' इन्द्रं वो ' यत्सोम ' इत्येतास्तिस्रः स्वर्गप्राप्तये नौस्थानीयाः सम्यक्पारं नयन्तीतिः ' संपारिण्यः ' । यथा नावा नदीं तरति तथा ‘ एताभिः ’ ऋग्भिः स्वर्गं लोकमभिलक्ष्य नदीस्थानीयं प्रौढं मार्गं सम्यक् तरन्ति ॥ · ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां द्वितीयाध्याये ( सप्तविंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( ६ ) ( १ ९ ३ )

॥ इस प्रकार ऐतरेयब्राह्मण के सत्ताइसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ऋ ० ७.९ ४.१० । ( २ ) ' हेञ स्पर्द्धायां शब्दे च ' इति भ्वा ० १००८, ' हु दानादानयो: ' - इति जु ० १ ।

पृष्ठ 252

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 252 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११०: ऐतरेयब्राह्मणम् · [ २७.४ षष्ठपञ्चिकायां अथ चतुर्थः खण्डः सा ० भा ० — होंत्रकाणां शस्त्रारम्भणसाधनभूता ऋचो विधाय समाप्तिसाधनभूता ऋचो विधत्ते-( परिधानीयविधानम् ) अथातः परिधानीया एव ॥ १ ॥

हिन्दी - ( अब होत्रकों के शस्त्र की समाप्ति की साधनभूत ऋचाओं को कह रहे हैं—- ) अथातः अब इस ( शस्त्रों की आरम्भणीय ऋचाओं को कहने ) के बाद परिधानीयाः एव परिधानी ( समाप्तिपरक ) ( ऋचाओं ) को ( कहा जा रहा है ) ॥ सा ० भा ० – ‘ अथ ' शस्त्रप्रारम्भानन्तरं यस्मात् ' परिधानं ' समापनमपेक्षितम्, तस्मात्

परिधानीया ऋचो विधीयन्ते । एवकारः प्रकृतव्यावृत्त्यर्थः ॥

एकस्य होत्रकस्य परिधानीयां विधत्ते— ( मैत्रावरुणस्य परिधानीयविधानम् ) ते स्याम देव वरुणेति मैत्रावरुणस्येषं स्वश्च धीमहीत्ययं वै लोक इषमित्यसौ लोकः स्वरित्युभावेवैतया लोकावारभन्ते ॥ २ ॥

हिन्दी – ( मैत्रावरुणशस्त्र की परिधानीया ऋचा को कह रहे हैं - ) ' ते स्याम देव वरुण ' इति मैत्रावरुणस्य यह ( ऋचा ) मैत्रावरुण ( शस्त्र ) की ( परिधानीया ) है । ( इसके ' तृतीय पाद ) ' इषं च स्वश्च धीमहि ' में ( अन्न वाचक इषं और स्वार्गलोक वाचक ' स्व: ' शब्द है ) I । अयं हि लोकः इषम् यह पृथिवी लोक ही अन्न है और असौ लोकः स्वः वह ( स्वर्ग ) लोक ही स्व: है | अतः एतया इस ऋचा से उभौ एव लोकौ आरभन्ते दोनों लोक प्राप्त होते हैं ॥ सा ० भा ० — ‘ ते स्याम ' इत्यस्यामृचि ' ' ' इंष स्वश्चेति ' तृतीयः पादः । तत्र इषमित्यनेन पदेनाभीष्टत्वादयं लोको विवक्षितः, स्वरित्यनेन पदेन ' असौ ' स्वर्गलोकः । तथा सति लोकद्वयं ‘ धीमहि ’ ध्यायेमेति मन्त्रेऽभिधानात् ' एताया ' ऋचा द्वावपि लोकौ ‘ आरभन्ते ’ प्राप्नुवन्ति ॥ अन्यस्य परिधानीयां विधत्ते— ( ब्राह्मणाच्छंसिनः परिधानीयविधानम् ) व्यन्तरिक्षमतिरदिति ब्राह्मणाच्छंसिनो विवत्तृचं स्वर्गमेवैभ्य एतया ( १ ) ऋ ० ७.६६.९।

पृष्ठ 253

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 253 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १११-१ लोकं विवृणोति ॥३ ॥

