ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 281–290
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 281–290
पृष्ठ 281
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] " सायणाचार्यकृतभाष्योपेतम्: ११३ ९ कास्वेव स्तुवते ' I । अथैवं सति कस्मात् कारणात् पवमानस्तोत्रस्यार्भवत्वमाचक्षते? इति चोद्यम् ॥ तस्योत्तरमाह— प्रजापतिर्वै पित ऋभून् मर्त्यान् सतोऽमर्त्यान् कृत्वा तृतीयसवन आ-भजत्, तस्मान्नार्भवीषु स्तुवतेऽथार्भवः पवमान इत्याचक्षते ॥ ३ ॥
हिन्दी — प्रजापतिः वै ( पहले कभी ) प्रजापति ने ही पितः पिता ( पालक ) बनकर मर्त्यान् ऋभून् मरणधर्मा ऋभुवों को अमर्त्यान् कृत्वा अमर ( देवता ) बनाकर तृतीय-सवने तृतीयसवन में आभजत् भागीदार बनाया । तस्मात् इस ( ऋभुवों के देवता न होने ) के कारण आर्भवीषु ऋभु देवता वाली ( ऋचाओं ) में न स्तुवते ( उद्गाता ) स्तुति ( गान ) नहीं करते । अथ फिर भी आर्भवः पवमानः आचक्षते ( ऋभुवों के तृतीयसवन से सम्बन्धित होने के कारण तृतीयसवन वाले पवमान स्तोत्र को ) आर्भव पवमान कहा . जाता है । सा ० भा ० – पुरा प्रजापतिः पिता भूत्वा ' मर्त्यान् ' मनुष्यान् सतः ' ऋभून् ' ' अमर्त्यान् ' देवान् कृत्वा तृतीयसवने ‘ आभजत् ' भागिनोऽकरोत् । तदिदमुपाख्यानम् ‘ आर्भवं शंसति ' इत्यत्र प्रदर्शितम् । एवं च सत्यृभूणां स्तोत्रदेवतात्वाभावाद् ‘ आर्भवीषु ' ऋक्षूद्गातारो न स्तुवते । ‘ अथ ’ अप्यृभूणां तृतीयसवनसम्बन्धसद्भावात् तृतीयसवनगतस्य पवमानस्तोत्रस्या-प्यार्भवत्वं व्यवहरन्ति ॥ प्रासङ्गिकं परिसमाप्य प्रकृत एव सूक्ते चोद्यमुद्भावयति — अथाह यद्यथाछन्दसं पूर्वयोः सवनयोरन्वाह, - गायत्रीः प्रातःसवने, त्रिष्टुभो माध्यंदिने, ऽथ कस्माज्जागते सति तृतीयसवने, त्रिष्टुभो s-न्वाहेति ॥ ४ ॥
• हिन्दी - ( अब ' इहोप यात ' सूक्त के छन्द के विषय में प्रश्नोत्तर कर रहे हैं— ) ( प्रश्न- ) अथाह इस सूक्त के विषय में ( कुछ वेदज्ञ ) कहते हैं — गायत्री प्रातःसवने प्रातःसवन में गायत्री छन्दस्क ऋचाएँ और त्रिष्टुभो माध्यन्दिने माध्यन्दिनसवन में त्रिष्टुप् ( छन्द ) वाली ऋचाएँ ( इस प्रकार ) उभयोः सवनयोः दोनों सवनों में यथाछान्दसम् छन्दों के ' अनुसार अन्वाह अनुवांचन करता है, अथ कस्मात् तो किस कारण से तृतीयसवने तृतीयसवन में जागते सति जगती छन्द से सम्बन्धित होने पर भी त्रिष्टुभो अन्वाह त्रिष्टुप् ( छन्द ) वाली ऋचाएँ अन्वाह अनुवाचित होती हैं? ॥ सा ० भा ० – ‘ अथ ' उन्नीयमानसूक्तविधानानन्तरं तत्र कश्चिद् ब्रह्मवादी चोद्यमाह । ( १ ) उ ० आ ० १.१.१५; ता ० ब्रा ० ८.४.५
पृष्ठ 282
पाठ पढ़ें पाठ छिपाएँ
११४०: ऐतरेयब्राह्मणम् [ २८.४ षष्ठपञ्चिकायां ‘ यद् ’ यस्मात् कारणाद् ‘ यथाछन्दसं ' तत्र - तत्रोचितं छन्दोऽनतिक्रम्य सवनद्वये गायत्रीस्त्रि-ष्टुभश्च क्रमेणान्वाह, तृतीयसवनं तु जागतम् । तथा सति जगतीमतिक्रम्य ' इहोप यात'-इत्याद्यास्त्रिष्टुभः कस्मादनुब्रूते? इति चोद्यम् ॥ तत्रोत्तरं दर्शयति-धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप्, सवनस्य सरसताया इति ब्रूयादथो इन्द्रमेवैतत्सवनेऽन्वाभजतीति ॥५ ॥
