ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 291–300
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 291–300
पृष्ठ 291
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११४ ९ ' सा ० भा ० – ' अथ ' मैत्रावरुणादीनां त्रयाणामुपचरितं द्वितीयशस्त्रसंपादनानन्तरं ब्रह्म-वादी चोद्यमाह । ‘ यद् ’ यस्मात्कारणाद् ' एता: ' पूर्वोक्ताः ' होत्रा: ' मैत्रावरुणादीनां क्रिया-स्तिस्रः ‘ उक्थिन्यः ’ शस्त्रोपेताः; तद्दृष्टान्तेन ' इतरा: ' पोत्रादीनां क्रिया अपि शस्त्रयुक्ता इति
वक्तव्यम् । न चात्र शस्त्रं विहितम् । अतः कथमेता उक्थिन्यः? इति प्रश्नः ॥
तत्रोत्तरमाह— आज्यमेवाऽऽग्नीघ्रीयाया उक्थं, मरुत्वतीयं पौत्रीयायै, वैश्वदेवं नेष्ट्री-यायै; ता वा एता होत्रा एवं न्यङ्गा एव भवन्ति ॥ २ ॥
हिन्दी – ( उत्तर- ) आज्यम् एव आज्य ( शस्त्र ) ही आग्नीध्रयायाः उक्थम् आग्नीध्र ( होत्रक ) का शस्त्र होता है, मरुत्वतीयं पौत्रीयायै मरुत्वतीय ( शस्त्र ) पोता का ( शस्त्र होता है ) और वैश्वदेवं नेष्ट्रीयायै वैश्वदेव ( शस्त्र ) नेष्टा का होता है ) । ता वै एता होत्रा वे ही ये होत्रक की क्रियाएँ हैं । एवं न्यङ्गा एव भवन्ति इस प्रकार ये ( क्रियाएँ ) उन - उन चिह्नों से युक्त होती हैं । सा ० भा ० — होतुः प्रातः सवने यत्प्रथमम् ' आज्यं ' शस्त्रं तदेव ' आग्नीध्रीयायै ', आग्नीध्रेण क्रियमाणायाः क्रियायाः ' उक्थं ' शस्त्रम् । एवं मरुत्वतीयवैश्वदेवयोरपि योज्यम् । तथा सति ता एवैताः ‘ होत्रा: ' होत्रकाणां क्रिया: ' एवम् ' उक्तेन प्रकारेण ' न्यङ्गाः ' तत्तच्चिह्ना एव भवन्ति । अग्निमाग्नीध्रो यजति । आज्यशस्त्रं चाग्नेयम् । पोता मरुतो यजति । मरुत्वतीये च मारुतानि सूक्तानि शंसति । ' अग्न पत्नीरिहाऽऽवहेति ' ' नेष्टा यजति । तत्र ' देवानामुशती: ’ इत्यत्र देवानामिति श्रवणमस्ति । एवं त्रयाणामप्याग्नीध्र - पोतृ - नेष्टृणा - माग्ने यत्व - मारुतत्व-वैश्वदेवत्व - चिह्नानि विद्यन्ते । तस्मादाज्यादिभिरुक्थैरितरेषामुक्थित्वम् ॥ तेषामेव होत्रकाणामृतुयाजेषु कस्यचिद्विशेषस्य प्रश्नमवतारयति— ( ऋतुयाजेषु होत्रकाणां विशेषनिरूपणम् ) अथाऽऽह यदेकप्रैषा अन्ये होत्रका अथ कस्माद् द्विप्रैषः पोता, द्विप्रैषो नेष्टेति ॥ ३ ॥
हिन्दी— ( उन्हीं होत्रकों के ऋतुयागों में किसी विशेष के लिए प्रश्न की उद्भावना कर रहे हैं— ) अथाह अब ( कुछ वेदज्ञ ) पूछते हैं— यत् एकप्रैषा अन्ये होत्रकाः जब अन्य होत्रक एक ही प्रैष वाले होते हैं ( अर्थात् जब अन्य होत्रकों के लिए एक ही बार प्रैष किया जाता है ) तो कस्मात् किस कारण से द्विप्रैषः पोता पोता दो बाद प्रैष वाला होता है और द्विप्रैषः नेष्टा नेष्टा दो बार प्रैष वाला होता है? ॥ ( १ ) ऋ ० १.२२.९।
पृष्ठ 292
पाठ पढ़ें पाठ छिपाएँ
११५०: ऐतरेयब्राह्मणम् [ २८.६ षष्ठपञ्चिकायां सा ० भा ० — प्रैषसूक्ते ' ये ये प्रैषा उक्ता:, तेषु प्रैषेषु एकैक एव प्रैषो नेष्ट - पोतृ-व्यतिरिक्तानां होत्रकाणाम्, पोतुनेंष्टुश्च द्वौ द्वौ प्रैषो । तथा च यज्ञसंप्रदायविदः पठन्ति — ' हो-पो - नेऽग्नीद्ध - ब्रा - प्र - हो - पो - ने- ऽच्छा - ऽध्वर्यु- गृहपतीति च ' इति । अस्यायमर्थः- तत्र नाम्नामाद्याक्षरेणैते क्रतुपुरुषा निर्दिश्यन्ते । तथा च होता, पोता, नेष्टा, आग्नीध्रः, ब्राह्मणा-च्छंसी, प्रशास्ता, होता, पोता, नेष्टा, ऽच्छावाकः, अध्वर्युर्गृहपतिश्च क्रमेणोक्ताः । एतेषां प्रैषसूक्ते