हिन्दी - ( ब्राह्मणच्छंसीशस्त्र की परिधानीया ऋचा को कह रहे हैं - ) ' व्यन्तरिक्ष-मतिरत् ' इति ब्राह्मणाच्छंसिनः इस तृच की ( प्रथम और तृतीय ) ऋचा ब्राह्मणाच्छंसी शस्त्र की परिधानीय ऋचा है, जो विवत् तृचम् यह वि शब्द से युक्त तृच है । एतया एव इस ( तृच ) से ही एभ्यः इस ( यजमानों ) के लिए स्वर्गं लोकं विवृणोति स्वर्गलोक ( के द्वार ) को खोलता है | सा ० भा०- - यस्मिंस्तृचे ' व्यन्तरिक्षम् ' इत्यृगेषा ' श्रूयते, सोयं विशब्दत्वात् ‘ विवत्तृच ’ शब्देनाभिधीयते 1 । तेन तृचेन ' साध्यो यः स्वर्गो लोकः, तम् ' एतया ' व्यन्तरिक्षमित्यृचा यजमानेभ्यो ‘ विवृणोति ’ विवृतद्वारं करोति ॥ तस्यामृचि द्वितीयतृतीयपादौ पठति— मदे सोमस्य रोचना, इन्द्रो यदभिनद्बलमिति ॥४ ॥

' हिन्दी – ( ' व्यन्तरिक्षमतिरत् ' ऋचा के द्वितीय और तृतीय पाद को कह रहे हैं— ) ‘ मदे सोमस्य रोचना इन्द्रो यदभिनद्बलम् ' ( यह ऋचा का दूसरा और तीसरा पाद है ) ऋचा का अर्थ इस प्रकार है— इन्द्र देवता ने सोम का स्वाद पाकर मद में अन्तरिक्ष को यजमानों के लिए विशेष रूप से गमन योग्य बना दिया; क्योंकि इन्द्र ने बल ( नामक असुर ) कों विदीर्ण कर दिया, इसलिए अन्तरिक्ष - मार्ग सुगम हो गया ॥ सा ० भा ० — तस्या ऋचोऽयमर्थः - इन्द्रो देवः सोमस्य ' रोचना ' रुचिं प्राप्येति शेषः । ततो ‘ मदे ' हर्षे सत्यन्तरिक्षं ' व्यतिरत् ' विशेषेण यजमानानां गमनयोग्यमकरोत् । ‘ यद् ’ यस्मात्कारणाद् बलनामानमसुरम् ' अभिनत् ’ ' विदारितवान् तस्माद् अन्तरिक्षमार्गः सुगमः ॥ अत्र बलनभेदनमभिप्रेत्य तामृचं प्रशंसति— सिषासवो वा एते यद्दीक्षितास्तस्मादेषा वलवती भवति ॥५ ॥

हिन्दी — ( व्यन्तरिक्षमितरत ऋचा की प्रशंसा कर रहे हैं - ) यद्दीक्षिताः जो दीक्षित है एते सिषासवः वै वे फल प्राप्त करने की कामना वाले हैं । तस्मात् इसी कारण एषा यह ( ऋचा ) वालवती भवति वल नामक राक्षस के विदारण की प्रतिपादक है ॥ सा ० भा ० — ये दीक्षिताः सन्ति, ते ' सिषासवः ' लुब्धकामाः फलार्थिनः । तस्मात्कारणा-दृगेषा ‘ वलवती ’ वलनामकासुरभेदप्रतिपादिका कर्तव्या भवति ॥ ( १ ) ऋ ० ८.१४.७ । ( २ ) पर्यास तृचोऽयम् । सूत्र्यते हि - ' प्रति वां सूर उदिते व्यन्तरिक्षमतिरच्छयावाश्वस्य सुबन्त इति तृचाः पर्यासाः ' इति । सांहितिकः कम्प ऐकश्रुत्ये हि नास्ति । इति षड्गुरुशिष्यः ।

पृष्ठ 254

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 254 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११२: ऐतरेयब्राह्मणम् [ २७.४ षष्ठपञ्चिकायां यद्यपीयम् ऋक् परिधानीया न भवति, तथाऽप्येतदादिके तृचेऽन्तिमाया ऋच: परिधा-नीयात्वात् तत्प्रदर्शनाय तृच उपक्रान्तः ॥ तस्मिन् प्रथमामृचमनूद्य व्याख्याय द्वितीयामृचमनूद्य व्याचष्टे— ‘ उद्गा आजवङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः, अर्वाञ्चं नुनुदे.. वलमिति ' ' सनिमेवैभ्य एतयाऽवरुन्थे ॥ ६ ॥