हिन्दी – ( उपर्युक्त प्रश्न का उत्तर दे रहे हैं - ) ( उत्तर ) धीतरसं वै तृतीयसवनम् • ( सोमाहरणकाल में ही गायत्री द्वारा तृतीयसवन के रस को पी लेने के कारण ) तृतीयसवन पान कर लिए गये रस वाला है और यत् त्रिष्टुभम् जो त्रिष्टुप् छन्द है वह शुक्रियं छन्दः शुक्रिय ( शुद्ध रस से परिपूर्ण ) छन्द है । अतः सवनस्य तृतीयसवन की सरसतायै सरसता के लिए ( त्रिष्टुप् छन्द वाली ऋचाओं का अनुवाचन करता है ) । अथो सवने इस प्रकार ( तृतीय ) सवन में एतत् यह सरस ( छन्द ) इन्द्रम् इन्द्र को अन्वाभजति भागीदार बनाता है ( क्योंकि त्रिष्टुप् छन्द इन्द्र देवता वाला है अतः इन्द्र का भागीदार होना युक्ति-सङ्गत है ) ॥ सा ० भा ० — यदेतत् तृतीयसवनं, तदेतद् ' धीतरसं ' तदीयो रसो गायत्र्या पीतः सोमाहरणकाले पद्भ्यां सवनद्वयं मुखेन तृतीयसवनं च गृहीत्वा तत्रत्यं रसं गायत्री पीतवती । तथा चान्यत्र श्रूयते — ' पद्भ्यां द्वे सवने समगृह्णात् मुखेनैकम्; यत् मुखेन समगृह्णात्, तदधयत्, तस्माद् द्वे सवने शुक्रवती प्रातः सवनं माध्यंदिनं च, तस्मात् तृतीयसवन ऋजीषमभिषुण्वन्ति; धीतमिव हि मन्यन्ते इति । तथैव त्रिष्टुप्छन्दो यदस्ति, एतद् ‘ अधीत-रसम् ' अपीतरसं; माध्यंदिनसवनसम्बन्धित्वात् । अत एतच्छुक्रियं रसस्तदुपेतं ‘ शुक्रियम् ' अतोऽस्य तृतीयसवनस्य सरसत्वार्थं त्रिष्टुभोऽन्वाहेत्युत्तरं ब्रूयात् । ' अथो ' अपि च तेन सरसत्वेनेन्द्रमेव तृतीयसवने भागवन्तं करोति, त्रिष्टुप्छन्दस ऐन्द्रत्वात् । तेनेन्द्रभागत्वं युक्तम् ॥ उक्तं चोद्यं समाधाय प्रस्थितयाज्याविषये चोद्यमुद्भावयति— ( होत्रकानां याज्यास्वर्भत्वम् ) अथाह यदैन्द्रार्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थितानां प्रत्यक्षादैन्द्रार्भव्या यजतीन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिति होतैव; नानादेवत्याभिरितरे; कथं तेषामैन्द्रार्भव्यो भवन्तीति ॥ ६ ॥
हिन्दी— ( अब प्रस्थित याज्या के विषय में प्रश्नोत्तर कर रहे हैं— ) ( प्रश्न- ) अथाह अब ( प्रस्थित याज्या के विषय में कुछ याज्ञिक ) कहते हैं— यत् तृतीयसवनम् जो तृतीय से । संवन ऐन्द्रार्भवम् इन्द्र और ऋभु ( देवता ) से सम्बन्धित है कस्मात् तो किस कारण ( १ ) तै ० सं ० ६.१.७.४ । ( २ ) तेनैन्द्रार्भवत्वं युक्तम् — इति साम ० संपा ० ऐशि ० पाठः ।
पृष्ठ 283
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः ११४१ एषः होतैव यह ( होता ) ही तृतीयसवने तृतीयसवन में प्रस्थितानाम् प्रस्थित आहुतियों के लिए प्रत्यक्षात् प्रत्यक्षरूप से ऐन्द्रार्भव्या इन्द्र और ऋभु से सम्बन्धित ' इन्द्र ऋभुिभिर्वाजवद्भिः समुक्षितम् ' इस ऋचा से यजति यजन ( याज्या ) करता है । इतरे ( होता से अन्य होत्रक ) नानादेवत्याभिः अनेक देवताओं वाली ऋचाओं से ( यजन करते हैं ) । इस प्रकार तेषाम् उन ( होता से अन्य होत्रकों ) का ( यजन ) ऐन्द्रार्भव्यः भवन्ति इन्द्र और ऋभु ( देवता ) से सम्बन्धित होता है । सा ० भा०- ' अथ ' उन्नीयमानसूक्तकथनान्तरं कश्चिद् ब्रह्मवादी चोद्यमाह । ' यद् ’ यस्मात् कारणात् तृतीयसवनम् ‘ ऐन्द्रार्भवम् ', तच्च पूर्वमुपपादितम् । एवं सत्येक एव होता प्रस्थितसोमानां ‘ प्रत्यक्षात् ’ प्रत्यक्षेण मुख्येनैवेन्द्रशब्देन ऋभुशब्देन च युक्तयर्चा यजति । ‘ इन्द्र ऋभुभिः ’ — इत्याद्या ' सेयमृगवगन्तव्या । होतैव तया यजति; न त्वितरे षऋत्विजः; ते तु नानाविधदेवताकाभिर्वक्ष्यमाणाभिर्ऋग्भिर्यजन्ति । तस्मात्कारणादेतत् कथं सम्पन्नम्? किंच तेषां षण्णमृत्विजां सम्बन्धिन्यो याज्याः कथमैन्द्रार्भव्यो द्विविधदेवताका भवन्ति? इति चोद्यम् ॥ तत्र होतुर्याज्या ऐन्द्रार्भवत्वेन परितोषात्तां तथैवाङ्गीकृत्येतरेषां याज्यासु क्रमेणैन्द्रार्भवत्वं दर्शयितुकामः प्रथमतो मैत्रावरुणस्य याज्यायां तद्दर्शयति— ( मैत्रावरुणस्य याज्यायामार्भवत्वम् ) इन्द्रावरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति; युवो रथो अध्वरं देववीतय इति बहूनि वाऽऽह तदृभूणां रूपम् ॥७ ॥
हिन्दी— ( मैत्रावरुण की याज्या में ऋभुदेवत्व को दिखला रहे हैं — ) ' इन्द्रावरुणा सुतपाविमं सुतम् ' इति मैत्रावरुणः यजति इस ( ऋचा ) से मैत्रावरुण ( नामक होत्रक ) यजन ( याज्या ) करता है । ( इस ऋचा के तृतीय पाद ) ' युवो रथो अध्वरं देववीतये ' में ( बहुवचनान्त देववीतये के द्वारा ) बहूनि आह बहुत का कथन हुआ है । तद् ऋभूणां रूपम् वह ऋभुवों का उपलक्षक है I सा ० भा ० — ‘ इन्द्रावरुणा ' इत्यस्यां याज्यायां ' ' युवो रथो ' इत्यस्मिन् पादे ' देववीतये ' इति पदं विद्यते । देवानां वीतिः प्राप्तिर्देववीतिरिति तस्य समासः । तस्य समासे षष्ठीबहु-( १ ) ऋ ० ३.६०५ । ( २ ) ऋ ० ६.६८.१० । ( ३ ) ( i ) देवानां वीतये = भक्षणायेति । बहुवचनान्तस्य समासः । ततः किम् बहूनिवाह = = इव = एव – षड्गुरुशिष्यः । किन्तु सायणमते ' बहूनि ' इति छेदः । ( ii ) देवपीतये = देवान्तर पुत्राय (? ) इत्यत्र देवत्वं गम्यते । ननु द्विवचनबहुवचनान्तानां वृत्तिप्रतिषेधादेक एव देवो गम्यते, सत्यम्; ‘ इह तु बहवः एव इत्याप्तोपदेशः ' मारुतं वैश्वदेवमिति । तस्माद् देवपीतय इति बहूनाह । इवेत्यवधारणां द्योतयति । तच्च बहुत्वमृभूणां रूपं बहवोऽभिमता ऋभव इति । एवमुत्तरेष्वपि द्रष्टव्यम् — इति गोविन्दस्वामी ।
पृष्ठ 284
पाठ पढ़ें पाठ छिपाएँ
११४२: ऐतरेयब्राह्मणम् [ २८.४ षष्ठपञ्चिकायां वचनान्तेन शब्देन बहून्येव रूपाणि प्रतीयन्ते । तत्र बहुत्वमृभूणां स्वरूपम्, मनुष्य-रूपाणामृभुशब्दवाच्यानां महर्षीणां बहुत्वात् । तस्मादर्थत ऋभुसद्भावाद् इन्द्रशब्दस्य च साक्षाच्छ्रवणाद् इयमैन्द्रार्भवी ॥ ब्राह्मणाच्छंसिनो याज्यायामार्भवत्वं संपादयति— ( ब्राह्मणाच्छांसिनः याज्यायामार्भवत्वम् ) इन्द्रश्च सोमं पिबतं बृहस्पत इति ब्राह्मणाच्छंसी यजत्या वां विशन्त्विन्दवः स्वाभुव इति बहूनि वाऽऽह तदृभूणां रूपम् ॥८ ॥
हिन्दी— ( ब्राह्माच्छंसी नामक होत्रक की याज्या में ऋभुदेवत्व को दिखला रहे हैं— ) ‘ इन्द्रश्च सोमं पिबतं बृहस्पते ' इति ब्राह्मणाच्छंसी यजति इस ( ऋचा ) से ब्राह्मणाच्छंसी ( नामक होत्रक ) यजन ( याज्या ) करता है । इस ऋचा के ' आ वा विशन्त्विन्दव स्वाभुव ' इति बहूनि आह इस ( पाद ) में ( बहुवचनान्त विशन्तु इत्यादि पद ) बहुत्व का कथन करता है; तद् ऋभूणां रूपम् वह ऋभुओं का निरूपक है ॥ सा ० भा ० — इन्द्रश्चेत्यादियाज्यायाम् ' ' आ वां विशन्तु ' –इत्यस्मिन् पादे ' विशन्तु’-इत्यादीनि बहुवचनान्तानि पदानि श्रूयन्ते, तैरभिधेयं बहुत्वमृभूणां स्वरूपम् ॥ पोतुर्याज्यायामार्भवत्वं दर्शयति-( पोतुः याज्यायामार्भवत्वम् ) आ वो वहन्तु सप्तयो रघुष्यद इति पोता यजति; रघुपत्वानः प्र जिगात बाहुभिरिति बहूनि वाऽऽह तदृभूणां रूपम् ॥९ ॥
