ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 261–270

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 261–270

पृष्ठ 261

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 261 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: १११ ९ अनवानं प्रातःसवने यजेत् ॥ ६ ॥

हिन्दी— ( प्रात: सवन में याज्या इत्यादि के मध्य में अवसान न करते हुए पाठ करने का विधान कर रहे हैं - ) प्रातः सवने प्रातः सवन में अनवानं यजेत् ( याज्या इत्यादि का ) उच्छ्वास से रहित होकर अर्थात् एक ही श्वास में अवसान न करते हुए यजन ( पाठ ) करना चाहिए ॥ सा ० भा ० – ‘ अनवानम् ' अनुच्छ्वासम्, उच्छ्वासो मध्ये यथा न भवति तथा याज्यां पठेत् ॥ स्तोमवृद्धौ नियमविशेषं विधत्ते— ( स्तोमवृद्धौ नियमविशेषविधानम् ) एकां द्वे न स्तोममतिशंसेत्, तद्यथाऽभिहेषते पिपासते क्षिप्रं प्रय-च्छेत् तादृक्तदथो क्षिप्रं देवेभ्योऽन्नाद्यं सोमपीथं प्रयच्छानीति, क्षिप्रं हास्मिँल्लोके प्रतितिष्ठति ॥७ ॥

हिन्दी – ( स्तोम की वृद्धि में नियम- विशेष का विधान कर रहे हैं— ) एकां द्वे स्तोमं न अति शंसेत् एक अथवा दो का अतिक्रमण करके शंसन नहीं करना चाहिए । तद्यथा जैसे कि अभिहेषते ( घास के लिए ) सम्मुख होकर हेषा ध्वनि करते हुए भूखे घोड़े के लिए अथवा पिपासते अत्यन्त प्यासे के लिए क्षिप्रं प्रयच्छेत् शीघ्रता से ( क्रमशः घास और जल ) दे देना चाहिए । तादृक् तत् उसी प्रकार यहं ( बहुत अतिशंसन नहीं करना चाहिए ) । · अथ इसके बाद देवेभ्यः देवताओं के लिए क्षिप्रम् शीघ्र ही. सोमपीथम् अन्नाद्यम् सोमपान रूप भोजन प्रयच्छानि दे देता है । इससे क्षिप्रं ह शीघ्र ही अस्मिन् लोके प्रतितिष्ठति इस ( पृथिवी ) लोक में प्रतिष्ठित होता है । सा ० भा०- — त्रिवृत् - पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशादयः स्तोमा विहिताः । विहितस्यं सप्तदशस्तोमस्य विवृद्ध्याऽष्टादशादिस्तोमा निष्पाद्यन्ते । तथा विहितस्यैकविंशस्य विवृद्ध्या द्वाविंशादयः स्तोमाः संपाद्यन्ते । अनेनैव दृष्टान्तेन शंसनेऽप्याधिक्यं प्रसक्तं, ‘ यथा वाव स्तोत्रमेवं शस्त्रमिति ' ' न्यायात् । सन्ति तत्र प्राकृताः स्तोमाः, स्तोमे वर्धमाने सति तां स्तोमगतामृक्संख्यामतिक्रम्य शंसनं तदतिशसनं यदा क्रियते, तदानीमेकस्या द्वयोर्वा ऋचोरभ्यनुज्ञानेन त्वधिकानामृचां न शंसेत् । किं त्वेकयैव वा द्वाभ्यामेव वाऽतिशंसेत् । अक्षरार्थस्तु — यदा ‘ स्तोममतिशंसेत् स्तोमसंख्यामतिक्रम्य शंसनं कुर्यात्, तदानीमेकां द्वे वाऽतिक्रम्य न शंसेत् । तथा च सूत्रकार आह— ' अतिशंसनमेकया द्वाभ्यां वा प्रातःसवने ' ( १ ) आश्व ० श्री ० ५.१.४,५ । ( २ ) ' यद्वाव स्तोत्रं तच्छत्रं, यासु ह्येव, स्तुवते ता एवानुशंसति - इति शत ० ब्रा ० ८.१.३.४ । ' स्तोत्रमग्रे शस्त्रात् ' – इति च आश्व ० श्रौ ० ५.१०.१ ।