हिन्दी— ( अब ‘ व्यन्तरिक्षमतिरत् ' इस तृच की द्वितीय ऋचा को कहकर उसका व्याख्यान कर रहे हैं— ) गुहा सतीः गाः ( वलासुर के ) गूढस्थान में विद्यमान गायों को आविष्कृण्वन् खोजते हुए अङ्गिरोभ्यः अङ्गिरा महर्षियों के लिए उदाजत् ( इन्द्र ने ) दे . दिया और अर्वाश्चं नुनुदे नीचे ( वलासुर ) को मार डाला । एतया इस ( ऋचा ) के द्वारा एभ्यः इन ( यजमानों ) के लिए सनिम् एव लाभ को ही अवरुन्धे प्राप्त कराता है । सा ० भा ० — ' अङ्गिरोभ्यः महर्षिभ्य: ' सती ' विद्यमानाः गाः ' उदाजत् ' ऊर्ध्वं प्रेरित-वान् । किं कुर्वन्? ' गुहा ' व॒लस्यासुंरस्य सम्बन्धि गूढं स्थानम् ' आविष्कृण्वन् ' प्रकटीकुर्वन् । ‘ अर्वाञ्चम् ' अतिनीचं वलनामकमसुरं ' नुनुदे ' विनाशितवान् । अयमर्थः - – वलनामाख्यः कश्चिदसुरो महर्षीणां गा अपहृत्य कस्मिश्चिद् विलेऽवस्थाप्य पाषाणेन बिलद्वारमाच्छाद्य-वस्थितः । तं वृत्तान्तमिन्द्रोऽवगत्य गुहाद्वारमुद्घाट्य, वलनामानमसुरमपनुद्य, तत्रावस्थित-महर्षीणां गा बिलांदुद्धृत्य, महर्षिभ्यो दत्तवानिति । अयमर्थः शाखान्तरे विस्पष्टमाम्ना-यते — ‘ इन्द्रो बलस्य बिलमपौर्णात् । स य उत्तमः पशुरासीत् । तं पृष्ठं प्रतिसंगृह्योदक्खिदत्, तं सहस्रं पशवोऽनूदायन् स उन्नतोऽभवत् ' ' इति । ' एतया ' तृचंगतया द्वितीययर्चा ‘ सनिमेव ’ लाभमेवैभ्यः ' अवरुन्धे ' संपादयति ॥ अथ तृतीयामृचं परिधानीयां विवक्षुः प्रथमपादमनूद्य व्याचष्टे— इन्द्रेण रोचना दिव इति, स्वर्गो वै लोक इन्द्रेण रोचना दिवः ॥७ ॥

' हिन्दी —'व्यन्तरिक्षमातिरत् ' तृच की तृतीया परिधानीय ऋचा के प्रथम पाद का व्याख्यान कर रहे हैं— ) ' इन्द्रेण रोचना दिवः ' अर्थात् ' इन्द्र के द्वारा द्युलोक को दीपित किया गया ' इति स्वर्गो वै लोकः यहाँ ( दिवः से ) स्वर्गलोक विवक्षित है अतः ‘ इन्द्रेण रोचना दिव: ' इन्द्र के द्वारा स्वर्गलोक दीप्तियुक्त किया गया ॥ ( १ ) ऋ ० ८.१४.८ । ( २ ) तै ० सं ० २.१.५.१ । ‘ असुराणां वै वलस्तमसा प्रावृतोऽश्मापिधान आसीत् ’ – इति ता ० ब्रा ० १ ९.७.१ । ( ३ ) इह वलबिलशब्दावुभावेवान्त्यस्थादिः ( वर्ग्यादिभिः ) अधिकोऽयं पाठः । ( ४ ) ऋ ० ८.१४.९।

पृष्ठ 255

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 255 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १११३ सा ० भा०– ' दिवः ' स्वर्गविशेषाः ' इन्द्रेण ' देवेन ' रोचना ' रोचमाना दीप्तियुक्ताः, कृता इति शेषः । अनेन पादेन स्वर्गलोकवर्णनं विवक्षितम् । इन्द्रेणेत्यादिकस्यार्थस्य तत्र विद्यमानत्वात् ॥ द्वितीयतृतीयपादावनुवदति-दृळ्हानि दृंहितानि च, स्थिराणि न पराणुद इति ॥८ ॥

हिन्दी— ( तृतीय ऋचा के द्वितीय और तृतीय पाद का अनुवाद कर रहे हैं— ) दृढानि दृंहितानि स्थिराणि च उस स्वर्ग के नक्षत्र अस्थिर थे उन्हें ( इन्द्र ने ) स्थित किया, न पराणुद ( उनको ) विनष्ट नहीं किया ॥ सा ० भा ० - – तस्मिन् स्वर्गे यानि ' गृह्ळानि ' प्रकाशरूपाणि नक्षत्राणि, यानि च पूर्वमदृढान्यपि ‘ दृंहितानि ’ ' इन्द्रेण दृढीकृतानि तानि सर्वाण्यपि स्थिराणि कृत्वा ' न पराणुदे ' इन्द्रो न विनाशितवान् ॥ - स्वर्ग एवैतया लोकेऽहरहः प्रतिष्ठिन्तो यन्ति ॥९ ॥

