ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 301–310
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 301–310
पृष्ठ 301
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११५ ९ ( परिधानीयानां छन्दोविषये प्रश्नोत्तरे ) अथाह यज्जागतं वै तृतीयसवनमथ कस्मादेषां त्रिष्टुभः परिधानीया भवन्तीति; वीर्यं वै त्रिष्टुब्वीर्य एव तदन्ततः प्रतितिष्ठन्तो यन्ति ॥ ५ ॥
हिन्दी – ( अब परिधानीया ऋचा के छन्द के विषय में प्रश्नोत्तर दिखला रहे हैं— ) ( प्रश्न- ) अथ आह अब ( कुछ वैदिक ) पूछते हैं— यत् जागतं वै तृतीयसवनम् जो यह तृतीयसवन जगती छन्द से सम्बन्धित हैं, अथ कस्मात् तो किस कारण से एषाम् इस ( तृतीयसवन ) की त्रिष्टुभः परिधानीयाः भवन्ति त्रिष्टुप् छन्द वाली परिधानीया होती हैं? ( उत्तर ) वीर्यं वै त्रिष्टुभः त्रिष्टुप् छन्द वीर्यरूप है । अतः अन्ततः वीर्ये एव अन्त में वीर्य में ही प्रतितिष्ठन्तः एति प्रतिष्ठित करते हुए जाता है ॥ सा ० भा०—– तृतीयसवनस्य जागतत्वेन परिधानीया अपि जगत्य एव युक्ताः । एतत्परित्यागेन त्रिष्टुभां स्वीकारे प्रतिदिनं किं कारणम्? इति प्रश्नः । वीर्यमित्याद्युत्तरम् । त्रिष्टुभो वीर्यस्वरूपत्वात् तया परिधाने सति शस्त्रस्यान्ते वीर्य एव प्रतिष्ठिताः सन्तो ' यन्ति ' वर्तन्ते ॥ त्रयाणामुटुभः परिधानीया उदाहृत्य प्रदर्शयति— ' इयमिन्द्रं वरुणमष्टमे गीरिति ' ' मैत्रावरुणस्य, ' बृहस्पतिर्नः परिपातु पश्चादिति ' ' ब्राह्मणाच्छंसिन, ' उभा जिग्यथुरित्यच्छावाकस्य'३ ॥६ ॥
हिन्दी – ( अब मैत्रावरुण, ब्राह्मणाच्छंसी और अच्छावाक - इन तीनों होत्रकों के परिधानीय को उदाहृत करके दिखला रहे हैं - ) ' इयमिन्द्रं वरुणमष्टमे गीः ' इति मैत्रा-वरुणस्य यह मैत्रावरुण नामक होत्रक की, ' बृहपतिर्नः परिपातु पश्चात् ' इति ब्राह्मणा-च्छंसिनः यह ब्राह्मणाच्छंसी की और ' उभाजिग्यथु: ' इति अच्छावाकस्य यह अच्छावाक ( नामक होत्रक की परिधानीय ऋचा है ) ॥. तदिदमन्तिमोदाहरणं व्याचष्टे-उभौ हि तौ जिग्यतुः ॥७ ॥
हिन्दी - ( इस अन्तिम उदाहरण की व्याख्या कर रहे हैं—- ) उभौ हि तौ जिग्यतुः क्योंकि वे दोनों ( इन्द्र और विष्णु ) ( युद्ध में ) विजय प्राप्त करें ॥ सा ० भा ० — याविन्द्राविष्णू ' तावुभौ ' ' जिग्यतुः ' युद्धे जयं प्रापतुरिति प्रसिद्धम् ॥ ऋचः पूर्वार्धे ‘ उभा जिग्यथुः ' इत्यमुमंशं व्याख्यायांशान्तरव्याख्यानं पठति— न पराजयेथे न पराजिग्य इति ॥८ ॥
हिन्दी — न पराजयेथे ( हे इन्द्र और विष्णु! ) तुम दोनों कभी भी पराजित नहीं हुए ( १ ) ऋ ० ७.८४.५ । ( २ ) ऋ ० १०.४२.११ । ( ३ ) ऋ ० ६.६ ९.८ ।
पृष्ठ 302
पाठ पढ़ें पाठ छिपाएँ
११६०: ऐतरेयब्राह्मणम् [ २८.७ षष्ठपञ्चिकायां और न पराजिग्ये ( इन दोनों में से कोई भी ) पराजित नहीं हुआ है । सा ० भा ० — तस्यार्धस्य ‘ कतरश्चनैनो: ' इत्ययं शेषो ब्राह्मणेनानुदाहृतोऽप्यर्थाव-बोधाय द्रष्टव्य: ' । तस्य च सर्वस्यायमर्थः – हे ' इन्द्राविष्णू ' युवां ' न पराजयेथे ' कदाचिदपि पराजयं न प्राप्तवन्तौ । ‘ एनोः ' एनयोरिन्द्राविष्ण्वोर्मध्ये ' कतरश्चन ' एकोऽपि ' न पराजिग्ये ’ पराजयं न प्राप । एकैकस्यापि यदा पराजयो नास्ति, तदानीमुभयोर्मिलितयोः पराजयो नास्तीति किमु वक्तव्यमिति ॥ उक्तस्यार्धस्य तात्पर्यं दर्शयति-न हि तयोः कतरश्चन पराजिग्ये ॥ ९ ॥