हिन्दी— ( अब पोता नामक होत्रक की याज्या में ऋभुदेवत्व को दिखला रहे हैं— ) ‘ आ वो वहन्तु सप्तयो रघुष्यद ' इति पोता यजति इस ( ऋचा ) यजन ( याज्या ) करता है । इस ऋचा के ' रघुपत्वानः प्र जिगात आह ( बहुवचनान्त पद ) बहुत्व को कहते हैं, तद् ऋभूणां उपलक्षक है ॥ सा ० भा०- -‘आ वो वहन्तु ' इति याज्यायां ' ‘ रघुपत्वानः ' नान्तैः पदैरभिधेयं बहुत्वमृभूणां स्वरूपम् ॥ नेष्टुर्याज्यायामार्भवत्वं दर्शयति— ( नेष्टुः याज्यायामार्भवत्वम् ) से पोता ( नामक होत्रक ) बाहुभिः ' पाद में बहूनि रूपम् वह ऋभुओं का इत्यस्मिन् पादे बहुवच-अमेव नः सुहवा आ हि गन्तनेति नेष्टा यजति; गन्तनेति वाऽऽह तदृभूणां रूपम् ॥ १० ॥
( १ ) ऋ ० ४.५०.१० । ( २ ) ऋ ० १.८५.६ ।
पृष्ठ 285
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११४३ हिन्दी— ( अब नेष्टा नामक होत्रक की याज्या में ऋभुदेवत्व को दिखला रहे हैं— ) ' अमेव नः सुहवा आ ' हि गन्तना ' इति नेष्टा यजति इस ( ऋचा ) से नेष्टा ( नामक होत्रक ) यजन ( याज्या ) करता है 1 ( इस ऋचा के इसी पाद में लोट् लकार मध्यम पुरुष के बहुवचनान्त ‘ गच्छत ' का वैदिक रूप ' गन्तन ' बहुवचनान्त ) है, तद् ऋभूणां रूपम् वह ( बहुवचनान्त होने से ) ऋभुओं का उपलक्षक है ॥ सा ० भा ० - ' अमेव नः ' इति याज्यायां ' तस्मिन्नेव पादे ' गन्तनेति ' पदस्य गच्छतेत्यर्थे सति लोण्मध्यमपुरुषबहुवचनान्तेन प्रतीतं बहुत्वमृभूणां स्वरूपम् ॥ अच्छावाकस्य याज्यायामार्भवत्वं दर्शयति— ( अच्छावाकस्य याज्यायामार्भवत्वम् ) इन्द्राविष्णू पिबतं मध्वो अस्येत्यच्छावाको यजत्या वामन्धांसि मदिराण्यग्मन्निति बहूनि वाह तदृभूणां रूपम् ॥११ ॥
हिन्दी— ( अच्छावाक नामक होत्रक की याज्या में ऋभुदेवताकत्व को दिखला रहे हैं— ) ‘ इन्द्राविष्णू पिबतं मध्वो अस्य ' इति अच्छावाको यजति इस ( ऋचा ) से अच्छावाक ( नामक होत्रक ) यजन ( याज्या ) करता है । ( इस ऋचा के ' आ वामन्धांसि मदिराण्यग्मन् ' इति बहूनि आह ( बहुवचनान्त अन्धांसि इत्यादि ) बहुत्व को कहता है, तद् ऋभूणां रूपम् वह ऋभुओं का निरूपक है ॥ सा ० भा०- -‘इन्द्राविष्णू ’ इत्यस्यां याज्यायाम् ' ' आ वाम् ' इत्यस्मिन् पादे बहुवच-नान्तैः ‘ अन्धांसि ' इत्यादिभिः पदैः प्रतीतं बहुत्वमृभूणां स्वरूपम् ॥ आग्नीध्रस्य याज्यायामार्भवत्वं दर्शयति— ( आग्नीध्रस्य याज्यायामार्भवत्वम् ) इमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति; रथमिव सं महेमा मनीषयेति बहूनि वा ह तद्भूणां रूपम् ॥ १२ ॥