हिन्दी - एतया इस ऋचा से ( परिधान = समापन करने से ) अहरहः प्रतिदिन : - ( यजमान ) स्वर्गे लोके स्वर्गलोक में प्रतितिष्ठन्तः यन्ति प्रतिष्ठा को प्राप्त करते हुए निवास करते हैं ॥ सा ० भा ० – अस्यामृचि स्थिराणां स्वर्गस्थानानां नक्षत्रादिशरीराणां श्रूयमाणत्वात् ‘ एतया ' ऋचा परिधाने सति प्रतिदिनं ' स्वर्ग एव लोके ' प्रतिष्ठां प्राप्तवन्तो ' यन्ति ' वर्तन्ते ॥ अन्यस्य परिधानीयां विधत्ते-( अच्छावाकस्य परिधानीयविधानम् ) आऽहं सरस्वतीवतोरित्यच्छावाकस्य; वाग्वै सरस्वती, वाग्वतोरिति हैतदाहेन्द्राग्न्योरवो वृण इत्यैतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति, प्रियेणैवैनौ तद्धाम्ना समर्धयति ॥ १० ॥

हिन्दी - ( अच्छावाकशस्त्र के समापन वाली ऋचा को कह रहे हैं - ) ' आऽहं सरस्वतीवतोः ' इति अच्छावाकस्य यह ( ऋचा ) अच्छावाकशस्त्र की परिधानीया है । वाग्वै सरस्वती वाक् ही सरस्वती है । वाग्वतोः इति ह ' वाक् से युक्त दोनों का ' यह ही एतद् आह यह कहा गया है । ' इन्द्राग्न्योरवो वृणे ' ' हम इन्द्राग्नि के सुरक्षित स्थान का वरण करते हैं ' इस द्वितीय पाद ' अवः ' से विवक्षित वाक् है । यद् वाग् जो वाक् है, एतद् ह यही ( वाक् ) इन्द्राग्न्योः प्रियं धाम इन्द्राग्नी का प्रिय धाम है । प्रियेणैव धाम्ना समर्धयति ( इन्द्राग्नी के ) प्रिय धाम से ही यजमान को समृद्ध करता है ॥

पृष्ठ 256

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 256 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११४: ऐतरेयब्राह्मणम् [ २७.५ षष्ठपञ्चिकायां सा ० भा ० — आऽहमित्यादि प्रथमः पादः, इन्द्राग्न्योरित्यादिः द्वितीयः पादः । तस्यार्धर्चस्यायमर्थः – ‘ अहम् ' अनुष्ठाता ' सरस्वतीवतो: ' सरस्वतीयुक्तयोररिन्द्राग्न्योर्देवयोः सम्बन्धि यत् ‘ अवः ’ सुरक्षितं स्थानमस्ति, तत् ' आवृणे ' सर्वतः प्रार्थयति । अत्र प्रथमपादे सरस्वतीशब्देन वेदशास्त्रस्वरूपा वागेव विवक्षिता; अतः ' सरस्वतीवतोरिति ' एवंरूपो मन्त्रो ‘ वाग्वतोरिति ’ एतमेवार्थमाह । द्वितीयपादे त्ववः शब्देन सुरक्षितमिन्द्राग्निदेवतयोः यत् प्रियं धाम विवक्षितं, तद्वाग्रूपमेव; वाग्व्यवहारे तयोरत्यन्तप्रीतिमत्त्वात् । तस्मादेतामृचं पठन्नेव त्विन्द्राग्नी प्रियेणैव ‘ धाम्ना ' स्थानेनैव ' समर्धयति ' समृद्धौ करोति ॥ वेदनं प्रशंसति—. प्रियेण धाम्ना समृध्यते य एवं वेद ॥७ ॥

हिन्दी — यः एवं वेद जो इस प्रकार जानता है, वह प्रियेणैव धाम्ना समृध्यते प्रिय धाम से समृद्ध होता है ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां द्वितीयाध्याये ( सप्तविंशाध्याये ) चतुर्थः खण्डः ॥४ ॥ ( ७ ) ( १ ९ ४ )

॥ इस प्रकार ऐतरेयब्राह्मण के सत्ताइसवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा ० — अथ परिधानीयां स्तोतुमुपक्रमते— ( परिधानीयास्तोतुमुपक्रमः ) उभय्यः परिधानीया भवन्ति होत्रकाणां - प्रातः सवने च माध्यंदिने चाहीनाश्चैकाहिकाश्च ॥ १ ॥