हिन्दी – ( उपर्युक्त कथन का तापर्य दिखला रहे हैं - ) हि क्योंकि तयोः उन दोनों ( इन्द्र और विष्णु ) में से कतरश्चन कोई भी न पराजिग्ये नहीं पराजित हुआ है ॥ उत्तरार्ध पठति— इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामिति ॥ १० ॥
हिन्दी – ( पूर्वोक्त ऋचा ' उभा जिग्यथुः ' के उत्तरार्ध को दिखला रहे हैं - ) इन्द्रश्च विष्णो हे इन्द्र और विष्णु! यद् अपस्पृधेथाम् जब तुम दोनों ने असुरों के साथ युद्ध किया सहस्रं त्रेधा वि हजार को तीन प्रकार से विभाजित करके तद् ऐरयथाम् उनको ( उनके स्वामियों को ) समर्पित कर लिया ॥ सा ० भा ० – ‘ यद् ’ यदा हे विष्णो त्वं चेन्द्रश्च युवामुभौ ' अपस्पृधेथां ' स्पर्धामसुरैः सह युद्धं कृतवन्तौ, ‘ तत् ’ तदानीं सहस्रं ' त्रेधा ' विभज्य ' ऐरयेथां ' तं तं भागं तस्मै तस्मै स्वामिने समर्पितवन्तौ ॥ तस्य तात्पर्यं दर्शयितुमितिहासमाह— इन्द्रश्च ह वै विष्णुश्चासुरैर्युयुधाते; तान् ह स्म जित्वोचतुः, कल्पामहा इति; ते ह तथेत्यसुरा ऊचुः; सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्वि-क्रमते तावदस्माकमथ युष्माकमितरदिति; स इमाँल्लोकान् विचक्रमेऽथो वेदानथो वाचं; तदाहुः किं तत्सहस्रमितीमे लोका इमे वेदा अथो वागिति ब्रूयात् ॥ ११ ॥
हिन्दी— ( उपर्युक्त कथन का तात्पर्य दिखला रहे हैं— ) इन्द्रश्च ह विष्णुश्च इन्द्र और विष्णु ने असुरैः युयुधाते असुरों के साथ युद्ध किया । तान् ह जित्वा उन ( असुरों ) को जीतकर ऊचतुः स्म ( उनसे कहा- - कल्पामहै हम लोग विभाग कर लेते हैं । ते ह असुरा ऊचुः तब उन असुरों ने कहा— तथा वैसा ही ( अर्थात् विभाग कर लिया ) जाय । ( १ ) ' उभा जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्चनैनो: ' इति ऋक्पूर्वार्धः ।
पृष्ठ 303
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११६१ सः इन्द्रः अब्रवीत् उस इन्द्र ने कहा- अयं विष्णुः यावद् त्रिविक्रमते ये विष्णु तीन पैरों से जितना नाप ले तावद् अस्माकम् उतना हमारा रहेगा अथ इतरद् युष्माकम् इसके बाद अन्य ( अवशिष्ट ) तुम्हार रहेगा । सः इमान् लोकान् विचक्रमे उस ( विष्णु ) ने इन लोकों के ( एक ही पैर में ) नाप लिया अथ वेदान् इसके बाद ( दूसरे पैर से ) सभी वेदों को अथ वाचम् तत्पश्चात् ( तीसरे पैर से ) वाणी को नाप लिया । ( इस प्रकार से सभी इन्द्र और विष्णु के हो गये ) । तदाहुः इस विषय में ( कुछ लोग पूछते हैं — सहस्रं किम् यह सहस्र क्या है? इसका उत्तर इमे लोकाः ये लोक, इमे वेदा: -ये वेद अथ वाक् और यह वाक् ( सहस्र शब्द से अभिहित हैं ) इति ब्रूयात् ऐसा कहना चाहिए ॥ सा ० भा ० — योऽयमिन्द्रो यश्च विष्णुस्तावुभावसुरैः सह ' युयुधाते ' युद्धं कृतवन्तौ । ततस्तावसुराञ्जित्वा तैः सहेदमूचतुः । हे असुराः, वयं सर्वे ' कल्पामहै ' विभागं करवामहा इति । असुरास्तथेङ्गीचक्रुः । तदानीमसुरैः सहेन्द्र एवमब्रवीत्, – ' अयं ' विष्णुः ' यावद् ’ वस्तूद्दिश्य ' त्रिर्विक्रमते ' वस्तुजाते पादत्रयं प्रक्षिपति, ' तावद् ' वस्तु सर्वमस्माकं भवतु । अथ ' इतरत् ' अवशिष्टं युष्माकमस्त्विति । एवमसुरैः सह समयं कृत्वा स विष्णुः ' इमाँ-ल्लोकान् ' त्रीनप्येकेन पादेन ' विचक्रमे ' विक्रान्तवान् । लोकत्रयस्योपर्येकमेव पादं प्रक्षिप्त-वान् । ‘ अथो ' तदनन्तरं ‘ वेदान् विचक्रमे ' सर्वेषां वेदानामुपर्येकं पादं प्रक्षिप्तवान् । ' अथो ’ तदनन्तरं ‘ वाचं विचक्रमे ’ सर्वस्या वाच उपरि तृतीयं पादं प्रक्षिप्तवान् । एवं पादत्रयेणाऽऽक्रान्तं सर्वमिन्द्राविष्णोर्भाग आसीत् । एवं विभागे व्यवस्थिते सति ' तत् ' तन्मन्त्रार्थे ब्रह्मवादिनः प्रश्नमाहुः । त्रेधा सहस्रमिति मन्त्रे यदुक्तं, तत्र सहस्रशब्देन किमुच्यते? इति । ' इमे ’ इत्यादिकं तदुत्तरम् । य इमे त्रयो लोकाः, ये चेमे वेदाः, या चेयं वाक्, तदेतदपरिमितत्व-स्योपलक्षकेण सहस्रशब्देन विवक्षितमित्युत्तरं ब्रूयात् । यद्यप्ययं मन्त्रः तैत्तिरीयाणां सप्तमे काण्डेऽतिरात्रस्य यागेर दक्षिणारूपगोसहस्रविषयत्वेनोदाहृतः २, तथाऽप्यत्र सहस्रशब्दः सर्वजगद्विषयत्वेन श्रुत्यैव व्याख्यायत इत्युभयार्थत्वमस्तु । यदुक्तम् आश्वलायनेन — ‘ उत्तमे शस्त्रे परिधानीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात् ' इति ॥ तमेव चतुरक्षराभ्यासं विधत्ते— ( १ ) ' त्रेधा विभक्तं वै त्रिरात्रे – इति ( तै ० सं ० ७.१.६.७ ) श्रवणात् ' त्रिरात्रयागे ' – इत्यवगम्यते; तदिह लेखकप्रमादप्रवाहेन भवितव्यम्, अपि वात्रातिरात्रप्रक्रम इति अतिरात्रस्येत्येवागमल्लेखमग्रे सायणस्येति । ( २ ) ' सोमो वै सहस्रमविन्दत्.... ' उभा जिग्यथुर्न पराजयेथे..... सहस्रं वि तदैरयेथाम्.... सहस्रतम्या वै यजमानः सुवर्गं लोकमिति..... तामग्नीध्रे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वयंवे वा दद्यात्, सहस्रमस्य सा दत्ता भवति..... देवान् गच्छति ' – इति तैं ० सं ० ७.१.६.७ अनु ० । ( ३ ) ‘ उत्तमान्युत्तमे, चतुरक्षराणि त्वच्छावाकः – इति आश्व ० श्रौ ० ६.४.५,६ ।
पृष्ठ 304
पाठ पढ़ें पाठ छिपाएँ
११६२: ऐतरेयब्राह्मणम् [ २८.७ षष्ठपञ्चिकायां ऐरयेथामैरयेथामित्यच्छावाक उक्थ्येऽभ्यस्यतिः स हि तत्रान्त्यो भवति ॥ १२ ॥
हिन्दी – ( इसी चार अक्षरों का विधान कर रहे हैं - ) अच्छावाकः अच्छावाक ( नामक होत्रक ) ‘ ऐरयेथामैरयेथाम् ' इति उक्थे अभ्यस्यति ' ' ऐरयेथाम् ऐरयेभाम् ' इस प्रकार दो बार उक्थ में कहता है; क्योंकि सः हि वह तत्र अन्त्यो भवति उस ( अच्छावाकशस्त्र ) का अन्त हो जाता है । सा ० भा ० — उक्थ्यनामके क्रतावच्छावाकः ' ऐरयेथाम् ' इति चतुरक्षरभागं द्विरभ्यस्येत् । ' सहि ' भागः ' तत्र ' अच्छावाकशस्त्रेऽन्त्यों भवति ॥ अच्छावाकस्याभ्यासं विधाय होतुरभ्यासं विधते— अग्निष्टोमे होताऽतिरात्रे च; स हि तत्रान्त्यो भवति ॥ १३ ॥
