ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 311–320
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: ११६ ९ अथ द्वितीयः खण्डः सा ० भा ० – अथ संपातनामकानि सूक्तान्याख्यायिकया दर्शयति-( सम्पातसूक्तानां कथनम् ) ( तत्राख्यायिका ) तान् वा एतान् संपातान् विश्वामित्रः प्रथममपश्यत्, तान् विश्वामित्रेण दृष्टान् वामदेवोऽसृजतैवा त्वामिन्द्र वाज्रिन्नत्र, यन्न इन्द्रो जुजुषे यच्च वष्टि, कथा महामवृधत् कस्य होतुरिति; तान् क्षिप्रं समपतद्; यत् क्षिप्रं समपतत्, तत् संपातानां संपातत्वम् ॥ १ ॥
हिन्दी – ( सम्पात नामक सूक्तों को आख्यायिका द्वारा दिखला रहे हैं — ) तान् एतान् सम्पातान् उन ( आगे विहित ) इन सम्पात ( सूक्तों ) को प्रथमं विश्वामित्रः अपश्यत् पहले विश्वामित्र ने देखा । विश्वामित्रेण दृष्टान् तान् विश्वामित्र द्वारा दृष्ट उन ( सम्पात सूक्तों ) को वामदेवः असृजत वामदेव ने ( लोक में ) प्रकट किया । ( वे सूक्त इस प्रकार हैं - ) ‘ एवा त्वामिन्द्र वज्रिन्नत्र ’ सूक्त, ‘ यन्न इन्द्रो जुजुषु यच्च वष्टि ' सूक्त और ' कथा महामवृधत् कस्य होतु: ' सूक्त । तान् उन ( सूक्तों ) को क्षिप्रं समपतत् ( वामदेव ने ) शीघ्र प्रकट कर दिया । यत् क्षिप्रं समपतत् जो ( वामदेव ने ) शीघ्र प्रकट किया तत् सम्पातानां सम्पातत्वम् वहीं ( सम्यग्रूप से प्रकटीकरण ) सम्पातों का सम्पात होना है । सा ० भा ० — ' तान् वै ' शास्त्रप्रसिद्धानेव ' एतान् ' अत्रैवोदाहरिष्यमाणान् संपातनाम-कान् सूक्तविशेषान् ‘ विश्वामित्र: ' महर्षिः ' प्रथमं ' सृष्ट्यादावीश्वरनुग्रहेण ' अपश्यत् ' मनसा वेदमध्ये ज्ञातवान् । विश्वामित्रेण सृष्टा ये सूक्तविशेषाः, तानधीत्य ‘ वामदेव: ’ महर्षिः ‘ असृजत ’ स्वकीयत्वेन लोके प्रकटीकृतवान् । ते सूक्तविशेषा उदाह्रियन्ते – ' एवा त्वाम् ' इत्येकं ' सूक्तं ‘ यन्न इन्द्रः ' इति द्वितीयं, ' कथा महामिति ' ' तृतीयं, ‘ तान् ' त्रीन् सूक्त-विशेषान् वामदेवः ‘ क्षिप्रं समपतत् ' कालविलम्बे सति विश्वामित्र आगत्य स्वकीयत्वं प्रकटीकरिष्यतीति भीत्या स्वयं शीघ्रमेव ' समपतत् ' सयगध्येतृञ्छिष्यान् प्राप्तवान्, स्वकीयत्वप्रसिद्ध्यर्थं बहूञ्छिष्यान् सहसाऽध्यापयामासेत्यर्थः । ' तत् ' तेषु सूक्तेषु ' यद् ’ यस्मात्कारणात् क्षिप्रं समपतत्, ' तत् ' तस्मात्कारणात् सम्यक्पतनं प्रकटीकरणमेषां सूक्ताना-मिति व्युत्पत्त्या संपातं नाम संपन्नम् ॥ अथ सूक्तान्तराणां सृष्टिं दर्शयति— ( १ ) ऋ ० ४.१ ९ । ( २ ) ऋ ० ४.२२ । ( ३ ) ऋ ० ४.२३ । ऐ.ब्रा. उ: २०
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