हिन्दी— ( परिधानीया ऋचाओं की स्तुति करने के लिए उपक्रम कर रहे हैं- ) होत्रकाणाम् ( मैत्रावरुण, ब्राह्मणाच्छंसी और अच्छावाक - इन ) होत्रकों के प्रातःसवने च मध्यन्दिने च प्रातः सवन और माध्यन्दिनसवन में उभय्यः परिधानीया भवन्ति दो प्रकार के परिधानीया मन्त्र होते हैं — अहीनाश्च ऐकाहिकाश्च ( अहः समूहों में विहित ) अहीन और ( प्रकृतिरूप एकाह में विहित ) एकाहिक ॥ ( १ ) ‘ आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे । याभ्यां गायत्रमृच्यते ॥- इति ऋ ० ८.३८.१० ।

पृष्ठ 257

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 257 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १११५ सा ० भा ० — ' होत्रकाणां ' मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां ' सवनद्वये परिधानीया द्विविधा भवन्ति । कथम्? तदुच्यते- ' अहीनाः ' अहर्गणेषु विहिताः, ' ऐकाहिकाः ' एकाहे प्रकृतिरूपे विहिताः, इत्येवं द्वैविध्यम् ॥ तत्र होत्रकविशेषस्य परिधानीयाविशेषं दर्शयति— ( होतकविशेषस्य परिघानीयाविशेषकथनम् ) ( तत्र मैत्रावरुणस्य परिधानीया ) तत एकाहिकाभिरेव मैत्रावरुणः परिदधाति; तेनास्माल्लोकान्न प्रच्यवते ॥ २ ॥

हिन्दी — ( होत्रक - विशेष के परिधानीया विशेष को दिखला रहे हैं; उसमें से मैत्रावरुण की परिधानीया को दिखला रहे हैं - ) ततः ऐकाहिकाभिः एव उन ( दोनों प्रकार के परिधानियों ) में से ऐकाहिक परिधानियों से मैत्रावरुणः परिदधाति मैत्रावरुण ( नामक होत्रक अपने शस्त्र का ) समापन करता है तेन उस परिधापन ( समापन से ) अस्माद् लोकात् इस पृथिवीलोक से न परिच्यवते च्युत नहीं होता ॥ सा ० भा०- - ततस्तासूभयविधासु मैत्रावरुणाख्यर्त्विगैकाहिकाभिरेव परिदध्यात् । ‘ ते स्याम देव वरुणेति ' ' प्रकृतौ प्रातः सवने मैत्रावरुणस्य परिधानीया विहिता | माध्यंदिन-सवने ‘ नू ष्टुतइन्द्र नू गृणानः ' इत्येषा ' विहिता ' । अहीने विकृतिरूपेऽपि सवनद्वये तदेव परिधानीयाद्वयं मैत्रावरुणस्य द्रष्टव्यम् । कथमिति? तदुच्यते - अहर्गणस्य प्रातः सवने हि मैत्रावरुणस्य ‘ प्रति वां सूर उदिते ' - इत्यस्य ' पर्यायतृचस्यान्त्या; ' ते स्याम देव वरुणेत्येषा ' ' परिधानीया । ऐकाहिकाऽपि सैव परिधानीया भवति । तथा हि प्रकृतौ मैत्रावरुणस्य ' प्र मित्रयोर्वरुणयोरिति नवाऽऽयातं मित्रावरुणेति ' याज्येति ' सूत्रकारवचनात् ' नवानामन्त्या सैवेत्यैकाहिकाभिरेव मैत्रावरुणः परिदधातीत्येतदुपपन्नं भवति । तथा माध्यंदिनसवनेऽपि ‘ आ ( १ ) ‘ अस्मिन् शास्त्रे मुख्यवर्जिता द्वादशत्विजो होत्रका इत्युच्यन्ते ' इति आश्व ० श्रौ ० १. २.२६ वृ ० । मुख्यास्तु चत्वारः - होता, अध्वर्युः, ब्रह्मा, उद्गाता चेति ( आश्व ० श्रौ ० ४.१.४ ) । द्र ० आश्व ० श्रौ ० ५.६. १७। तत्र च होत्रेकेषु त्रयः शस्त्रिणः । द्र ० आश्व ० श्री ० ५.१०.१० । ( २ ) यस्मिन्त्स्तुवीरन् स स्तोत्रियः । यस्मिच्छवः सोऽनुरूपः । एकस्तोत्रियेष्वहः सु योऽन्योऽन्तरः सोऽनुरूपो न चेत् सर्वोऽहर्गणः षडहो वा । ऐकाहिकस्तथा सति ' – इति आश्व ० श्री ० ६.२.५-८ । ( ३ ) ऋ ० ७.६६.९। ( ४ ) आश्व ० श्री ० ७.२.१२ । ( ५ ) ऋ ० ४.१६.२१ । ( ६ ) आश्व ० श्रौ ० ७.२.९। ( ७ ) ऋ ० ७.६६.७ - ९ । ( ८ ) ऋ ० ४.१६.१ । ( ९ ) आश्व ० श्रौ ० ५.१०.२८ ।