हिन्दी - ( अब होता के अभ्यास को कहते हैं - ) होता होता ( नामक ऋत्विक् ) अग्निष्टोमे अतिरात्रे च अग्निष्टोम और अतिरात्र में ( अन्तिम शस्त्र के अन्तिम चार अक्षरों को दुहराता है; क्योंकि सः हि तत्र अन्त्यो भवति वह इस होता का अन्त हो जाता है । सा ० भा ० - अहर्गणेषूक्थ्संस्थायां यथाऽच्छावाकस्यान्तिमे शस्त्रेऽभ्यासः, तथाऽग्निष्टोमसंस्थायामतिरात्रसंस्थायां होताऽन्तिमे शस्त्रेऽन्तिमं चतुरक्षरभागमभ्यस्येत् । ' स हि ' होता ‘ तत्र ' उभयत्र ‘ अन्त्य: ' शंसिता भवति । अग्निष्टोमे ' यज्जरित्रे – यज्जरित्रोम् ’ - इति चतुरक्षराभ्यासः ' । अतिरात्रे तु ' धेहि चित्रं धेहि चित्रोम् ’ - इति चतुरक्षराभ्यासः’- ॥ षोडशिसंस्थायां विचारपूर्वकं चतुरक्षराभ्यासं विधत्ते— अभ्यस्येत् षोळशिनीं ३ नाभ्यस्ये ३ त् इति? अभ्यस्येदित्याहुः; कथमन्येष्वहः स्वभ्यस्यति, कथमत्र नाभ्यस्येदिति, तस्माद-भ्यस्येत् ॥ १४ ॥
हिन्दी— ( षोडशी संस्था में विचारपूर्वक चार अक्षरों के अभ्यास का विधान कर रहे हैं— ) ( प्रश्न- ) षोडशिनीम् षोडशी संस्था में अभ्यासेत् ( चार अक्षरों का ) अभ्यास करना ( १ ) ' एवा न इन्द्रो मघवा.... माहिनं यज्जरित्रे ' ( ऋ ० ४.१७.२० ) -इत्येषैवर्क अग्निष्टोमीय-शस्त्रपरिधानीया । अतोऽस्या अन्त्याक्षरचतुष्टयस्याभ्यासः । ‘ एवा न इन्द्रो मधवा विरप्शीत्युत्तमया परिदधाति ’ - इत्याम्नातम्, इतः पूर्वम्, ' एवा न इन्द्रो मघवा विरप्शीति परिदध्यात् ’ - इति च आश्व ० श्रौ ० ५.२०.६ । ( २ ) ' बृहस्पते अति... द्रविणं धेहि चित्रम् ' – इति ऋ ० २.२३.१५ । ‘ बृहस्पते अति यदर्यो अर्हाद् इत्येतया परिदध्यात् ’ । ‘ बृहस्पते.... इति परिधानीया ' – इति च आश्व ० श्रौ ० ६.५.१ ९ ।
पृष्ठ 305
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११६३ चाहिए अथवा न अभ्यसेत् अभ्यास नहीं करना चाहिए? ( उत्तर ) अभ्यसेत इत्याहुः अभ्यास करना चाहिए - ऐसा कहा गया है । कथमन्येषु अहः सु अभ्यस्यति क्योंकि अन्य दिनों में अभ्यास करता है तो कथमत्र न अभ्यसेत् किसलिए यहाँ ( षोडशी में ) अभ्यास नहीं करना चाहिए । तस्मात् इसी कारण से अभ्यास करना चाहिए ॥ सा ० भा ० – विचारार्थं प्लुतिद्वयम् । तत्राभ्यस्येदिति निर्णयमाहुः । तत्रेयमुपपत्तिः— इतरेष्वहःसु चतुरक्षरभागमभ्यस्यात्रैव परित्यागे कारणं नास्तीति । तस्मादित्युपसंहारः । ' सख्युः पदे सख्युः पदो ३ मिति ' - चतुरक्षराभ्यासो द्रष्टव्यः ' ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां तृतीयाध्याये ( अष्टाविंशाध्याये ) सप्तमः खण्डः ॥७ ॥ ( १५ ) ( १०२ )
॥ इस प्रकार ऐतरेयब्राह्मण के अट्ठाइसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः ० सा ० भा ० - अच्छावाकविषये पुनरपि प्रश्नमुत्थापयति— ( अच्छावाकविषये पुनः प्रश्नोत्तरे ) अथाह यन्नाराशंसं वै तृतीयसवनमथ कस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसीः शंसतीति ॥ १ ॥