हिन्दी – ( आग्नीध्र नामक होत्रक की याज्या में ऋभुओं के देवता होने को दिखला रहे हैं— ) ‘ इमं स्तोममर्हते जातवेदस ' इत्याग्नीघ्रो यजति इस ऋचा से आग्नीध्र ( नामक होत्रक ) यजन ( याज्या ) करता है । ( इस ऋचा के ) ' रथमिव सं महेमा मनीषया ' इति बहूनि आह इस ( पाद ) में ( उत्तम पुरुष का बहुवचनान्त महेम पद ' बहुत्व अर्थ को कहता है, तद् ऋभूणां रूपम् वह ऋभुओं का स्वरूप है । सा ० भा ० -'इमं स्तोमम् ' इत्यस्यां याज्यायां ' ' रथमिव ' इत्यस्मिन् पादे ' महेम ' इत्युत्तमपुरुषबहुवचनान्तेन पदेन प्रतीयमानं बहुत्वमृभुणां स्वरूपम् ॥ ( १ ) ऋ ० २.३६.३ । ( २ ) ऋ ० ६.६ ९.७ । ( ३ ) ऋ ० १.९ ४.१ ।
पृष्ठ 286
पाठ पढ़ें पाठ छिपाएँ
११४४: ऐतरेयब्राह्मणम् [ २८.४ षष्ठपञ्चिकायां उक्तार्थमुपसंहरति-एवमु हैता ऐन्द्रार्भव्यो भवन्ति ॥ १३ ॥
हिन्दी— ( उपर्युक्त कथन का उपसंहार कर रहे हैं — ) एवमु ह इस प्रकार से एताः ऐन्द्रार्भव्यो भवन्ति ये ( ऋचाएँ ) इन्द्र और ऋभु देवताओं से सम्बन्धित होती है ॥ सा ० भा ० — उक्तेन प्रकारेण याज्यास्वृभुसम्बन्धसम्पादनादिन्द्रसम्बन्धस्य च साक्षा-देव श्रूयमाणत्वाद् एता ऋच ऐन्द्रार्भव्यः संपद्यन्ते ॥ इन्द्रस्यर्भूणां चोक्तसंबन्धेन प्रीतेः सिद्धत्वाद् इतरदेवतानामपि ताभिर्याज्याभिः प्रीतिं दर्शयति-यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति ॥ १४ ॥
हिन्दी - यद् नानादेवत्याः जो ( ये ऋचाएँ ) अनेक देवताओं वाली हैं तेन उससे अन्याः देवताः प्रीणाति अन्य देवता को भी प्रसन्न करता हैं । सा ० भा ० — इन्द्रवरुणबृहस्पत्यादिनानाविधदेवतायुक्ता ऋच इति यदस्ति, ' तेन ' कारणेन ' अन्याः ' इन्द्रादृभुभ्यश्च व्यतिरिक्ता देवतास्तोषयति ॥ याज्यास्ववस्थितं छन्दः प्रशंसति— यदु जगत्प्रासाहा जागतं वै तृतीयसवनं तृतीयसवनस्यैव समृद्ध्यै ॥ १५ ॥
हिन्दी— ( उपर्युक्त याज्याओं के छन्द की प्रशंसा कर रहे हैं— ) यदु जो ( इन याज्याओं में ) जगत्प्रसाहा जगती छन्द की अधिकता है तो जागतं वै तृतीयसवनम् तृतीयसवन जगती ( छन्द ) से सम्बन्धित है । तृतीयसवनस्य समृद्ध्यै तृतीयसवन की समृद्धि के लिए ( इन जगती छन्द की ऋचाओं से यजन करता है ) ॥ सा ० भा ० — जगच्छब्देन जगतीछन्दोऽभिधीयते । प्रासाहशब्दो बाहुल्यवाची । जगत्यः प्रासाहा बहुला यासूक्तासु प्रस्थितयाज्यासु ता ' जगत्प्रासाहाः ' तृतीयसवनं च जागतमिति प्रसिद्धम् । अतो ‘ यदु ' यदेव जगतीबाहुल्यं, तेन तृतीयसवनस्य समृद्धिर्भवति ' ॥ ( १ ) ( i ) ‘ श्रुतत्वात् ’ — इति साम ० संपा ० ऐशि ० पाठ: । ( ii ) ' एकाशतं वसिष्ठप्रासाहा ' इति ऐ ० आ ० ५.२.२ । ( २ ) ' इदं ते सौम्यं.... उक्षान्नाय वसान्नायेति प्रातस्सवनिक्यः प्रस्थितयाज्या ( २ ख ० ), पिबा सोममभिः ……..आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः ( ३ ख ० ), इन्द्र ऋभुभिः... स्तोममर्हते जातवेदस इति तार्त्तीयसवनिक्य: ( ४ ख ० ) ' - इति आश्व ० श्री ० ५.५.१८-१ ९ । इह चैताः पृष्ठेषु विहिता द्रष्टव्याः । ता एवेताः ' प्रस्थितयाज्याः'— इत्युच्यन्ते । ‘ होता यक्षत् ’ – इति प्रेषितः प्रेषितो होतानुसवनं प्रस्थितयाज्याभिर्यजति, नामादेश-मितरे, प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोच्छावाकश्च’— इति आश्व ० श्रौ ० ५. ५.१५-१७ ।
पृष्ठ 287
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११४५ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां तृतीयाध्याये ( अष्टाविंशाध्याये ) चतुर्थः खण्डः ॥४ ॥ ( १२ ) ( १ ९९ )