पृष्ठ 258

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 258 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११६: ऐतरेयब्राह्मणम् [ २७.५ षष्ठपञ्चिकायां सत्यो यातु ' इत्यहीनसूक्तमिति ' वक्ष्यति ' । याऽहीनसूक्तान्त्या साऽहीनस्य तत्र परिधा-नीया । अहीनसूक्तान्तं हि माध्यंदिनसंवने मैत्रावरुणशस्त्रम् । तस्य ‘ नू ष्टुत इन्द्र नू गृणानः ’ इत्येषाऽन्त्या ' । तथा प्रकृतावपि सैव परिधानीया । तथा हि- कया नश्चित्र आभुवत्, कया त्वं न ऊत्या, कस्तमिन्द्र त्वा वसुं, सद्यो ह जात, एवा त्वामिन्द्रोशन्नु षु णः सुमना उपाक इति ‘ याज्या ’ - इति सूत्रकारवचनात् ' ' एवा त्वामिन्द्र वज्रिन्नत्र ' इत्येतस्यैकादशर्चस्य ' अन्त्या ‘ नू ष्टुत इन्द्र नू गृणानः ’ इत्येषैवेति ' मैत्रावरुणस्य प्रातः सवने माध्यंदिनसवने चैकाहिकाभिः परिधानमुपपन्नं भवति । ऐकाहिकाभिरेवेत्येवकारोऽन्यशङ्काव्यावृत्त्यर्थः । या ऐकाहिकाः परिधानीयास्ता एव चाहर्गणे मैत्रावरुणस्य परिधानीया, न त्वन्या इत्यर्थः । यद्यपि मैत्रा-वरुणस्य प्रकृतौ सवनयोरुभयोर्द्वे एव परिधानीये, तथापि प्रयोगबहुत्वापेक्षमैकाहिकाभिरिति बहुवचनम् ° । तेन मैत्रावरुणस्य प्रकृतिविकृत्योः परिधानीयाभेदराहित्येनायं मैत्रावरुणोऽ-स्माल्लोकात् कदाचिदपि न प्रच्यवते ॥ मैत्रावरुणस्य प्रकृतिविकृत्योः परिधानीयामेकामुक्त्वा, अच्छावाकस्य प्रकृतिविलक्षणं सवनद्वये परिधानीयाद्वयं दर्शयति-( अच्छावाकस्य परिधानीया ) अहीनाभिरच्छावाकः स्वर्गस्य लोकस्याऽऽप्त्यै ॥ ३ ॥

हिन्दी – ( अच्छावाक होत्रक की परिधानीया को दिखला रहे हैं - ) स्वर्गस्य लोकस्य आप्त्यै स्वर्गलोक की प्राप्ति के लिए अच्छावाकः अच्छावाक ( नामक होत्रक ) अहीनाभिः अहीन ऋचाओं से ( समापन करता है ) ॥ सा ० भा ० — योऽयमच्छावाकः, सोऽयमहीनगताभिर्ऋग्भिः परिदध्यात्, न त्वैकाहि-काभिः । तथा हि — ‘ आऽहं सरस्वतीवतोरित्यच्छावाकस्य'- इति पूर्वस्मिन् खण्डे विहित-त्वात् प्रात: सवने एषाऽहर्गणसम्बन्धिनी परिधानीया । ऐकाहिके तु ‘ गोमद्धिरण्यवद् ’ - इत्येषैव ‘ परिधानीया ' । माध्यंदिनेऽच्छावाकस्य ' नूनं सा ते ' इत्यहर्गणगता परिधानीया " । एकाहे. तु ' शुनं हुवेमेति'१२ मध्यंदिने परिधानीया ३ । एवं सति अच्छावाकस्यैकाहिकपरिधानीया-( १ ) ऋ ० ४.१६.१ । ( २ ) आश्व ० श्रौ ० ७.४.९। ( ३ ) ऋ ० ४.१ ९.११ । ( ४ ) आश्व ० श्री ० ५.१६.१ । ( ५ ) ऋ ० ४.१ ९.१-११ ।. ( ६ ) ऋगेषा बहुषु सूक्तेषु श्रुतेति ध्येयम् । ( ७ ) नास्ति सामा ० संपा ० पुस्तके 1 । ( ८ ) ऋ ०.७.९४.९ । ( ९ ) ' इयं वामस्य मन्मन इति नव ( ऋ ० ७.९ ४.१ - ९ ) – इति आश्व ० श्री ० ५.१०,२८ । ( १० ) ऋ ० २.११.२१ । ( ११ ) ' नूनं सा त इत्यन्तमुत्तमम् ' - इति आश्व ० श्री ० ७४.१० । ( १२ ) ऋ ० ३.३०.२२ । ( १३ ) ' इच्छन्ति त्वा ' ( ऋ ० ३.३०.१-२२ ) - इति आश्व ० श्री ० ७.५.२० ।