११७०: ऐतरेयब्राह्मणम् [ २ ९.२ षष्ठपञ्चिकायां ( सूक्तान्तराणां सृष्टिकथनम् ) स हेक्षांचक्रे विश्वामित्रो यान्वा अहं संपातानपश्यं, तान् वामदेवोऽ-सृष्ट, कानि न्वहं सूक्तानि संपातांस्तत्प्रतिमान् सृजेयेति; स एतानि सूक्तानि संपातांस्तत्प्रतिमानसृजत; सद्यो ह जातो वृषभः कनीन, इन्द्रः पूर्भिदातिरद्दासमर्कैरिमामू प्रभृतिं सातये धा, इच्छन्ति त्वा सोम्यासः सखायः, शासद्वह्निर्दुहितुर्नप्त्यङ्गाद, भि तष्टेव दोधया मनीषामिति ॥ २ ॥
हिन्दी— ( अन्य सूक्तों की सृष्टि को दिखला रहे हैं — ) सः ह ईक्षांचक्रे ( तब ) उस ( विश्वामित्र ) ने विचार किया कि यान् वै सम्पातान् जिन सम्पात सूक्तों को अहम् अपश्यम् मैंने देखा, तान् उन ( सम्पातसूक्तों ) को वामदेवोऽसृष्ट वामदेव ने प्रकट कर दिया । प्रतिमानान् और उनके सदृश सम्पातान् सम्पात के रूप में कानि नु सूक्तानि फिर किन सूक्तों को अहं सृजेय मैं ( लोक में ) प्रकट करूँ ( यह विचार करके ) सः उस ( विश्वामित्र ) ने तत्प्रतिमान् उन ( पूर्ववर्ती सूक्तों ) के समान सम्पातान् सम्पात के रूप में एतानि सूक्तानि इन ( आगे विहित ) सूक्तों को असृजत प्रकट किया- ' सद्यो ह जातो वृषभः कनीनः ’, ‘ इन्द्रः पूर्भिदातिरद्दासमर्कैः ', ' इमामू षु प्रभृतिं सातये धा ', ' इच्छन्ति त्वा सोम्यासः सखायः ’, ‘ शासद्वह्निर्दुहितुर्नप्त्यङ्गाद् ' और ' अभि तष्टेव दीधया मनीषाम् ' ( इन छः सूक्तों को प्रकट किया ) ॥ सा ० भा ० — वामदेववृत्तान्तमवगत्य ' सः ' विश्वामित्रः ईक्षांचक्रे ' मनस्येवं विचा-रितवान् । ‘ यान् ’ संपातानहमीश्वरानुग्रहेण दृष्टवानस्मि, तानयं वामदेवः ‘ असृष्ट ’ गुरुद्रोह-भीतिरहितः सन् स्वकीयत्वेन लोके प्रकटीकृतवान् । इतःपरं केषांचित्सूक्तानां मदीय-त्वप्रसिद्धिरपेक्षिता; अतोऽहं कानि नाम सूक्तानि ' तत्प्रतिमान् ' पूर्वसूक्तसदृशान् संपातान् कृत्वा ‘ असृजत ’ प्रकटीकृतवान् । तेषु ‘ सद्यो ह जातः इत्येकं सूक्तम् । ‘ इन्द्रः पूर्भिदिति ” द्वितीयम् । ‘ इमामू ष्विति’३ तृतीयम् । ' इच्छन्ति त्वेति चतुर्थम् । ‘ शासद्वह्निरिति ’ “ पञ्चमम् । ‘ अभि तष्टेवेति’६ षष्ठम् ” । एतानि सूक्तानि विश्वामित्रसम्बन्धित्वेन प्रसिद्धान्यभवन् । अथ भरद्वाजवसिष्ठनोधसां त्रयाणामृषीणां संबन्धीनि सूक्तानि दर्शयति— ( भरद्वाजवसिष्ठनोधसां सूक्तानि ) य एक इद्धव्यश्चर्षणीनामिति भरद्वाजो, यस्तिग्मशृङ्गो वृषभो न ( १ ) ऋ ० ३.४८ । ( २ ) ऋ ० ३.३४ । ( ३ ) ऋ ० ३.३६ । ( ४ ) ऋ ० ३.३० । ( ५ ) ऋ ० ३.३१ । ( ६ ) ऋ ० ३.३८ । ( ७ ) द्र ० आश्व ० श्रौ ० ७.५.२० ।
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११७१ भीम, उदु ब्रह्माण्यैरत श्रवस्येति वसिष्ठो, ऽस्मा इदु प्र तवसे तुरायेति नोधाः ॥ ३ ॥