द्वादश प्रैषाः क्रमेण सन्ति । तथा सति पोतुर्द्वितीयोऽष्टमश्च द्वौ प्रैषौ; नेष्टुस्तृतीयो नवमश्च द्वौ प्रैषौ 1 । ' होता यक्षन्मरुतः पोत्रात् ' इत्येकः प्रैषः । ' होता यक्षद्देवं द्रविणोदां पोत्रादृतुभिरिति’३ द्वितीयः एतौ द्वौ पोतुः प्रैषी । ' होता यक्षद् ग्रावो नेष्टा ' इत्येक: ' । ' होता यक्षद्देवं द्रविणोदां नेष्ट्रात् ' इति द्वितीयः । एतौ द्वौ नेष्टुः प्रैषो । इतरेषामग्नीध्राच्छावाका-दीनामेकैक एव प्रैषः । तथा सति पोतृ- नेष्ट्रोः द्विः प्रैषत्वे किं कारणम्? इति प्रश्नः ॥ तस्योत्तरमाह— यत्रादो गायत्री सुपर्णो भूत्वा सोममाहरत्, तदेतासां होत्राणामिन्द्र उक्थानि परिलुप्य होत्रे प्रददौ; यूयं माऽभ्यह्वयध्वं यूयमस्यावेदि -ष्टेति, ते होचुर्देवा वाचेमे होत्रे प्रभावयामेति, तस्मात्ते द्विप्रैषे भवत ऋचाऽग्नीध्रीयां प्रभावयांचक्रुस्तस्मात् तस्यैकयर्चा भूयस्यो याज्या भवन्ति ॥४ ॥
हिन्दी – ( उत्तर- ) यत्र यदो गायत्री जब यह गायत्री सुपर्णो भूत्वा सुपर्ण होकर सोमम् आहरत् सोम का आहरण किया तब इन्द्रः इन्द्र ने एताषां होत्रकाणाम् इन होत्रकों के उक्थानि शस्त्रों को परिलुप्य लोप करके ( काट कर ) होत्रे प्रददौ होता के लिए दे दिया ( और उनसे कहा— ) यूयं मा आह्वयध्वम् तुम लोग आह्वान मत करना और यूयम् अस्य मा अवेदिष्ठा तुम लोग ( मेरी सान्त्वना को ) नहीं जानते । ते ह देवाः ऊचुः तब उन देवताओं ने कहा — इमे होने इन दोनों ( पोता और नेष्टा ) होत्रकों को वाचा ( प्रेषरूप अधिक ) वाणी से प्रभावयाम् प्रकृष्ट रूप से हम सन्तुष्ट करें । तस्मात् इसी कारण ते वे ( दोनों होत्रक ) द्विप्रैषे भवतः दो बार प्रैष ( आदेश ) किये जाने वाले होते हैं । आग्नीध्रीयाम् ( १ ) अस्ति पञ्चाध्यायात्मक ऋक्परिशिष्टः । तत्र पञ्चमः प्रैषाध्यायः । स एव ' प्रैषसामाम्नायः’-इति, प्रैषग्रन्थः - इति चोच्यते । तस्मिंश्च पञ्च सूक्तानि । तदीय - पञ्चमे सूक्ते सुत्याया॑ सवनीय प्रैषा उक्ताः । तत्रैवेत्यर्थः । आश्वलायनेनाप्युक्तम् — ' ऋतुयाजैश्चरन्ति, तेषां प्रैषाः पञ्चमं प्रैषसूक्तम् ' – इति आश्व ० श्री ० ५.१०.१- ३ । प्रैषसमाम्नाये यत् पञ्चमं प्रैषसूक्तं तदेषां प्रैषां भवन्ति ' – इति तद्वृत्तिः । ( २ ) प ० ५.५.१० । ( ३ ) प ० ५.५.१६ । ( ४ ) प ० ५.५.११ । ( ५ ) प ० ५.५.१७ ।
पृष्ठ 293
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्ः ११५१ आग्नीध्री की क्रिया में ऋचा प्रभावयांचक्रुः ऋचा से सन्तुष्ट किया, तस्मात् इसी कारण तस्य उस ( आग्नीध्र ) की एकयर्चा भूयस्यः ए एक अधिक ऋचा वाली याज्याः भवन्ति याज्याएँ होती हैं । सा ० भा ० — ‘ यत्र ’ यस्मिन् काले ' अदो ' गायत्री त्रिष्वपि च्छन्दःसु या शौर्ययुक्ताऽभूत् ( असौ गायत्री सुपर्णो भूत्वा द्युलोकात् सोमाहरत् ' - सोऽयं वृत्तान्तः पूर्वमेवमाम्नातः । ' तत् ' तस्मिन् काले केनापि निमित्तेन क्रुद्ध इन्द्र ' एतासां ' होत्राणाम् ' उक्थानि ' शस्त्राणि ' ) परिलुप्य होत्रे प्रददौ । होत्राशब्दः स्त्रीलिङ्गोऽपि पुरुषान् होत्रकानभिधत्ते । पोतृ - नेष्ट्राग्नीध्राणां होत्रकाणामाज्य - मरुत्वतीय - वैश्वदेव - शास्त्राणि पूर्वमासन्, तानि क्रुद्ध इन्द्रस्तेभ्यो निवार्य दत्तवान् । ततो होता प्रतिसवनं शस्त्रद्वययुक्तो बभूव । गायत्र्या सोमेऽपहृते सति शोकाभि-भूतमिन्द्रं सान्त्वयितुमृत्विजाभिमानिन्यो देवताः सर्वा उपतस्थितरे । पोतृनेष्ट्राग्नीध्रदेवतास्तु नाऽऽगताः । तदिदं कोपकारणम् । स च कुपित इन्द्रः शास्त्राणि निवार्य पुनरप्येवमुवाच, -हे गर्वाधिकाः पोत्रादयो बूयं ' माऽभ्यह्वयध्वम् ' शोसावोंम् ' इत्याह्वानमपि मा कुरुत, दूरे युष्माकं शस्त्राणि; यतो - यूयम् ' अस्य ' मम सान्त्वनं ' मा अवेदिष्ट ' न ज्ञातवन्तः । निषेधार्थो मा - शब्दोऽत्रानुवर्तनीयः । ' इति ' – एवमिन्द्रेणोक्ते सति तत्समीपवर्तिनः ' ' ते ' देवा इन्द्रं संप्रार्थ्येवमूचुः, – ' इमे होत्रे ' एतौ पोतृनेष्टारौ शस्त्रशून्यावतिभीतौ येनकेनापि प्रकारेणा-नुग्रहणीयौ । तस्माच्छस्त्राभावेऽपि ' वाचा ' अधिकप्रैषरूपया ' प्रभावयाम ' प्रकर्षेण भावितौ तोषितौ करवामेति । ‘ तस्मात् ' कारणात् ' ते ' होत्रे ' द्विप्रैषे भवतः ' तौ होत्रकौ पोतृनेष्टारौ प्रैषद्वययुक्तौ भवतः । तथैव ' आग्नीध्रीयाम् ' अग्नीध्रक्रियाम् ‘ ऋचा ' कयाचिदधिकया ‘ प्रभा-वयांचक्रुः ' प्रभूतां कृतवन्तः । यस्मादेवं ' तस्मात् ', ' तस्या ' आग्नीध्रस्यैकयर्चा याज्या ‘ भूयस्योः ’ अत्यन्तमधिका भवन्ति । सप्तानामपि होत्रकाणां प्रस्थितयाज्यास्तिस्र एव भवन्ति । आग्नीध्रस्य ‘ ऐभिरग्ने सरथम् ' - इत्येषा ' अधिका सा च पात्नीवतग्रहवर्तिनी । तथा च संप्रदायविद आहुः-“ तिस्र प्रस्थितयाज्यास्तु सप्तानामभवन् खलु । आग्नीध्रस्तिसृभिः सार्धमैभिरग्ने चतुर्थ्यभूत् ॥ ” इति । यद्यप्याग्नीध्रविषये ब्रह्मवादिना प्रश्नो न कृतः, तथाऽपि पोतृ - नेष्टृभ्यां समानयोगक्षेम-त्वेन तदूवृत्तान्तोऽप्यभिहितः ॥ होत्रकविषये प्रश्नान्तरमुद्भावयति— ( १ ) द्र ० इतः पूर्वम्, ३.३.१, २ ( २ ) ऋ ० ३.६.९। ( ३ ) ‘ पात्नीवतस्य यजत्यैभिरग्ने सरथं याह्यर्वाङित्युपांश्चेव - आश्व ० श्रौ ० ५.१ ९.१७ उपांश्वे-त्यवधारणं तेषामुच्चैः संप्रैषेऽप्युपांश्चैव यष्टव्यमित्येवमर्थम् इति तद्वृत्तिः । ( ४ ) कारिकेयं षड्गुरुशिष्यस्य ।
पृष्ठ 294
पाठ पढ़ें पाठ छिपाएँ
११५२: ऐतरेयब्राह्मणम् [ २८.६ षष्ठपञ्चिकायां ( होत्रकविषये प्रश्नोत्तरे ) अथाऽऽह यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति ॥ ५ ॥
हिन्दी – ( होत्रक विषय में अन्य प्रश्न को उद्भावित कर रहे हैं - ) अथ आह अब कुछ वेदज्ञ पूछते हैं — यत् जो ' होता यक्षद्धोता यक्षत् ' ( अर्थात् होता याज्या का पाठ करे ) इति मैत्रावरुणः इस प्रकार मैत्रावरुण नामक ( होत्रक ) होत्रे प्रेष्यति होता के लिए प्रैष करता है अथ कस्मात् तो किस कारण से अहोतृभ्यः सद्भ्यः होत्राशंसिभ्यः जो होता नहीं है, उन होत्राशंसियों के लिए ' होता शंसद्धोता शंसत् ' इति प्रेष्यति ( यह कहकर ) प्रैष करता है । सा ० भा ० – अथ द्वित्रैषत्वनिमित्तकथनानन्तरं ब्रह्मवादिनां प्रश्नमाह । ' मैत्रावरुणः ’ सर्वेषां होत्रादीनां प्रैषकर्ता ' । स च प्रैषसूक्तगतेषु सर्वेष्वपि मन्त्रेष्वादौ ' होता यक्षद् ' इत्येव तत्र तत्र पठति ' । तत्र ‘ होत्रे ' ’ होतृकार्यार्थं तेन मन्त्रेण यत् प्रेष्यति, तद्युक्तं मन्त्रादाववस्थितस्य होतृशब्दस्य तद्वाचकत्वात्; ये तु ‘ अहोतारः ’ होतृव्यतिरिक्ताः सन्तो ' होत्राशंसिनः ' होत्रा ' होमस्तमाशंसन्ति, तेषां ‘ होतृ ' नामरहितानां प्रैषेषु तत्र तत्र ' होता यक्षद् ' - इति ' कस्माद् ’ कारणाद्धोतृशब्दं प्रयुङ्क्ते? इति प्रश्नः ॥ तस्योत्तरमाह— प्राणो वै होता, प्राणः सर्व ऋत्विजः, प्राणो यक्षत्, प्राणो यक्षदि-त्येव तदाह ॥ ६ ॥