पृष्ठ 262

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 262 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२०: ऐतरेयब्राह्मणम् [ २७.५ षष्ठपञ्चिकायां इति । ततोऽधिकानां शंसनाभावे युक्तिर्दृष्टान्तमुखेनोच्यते, तत्रायं दृष्टान्तोऽवगन्तव्यः । यथा लोके ‘ अभिहेषते ’ घासार्थमाभिमुख्येन ' हेषा ' शब्दं कुर्वतेऽश्वाय ‘ पिपासते ' अत्यन्तं तृषार्ताय पुरुषोऽन्नाद्यं पानीयं क्षिप्रं प्रयच्छेत्, तादृगेव ' तत् ऋग्बाहुल्याभावेनातिशंसनम् । ' अथो ' अपि च क्षिप्रमेव देवेभ्यः सोमपानरूपमन्नाद्यं प्रयच्छतीत्यभिप्रेत्य ऋग्बाहुल्येन विलम्बमकृत्वैकया द्वाभ्यां वाऽतिशंसनं कुर्यात् । तथा सति ' क्षिप्रं ' शीघ्रमेवास्मिँल्लोके प्रतिष्ठितो भवति ॥ सवनान्तरयोरुक्तवैपरीत्यं विधत्ते— अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै ॥८ ॥

हिन्दी — स्वर्गस्य लोकस्य आप्त्यै स्वर्गलोक की प्राप्ति के लिए उत्तरयोः सवनयोः बाद वाले दोनों सवनों में अपरिमिताभिः अपरिमित ( असीमित = बहुत ऋचाओं ) से ( शंसन करना चाहिए ) क्योंकि अपरिमितो वै स्वर्गो लोकः स्व स्वर्गलोग असीमित है ॥ सा ० भा ० - -इयत्य एवेत्येवं नियमरहिताभिर्बह्वीभिर्ऋग्भिरतिशंसनं सवनद्वये कुर्यात् । स्वर्गस्य लोकस्येयत्तारहितत्वात् । स्वर्गप्राप्त्यर्थमिदमतिशंसनं संपद्यते । यत्रातिशंसनं कर्तव्यं. भवति, तत्र तदर्थमृचामागमनं कर्तव्यम् ॥ तासामृचां देशविशेषं दर्शयति— कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तोत्रकाः, प्राणो वै होताऽङ्गानि होत्रकाः, समानो वा अयं प्राणोऽङ्गा-न्यनुसंचरति; तस्मात् तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः ॥ ९ ॥

हिन्दी— ( उन ऋचाओं के स्थान - विशेष को दिखला रहे हैं — ) यद् होत्रकाः पूर्वेद्युः शंसेयुः जिन ( सूक्तों ) को ( मैत्रावरुण इत्यादि ) होत्रक ( अहर्गणों में विद्यमान दिन से ) पूर्व वाले दिन में शंसित करें तत् उन सूक्तों का होता कामम् शंसेत् अपनी इच्छानुसार होता शंसन कर सकता है । यद्वा होता अथवा जिस ( सूक्त ) का होता ( शंसन करता है ) तद् होत्रकाः उसका होत्रक ( भी पाठ करें ) क्योंकि प्राणो वै होता होता प्राण - रूप है और होत्रकाः अङ्गानि होत्रक ( हस्त, पाद इत्यादि के समान ) अङ्ग - रूप हैं । अयं प्राणः यह प्राण समानो वै समान रूप से ही अङ्गानि अनुसञ्चरति अङ्गों को सञ्चारित करता है । तस्मात् इसी कारण यद् होत्रका: पूर्वेद्यु शंसेयुः जिस ( सूक्त ) को होत्रक ( वर्तमान दिन ( ३ ) आश्व ० श्री ० ० ७.१२.४ । ‘ अपरिमिताभिरुत्तरयोः सवनयो: ' - इति च तदुत्तरसूत्रम् ( शाङ्खा ॰ श्रौ ० ० १२.२.१६ ) । तु ० ऐ ० ब्रा ० २३.१० ।