पृष्ठ 259

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 259 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १११७ परित्यागेनोपरितनस्याहर्गणस्य सम्बन्धिन्याः परिधानीयायाः स्वीकारः, उपरि च स्वर्गलोक-प्राप्त्यै संपद्यते ॥ अथ ब्राह्मणाच्छंसिनः परिधानीया दर्शयति— ( ब्राह्मणाच्छांसिनः परिधानीया ) उभयीभिर्ब्राह्मणाच्छंसी; तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकमथो मैत्रावरुणं चाच्छावाकं चाथो अहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चैवमु स उभो व्यन्वारभमाण एति ॥४ ॥

हिन्दी - ( अब ब्राह्मणाच्छंसी की परिधानीया को दिखला रहे हैं - ) ब्रह्मणाच्छंसी ब्राह्मणाच्छंसी ( नामक होत्रक ) उभयीभिः दोनों ( अहीन और ऐकाहिक परिधानियों ) से ( अपने शस्त्र का समापन करता है ) । तेन उस ( से ) सः वह ( ब्राह्मणाच्छंसी होत्रक ) इमं चामुं उस ( स्वर्ग ) लोक को इस प्रकार उभौ दोनों प्रकार से स्पर्श करते हुए जाता है । अथ और ( प्रात: सवन में ) मैत्रावरुण और अच्छावाकम् ( ( विविध रूप से स्पर्श करता हुआ जाता है ) । अहीनं च ऐकाहिकं च अहीन और एकाहिक जाता है ) और भी, संवत्सरं च अग्निष्टोमं दोनों प्रकार की ऋचाओं द्वारा समापन करने च लोकम् इस ( पृथिवी ) लोक को और लोकों को व्यन्वारभमाणः एति विविध ( यह ब्राह्मणाच्छंसी होत्रक ) मैत्रावरुणम् मध्यन्दिनसवन में ) अच्छावाक होत्रक को ( इतना ही नहीं अपितु, यह अच्छावाक ) को भी ( विविध रूप से स्पर्श करते हुए च ( गवामयन रूप ) संवत्सर को और अग्निष्टोम को — एवम् इस प्रकार से सः वह ( ब्राह्मणाच्छंसी ) उभौ दोनों को व्यन्वारभमाणः एति विविध रूप से स्पर्श करते हुए जाता है ॥ सा ० भा ० — योऽयं ब्राह्मणाच्छंसी, सोऽयमुभयविधाभिरैकाहिकाभिरहीनगताभिश्च ऋग्भिः परिदध्यात् । प्रातः सवने प्रकृतौ ' स न इन्द्रः शिवः सखेति " परिधानीया ' । विकृतौ तु ‘ इन्द्रेण रोचनां दिवः ' इति पूर्वखण्डेऽभिहिता । माध्यंदिनसवने प्रकृतौ विकृतौ च ‘ एवेदिन्द्रं वृषणं वज्रबाहुम् ’ – इत्येकैव परिधानीया ' । एवं च सत्यस्य ब्राह्मणाच्छंसिनः प्रातःसवनेऽच्छावाकसाम्यं माध्यंदिने सवने मैत्रावरुणसाम्यं सम्पन्नम् । ' तेनो ', तेनैव ऐकाहिकाहीनगतोभयविधशंसनेनैव ' सः ' ब्राह्मणाच्छंसी भूलोकः स्वर्गलोकः ‘ उभौ ’ अपि ‘ व्यन्वारभमाणः ' विविधं स्पृशन् ' एति ' गच्छति, वर्तत इत्यर्थः । प्रातः सवने प्रकृति-विकृत्योः परिधानीयाविलक्षणत्वाल्लोकद्वयस्य पृथगेव स्पर्शः । माध्यंदिनसवने प्रकृति-( १ ) ऋ ० ८.९ ३.३ । ( २ ) ‘ उद्धेदभीति तिस्रः ( ऋ ० ८.९ ३.१ - ३ ) ' - इति आश्व ० श्रौ ० ५.१०.२८ । ( ३ ) ऋ ० ७.२३.६ । ( ४ ) ' उदु ब्रह्माणि ( ऋ ० ७.२३.१ - ६ ) ' - इति आश्व ० श्रौ ० ७.४.९ ।