हिन्दी – ( उत्तर - ) प्राणो वै होता प्राण ही होता है और सर्वे ऋत्विजः प्राणः सभी ऋत्विक् प्राण - स्वरूप हैं 1 । प्राणो यक्षत् प्राणो यक्षत् ' प्राणरूप ऋत्विक् शंसन करें, प्राणरूप ऋत्विक् शंसन करे ' इति एव तद् आह यही वह कहता है ( अतः यह होता शब्द असङ्गत नहीं है । सा ० भा ० — योऽयं मुख्यो होता, स प्राणस्वरूप एव; मृतदेहस्य होतृत्वाभावात् । ( १ ) ‘ तेन तेनैव प्रेषितः प्रेषितः स स यथाप्रैषं यजति ' इति आश्व ० श्रौ ० ५.८.४ । ( २ ) तद्यथा — १. होता यक्षद् होतर्यज । २. होता यक्षद्..... पोतर्यज । ३. होता यक्षद्.... नेष्टर्यज । ४. होता यक्षद्.... अग्नीद् यज । ५. होता यक्षद्.... ब्रह्मन्यज । होता यक्षद्... प्रशास्तर्यज । ६. होता यक्षद्... होतर्यज । ७. होता यक्षद्... पोतर्यज । ८. होता यक्षद्.... नेष्टर्यज । ९. होता यक्षद्.... अच्छावाक् यज । १०. होता यक्षद्.... अध्वर्यु यजतम् । ११. होता यक्षद्..... गृहपते यज । ' - इति प ० ५.५.९ -२० । ( ३ ) ' होम: - इति आ ० मुद्रितपाठः ।
पृष्ठ 295
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११५३ तथाऽन्येषामपि सर्वेषामृत्विजां प्राणस्वरूप एव । तथा सति प्राणविवक्षया प्रयुक्तो होतृ-शब्दः सर्वेषूपपद्यते । ' होता यक्षद्धोता यक्षद् ' - इत्युक्ते ' प्राणो यक्षत् प्राणो यक्षद् ' इत्येव
मैत्रावरुणो ब्रूते । तस्माद् युक्तः सर्वेषु होतृशब्दप्रयोगः ॥
उद्गातृविषये प्रश्नोत्तरे दर्शयति-( उद्गातृप्रैषविषये प्रश्नोत्तरे ) अथाहास्त्युद्गातृणां प्रैषा ३:, नाँ ३ इति । अस्तीति ब्रूयाद्; यदे-वैतत्प्रशास्ता जपं जपित्वा स्तुध्वमित्याह, स एषां प्रैषः ॥७ ॥
हिन्दी — ( उद्गाता के पैस विषय में प्रश्नोत्तर को दिखला रहे हैं - ) ( प्रश्न - ) अथ आह इस विषय में ( कुछ वैदिक ) पूछते हैं— उद्गातृणां प्रैषाः अस्ति उद्गाता के लिए प्रैष है अथवा न नहीं है? ( उत्तर - ) अस्ति ( उद्गाता के लिए प्रैष ) है - इति ब्रूयात् ऐसा ( उत्तर ) कहना चाहिए । यद् एतत् जो यह प्रशास्ता प्रशास्ता ( मैत्रावरुण ) जपं जपित्वा ( ' स्तुत देवेन सवित्रा ' इत्यादि मन्त्र का ) जप करके स्तुध्वम् ' स्तुति करो ' इत्याह यह करता हैं, सः वह एषाम् इन ( उद्गाताओं ) का प्रैषः प्रैष है ॥ सा ० भा ० — होत्रादयो मैत्रावरुणेन प्रेषिताः स्वस्वव्यापारं कुर्वन्तीति तद्द्दृष्टान्ते-नोद्गातृणामपि प्रेषितत्वं युक्तम्, न चोद्गातृप्रैषा: प्रैषसूक्ते समाम्नाताः, तस्मादेषां प्रैषोऽ-स्ति न वेति संशयः । प्लुतिद्वयं विचारार्थम् । नकारस्य सानुनासिकत्वं छान्दसम् ' । अत्र प्रैषोऽस्तीत्येवमुत्तरं ब्रूयात् । प्रकर्षेण सर्वानृत्विजः ' शास्ति ' प्रैषमन्त्रेण तत्तद्व्यापारे प्रवर्तय-तीति ‘ प्रशास्ता ’ मैत्रावरुणः ’ । स च ' स्तुतदेवेन सवित्रा ' इत्यादिमन्त्रजपं जपित्वा, अनन्तरं ‘ स्तुध्वमिति ' यदेवैतद्वचनं प्राह, स एव ' एषाम् ' उद्गातृणां प्रैषः ॥ अच्छावाकविषये प्रश्नोत्तरे दर्शयति-( अच्छावाकस्य प्रवरविषये प्रश्नोत्तरे ) अथाहास्त्यच्छावाकस्य प्रवरा ३:, नाँ ३ इति । अस्तीति ब्रूयाद्, यदेवैनमध्वर्युराहाच्छावाक वदस्व यत्ते वाद्यमित्येषोऽस्य प्रवरः ॥८ ॥
हिन्दी ' – ( अच्छावाक नामक होत्रक के विषय में प्रश्नोत्तर को दिखला रहे हैं-- ) ( प्रश्न- ) अथाह अब कुछ ( वेदज्ञ ) पूछते हैं — अच्छावाकस्य प्रवरा अस्ति ना इति अच्छावाक होत्रक का कोई प्रवर ( प्रकृष्ट रूप से वरण = चयन ) है अथवा नहीं? ( १ ) ‘ अणोऽप्रगृह्यस्यानुनासिकः ’ — इति पा ० सू ० ८.४.५७ । ( २ ) ' मित्रावरुणौ प्रशास्तरौ प्राशस्त्रात् ' – इति कात्या ० श्रौ ० ९.८.१० । अत एव ऋत्विङ्नामपरिगणनसूत्रेषु प्रशास्तेति न दृश्यते, दृश्यते मैत्रावरुण इति – आश्व ० श्रौ ० ४.१.६; कात्या ० श्रौ ० ७.१.६; आप ० श्रौ ० १०.१.९। ( ३ ) ' मन्त्रं जपन् ' – इति वा पाठः । ऐ.ब्रा. उ: १ ९