हिन्दी – ( अच्छावाक के विषय में पुनः प्रश्न को उत्थापित करते हैं— ) अथ आह अब कुछ ब्रह्मवादी पूछते हैं— नाराशंसं वै तृतीयसवनम् तृतीयसवन नाराशंस देवता से सम्बन्धित है, कस्मात् तो किस कारण से अच्छावाकः अच्छावाक ( नामक होत्रक ) अन्ततः तृतीयसवन के अन्त में शिल्पेषु शिल्प ( नामक शस्त्रों ) में अनाराशंसी शंसति नाराशंसी से अन्य ऋचाओं का शंसन करता है? ॥ सा ० भा०- -'अथ ' चतुरक्षराभ्यासकथनान्तरं ब्रह्मवादी प्रश्नमाह । ' यद् ’ यस्मात्-कारणात्तृतीयसवनं ‘ नाराशंसं वै ' नरा मनुष्या ऋभवोऽङ्गिरसो वा यत्र शस्यन्ते, तन्नाराशंसम्, तत्संबन्धिनि तृतीयसवने सति कस्मात्कारणादच्छावाकोऽन्ततः तृतीयसवनस्यान्ते शिल्पा ( १ ) ' उद्यद् ब्रध्नस्य..... सप्त सख्युः पदें - इति ऋ ० ८.६ ९.७ । ' उद्यद् ब्रघ्नस्य विष्टपमित्युत्तमया परिदधाति ’ । ‘ उद्यद्.... इति परिधानीया - इति च आश्व ० श्रौ ० ६.२.१२ ।
पृष्ठ 306
पाठ पढ़ें पाठ छिपाएँ
११६४: ऐतरेयब्राह्मणम् [ २८.८ षष्ठपञ्चिकायां ख्येषु ' शस्त्रेषु नाराशंससंबन्धिरहिता ऋचः शंसति, — ऋतुर्जनित्री ’ — इत्यादिकम्, ' अच्छा-वाकः शंसति ' न च तत्र नराः शस्यन्ते, तत्कथमुपपादितम्? इति प्रश्न ॥ तस्योत्तरमाह— विकृतिर्वै नाराशंसं, किमिव च वै किमिव च रेतो विक्रियते, तत्तदा विकृतं प्रजातं भवत्यथैतन्मृद्विवच्छन्दः शिथिरं यन्नाराशंसमथैषोऽ-न्त्यो यदच्छावाकस्तद्दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति ॥ २ ॥
हिन्दी - ( उत्तर - ) विकृतिर्वै नाराशंसः नाराशंस ( सवनदिन के परिणाम के क्रम से बदल कर ) विकृति ( विकास ) ही है । जिस प्रकार लोक में रेतः वीर्य किमिव च वै किमिव च कुछ - कुछ ( थोड़ा - थोड़ा ) विक्रियते विकृत होता ( विकास को प्राप्त करता ) है तदा तब तत् वह वीर्य विकृतं प्रजातं भवति विकास को प्राप्त करके ( पुत्र रूप में ) उत्पन्न होता है । यत् नाराशंसम् छन्दः जो यह नाराशंस से सम्बन्धित छन्द है एतत् यह मृद्विवत् शिथिरम् कोमल के समान शिथिल है यद् अच्छावाकः जो यह अच्छावाक है एषः अन्त्यः वह अन्तिम ( ऋत्विक् ) है । तद् दृढ़तायै तो दृढ़ता के लिए दृढे दृढ़ स्थान पर प्रतिष्ठास्यामः प्रतिष्ठित करना चाहिए ॥ सा ० भा ० — गर्भाशये निषिक्तस्य रेतसो ' विकृतिर्वै ' विकारपरिणामैव ‘ नाराशंसं ’ सवनम् अहः परिणामक्रमेणैव भवति । लोकेऽपि निषिक्तं रेतः ' किमिव च वै किमिव च ' क्रमेण किंचित्किचिदेव विक्रियते । तथा च गर्भोपनिषदि - ' एकरात्रोषितं कललं भवति, सप्तरात्रोषितं बुद्बुदं भवति, अर्धमासाभ्यन्तरेण पिण्डो भवति ' इत्यादि । ' तत् ' तादृशं क्रमेण विक्रियमाणं रेतो यदा साकल्येन ' विकृतं ' विकृद्धं भवति, तदा ' प्रजातं भवति ' पुत्रादिरूपेणोत्पद्यते । तस्मान्नाराशंसे तृतीयसवने विकारस्थानीयोऽन्तिमो भागः । तत्र संपूर्ण-तयोत्पत्त्यर्थमनाराशंसी नामृचां शंसनमित्यभिप्रायः । अथान्यदपि कारणमस्ति — ' यन्नाराशंसं छन्दः ' मनुष्यशंसनसंबन्धिच्छन्दोऽस्ति, तत् ' मृद्विव ' मार्दवोपेतमेव । तस्यैव व्याख्यानं ( १ ) ' अत ऊर्ध्वमनुरूपमेभ्यो विकृतानि शिल्पानि शंसेयुः ' - इति आश्व ० श्री ० ८.२.२ । ‘ वालखिल्यादीनि शिल्पसंज्ञकानि ' इति तद्वृत्तौ नारायण: । तानि च शिल्पानि द्विविधानि— १. विकृतानि, २. अविकृतानीति । विहरणन्यूङ्खनिनर्द्ददीनि विकृतानि; बालखिल्यादीन्य-विकृतानि । एतत् सूत्रे विकृतानामेव ग्रहणम्; विकृतानीतिवचनात् । आश्व ० श्रौ ० इतः परम् ‘ ऊर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः ' ( ४.७ ) - इति सूत्रेऽविकृतानामेव प्रकृत्येतिवचनात् । ‘ नित्यशिल्पं त्विदमहः ' ( ४-५ ) इत्यादौ तूभयविधशिल्पानां ग्रहणं भवति; विशेषतो निर्देशाभावात् । ( २ ) ऋ ० २.१३.१-१३ । ( ३ ) ' ऋतुर्जनित्रीति नित्यान्यैकाहिकानि ' - इति आश्व ० श्रौ ० ८.४.३ ।