॥ इस प्रकार ऐतरेयब्राह्मण के अट्ठारहवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा ० — होत्रकाणां प्रस्थितयाज्याः सवनत्रयेऽभिधाय परस्परं साम्यं वैषम्यं च विवेक्तुं प्रश्नमुद्भावयति— ( सवनत्रये होत्रकाणां प्रस्थितयाज्यासु साम्यवैषम्यनिरूपणम् ) अथाऽऽह यदुक्थिन्योऽन्या होत्रा, अनुक्था अन्याः, कथमस्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्तीति ॥ १ ॥
हिन्दी - ( तीनों सवनों में होत्रकों की प्रस्थित याज्या को कहकर उनके परस्पर साम्य वैषम्य की विवेचना करने के लिए प्रश्न की उद्भावना कर रहे हैं - ) अथाह अब ( याज्या ) के प्रतिपादन के बाद कुछ वेदज्ञ ) कहते ( प्रश्न करते ) हैं — अन्याः होत्राः कुछ होत्रकों ( मैत्रावरुण, ब्राह्मणाशंसी और अच्छावाक ) की क्रियाएँ उक्थिनः ( होता द्वारा विवक्षित होने के कारण ) उक्थयुक्त ( शस्त्रयुक्त ) होती हैं और अन्याः अन्य कुछ ( होत्रको की क्रियाएँ ) अनुक्थाः ( नेष्टा, पोता द्वारा की गयी होता द्वारा विवक्षित न होने के कारण ) अनुक्थ ( उक्थरहित = शस्त्ररहित ) होती हैं । एताः सर्वाः ये ( शस्त्रयुक्त और अशस्त्रयुक्त ) सभी ( होत्रक्रियाएँ ) उक्थिन्यः शस्त्रयुक्त होकर कथं समाः समृद्धाः भवन्ति किस प्रकार समान और समृद्ध होती हैं । सा ० भा ० — होत्रकाणां याज्याकथनान्तरं कश्चिद्ब्रह्मवादी चोद्यमाह । होत्रकाणां क्रियाः ‘ होत्र ' शब्देन विवक्षिताः । तासु ‘ अन्याः ' काश्चित्क्रियाः ' उक्थिन्यः ’ शस्त्रयुक्ताः । ‘ अन्याः ’ इतराः क्रियाः ‘ अनुक्थाः ’ शस्त्ररहिताः । मैत्रावरुणो ब्राह्मणाच्छंस्यच्छवाक इत्येतेषां त्रयाणां शस्त्रसद्भावादेतदीयाः क्रियाः ‘ उक्थिन्यः '; नेष्टृपोत्रादीनां शस्त्रराहित्यात्तदीयाः क्रियाः ‘ अनुक्थाः’१ । एवं वैषम्ये स्पष्टे सति ‘ अस्य ' यज्ञस्य यजमानस्य वा सम्बन्धिन्यः ' एता: ' होत्राः सर्वाः ' उक्थिन्यः ' २ शस्त्रयुक्ता भूत्वा ‘ समाः ’ वैषम्यरहिताः ', अत एव ' समृद्धाः ' सम्पूर्णाः कथं ( १ ) द्र ० आश्व ० श्रौ ० ५.१०.१० । ' होत्रकाणां मध्य एते शस्त्रवन्तः । एतेषां शस्त्राणि भवन्तीत्यर्थः ’ — इति तत्र नारायणः । मैत्रावरुणः = प्रशास्ता । ( २ ) उक्थिन्यः = शस्त्रिण्यः । अत्र स्त्रीलिङ्गमविवक्षितम् । यद्वा, तदीयक्रियापरोऽयं निर्देशः, उक्थिन्य इति । होत्रिया पोत्रियेति — इति गोविन्दस्वामी ।
पृष्ठ 288
पाठ पढ़ें पाठ छिपाएँ
११४६: ऐतरेयब्राह्मणम् [ २८.५ षष्ठपञ्चिकायां भवन्ति? इति चोद्यम् ॥ तस्योत्तरमाह— यदेवैनाः संप्रगीर्य होत्रा इत्याचक्षते, तेन समाः ॥२ ॥
हिन्दी— ( उत्तर- ) यद् एव जिस कारण से एनाः ये ( होत्र क्रियाएँ ) संप्रगीर्य सम्यक् रूप से कहकर होत्रा इत्याक्षते होत्र ( शब्द ) से अभिहित की जाती है तेन उसी ( होत्र शब्द से अभिहित होने से ) के कारण समाः समान होती हैं । सा ० भा ० — -'यदेव ' यस्मादेव कारणाद् ' एनाः ' मैत्रावरुणादिक्रियाः पोतृनेष्ट्रादि-क्रियाश्च संप्रगीर्य संभूय प्रकर्षेणोक्त्वा ' होत्रा ' - इतिशब्देन याज्ञिका आचक्षते, तेन समाः । यथा लोके छत्रयुक्तान् तद्रहितांश्च संभूय च्छत्रिण इत्येकेनैव शब्देन व्यवह्रियन्ते । एवमत्रापि शस्त्रयुक्ता मैत्रावरुणादयः शस्त्ररहिताः पोतृनेष्ट्रादयश्च संभूयैकेनैव ' होत्रा ' शब्देन व्यवह्रियन्ते । अतः शस्त्रिभिः समभिव्याहारादशस्त्रिणामप्युचरितं शस्त्रित्वम्, तेन होत्रकशब्दव्यवहारैक्येन समा भवन्ति, न चैतावता स्वाभाविकं शस्त्रित्वाशस्त्रित्ववैषम्यमपगच्छति ॥ तदेतद्वैषम्यं दर्शयति-यदुक्थिन्योऽन्या होत्रा अनुक्था अन्यास्तेनो विषमाः ॥३ ॥
हिन्दी— ( उनमें इस वैषम्य को दिखला रहे हैं — ) यद् उ जो भी अन्याः होनाः कुछ होत्रक की क्रियाएँ उक्थिनः उक्थयुक्त ( शस्त्रयुक्त ) हैं अन्या अनुक्थाः कुछ अनुक्थ ( शस्त्ररहित ) हैं तेन विषया उसी कारण ये समान नहीं हैं । सा ० भा ० – ‘ उ ' शब्दोऽपिशब्दार्थः । ' तेन ' उक्थित्वानुक्थित्वधर्मद्वयेन विषमा अपि भवन्ति ॥ सत्यपि वैषम्य औपचारिकोक्थित्वेन साम्यं यदुपपादितं तदुपसंहरति— एवमु हास्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्ति ॥४ ॥
हिन्दी — एवम् उ ह इस प्रकार से एताः सर्वाः ये ( सभी क्रियाएँ ) तस्य उसके लिए समाः समृद्धाः भवन्ति समान और समृद्ध होती हैं ॥ होत्रकेषु चोद्यान्तरमुद्भावयति— अथाऽऽह शंसन्ति प्रातः सवने, शंसन्ति माध्यंदिने होत्रकाः, कथ-मेषां तृतीयसवने शस्तं भवतीति ॥ ५ ॥.
हिन्दी— ( होत्रकों के विषय में अन्य प्रश्नोत्तर की उद्भावना कर रहे हैं - ) अथ आह अब पूछते हैं — प्रातः सवने शंसन्ति प्रातः सवन में ( मैत्रावरुण इत्यादि होत्रक ) शंसन करते हैं और मध्यदिने होत्रकाः शंसन्ति मध्यन्दिन ( सवन ) में भी होत्रक शंसन करते
पृष्ठ 289
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११४७ हैं, किन्तु तृतीयसवने तृतीयसवन में एषां इन ( होत्रकों ) का कथं शस्त्रं भवति शंसन किस प्रकार सिद्ध होता है? ॥ सा ० भा ० — अग्निष्टोमे मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां सवनद्वये शंसनं विहितम्; तदृष्टान्तेन तृतीयसवनेऽपि शंसनमपेक्षितम्, तच्च न विहितम् । तथा सति कथमेषां तृतीयसवने ' शस्तं भवति ' शंसनं सिध्यति? इति चोद्यम् ॥ तस्योत्तरं दर्शयति— यदेव माध्यंदिने द्वे द्वे सूक्ते शंसन्तीति ब्रूयात् तेनेति ॥६ ॥
हिन्दी – ( उत्तर - ) यद् एव जो माध्यन्दिने माध्यन्दिन ( सवन ) में द्वे द्वे सूक्ते शंसन्ति ( होत्रकगण ) दो - दो सूक्तों का शंसन करते हैं, तेन उसी से ( सिद्ध हो जाता है ) — इति ब्रूयात् इस प्रकार ( उत्तर ) कहना चाहिए ॥ सा ० भा ० — मैत्रावरुणस्य ' सद्यो ह जातो वृषभः कनीनः ' इत्येकं सूक्तम् ' । ‘ एवा त्वामिन्द्र वाज्रिन् ’ – इतिर द्वितीयम् । ब्राह्मणाच्छंसिनः ' इन्द्रः पूर्भिद् ' - इत्येकं सूक्तम्, ‘ उदु ब्रह्माणीति ' द्वितीयम् ” । अच्छावाकस्य ' भूयः इत् " इत्येकम्, ' इमामूष्विति ' द्वितीयम् । एवमेते त्रयो माध्यंदिने सवने प्रत्येकं द्वे द्वे सूक्ते शंसन्ति । तत्रैकं माध्यंदिनसवनार्थम् । द्वितीयं तु तृतीयसवनार्थमित्युपचारेण तत्रापि शंसनं सिध्यतीत्युत्तरं ब्रूयात् ॥ तेष्वेव चोद्यान्तरमुद्भावयति— अथाऽऽह यद्द्द्व्युक्थो होता, कथं होत्रका द्व्युक्था भवन्तीति ॥७ ॥