पृष्ठ 263

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 263 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११२१ से ) पूर्व वाले दिन शंसित किये हैं तद् कामं होता शंसेत् उसको होता अपनी इच्छा के अनुसार शंसित करे यद्वा अथवा जो होता होता ( शंसित करे ) तद् होत्रकाः उसको होत्रक. भी ( शंसित करें ) | सा ० भा०- -अहर्गणेषु वर्तमानदिनात् ‘ पूर्वेद्युः ' मैत्रावरुणादयो ‘ होत्रकाः ' ‘ यत् ’ सूक्तं शंसेयुः, तदेव सूक्तं परेद्युर्होता ' कामम् ' अविशङ्कयैव शंसेत् । यदि होतुरतिशंसनं प्रसक्तं, तदानीं पूर्वेद्युर्होत्रकैः शस्तात् सूक्तादृच आनेतव्याः । यदि तु होत्रकाणामतिशंसनं प्रसक्तं, तदानीं पूर्वेद्युर्होता यत्सूक्तं शंसति, तस्मात् सूक्ताद्धोत्रकैरपेक्षिता ऋच आनेतव्याः । होतुः प्राणस्थानीयत्वाद्धोत्रकाणां हस्तपादाद्यवयवस्थानीयत्वात् परस्परसूक्तादृगानयनें सत्ययं प्राणः सर्वेष्ववयवेषु पक्षपातमन्तरेण तुल्य एवानुसंचरति । ' तस्मात्तत्कामम् ' इत्युक्तार्थोपसंहारः ॥ इत्थं परिधानीयाप्रसङ्गेन बुद्धिस्थयाज्याया अनवानत्वमतिशंसनं च निर्णीय, अथ प्रकृतामेव परिधानीयास्तुतिमनुसरति— सूक्तान्तैर्होता परिदधदेत्यथ समान्य एव तृतीयसवने होत्रकाणां परि-धानीया भवन्त्यात्मा वै होताऽङ्गानि होत्रकाः समाना वा इमेऽ-ङ्गानामन्तास्तस्मात् समान्य एव तृतीयसवने होत्रकाणां परिधानीयां भवन्ति, भवन्ति ॥१० ॥

. हिन्दी - सूक्तान्तैः सूक्त की अन्तिम ( ऋचा ) से होता परिदधत् होता ( शस्त्र का ) समापन करता है । तृतीयसवने तृतीयसवन में होत्रकाणाम् होत्रकों की परिधानीयाः सामान्या एव भवन्ति परिधानीय ( ऋचाएँ ) सामान्या ( अर्थात् होता के समान ही होती है । आत्मा वै होता होता ही आत्मास्वरूप है और अङ्गानि होत्रका: होत्रक अङ्गरूप हैं । अङ्गानाम् इमे अन्ताः समानाः एव अङ्गों के ये अन्त समान ही हैं । तस्मात् इसी कारण तृतीयसवने तृतीयसवन में होत्रकाणां परिधानीयाः होत्रकों की परिधानीया ऋचाएँ सामान्या एव भवन्ति ( होता की परिधानीय ऋचा के ) समान ही होती हैं । सा ० भा ० – सूक्तानामन्तिमा ऋच: ' सूक्तान्ताः ' ताभिर्ऋग्भिर्होता ' परिदधत् ' शस्त्र-समापनं कुर्वन्नतिवर्तते । ‘ अथ ' होतुरनन्तरं होत्रकाणामुच्यते, — तेषां तृतीयसवने परिधानीयाः ‘ समान्याः ' तुल्या एव भवन्ति । एकाहे याः परिधानीयाः, ता एवाहर्गणेषु भवन्ति । तथा च पूर्वमुक्तम्— ‘ ऐकाहिका एव तृतीयसवने ' इति । तदेवात्र होत्रा सह प्रशंसार्थमनूद्यते । योऽयं होता, सोऽयम् ‘ आत्मा वै ' देह एव; होत्रकास्तु हस्तपादाद्यवयवाः । तेषां च हस्तादीनामन्ताः ' समानाः ' तुल्या एव दृश्यन्ते । दक्षिणहस्तस्यान्तो यादृशः पञ्चाङ्गुल्युपेतः, तादृश एव वामहस्तस्यान्तोऽपि । एवं पांदयोः, स्तनकर्णादियुग्मयोस्तुल्यान्तत्वं द्रष्टव्यम् । ‘ तस्मात्

समान्य एव ’ – इत्युपसंहारः । पदाभ्यासोऽध्यायसमाप्त्यर्थः ॥

ऐ. प्रा. उ. १७

पृष्ठ 264

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 264 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२२: ऐतरेयब्राह्मणम् [ २७.५ षष्ठपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये षष्ठपञ्चिकायां द्वितीयाध्याये ( सप्तविंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( ८ ) ( १ ९ ५ )

॥। इस प्रकार ऐतरेयब्राह्मण के सत्ताइसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्क भूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो भगवत्सायणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाश'- नामभाष्ये ऐतरेयब्राह्मणभाष्यस्य षष्ठपञ्चिकायाः द्वितीयोऽध्यायः ( सप्तविंशोऽध्यायः ) ॥२ ॥ ( २७ )

॥ इस प्रकार ऐतरेयब्राह्मण के सत्ताइसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त हुआ ।