पृष्ठ 296
पाठ पढ़ें पाठ छिपाएँ
११५४: ऐतरेयब्राह्मणम् [ २८.६ षष्ठपञ्चिकायां ( उत्तर– ) अस्तीति ब्रूयात् है, यह ( उत्तर ) कहना चाहिए । यद् एव जो एनम् इस ( अच्छावाक ) से अध्वर्युः आह अध्वर्यु कहता है कि अच्छावाक हे अच्छावाक! कहो यत्ते वाद्यम् जो तुम्हारा वक्तव्य है उसे वद तुम कहो इति एषः अस्य प्रवरः यही इस ( अच्छावाक ) का प्रकृष्टरूप से वरण है । सा ० भा ० — अच्छावाकव्यतिरिक्तानां वषट्कर्तॄणां ' प्रवरः ' प्रकर्षेण वरणमस्ति । तथा च सूत्रकार आह — ‘ प्रवृत्ताहुतीर्जुह्वति वषट्कर्तारोऽन्येऽच्छावाकात् ' ' इति । सूत्रान्तरेऽ-प्येवमुक्तम् – ' यथा प्रवृत्तंर प्रवृतहोमौ जुहोति ' इति । अतोऽन्येषां प्रवरसद्भावोऽवगतः, अच्छावाकस्य नावगतः, न्यायेन त्वितरदृष्टान्तेन प्रवरोऽपेक्षितः, अतोऽस्ति न वेति संशयः । तत्रास्तीत्युत्तरं ब्रूयात् । यद्यप्यन्येषामिव स्पष्टः प्रवरो नास्ति, यथाऽपि पुरोडाशशकलं प्रत्तमिलामिवोद्यम्याऽऽसीनमंच्छावाकम्, अच्छावाक! यत्ते तव ‘ वाद्यं ’ वक्तव्यमस्ति तद् वदस्वेति, ४ सोऽयमच्छावाकसंबोधनेन प्रवरसमानत्वात् प्रवर इत्युच्यते ॥ इत्थमग्निष्टोमसंस्थे होत्रकविषयव्यापारं परिसमाप्याधुनोक्थसंस्थेष्वहःसुः प्रश्नोत्तरे दर्शयति— ( उक्थसंस्थविषये प्रश्नोत्तरे ) अथाह यदैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसत्यथ कस्माद-.स्याऽऽग्नेयौ स्तोत्रियानुरूपौ भवत इत्यग्निना वै मुखेन देवा असुरा-नृक्थेभ्यो निर्जघ्नुस्तस्मादस्याऽऽग्नेयौ स्तोत्रियानुरूपो भवतः ॥ ९ ॥
हिन्दी - ( अब उक्थ संस्था के विषय में प्रश्नोत्तर को दिखला रहे हैं - ) ( प्रश्न- ) अथाह अब ( कुछ वेदज्ञ ) पूछते हैं— यत् जो मैत्रावरुणः मैत्रावरुण ( नामक होत्रक ) तृतीयसवने तृतीयसवन में ऐन्द्रावरुणम् शंसति इन्द्र और वरुण देवताक सूक्त का शंसन करता है, अथ कस्मात् तो किस कारण से अस्य इस ( मैत्रावरुण होत्रक ) का आग्नेयौ स्तोत्रियौ अग्नि देवता से सम्बन्धित स्तोत्रिय अनुरूपौ भवतः अनुरूप होते हैं । ( उत्तर- ) देवाः देवताओं ने अग्निना मुखेन वै अग्नि को ही प्रमुख बनाकर असुरान् असुरों को उक्थेभ्यो निर्जघ्नुः उक्थों से दूर भगा दिया तस्मात् इसी कारण से अस्य इस ( मैत्रावरुण ( १ ) आश्व ० श्रौ ० ५.३.१२ । ( २ ) ( i ) ‘ प्रवृतः प्रवृत्त: ’ — इति आ ० मुद्रितपाठः । किन्तु प्रवृत्तमिति । प्रथमं होता १, ततोऽध्वर्युः २, ततः ब्राह्मणाच्छंसी ५, पोता ६, नेष्टा ७, आग्नीध्रः ८ याज्ञिकदेवः । ( ३ ) कात्या ० श्रौ ० ९.८.१६ । ( ४ ) तथाहि सूत्रम् — ‘ पुरोडाशदृगलं प्रत्तमिडामिवोद्यम्याच्छावाक इति तृचमन्वाह ’ — इति आश्व ० श्रौ ० ५.७.२ । सूत्रे तु न दृश्यते । ( ii ) यथा प्रतिप्रस्थाता ३, प्रशास्ता ४, यजमान इति ' च तट्टीकायां वदस्वेत्युक्तोऽच्छा वो अग्निमवस
पृष्ठ 297