हिन्दी - ( उसी विषय में अन्य प्रश्नोत्तर की उद्भावना कर रहे हैं - ) ( प्रश्न - ) अथ आह अब ( उसी विषय में ) पूछते हैं— यद् जो होता युक्थः होता ( ऋत्विक् ) ( प्रात: -सवन में आज्या और प्रउग, मध्यन्दिन में मरुत्वतीय और निष्केवल्य तथा तृतीयसवन में वैश्वदेव और अग्निमारुत - इन ) दो - दो शस्त्रों वाला होता है तो होत्रकाः ( अन्य ) होत्रक युक्त्थाः कथं भवन्ति दो - दो शस्त्रों वाले कैसे होते हैं? ॥ सा ० भा ० — ' अथ ' तृतीयसवने शंसनसंपादनानन्तरं पुनरपि ब्रह्मवादी चोद्यान्तरमाह । ‘ यद् ’ यस्मात्कारणाद्धोता ‘ द्व्युक्थ: ' द्वे उक्थे शस्त्रे यस्यासौ ' द्व्युक्थः ’ । प्रातःसवने आज्यप्रउगे द्वे, माध्यंदिनसवने मरुत्वतीय - निष्केवल्ये द्वे, तृतीयसवने वैश्वदेवाग्निमारुते द्वे । एवं स्थिते ( १ ) ऋ ० ३.४८ | ( २ ) ऋ ० ४.१ ९ । ( ३ ) ऋ ० ३.३४ | ( ४ ) ऋ ० ७.२३ । ( ५ ) ऋ ० ६.३० । ( ६ ) ऋ ० ३.३६ । ( ७ ) सूचितञ्चैतत् सर्वमाश्वलायनेन ' होत्रकाणाम् ' इति कण्डिकायाम् । - ( द्र ० आश्व ० श्रौ ० ५.१६ ) ।
पृष्ठ 290
पाठ पढ़ें पाठ छिपाएँ
११४८: ऐतरेयब्राह्मणम् [ २८.६ षष्ठपञ्चिकायां होतृदृष्टान्तेन होत्रकाणामप्युक्थद्वयोपेतत्वमपेक्षितम् । न चोक्थद्वयं विहितमस्ति; अतस्तत् केन प्रकारेण सिध्यति? इति चोद्यम् ॥ तत्रोत्तरमाह-यदेव द्विदेवत्याभिर्यजन्तीति ब्रूयात् तेनेति ॥ ८ ॥
हिन्दी – ( उत्तर- ) यद् एव जो वे द्विदेवत्याभिः ( प्रस्थित याज्याओं में इन्द्र और ऋभु - इन ) दो देवता वाली ( ऋचाओं ) से यजन करते हैं, तेन उसी से ( एक देवता याज्या के लिए और दूसरा शस्त्र के लिए करके वे दो शस्त्र वाले होते हैं ), इति ब्रूयात् इस प्रकार ( उत्तर ) कहना चाहिए ॥ सा ० भा ० — प्रस्थितयाज्यानां श्रूयमाणदेवतया संपाद्यमानदेवतया च ‘ द्विदेवत्यत्वम् ’ । तादृशीभिर्ऋग्भिर्यस्माद् यजन्ति । तेन द्विशस्त्रत्वम्, तत्रैका देवता याज्यार्था, इतरा द्वितीया शास्त्रार्थेत्येवमुत्तरं ब्रूयात् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां तृतीयाध्याये ( अष्टाविंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( १३ ) ( १०० )
॥ इस प्रकार ऐतरेय ब्राह्मण के अट्ठाइसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० - सर्वत्र होत्रकशब्दव्यवहारसाम्येन शस्त्ररहितानामप्युपचरितमुक्थित्व-मित्युक्तम् । इदानीं प्रकारान्तरेण तेषामुक्थित्वं संपादयितुं प्रश्नमुद्भावयति— ( सर्वेषां होत्रकाणां शस्त्रस्योक्थत्वम् ) अथाऽऽह यदेतास्तिस्त्र उक्थिन्यो होत्राः, कथमितरा उक्थिन्यो भवन्तीति ॥ १ ॥
हिन्दी – ( सर्वत्र होत्रक शब्द के व्यवहार की समानता से शस्त्ररहित भी होत्रक का उक्थत्व कहा गया है । अब प्रकारान्तर से उनके उक्थत्व के लिए प्रश्न को दिखला रहे हैं— ) अथाह अब ( कुछ वेदज्ञ इस विषय में ) पूछते हैं— यत् जो एताः तिस्रः होत्रा ये ( मैत्रावरुण इत्यादि ) तीन होत्रकों की क्रियाएँ हैं वे उक्थिन्यः शस्त्रयुक्त होती हैं तो इतरा ( पोता इत्यादि होत्रकों की ) अन्य क्रियाएँ ( उक्थ्य न होने पर भी ) कथम् उक्थिन्यः भवन्ति किस प्रकार शस्त्रयुक्त हो जाती है? ॥