पृष्ठ 265

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 265 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ षष्ठपञ्चिकायां तृतीयोऽध्यायः [ अथ अष्टाविंशोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम्— प्रात: सवने होत्रकशस्त्राण्यनुरूपो यस्मिन्नेव स्तुवते (? ) स्तोत्रिय एष ॥ आरम्भाद्या आहवनीयाः परिधायावृद्धे स्तोमे. - स्यादतिशंसार्थतृचश्च ॥ १ ॥

अथोन्नीयमानसूक्तानि ' विधातुमुपक्रमते —— ( प्रातःसवनगतोन्नीयमानसूक्तविधानम् ) ' आ त्वा वहन्तु हरय ' इति प्रातः सवन उन्नीयमानेभ्योऽन्वाह; वृष-ण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धाः ॥ १ । हिन्दी -- ( अब उन्नीयमान सूक्तों का विधान करने के लिए उपक्रम कर रहे हैं - ) ' आ त्वा वहन्तु हरयः ' इति इस सूक्त का प्रातः सवने प्रातः कालीनसवन में उन्नीयमानेभ्यः उन्नीयन ( चमस में सोम को भरने ) के लिए अनुब्रूयात् ( अध्वर्यु के प्रैष के बाद मैत्रावरुण होत्रक को ) अनुवाचन करना चाहिए । ( इस सूक्त की ऋचाएँ ) वृषण्वतीः वृषन् ( वर्षा करने वाले ) शब्द से युक्त है, पीतवतीः पीत ( पान करना अर्थ वाले ) शब्द से युक्त, सुतवतीः सुत ( सवन करना अर्थ वाले ) शब्द से युक्त और मद्वती मद शब्द से युक्त हैं । रूपसमृद्धाः ( विवक्षितार्थ की अनुकूलता से ) रूपसमृद्ध है । सा ० भा ० — यदा चमसा ' उन्नीयन्ते ' सोमेन पूर्यन्ते, तदानीमध्वर्युणा प्रेषिता मैत्रा-वरुणः ‘ आ त्वा वहन्तु - इंति ' सूक्तमनुब्रूयात् । तस्मिन् सूक्ते स्थिता ऋचो वृषशब्देन पीतशब्देन सुतशब्देन मदशब्देन च युक्ताः । तत्र द्वितीयपादें ' वृषण सोमपीतये ’ — इति वृषशब्दपीतशब्दो विद्येते । चतुर्थ्यामृचि ' सुते हि त्वा हवामहे ' इति श्रवणात् सुतशब्दो विद्यते । अष्टमायामृचि ‘ इन्द्रो मदाय गच्छति ' – इति मदशब्दो विद्यते । यद्यप्येते शब्दा; सर्वास्वृक्षु न सन्ति, तथाऽपि क्वचिच्छ्रवणात् सर्वा अपि च्छत्रिन्यायेन तैः शब्दैर्युक्ता ( १ ) ‘ उन्नीयमानेभ्योऽन्वाहा त्वा वहन्त्वसावि देवमिहोपयातेत्यनुसवनम् ’ —– इति आश्व ० श्रौ ० ५.५.१ । तांनि च सूक्तानीह प्रथमतृतीयचतुर्थखण्डैर्विधीयन्ते । ( २ ) ऋ ० १.१६.१ - ९

पृष्ठ 266

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 266 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२४: ऐतरेयब्राह्मणम् [ २८.१ षष्ठपञ्चिकायां भवन्ति । वर्षणक्षम इन्द्रः सोम पीत्वा माद्यतीत्यस्यार्थस्योक्तशब्दचतुष्टयेन प्रतीयमानत्वात् विवक्षितार्थानुकूल्येन रूपसमृद्धत्वम् ॥ देवताद्वारा ता ऋचः प्रशंसति— - ऐन्द्रीरन्वाहैन्द्रो वै यज्ञः ॥ २ ॥

हिन्दी— ( देवता द्वारा उन ऋचाओं की प्रशंसा कर रहे हैं - ) ऐन्द्री अन्वाह इन्द्र. सम्बन्धी ( ऋचाओं ) अनुवाचन करता है; क्योंकि इन्द्रो वै यज्ञः ( सोम ) याग इन्द्र देवता वाला है । सा ० भा ० — ‘ इन्द्र त्वा सूरचक्षसः ' इन्द्रं सुखतमे रथे ' – इति श्रवणात् ' इन्द्रदेवताका ऋचः सोमयागश्चेन्द्रदेवताकः २, अतस्तत्र ता युज्यन्ते ॥ छन्दोद्वारा प्रशंसति— गायत्रीरन्वाहः गायत्रं वै प्रातः सवनम् ॥ ३ ॥