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११५५ होत्रक ) का आग्नेयौ स्तोत्रियौ अनुरूपौ भवतः अग्नि से सम्बन्धित स्तोत्रिय अनुरूप होते हैं । सा ० भा०– ' अथ ' अच्छावाकप्रवरसंपादनानन्तरं ब्रह्मवादी प्रश्नमाह । मैत्रावरुण-स्तृतीयसवने ‘ इन्द्रावरुणा युवम् ' – इत्यादिकमैन्द्रावरुणं ' सूक्तं शंसति । तस्य शस्त्रादौ ‘ एह्यू - इत्याग्नेयः’ग् स्तोत्रियः, ' आग्निरगामीत्याग्नेयोऽनुरूपः ', तदेतद् व्यधिकरणत्वाद् अ-युक्तम् । ऐन्द्रावरुणाभ्यां स्तोत्रियानुरूपाभ्यां भवितव्यम्? इति प्रश्नः । अग्निनेत्यादिना तस्योत्तरम् । यदा देवा असुरानुक्थेभ्यो ' निर्जघ्नुः ' निःशेषेण हतवन्तः, दूरेऽपसारितवन्तः, तदानीमग्निः ‘ मुखं ’ प्रधानभूतं कृत्वा तन्मुखेन निःसारितवन्तः । एतच्च ' अग्निष्टोमं वै देवा अश्रयन्त ' इत्यादौ विस्पष्टमुदीरितम् । ‘ तस्मात् ’ असुरनि: सारणेऽग्नेर्मुख्यत्वादानेयौ स्तोत्रि-यानुरूपौ युक्तौ ॥ ब्राह्मणाच्छंस्यच्छावाकविषये प्रश्नोत्तरे दर्शयति-( ब्राह्मणाच्छंस्यच्छावाकविषये प्रश्नोत्तरे ) अथाऽऽह यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसत्यैन्द्रा-वैष्णवमच्छावाकः, कथमेनयोरैन्द्राः स्तोत्रियानुरूपा भवन्तीतीन्द्रो ह • स्म वा असुरानुक्थेभ्यः प्रजिगाय सोऽब्रवीत् कश्चाहं चेत्यहं चाहं चेति ह स्म देवता अन्ववयन्ति; स यदिन्द्रः पूर्वं प्रजिगाय, तस्मादेनयोरैन्द्राः स्तोत्रियानुरूपा भवन्ति; यद्वहं चाहं चेति ह स्म देवता अन्ववयुस्तस्मान्नानादेवत्यानि शंसतः ॥ १० ॥
हिन्दी – ( अब ब्राह्मणाच्छंसी और अच्छावाक के विषय में प्रश्नोत्तर को दिखला रहे हैं— ) ( प्रश्न- ) अथाह अब ( कुछ वेदज्ञ ) पूछते हैं— यत् जो तृतीयसवने तृतीयसवन में ब्राह्मणाच्छंसी ब्राह्मणाच्छंसी नामक होत्रक ऐन्द्राबार्हस्पत्यम् शंसति इन्द्र और बृहस्पति देवता वाली ( ऋचा ) का शंसन करता है और अच्छावाकः अच्छावाक नामक होत्रक ऐन्द्रावैष्णवं शंसति इन्द्र और विष्णु देवता वाली ( ऋचा का शंसन करता है तो एनयोः इन दोनों ( ब्राह्मणाच्छंसी और अच्छावाक ) के कथम् ऐन्द्राः स्तोत्रियाः अनुरूपाः भवन्ति किस प्रकार इन्द्र सम्बन्धी स्तोत्रिय अनुरूप होते है? ( उत्तर- ) इन्द्रः इन्द्र ने असुरान् असुरों को उक्थेभ्यः वै उक्थों से ही प्रजिगाय स्म पराजित किया था ( निकाल दिया था ) । सः अब्रवीत् उस इन्द्र ने कहा- कः च कौन ( हमारे साथ सहयोग के लिए चलेगा ) । देवताः तब देवताओं ने अहं च अहं च मैं ( चलूँगा ), मैं ( चलूँगा ) इति अन्ववयन्ति स्म इस प्रकार ( कहकर इन्द्र का ) अनुसरण किया । यत् जो सः इन्द्रः उस ( १ ) ऋ ० ७.८२ । ( २ ) ऋ ० ६.१६.१६-१८ । ( ३ ) ऋ ० ६.१६.१ ९ -२१
पृष्ठ 298
पाठ पढ़ें पाठ छिपाएँ
११५६: ऐतरेयब्राह्मणम् [ २८.७ षष्ठपञ्चिकायां इन्द्र ने पूर्वः प्रजिगाय पहले ( उक्थ से ) निकाल दिया था तस्मात् इसी से एनयो: इन दोनों ( ब्राह्मणाच्छंसी और अच्छावाक ) के ऐन्द्राः स्तोत्रिया अनुरूपाः भवन्ति इन्द्र-सम्बन्धी स्तोत्रिय अनुरूप होते हैं । ' अहं चाहं च ' जो मैं - मैं करके देवताः अन्ववयुः देवता ( इन्द्र ) का अनुसरण किये तस्मात् इसी से नानादेवत्यानि शंसतः अनेक देव सम्बन्धी ऋचा का ये दोनों ( ब्राह्मणाच्छंसी और अच्छावाक ) शंसन करते हैं । सा ० भा०- — तृतीयसवने ब्राह्मणाच्छंसिनः ' प्र मंहिष्ठाय ' - इत्यैन्द्राबार्हस्पत्यं ' शस्त्रम् । तस्यादौ स्तोत्रियानुरूपावैन्द्रौ— ' वयमु त्वेति ' ' स्तोत्रियः, ' यो न इदम् ' इत्यनुरूपः ’ । तथाऽच्छावाकस्य ‘ ऋतुर्जनित्री ' इत्यादिकमैन्द्रावैष्णव ' शस्त्रम् । तस्यादावैन्द्रौ स्तोत्रिया-नुरूपौ – ' अधा हीन्द्र गिर्वणः ' इति ' स्तोत्रिय: ' इयन्त इन्द्र गिर्वण ' इत्यनुरूपः । तदेतद् वै वैयधिकरण्यमुपजीव्य पूर्ववत्प्रश्नः । इन्द्रो हेत्यादिकमुत्तरम् । इन्द्रः