पृष्ठ 307
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११६५ ‘ शिथिरमिति ’, शिथिलमदृढमित्यर्थः । अस्यापि च योऽच्छावाकोऽस्ति, ' एषोऽन्त्यः ' ऋत्विक् । न ह्येतदीयशंसनस्योपरि किंचिदन्यच्छंसनमस्ति । अतोऽन्तिमत्वाद् दृढः । तस्मात् ' दृळ्हतायै ' दाढ्यार्थ ' दृळ्हे ' स्थाने प्रतिष्ठास्यामः ' इति ' अनेनाभिप्रायेण तासामनाराशंसीनामृचां शंसनमित्यर्थः ॥ उपपादितमर्थमुपसंहरति— तस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसीः शंसति दृळ्हतायै, दृळ्हे प्रतिष्ठास्याम इति दृकहे प्रतिष्ठास्याम इति ॥ १६ ॥
हिन्दी— ( अब उपसंहार कर रहे हैं - ) तस्मात् इसी कारण अच्छावाकः अच्छावाक नामक होत्रक शिल्पेषु शिल्पनामक ( शस्त्रों ) में दृढतायै दृढ़ता के लिए अनाराशंसीः शंसति नाराशंसी से रहित ( ऋचाओं का ) शंसन करता है । अतः इसे दृढे प्रतिष्ठास्याम दृढ़ स्थान पर प्रतिष्ठित करना चाहिए ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां तृतीयाध्याये ( अष्टाविंशाध्याये ) || इस प्रकार ऐतरेयब्राह्मण के अट्ठाइसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अष्टमः खण्डः ॥८ ॥ ( १६ ) ( १०३ )
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्ग प्रवर्तकबीरबुक्कभूपालसाम्राज्यधुरधंर-माधवाचार्यादेशतो भगवत्सायणाचार्येण विरचिते माधवीये ' वेदार्थ-' प्रकाश ' नामभाष्ये ऐतरेयब्राह्मणभाष्यस्य कृतौ षष्ठपञ्चिकायां तृतीयोऽध्यायः ( अष्टाविंशोऽध्यायः ) ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अट्ठाइसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 308
पाठ पढ़ें पाठ छिपाएँ
अथ षष्ठपञ्चिकायां चतुर्थोऽध्यायः [ अथ एकोनत्रिंशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— उन्नीयमानसूक्तानि तथा प्रस्थितयाज्यकाः ।
प्रश्नोत्तराभ्यां संप्रोक्ताः प्रयोगस्य च निर्णयः ॥ १ ॥
अथाहर्गणेषु होत्रकाणां माध्यंदिनीयशस्त्रक्लृप्तिर्वक्तव्या; तत्र प्रथमं तावत् सर्वत्र विहितमर्थमनूद्य प्रशंसति— ( माध्यन्दिनशस्त्रक्लृप्तिकथनम्- ) यः श्वः स्तोत्रियस्तमनुरूपं कुर्वन्ति, प्रातः सवनेऽहीनसंतत्यै ॥ १ ॥
हिन्दी — ( अब अहर्गणों में होत्रकों के मध्यन्दिनसवन की क्लृप्ति को कहना है उनमें प्रथम अर्थ की प्रशंसा कर रहे हैं - ) अहीनसंतत्यै ( एक - एक दिन विच्छिन्न न हो जाय, अतः दो अहः के मध्य ) अहीन ( पृथक् - पृथक् अह्नों के समूहरूप क्रतु ) की निरन्तरता के लिए यः श्वः स्तोत्रियः अगले आने वाले दिन जो ( साम गायक का तृच ) स्तोत्रिय है तम् उस ( स्तोत्रिय तृच ) को प्रातः सवने प्रातः सवन में अनुरूपं कुर्वन्ति ( होत्रक शस्त्रों के अनुरूप करते हैं ॥ सा ० भा ० — अहर्गणेषु ‘ श्वः ’ परेद्युर्यस्मिंस्तृचे सामगाः स्तोत्रं कुर्वन्ति, तं स्तीत्रियं पूर्वेद्युर्होतारः शस्त्रेष्वनुरूपं कुर्वन्ति । एतच्च प्रातः सवन एव ' । तच्चानुरूपकरणमहीनस्य संतत्यै संपद्यते । अह्नां समूहरूपः क्रतुरहीनः । स चैकैकस्मिन्नहनि विच्छिन्नो मा भूदि-त्यहर्द्वयसंधानार्थं भविष्यत्यहनि स्तोत्रियस्य भूतेऽहन्यनुरूपत्वकरणम्, अह्नां भेदेऽपि फलैक्यात् समूहप्रयोग एक एव; ततः संततिरपेक्षिता । अयमर्थः सप्तविंशाध्याये व्या-ख्यातः —— स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्वन्ति प्रातः सवनेऽहरेव तदह्नोऽनुरूपं कुर्वन्तीति । तस्य व्याख्यानमिदं ‘ श्वः स्तोत्रियः ' इति ॥ अभिप्रेतविशेषस्य विधानात् अहर्भेदेऽपि प्रयोगैक्येन सांतत्यं दृष्टान्तेनोपपादयति— यथा वा एकाहः सुत एवमहीनस्तद्यथैकाहस्य सुतस्य सवनानि ( १ ) ‘ होत्रकाणाम् ’ – इत्युपक्रम्याश्वलायनीये श्रौते स्तोत्रियानुरूपाणां दशयुगलानि प्रदश्यक्तम्— ‘ स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन् स्तोत्रियोऽनुरूपः ' – इति ७.४.५ । इतः पूर्वमपि स्तोत्रियादिकथा द्रष्टव्या ।
पृष्ठ 309
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११६७ संतिष्ठमानानि यन्त्येवमेवाहीनस्याहानि संतिष्ठमानानि यन्ति; तद्यच्छ्व-स्तोत्रियमनुरूपं कुर्वन्ति प्रातः सवनेऽहीनसंतत्या, अहीनमेव तत् संतन्वन्ति ॥ २ ॥
हिन्दी - यथा वै एकाहः सुतः जिस प्रकार एकाह ( एक ही दिन में निष्पन्न ज्योतिष्टोम ) सोमाभिषव से पूर्णरूप से सम्पादित होता है एवम् अहीन् इसी प्रकार अहीन ( अहः समूह ) भी सोमाभिषव से निष्पादित किया जाता है । तद्यथा जैसे कि एकाहस्य सुतस्य सवन किये गये एकाह के सवनानि ( प्रातः, मध्यन्दिन और सायं ) सवनों को सन्तिष्ठमानानि अलग - अलग समाप्ति से युक्त करके यन्ति ( यजमान ) यजन करते हैं । तद्यत् उसी प्रकार जो श्वस्तोत्रियम् आगामी दिन के स्तोत्रिय को प्रातः सवने सन्तत्यै प्रात: सवन में निरन्तरता के लिए अनुरूपं कुर्वन्ति अनुरूप ( तृच ) करते हैं. तत् उससे अहीनमेव अहीन क्रतु की ही सन्तन्वन्ति निरन्तरता को करते हैं । सा ० भा ० – एकस्मिन्नेवाहनि निष्पन्नो ज्योतिष्टोम ' एकाहः ' । स यथा ' सुतः ' सोमा-भिषवेण कृत्स्नो निष्पादितः, एवम् ' अहीनः ' अहर्गणोऽपि सोमाभिषवेण निष्पाद्यते । तावेव दृष्टान्तदार्ष्टान्तिकौ तद्यथेत्यादिना स्पष्टीक्रियते । ' तत् ' तस्यैकाहस्य ' सुतस्य ' सोमाभिषव-युक्तस्यैव सतः क्रतोरवयवभूतानि प्रातर्माध्यंदिनतृतीयसवनानि ' संतिष्ठमानानि ' पृथक् पृथक्समाप्तियुक्तानि ' यन्ति यजमाना अनुतिष्ठन्ति । एवमेवाहीनस्याहर्गणस्यैकस्यैव सतः क्रतोरवयवभूतान्यहानि पृथक्पृथक्समाप्तियुक्तानि यजमाना अनुतिष्ठन्ति । तथा सति यद्युत्तरदिनसंबन्धिनं ‘ स्तोत्रियं ' तृचं पूर्वदिने प्रातः सवने ' अनुरूपं ' तृचं कुर्वन्ति, तदानीमहर्गणस्यैकस्य क्रतोः ' संततिः ' मध्ये विच्छेदराहित्यं भवति । तस्मादन्यदिने गत-स्यान्यदिने प्रयोगेण ‘ अहीनं ' क्रतुं संततं कुर्वन्ति ॥ अथ माध्यंदिनीयशस्त्रक्लृप्तिं विधातुमाख्यायिकामाह— ( माध्यन्दिनशस्त्रक्लृप्तिविधातुमाख्यायिका ) ते वै देवाश्च ऋषयश्चाद्रियन्त समानेन यज्ञं संतनवामेति त एतत् समानं यज्ञस्यापश्यन्, समानान् प्रगाथान्, समानीः प्रतिपदः, समानान सूक्तानि ॥३ ॥