पृष्ठ 260

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 260 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११८: ऐतरेयब्राह्मणम् [ २७.५ षष्ठपञ्चिकायां विकृत्योः परिधानीयैक्याल्लोकद्वयस्य सहस्पर्शः, इत्येवं विविधस्पर्शो ' व्यन्वारम्भण ' शब्देन विवक्षितः । ‘ अथो अपि चायं ब्राह्मणाच्छंसी मैत्रावरुणं चाच्छावाकं च ' उभौ ' ऋत्विजौ ' व्यन्वारभमाण एति ' विविधमुपस्पृशन् वर्तते । कथमिति? तदुच्यते - यथा मैत्रावरुणस्य प्रकृतिविकृत्योः परिधानीयैक्यं, तथा ब्राह्मणाच्छंसिनोऽपि माध्यंदिनसवने तदैक्यम् । यथाऽच्छावाकस्य प्रकृतिविकृत्योः परिधानीया- वैलक्षण्यम्, एवं ब्राह्मणाच्छंसिनः प्रातः सवने तद्वैलक्षण्यमिति । मैत्रावरुणाच्छावाकविषयोऽयं विविधस्पर्शः, तथैवाहीनैकाहविषयेऽपि विविधस्पर्श ऊहनीयः । कथमिति? तदुच्यते — प्रातः सवनेऽहीनैकाहयोर्वैलक्षण्येन स्पर्शः । माध्यंदिने सवने सादृश्येन स्पर्शः, इत्युभयविधत्वम् । तथा संवत्सरं गवामयनमूलप्रकृतिपूर्वमग्निष्टोमं च विविधं स्पृशति । अहीनैकाहस्पर्शवदेतदुभयस्पर्शस्य योजनीयत्वात् ॥ इत्थं होत्रकाणां सवनद्वयगताः परिधानीयाः प्रशस्य तृतीयसवनगताः परिधानीयाः प्रशंसति— अथ तत ऐकाहिका एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति, प्रतिष्ठा वा एकाहः, प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति ॥ ५ ॥

हिन्दी— ( अब तृतीयसवनगत परिधानीया की प्रशंसा कर रहे हैं - ) तृतीयसवने तृतीयसवन ( सायंसवन ) में होत्रकाणाम् होत्रकों का ततः ऐकाहिकाः उनमें से एकाहिक परिधानीयाः भवन्ति परिधानीया होती हैं । प्रतिष्ठा वै एकाह: एकाह ही ( सभी विकृति याग़ों की आधारभूत ) प्रतिष्ठा है । अन्ततः अन्त में तद् यज्ञम् उस यज्ञ को प्रतिष्ठायामेव ' प्रतिष्ठा में ही प्रतिष्ठापयन्ति प्रतिष्ठित करते हैं । सा ० भा ० ० – एकाहे मूलप्रकृतौ ज्योतिष्टोमे होत्रकाणां या एव परिधानीयाः ता एवाहर्गणे तृतीयसवने द्रष्टव्याः । तथा हि- ' आवां राजानाविति ' नित्यमैकाहिकम् ' इति वचनात् मैत्रावरुणस्य ‘ आ वां राजानौ ' - – इति सूक्तस्यान्त्या परिधानीया भवति । तथा ब्राह्मणाच्छंसिनोऽपि ‘ अच्छा म इन्द्रमिति नित्यमैकाहिकमिति वचनात् ‘ अच्छा म इन्द्रम्'– इति ' सूक्तस्यान्त्या परिधानीया भवति । तथाऽच्छावाकस्य ' ऋतुर्जनित्रीति नित्यान्यैकाहि-कानि ’ — इति वचनात् ” ‘ सं वां कर्मणा ' – इति ' सूक्तस्यान्त्या परिधानीया भवति । योऽयमे-काहः, स मूलप्रकृतित्वात् ‘ प्रतिष्ठा ' सर्वाषां विकृतीनामाधारः । अतस्तेनैकाहिकपरिधानीया-शंसनेन यज्ञम् ‘ अन्ततः ’ अवसानकाले ' प्रतिष्ठायां ' सर्वाधारे प्रतिष्ठापयन्ति ॥ इत्थं परिधानीयाः प्रशस्य प्रातः सवनगतानां याज्यादीनां मध्येऽवसानाभावं विधत्ते-( १ ) ऋ ० ७.८४.१ । ( २ ) आश्व ० श्रौ ० ८.३.३४ । ( ३ ) ऋ ० १०.४३.१ । ( ४ ) आश्व ० श्री ० ८.४.३ । ( ५ ) ऋ ० ६.६ ९.१ ।