स्वयम् ' उक्थेभ्यः ' शस्त्रेभ्यः सकाशाद् असुरान् ' प्रजिगाय ' प्रकर्षेण जितवान् ‘ प्राद्रावयदित्यर्थः । तदानीमिन्द्र इतरान् देवान् प्रति सहायमपेक्षमाणो युष्माकं मध्ये कश्चाहं चोभौ युद्धार्थं गच्छाव इत्य-ब्रवीत् । तदानीं देवानां मध्य एकैकोऽहं चाहं च तव सहायभूत इत्युक्त्वा देवतास्तमिन्द्रम् ‘ अन्ववयन्ति ’ तस्य पृष्ठतो गच्छन्ति । यस्मात् स इन्द्रः सर्वेषां देवानां मध्ये स्वयं पूर्वगामी सन्नसुरान् प्रजिगाय ‘ तस्मात् ' एनयो: ' ब्राह्मणाच्छंस्यच्छावाकशस्त्रयोरप्यैन्द्राः स्तोत्रियानुरूपा युज्यन्ते । ‘ यदु ’ यदप्येतदस्ति, अहं चाहं च तव सहायभूत इति ब्रुवत्यो देवता इन्द्रम् ‘ अन्ववयुः ’ अन्वगच्छन् । ‘ तस्मात् कारणाद्देवतान्तराणामपीन्द्रवत् पूज्यत्वात् नानादेवताकानि सूक्तानि ब्राह्मणाच्छंस्यच्छावाकौ शंसतः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां तृतीयाध्याये ( अष्टाविंशाध्याये ) षष्ठः खण्डः || ६ || ( १४ ) ( १०१ ) ॥ इस प्रकार ऐतरेयब्राह्मण के अट्ठाइसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० - अथ तेषामेव शस्त्राणां छन्दोदैवतविषये प्रश्नोत्तरे दर्शयति-( आरम्भणीयानां विषये प्रश्नोत्तरे ) अथाह यद्वैश्वदेवं वै तृतीयसवनमथ कस्मादेतान्यैन्द्राणि जागतानि ( १ ) ऋ ० १.५७ । ( २ ) ऋ ० ८.२.१६-१८ । ( ३ ) ऋ ० ८.२१.९ -१० ( ४ ) ऋ ० २.१३ । ( ५ ) ऋ ० ८.९ ८.७ - ९ । ( ६ ) ऋ ० ८.१३.४-६ ।
पृष्ठ 299
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११५७ सूक्तानि तृतीयसवन आरम्भणीयानि शस्यन्त इतीन्द्रमेवैतैरारभ्य यन्तीति ब्रूयादथो यज्जागतं वै तृतीयसवनं तज्जगत्काम्यैव; यद्यत्किं चात ऊर्ध्वं छन्दः शस्यते, तद्ध सर्वं जागतं भवत्येतानि चेदैन्द्राणि जागतानि सूक्तानि तृतीयसवन आरम्भणीयानि शस्यन्ते ॥ १ ॥
हिन्दी – ( उन शस्त्रों के छन्द और देवता विषयक प्रश्नोत्तर को दिखला रहे हैं— ) ( प्रश्न ) अथ आह अब ( कुछ वैदिक ) पूछते हैं —- वैश्वदेवं वै तृतीयसवनम् तृतीयसवन विश्वदेवा से सम्बन्धित है, कस्मात् तो किस कारण से एतानि ऐन्द्राणि जागतानि सूक्तानि ये इन्द्र देवता से सम्बन्धित जगती छन्द वाले सूक्त तृतीयसवने आरम्भणीयानि शस्यन्ते तृतीयसवन के प्रारम्भ में शंसित किये जाते हैं? ( उत्तर ) एतैः एव इन सूक्तों से ही इन्द्रम् आरभ्य इन्द्र का आरम्भ करके यन्ति आगे बढ़ते हैं - इति ब्रूयात् यह ( उत्तर ) कहना चाहिए । यद् जागतं वै तृतीयसवनम् जो तृतीयसवन जगती छन्द से सम्बन्धित है, तद् जगत्काम्या एव तो जगत् की कामना से ही यह प्रवृत्त हुआ है । यद्यत्किञ्च छन्दः जो अन्य कोई छन्द अत ऊर्ध्वं शस्यते इसके बाद शंसित किया जाता है तत् ह सर्वम् वह सभी जागतं भवति जगती से सम्बन्धित होता है । अतः एतानि ऐन्द्राणि जागतानि सूक्तानि ये इन्द्र से सम्बन्धित जगती छन्द वाले सूक्त तृतीयसवने तृतीयसवन के आरम्भणीयानि शस्यन्ते आरम्भ में शंसित किये जाते हैं ॥ सा ० भा ० — ‘ अथ ' इन्द्रावरुणादिशस्त्रेष्वैन्द्रस्तोत्रियानुरूपवर्णनानन्तरं ब्रह्मवादी प्रश्न-माह । तृतीयसवनं वैश्वदेवं बहुदेवताकं यस्मात्तस्माद्वैश्वदेवान्येव सूक्तानि तत्रोचितानि । अथैवं सति तानि परित्यज्य कस्मात् कारणादेतान्यारम्भणीयानि सूक्तन्यैन्द्राणि शस्यन्ते? सति चैन्द्रत्वे त्रिष्टुभो युक्तत्वात् तत्परित्यागेन जागतानि कस्माच्छयन्ते? ‘ चर्षणीधृतमिति ’ ’ मैत्रावरुणस्य सूक्तम् । ‘ प्र मंहिष्ठायेति ' ' ब्राह्मणाच्छंसिनः सूक्तम् । ऋतुर्जनित्री ' ' इत्यच्छा-वाकस्य सूक्तम् । एतेषु सूक्तेष्वैन्द्रप्रश्नोत्तरमुच्यते । ऐन्द्रत्वे सत्येतैः सूक्तैरिन्द्रमेवारभ्य प्रवृता भवन्ति । इन्द्रो हि प्रारब्धस्याविघ्नेन समाप्तिकारीत्युत्तरं ब्रूयात् । ‘ अथो ' अपि च त्रिष्टुप्परित्यागेन जागतसूक्तमिति यदस्ति, तत् तृतीयसवनस्य जागतत्वात् ' जगत्काम्यैव ’ जगत्कामनयैव प्रवृत्तिः कृता भवति । अपि च तथा सत्यत ऊर्ध्वमन्यदपि यत्किंचिच्छन्दः शस्यते, तत्सर्वं जगतीछन्दस्कमेव संपद्यते ॥ आरम्भणीयानामैन्द्राणां सूक्तानां जागतत्वाद् यस्य च्छन्दोन्तरस्य जागतत्वं संपद्यते, तच्छन्दोन्तरं दर्शयति-अथैतत् त्रैष्टुभमच्छावाकोऽन्ततः शंसति, सं वां कर्मणेति; यदेव पनाय्यं, कर्म, तदेतदभिवदति ॥ २ ॥
( १ ) ऋ ० ३.५१ । ( २ ) ऋ ० १.५७ / ( ३ ) ऋ ० २.१३ ।
पृष्ठ 300
पाठ पढ़ें पाठ छिपाएँ
११५८: ऐतरेयब्राह्मणम् [ २८.७ षष्ठपञ्चिकायां हिन्दी — अथ इसके बाद अन्ततः शस्त्र के अन्त में ' सं वां कर्मणा ' इति एतत् त्रैष्टुभम् इस त्रिष्टुप् छन्द वाले ( सूक्त ) को अच्छावाकः शंसति अच्छावाक ( नामक होत्रक ) शंसित करता है । यद् एव पनाय्यं कर्म जो स्तुत्य कर्म है, तद् एतत् उस इस ( कर्म ) को ( इन्द्र और विष्णु को सम्बोधित करके ) अभिवदति अभिवादन करता है ॥ सा ० भा ० — आरम्भणीयशंसनादूर्ध्वमच्छावाकः ' अन्ततः ' शस्त्रस्यान्ते ' सं वां कर्मणा ' इत्येतत् सूक्तं ' त्रिष्टुप्छन्दस्कं शंसेत् । अत्रेन्द्राविष्णू संबोध्य ' वां ' युवामनेन कर्मणा ' ' संहि-नोमि ' सम्यक् प्रीणयामि, इत्येतदुच्यते । तस्य च कर्मशब्दस्यार्थो यदेवेत्यादिनाऽभिधीयते । पनतिधातुः स्तुत्यर्थे वर्तते । ‘ पण व्यवहारे स्तुतौ च, पन चेति ' ' वैयाकरणैर्धातुषु पठ्यमान-त्वात् । तथा सति ‘ पनाय्यं ’ स्तुत्यं सोमपानाख्यं कर्म; तदयं मन्त्रोऽभिवदति ॥ सं वां कर्मणेत्येतत्प्रथमपादस्य पूर्वभागं व्याख्यायोत्तरभागमनूद्य व्याचष्टे— समिषेत्यन्नं वा इषोऽन्नाद्यस्यावरुद्ध्यै ॥ ३ ॥
हिन्दी ' – ( ' सं वां कर्मणा ' इस ऋचा के द्वितीय भाग का व्याख्यान कर रहे हैं - ) समिष इति इस ऋचा में समिषः प्रयुक्त है । अन्नं वै इषः अन्न ही इष है । अन्नाद्य-स्यावरुद्ध्यै अन्न की प्राप्ति के लिए ( इसका शंसन होता है ) || सा ० भा ० – ‘ इषा ' अन्नेन ‘ युवाम् ' इन्द्राविष्णु ' संहिनोमि ' इत्यन्वयः । अत्रान्नमेवेषे-त्यस्य शब्दस्यार्थः । इष्, शब्दस्य ' इष: ' इति प्रथमाबहुवचनम् । तस्मादन्नवाचित्वे सति एतच्छंसनमन्नाद्यस्य प्राप्तये भवति ॥ अस्या ऋचश्चतुर्थपादमनूद्य व्याचष्टे— अरिष्टैर्नः पथिभिः पारयन्तेति स्वस्तिताया एवैतदहरहः शंसति ॥४ ॥
हिन्दी— ( इस ऋचा के चतुर्थ पाद को कहकर उसका व्याख्यान कर रहे हैं- ) ‘ अरिष्टैर्नः पथिभिः पारयन्त ' अर्थात् हिंसारहित मार्गों से पार करते हुए इति स्वस्ति-तायै एव कल्याण के लिए ही एतत् यह ( अच्छावाक ) अहरहः शंसति प्रतिदिन शंसन करता है । सा ० भा ० ० – सोऽस्मान् ' अरिष्टैः ' हिंसारहितै: ' पथिभिः ' स्वर्गमार्गैः ‘ पारयन्ता ' कर्मणः पारं फलरूपं नयन्तौ, इन्द्राविष्णू इत्यर्थः । एतस्य पादस्य शंसनं ‘ स्वस्तिताया एव ' क्षेमार्थमेव भवति । तस्मादच्छावाकः ' एतद् ' वचनमहर्गणेषु प्रतिदिनं शंसति ॥ परिधानीयानां छन्दसि प्रश्नोत्तरे दर्शयति— ( १ ) ऋ ० ६.६ ९ ( २ ) भ्वा ० ४३ ९, ४४० । ' पाणिपनिभ्य आय: ' ( पा ० सू ० ३.१.१८ ) । कर्मणि ' अचो यत् ' ( पा ० सू ० ३.१.९ ७ ) ।