हिन्दी — ( छन्द द्वारा उन ऋचाओं की प्रशंसा कर रहे हैं— ) गायत्रीः अन्वाह गायत्री ( छन्द ) वाली ( ऋचाओं ) का अनुवाचन करता है; क्योंकि गायत्रं वै प्रातःसवनम्

प्रातःसवन गायत्री से सम्बन्धित होता है ।

सा ० भा ० — प्रातःसवनस्य गायत्रीछन्दस्कत्वात् तच्छन्दस्का ऋचस्तत्र योग्याः ॥

ऋक्संख्याद्वारा प्रशंसति— नव न्यूनाः प्रातःसवनेऽन्वाह, न्यूने वै रेतः सिच्यते ॥ ४ ॥

" हिन्दी — ( ऋक्संख्या द्वारा प्रशंसा कर रहे हैं । पहले प्रातः सवन वाली ऋचाओं की प्रशंसा कर रहे हैं — ) मध्यन्दिनसवन में ऋचाओं की दश संख्या होती है किन्तु प्रातःसवने प्रातःसवन में न्यूनाः नव ( उस दश संख्या से ) न्यून नव ( संख्या वाली ऋचाओं ) का अन्वाह अनुवाचन होता है । न्यूने हिं रेतः सिञ्चते क्योंकि न्यून ( रिक्त ) में ही वीर्य का सेचन किया जाता है । सा ० भा ० — माध्यंदिनसवने दशसंख्याका वक्ष्यन्ते, तां संख्यामपेक्ष्यात्र या नवसंख्याकास्ता एकयर्चा न्यूनाः । लोकेऽपि ' न्यूने ' स्वल्पे गर्भधारणस्थाने रेतः सिच्यते । अतो न्यूनत्वमत्र युक्तम् ॥ अथ माध्यंदिने सवने ' असावि देवं गोऋजीकमन्धः ' इत्येतत्सूक्तगता दशसंख्याका ' ( १ ) ऋ ० १.१६.१,२ । द्र ० ' द्विदेवत्यैश्चरन्ति ' – इत्यादि आश्व ० श्रौ ० ५.५.१ । ( २ ) ' इन्द्रः सोमस्य काणुका ' - इति ऋ ० ८.७७.४ । निरु ० ५.२.६ । ( ३ ) ऋ ० ७.२१.१-१० ।

पृष्ठ 267

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 267 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम् ः ११२५ ऋचो विधत्ते— दश मध्यंदिनेऽन्वाह; न्यूने वै रेतः सिक्तं मध्यं स्त्रियै प्राप्य स्थविष्ठं भवति ॥५ ॥

हिन्दी— ( मध्यन्दिनसवन में प्रयुक्त ऋचाओं की संख्या की प्रशंसा कर रहे हैं— ) मध्यन्दिने मध्यन्दिनसवन में दश अन्वाह दश ऋचाओं का ( अनुवाचन करते हैं ) । न्यूने. वै सिक्तं रेतः न्यून ( अत्यल्प स्थान ) में सेचन किया गया वीर्य स्त्रियै मध्यं प्राप्य स्त्री के मध्य में आकर स्थविष्ठं भवति ( गर्भरूप में ) स्थूल ( बड़ा ) हो जाता है । सा ० भा ० — लोके स्वल्पे गर्भस्थाने सिक्तं रेतः स्त्रीशरीरस्य मध्यस्थानं प्राप्य गर्भरूपेण ‘ स्थविष्ठम् ’ अतिस्थूलं भवति । अतो रेतः सेकस्थानीयाया ऋचो गर्भस्थानीयायाः संख्याधिक्यं युक्तम् ॥ तृतीयसवने ‘ इहोप यात शवसो नपातः ' इत्येतत्सूक्तगता नवसंख्याका ऋचो ' विधत्ते— नव न्यूनास्तृतीयसवनेऽन्वाह; न्यूनाद्वे प्रजाः प्रजायन्ते ॥ ६ ॥