हिन्दी – ( अब मध्यन्दिनसवन के क्लृप्ति का विधान करने के लिए आख्यायिका को कह रहे हैं - ) ते वै देवाः उन देवताओं ने ऋषयश्च और ऋषियों ने आद्रियन्तः विचार किया कि समानेन एक विधान द्वारा यज्ञं सन्तनवाम हम लोग यज्ञ को निरन्तर करें । ( इस प्रकार विचार करके ) ते उन ( देवताओं और ऋषियों ) ने यज्ञस्य यज्ञ के ( सभी दिनों में ) एतत् इस ( कहे गये मन्त्रसमूह ) को समानान् प्रगाथान् ( ' कद्वत् ' संज्ञक ) समान ( १ ) ' सन्ति ' इति आन ० मुद्रित पाठः ।
पृष्ठ 310
पाठ पढ़ें पाठ छिपाएँ
१ ९ ६८: ऐतरेयब्राह्मणम् [ २ ९.१ षष्ठपञ्चिकायां प्रगाथों को समानीः प्रतिपदः समान प्रतिपद् ( समान ऋचाओं ) को और समानि सूक्तानि समान सूक्तों को समानम् अपश्यन् समान रूप से देखा ॥ सा ० भा ० — ‘ ते वै ’ प्रसिद्धाः, वस्वादयो ' देवाश्च ', विश्वामित्रप्रभृतयः ' ऋषयश्च ' आद्रियन्त मनस्यैवमादरमकुर्वन्त । कीदृश आदरः? सोऽभिधीयते – ' समानेन ' सर्वेष्वेक-विधानेन प्रयोगेण ‘ यज्ञम् ' अहीनं ' संततं ' करवाम ' इति ' मनसि विचार्य ' ते ' द्विविधा देवा ऋषयश्च ‘ एतद् ’ वक्ष्यमाणं मन्त्रजातं ' यज्ञस्य ' अहीनस्य ' समानं ' सर्वेष्वहःसु सदृशमपश्यन् । किं किं सदृशमिति, उच्यते — ये कद्वत्संज्ञकाः प्रगाथाः, याश्च ' प्रतिपदः ' आरम्भणीया ऋचः, यानि चाहीनसूक्तानि तेषां सर्वेषामहःसु सर्वेषु षु समानत्वमपश्यन् ॥ साम्ये तत्प्रयोजनं दृष्टान्तेन दर्शयति— ओकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं गच्छत्यैव तत्रापरं गच्छति, यज्ञस्यैव सेन्द्रतायै ॥ ४ ॥
हिन्दी— ( साम्य में उसके प्रयोजन को दृष्टान्त द्वारा दिखला रहे हैं— ) इन्द्रः वै ओकःसारी इन्द्र घर की बिल्ली के समान ( व्यापक हैं ) ( जिस प्रकार प्रत्येक घर में घूसने वाली बिल्ली पहले दिन जिस घर में जाती है दूसरे दिन भी उसी घर में जाती है ) । उसी प्रकार यत्र इन्द्रः जहाँ इन्द्र पूर्वं गच्छति पहले दिन जाते हैं यज्ञस्य सेन्द्रतायै यज्ञ को इन्द्र से युक्त करने के लिए तत्रैव अपरं गच्छति वहीं पर दूसरे दिन भी जाते हैं । सा ० भा ० -‘ओकांसि ' स्थानानि गृहाणि, तेषु सरति सर्वदा संचरतीति ‘ ओक: -सारी ' मार्जारः । वैशब्द उपमार्थः । यथा मार्जारः पूर्वस्मिन् दिने येषु गृहेषु संचरति, तेष्वेव गृहेषु परेद्युरपि सञ्चरति, एवमयमिन्द्रोऽप्यवगन्तव्यः । स चेन्द्रो ‘ यत्र वै ' येषु स्थानेषु ‘ पूर्वम् ' अहः गच्छति, ‘ तत्र ’ तेष्वेव स्थानेषु ' अपरम् ' अहरागच्छत्येव । अतोऽहीनस्य ‘ यज्ञस्य ’ सर्वस्यापि सेन्द्रत्वार्थं पूर्वोक्तं समानत्वमादरणीयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) प्रथमः खण्डः ॥ १ ॥ ( १७ ) ( १०४ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ‘ ऊर्ध्व: स्तोत्रियानुरूपेभ्यः.... कवन्तः प्रगाथाः ।... कद्वद्भ्यः आरम्भणीयाः । ऊर्ध्वमारम्भ-णीयाभ्यः..... अहीनसूक्तानि षडहस्तोत्रियानावपत्सु ' – इति आश्व ० श्रौ ० ७.४.६-११ ।