हिन्दी - ( तृतीयसवन में नव संख्या वाले सूक्त की ऋचाओं का विधान कर रहे हैं— ) तृतीयसवने तृतीयसवन में न्यूनाः नव ( मध्यन्दिनसवन की ऋचाओं की संख्या दश से ) न्यून नव ( संख्या वाली ऋचाओं ) का अन्वाह अनुवाचन करता है ( क्योंकि ) न्यूनाद् वै न्यून ( अल्प योनिद्वार ) से ही प्रजाः प्रजायन्ते सन्तानें उत्पन्न होती हैं ॥ सा ० भा ० – पूर्ववद्दशसंख्यापेक्षयाऽत्र न्यूनत्वम् । लोके हि ' न्यूनाद् ' अल्पाद् योनि-द्वारात् प्रौढाः प्रजा उत्पद्यन्ते । अतो गर्भोत्पादनार्थम् अत्र मन्त्रन्यूनत्वं युक्तम् ॥ एतेषु सूक्तेषु मतद्वयमस्ति संपूर्णसूक्तानुवचनमित्येकं मतम् । प्रतिसूक्तं सप्तानामेव-र्चामनुवचनमिति द्वितीयं मतम् । तत्र प्रथमं मतं प्रशंसति— तत् यदेतानि केवलसूक्तान्यन्वाह, यजमानमेव तद्गर्भं भूतं प्रजनयति यज्ञाद् देवयोन्यै ॥७ ॥

हिन्दी - ( इन सूक्तों की सम्पूर्ण ऋचाओं के अनुवाचन की प्रशंसा कर रहे हैं— ) तद् यद् तो जो एतानि केवलसूक्तानि इन सम्पूर्ण सूक्तों का अन्वाह अनुवाचन करता है तद् उस ( अनुवाचन ) द्वारा यज्ञाद् देवयोन्यै यज्ञरूप देवविषयक योनि द्वार से गर्भं भूतं ( १ ) मूले ' स्त्रियै’— इति पदमस्ति, तस्यैवार्थोऽयम् । षष्ठ्यर्थे चतुर्थी ( पा.सू. २.३.६२ वा. ) ( २ ) द्वितीयतृतीययोः खण्डयोः द्रष्टव्यम् ( आश्व ० श्रौ ० ५.५.१४ ) । ( ३ ) ऋ ० ४.३५.१ - ९ । ( ४ ) द्वितीयचतुर्थयोः खण्डयोः द्रष्टव्यम् ( आश्व ० श्रौ ० ५.५.१४ )

पृष्ठ 268

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 268 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२६: ऐतरेयब्राह्मणम् [ २८.१ षष्ठपञ्चिकायां सम्पूर्ण रूप से गर्भभूत यजमानमेव प्रजनयति यजमान को ही उत्पन्न करता है । : सा ० भा ० — ' केवल ' शब्दः सम्पूर्णवाची । तदनुवचनेन सम्पूर्णगर्भं प्राप्तं यजमानमेव यज्ञरूपाद् ‘ दे॑वयोन्यै ’ देवसम्बन्धियोनिस्थानाद् उत्पादयति । अतः सम्पूर्णानुवचनं युक्तम् ॥ द्वितीयं मतं दर्शयति— ते है सप्त सप्तान्वाहुः, -सप्त प्रातः सवने, सप्त माध्यंदिने, सप्त तृतीयसवने, यावत्यो वै पुरोनुवाक्यास्तावत्यो याज्याः, सप्त वै प्राश्चो यजन्ति, सप्त वषट्कुर्वन्ति, तासामेताः पुरोनुवाक्या इति वदन्तः ॥८ ॥

हिन्दी – ( इन सूक्तों की सात - सात ऋचाओं के ही अनुवाचन करने वाले मत को दिखला रहे हैं— ) ते हैके वे कुछ ( याज्ञिक ) सप्त प्रातः सवने सात ऋचाओं का प्रातः-सवन में, सप्त मध्यन्दिने सात मध्यन्दिन ( सवन ) में, सप्त तृतीयसवने सात तृतीय ( सवन ) में, इस प्रकार सप्त सप्त अन्वाहुः ( इन सूक्तों की ) सात - सात ( ऋचाओं ) का अनुवाचन करते हैं । यावत्यो वै पुरोनुवाक्या जितनी पुरोनुवाक्या ( ऋचाएँ ) होती हैं, तावत्योः याज्या उतनी ही याज्या ( ऋचाएँ ) होती हैं । सप्त वै ( होता, मैत्रावरुण, ब्राह्मणाच्छंसी, नेष्टा, पोता, आग्नीध्र और अच्छावाक - ये ) सात ही ( ऋत्विक ) प्राश्चः प्राङ्मुख होकर यजन्ति यजन करते ( याज्या का पाठ करते ) हैं और सप्त वषट् कुर्वन्ति और सात ही ( ऋत्विक् ) वषट्कार करते हैं । तासाम् उन ( सात याज्याओं ) की एताः ये ( इन सूक्तों में कही गयी सात ऋचाएँ ) पुरोनुवाक्या पुरोनुवाक्या होती हैं, इति वदन्तः ऐसा कहते हुए वह ( वे सात - सात ऋचाओं का ही अनुवाचन करता ) है ॥ सा ० भा ० — ' ते ' प्रसिद्धा ऋत्विज ' एके ' केचित् तत्तद् यज्ञेषु यथोक्तसूक्तगता ऋचः प्रतिसूक्तं सप्तसंख्याका एवान्वाहुः, न तु सम्पूर्णसूक्तानि । तस्यैव व्याख्यानं ' सप्त प्रातःसवने ' इत्यादि । ‘ यावत्यः ’ इत्यादिना तदीया युक्तिरुच्यते । पुरोनुवाक्यानां याज्यानां च संख्या प्रायेण समानैव दृश्यते । तथा सत्यत्र - ' सप्त ' संख्याका ऋत्विजः - होता, मैत्रावरुणः, ब्राह्मणाच्छंसी, नेष्टा, पोता, आग्नीध्रः, अच्छावाकश्चेत्येते ' प्राङ्मुखा‘यजन्ति ' याज्याः पठन्ति । तस्यैव व्याख्यानं - ‘ सप्त वषट्कुर्वन्तीति ' । ' तासां ' सप्तभिः पठ्यमानानां याज्यानाम् ‘ एताः ’ सूक्त गताः सप्तसंख्याका ऋचः पुरोनुवाक्या भवन्तीत्येके तादृशीं युक्तिं वदन्तः सप्त सप्तान्याहुरित्यन्वयः ॥ ( १ ) आग्नीध्रीयं पूर्वम् । सिकताश्चोपरि रौद्रेणेति ( ५.३४ ) सर्वत्र Í षट् सदसि । प्रत्यङ्मुखो द्वारमपरेण होतुः । दक्षिणपूर्वेणोदुम्बरीं मैत्रावरुणस्य । होतृधिष्णामुत्तरेण चतुरः समा-न्तरान् ब्राह्मणाछंसि - पोतृ - नेष्ट्रच्छावाकानाम् - इति कात्या ० श्रौ ० ८.६.१६-२१ ।

पृष्ठ 269

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 269 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११२७ तदिदं मतं दूषयति— तत्तथा न कुर्याद्, यजमानस्य ह ते रेतो विलुम्पन्त्यथो यजमानमेव; यजमानो हि सूक्तम् ॥९ ॥

हिन्दी – ( इन सूक्तों की सात - सात ऋचाओं के अनुवाचन वाले मत को दूषित बतला रहे हैं - ) तत् तो तथा न कुर्यात् इस प्रकार ( उन सूक्तों के सात - सात ऋचाओं का अनुवाचन ) नहीं करना चाहिए । ( इस सात - सात ऋचाओं के अनुवाचन से ) ते वे यजमानस्य रेतो ह यजमान के वीर्य को विलुम्पन्ति विलुप्त कर देते हैं । यजमानो हि सूक्तम् क्योंकि यजमान सूक्त रूप हैं । ( सूक्त की ऋचाओं में कमी करने के कारण ) यजमानम् यजमान को ( न्यून कर देता है ) ॥ सा ० भा ० – सप्त सप्तेति यन्मतं, तत्तथा न कुर्यात् । ' ते ' सप्तसंख्यावादिनः सम्पूर्णसूक्ताभावाद् यजमानस्य प्रजोत्पादकं रेतः ' विनाशयन्ति । ' अथो ' अपि च यजमानमेव विनाशयन्ति । सूक्तस्य यजमानरूपत्वेन सम्पूर्णसूक्तविलोप एव यजमानविलोपः ॥ परमते दोषं दर्शयित्वा स्वमते गुणं दर्शयति— नवभिर्वा एतं मैत्रावरुणोऽस्माल्लोकादन्तरिक्षलोकमभिप्रवहति; दशभिरन्तरिक्षलोकादमुं लोकमभ्यन्तरिक्षलोको हि ज्येष्ठो नवभिरमुष्माल्लोकात् स्वर्गं लोकमभि ॥ १० ॥

हिन्दी – ( अब उन सूक्तों के सम्पूर्ण पाठ करने के मत का गुण बतला रहे हैं— ) नवभिः ( प्रथम सूक्त की ) नौ ऋचाओं से मैत्रावरुणः मैत्रावरुण ं एतेम् इस ( यजमान को ) अस्मात् लोकात् इस ( पृथिवी ) लोक से अन्तरिक्षलोकम् अभि अन्तरिक्ष लोक को अभिलक्षित करके प्रवहति ले जाता है । दशभिः ( द्वितीय सूक्त की ) दश ( ऋचाओं ) से अन्तरिक्षलोकात् अन्तरिक्ष लोक से अमुम् लोकम् उस ( स्वर्ग ) लोक को अभि अभिलक्षित करके ( ले जाता है ) । अन्तरिक्षो हि लोको ज्येष्ठः क्योंकि अन्तरिक्ष. लोक ( पृथिवी की अपेक्षा अत्यन्त विस्तृत होने के कारण ) ज्येष्ठ ( बड़ा ) है । पुनः नवभिः ( तृतीय सूक्त की ) नौ ( ऋचाओं ) से अमुष्माद् लोकात् उस अन्तरिक्षलोक से स्वर्गं ' लोकम् स्वर्गलोक को अभि अभिलक्षित करके ले जाता है । सा ० भा ० — प्रथमसूक्तगताभिः ‘ नवभि: ' ' ऋग्भिः ‘ एतं ' यजमानं भूलोकादन्तरिक्ष-लोकम् ‘ अभि ’ लक्ष्य नयति । द्वितीयसूक्तगताभिः ‘ दशभिः ’ ” ऋग्भिरन्तरिक्षलोकाद् ‘ अमुं लोकं ' ’ नाकपृष्ठाख्यं लोकम् ‘ अभि ’ लक्ष्य नयति । अन्तरिक्षस्य यः समीपवर्ती स्वर्गभागः, ( १ ) प्रातः सवने– ' आ त्वा वहन्तु ' इति नवर्च सूक्तं प्रथमखण्डे विहितम् । ( २ ) माध्यन्दिने सवने– ' असावि देवम् ' - – इति दशर्च सूत तृतीयखण्डे विधास्यते ।

पृष्ठ 270

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 270 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२८: ऐतरेयब्राह्मणम् [ २८.२ षष्ठपञ्चिकायां स नाकपृष्ठाख्यो लोकः; स च प्रवृद्धादन्तरिक्षाद् ' ज्येष्ठः ' अतिप्रबृद्धः, तं दशभिः प्राप्य तस्मांन्नाकपृष्ठाख्याद् ‘ अमुष्मात् ’ स्वर्गाल्लोकादुपरितनं बहुभोगयुक्तं ‘ स्वर्गं लोकं ’ तृतीयसूक्त-गताभिः ‘ नवभिः ३ ' ऋग्भिर्यजमानमभिवहति ॥ स्वंमंत्रे गुणान् दर्शयित्वा तद्राहित्यं परमते दर्शयति— न ह वै ते यजमानं स्वर्गं लोकमभि वोह्ळुमर्हन्ति, ये सप्त-सप्तान्वाहुः ॥ ११ ॥

हिन्दी —ये सप्त सप्त अन्वाहुः जो ( सूक्त की ) सात - सात ऋचाओं का अनुवाचन करने वाले हैं ते वे यजमानम् यजमान कों स्वर्गं लोकमभि वोढुम् स्वर्गलोक को अभिलक्षित करके ले जाने के लिए न अर्हन्ति समर्थ नहीं होते हैं । सा ० भा ० - -'ये ' पूर्वपक्षिणः प्रतिसूक्तं सप्तसंख्याका एवान्वाहुः, ' ते ' संख्यान्यून-· त्वात् पूर्वोक्तरीत्या स्वर्गं प्रति यजमानं ' वोहळं ' ' वोढुं ' नार्हन्ति ॥ स्वमतं निगमयति-तस्मात् केवलश एव सूक्तान्यनुब्रूयात् ॥ १२ ॥

हिन्दी - तस्मात् इसी कारण से केवलशः एव सम्पूर्ण ही सूक्तानि सूक्तों का अनुब्रूयात् अनुवाचन करना चाहिए ॥ सा ० भा ० — ‘ केवलशः ’ प्रतिसूक्तं सम्पूर्णमेवेत्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां तृतीयाध्याये ( अष्टाविंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( ९ ) ( १ ९ ६ )

॥ इस प्रकार ऐतरेयब्राह्मण के अट्ठाइसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — अथ प्रस्थितयाज्याविषयं चोद्यमुद्भावयति— ( प्रस्थितयाज्यायामिन्द्रत्वसम्पादनम् ) अथाह यदैन्द्रो वै यज्ञोऽथ कस्माद् द्वावेव प्रातःसवने प्रस्थितानां . प्रत्यक्षादैन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी चेदं ते सोम्यं · ( १ ) तृतीयसवने ‘ इहोप यात’- इति नवर्च सूक्तं चतुर्थखण्डे ( ९ ४७ पृष्ठे ) विधास्यते ।