हिन्दी— ( अब भरद्वाज, वसिष्ठ और नोधस् के सूक्तों को दिखला रहे हैं— ) ' य एक इद्ध व्यचर्षणीनाम् ' इति भरद्वाज: ' इस ( सूक्त ) को भरद्वाज ने, ' यस्तिग्मशृङ्गो वृषभो न भीम ', ‘ उदु ब्रह्माण्यैरत श्रवस्य ' इति वसिष्ठः इन दो ( सूक्तों ) को वसिष्ठ ने और ' अस्मा इदु प्र तवसे तुराय ' इति नोधा इस सूक्त को नोधा ( ऋषि ने ) प्रकट दिया ॥ सा ० भा ० — भरद्वाजो ‘ य एक इद् ' - इत्येकं ' सूक्तमसृजत । वसिष्ठो ‘ यस्तिग्मशृङ्ग ’ ‘ उदु ब्रह्माणि ' इति सूक्तद्वयम् ' असृजत । नोधा: ' अस्मा इदु प्र तवसे ' - इत्येकं सूक्तम-सृजत । एतेषां सर्वेषां सूक्तानां तत्र तत्र विनियोगो वक्ष्यते ॥ इदानीमहीनसूक्तानि विधत्ते-( अहीनसूक्तानां निरूपणम् ) त एते प्रातः सवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति ॥ ४ ॥
हिन्दी – ( अब अहीन सूक्तों को दिखला रहे हैं - ) ते एते वे ये ( होत्रक ) प्रात: -सवने प्रातःसवन में षड्हस्तोत्रियान् शस्त्वा षड्ह से सम्बन्धित ' आ नो मित्रावरुणा ’ इत्यादि स्तोत्रिय ( तृचों ) का शंसन करके माध्यन्दिने मध्यन्दिन ( सवन ) में अहीन-सूक्तानि अहीनसूक्तों का शंसन्ति शंसन करते हैं ॥ सा ० भा०- – ' ते ' प्रसिद्धाः ' एते ' प्रयोगकाले संनिहिता होत्रकाः, अहर्गणेषु प्रातः-सवने षळ्हसम्बन्धितः ‘ स्तोत्रियान् ' तृचान् ' आ नो मित्रावरुणा ’ — ‘ मित्रं वयम् ’ – इत्यादीन् सूत्रकारपठितान् तृचान् * शस्त्वा, ' माध्यंदिने ' सवनेस्वहीनसूक्तानि शंसेयुः ॥ कान्यहीनसूक्तानीत्याशङ्क्योदाहरति— तान्येतान्यहीनसूक्तान्या सत्यो यातु मघवाँ ऋजीषीति सत्यवन् मैत्रा-वरुणो स्मा इदु प्र तवसे तुरायेन्द्राय ब्रह्माणि राततमा । इन्द्रब्रह्माणि गोतमासो अक्रन्निति ब्रह्मपवद् ब्राह्मणाच्छंसी, शासद्वह्निर्जनयन्त वह्निमिति वह्निवदच्छावाकः ॥५ ॥
हिन्दी— ( माध्यन्दिनसवन के अहीन सूक्तों को दिखला रहे हैं - ) तानि एतानि वे ( १ ) ऋ ० ६.२२ ( २ ) ऋ ० ७.१ ९, २३ । ( ३ ) ऋ ० १.६१ । ( ४ ) ' आ नो मित्रावरुणा, मित्रं वयं हवामहे, मित्रं हुवे पूतदक्षम्, अयं वां मित्रावरुणा, पुरूरुणा चिद्ध्यस्ति, प्रति वां सूर उदित इति षडहस्तोत्रिया मैत्रावरुणस्य – इति आश्व ० श्रौ ० ७.२.२ । ‘ षडहशब्देन पृष्ठ्याभिप्लवौ उच्यते ' - इति तत्र नारायणः ।
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
११७२: ऐतरेयब्राह्मणम् [ २ ९.२ षष्ठपञ्चिकायां ये अंहीनसूक्तानि अहीनसूक्त ( निर्दिष्ट किये जा रहे हैं — ) ' आ सत्यो यातु मघवा ऋजीषि ' इति सत्यवन् यह सत्य शब्द से युक्त ( सूक्त ) मैत्रावरुणः मैत्रावरुण होत्रक ( शंसित करता है ) । ' अस्मा इदु प्र तवसे तुराय ' ( इस सूक्त की सोलहवीं ऋचा के चतुर्थ पाद ) इन्द्र ब्रह्माणि गोतमासो अक्रन् ' ब्रह्मण्वत् ब्रह्मन् शब्द से युक्त है ब्राह्मणाच्छंसी ( जिसका शंसन ) ब्राह्मणाच्छंसी ( होत्रक ) करता है । ' शाश्वद्वह्निर्जनयन्त वह्निम् ' यह सूक्त वह्निवत् वह्नि ( शब्द ) से युक्त है अच्छावाकः ( जिसका शंसन ) अच्छावाक ( नामक होत्रक करता III है ) ॥ सा ० भा०- -'तानि ' पूर्ववाक्ये विहितान्यहीनसूक्तान्येतान्युदाह्रियन्ते, – ' आ सत्यो यातु ’ - इति ’ ‘ सत्यवत् सत्यशब्दोपेतं सूक्तं मैत्रावरुणः शंसेत् । ' अस्मा इदिति ' ' सूक्तम् । तस्य ‘ इन्द्राय ब्रह्मणीति ' चतुर्थः पादः । तत्र ' ब्रह्माणीति ' श्रुतत्वात् इदं सूक्तं ' ब्रह्मण्वत् ' ब्रह्मञ्शब्दोपेतम् । तथा तत्रैव सूक्ते ' इन्द्र ब्रह्माणीति ' श्रुत्वादिन्द्रब्रह्मण्वत्, तदेतदुभयं ब्राह्मणाच्छंसी शंसेत् । ‘ शश्वद् वह्निरिति ' सूक्तं ' वह्निशब्दोपेतं, तस्मिन् सूक्ते ' जनयन्त
वह्निमिति ' श्रुतत्वात् । तदेतदच्छावाकः शंसेत् ॥
अथाच्छावाकविषयं प्रश्नमुद्भावयति— ( अच्छावाकविषये प्रश्नोत्तरे ) तदाहुः कस्मादच्छावाको वह्निवदेतत् सूक्तमुभयत्र शंसति - पराञ्चिषु चैवाहः स्वभ्यावर्तिषु चेति ॥ ६ ॥
हिन्दी – ( अच्छावाक के विषय में प्रश्न की उद्भावना कर रहे हैं - ) तदाहुः इस विषय में कुछ ब्रह्मवादी पूछते हैं - कस्माद् किस कारण से अच्छावाकः अच्छावाक ( नामक होत्रक ) पराञ्चिषु चैवाहःसु ( आवृत्तिरहित ) पूर्ववर्ती दिनों में अभ्यावर्तिषु च और आवृत्तियुक्त आगामी दिनों उभयत्र दोनों में वह्निवत् वह्नि ( शब्द ) से युक्त एतत् सूक्तम् इस सूक्त का शंसति शंसन करता है? सा ० भा ० — गवामयने हि द्विविधान्यहानि, – आवृत्तिरहितानि तत्सहितानि च । तत्र वक्ष्यमाणानि चतुर्विंशादीन्यावृत्तिरहितानि, अभिप्लवषडहगतानि पृष्ठ्यषडहगतानि चावृत्ति-सहितानि, तयोः षडहयोरसकृदनुष्ठानस्य विहितत्वात् । एवं सति ' पराञ्चिषु ' आवृति रहितेषु चतुर्विंशादिष्वहःसु ‘ वह्निवत् ' सूक्तमच्छावाकः शंसति । तथैव ' आभ्यावर्तिषु |
षडहगतेष्वहःसु च तत्सूक्तं शंसति । तत्रोभयत्र शंसने किं कारणम्? इति प्रश्नः ॥
तस्योत्तरमाह— वीर्यवान् वा एष बह्वृचो वह्निवदेतत् सूक्तं वहति ह वै वह्निर्धुरो ( १ ) ऋ ० ४.१६ ।. ( २ ) ऋ ० १.६१ । ( ३ ) ऋ ० ३.३१ ।
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११७३ यासु युज्यते; तस्मादच्छावाको वह्निवदेतत् सूक्तंमुभयत्र शंसति, पराञ्चिषु चैवाहःस्वभ्यावर्तिषु च ॥७ ॥
हिन्दी – ( उस प्रश्न का उत्तर दे रहे हैं - ) बह्वृचः एषः वीर्यवान् बहुत - सी ऋचाओं वाला यह बल - सम्पन्न ( अच्छावाक नामक होत्रक ) वह्निवद् एतत् सूक्तं वह्नि ( शब्द ) से युक्त इस सूक्त का वहति वहन करने योग्य है । वह्नि घुरः अग्नि धुरा है यासु जिस ( वह्निरूप धुराओं ) में युज्यते योजित किया जाता है । तस्मात् उसी कारण अच्छावाकः अच्छावाक वह्निवत् वह्नि ( शब्द ) से युक्त एतत् सूक्तम् यह सूक्त पराञ्चिषु च अहः सु ( आवृतिरहित ) पूर्ववर्ती दिनों में और अभ्यावर्तिषु च ( आवृतियुक्त ) आगामी दिनों में उभयत्र इस प्रकार दोनों में शंसति शंसन करता है । सा ० भा ० — ‘ एष: ' अच्छावाको ' बहवृचः ' बहूनामृचामनेनाधीतत्वात् तादृशैः । अच्छा-वाकत्वं पूर्वत्रैवमाम्नातम्— ' तस्माद्यो ब्राह्मणो बवृचो वीर्यवान् स्यात्, ' सोऽस्याच्छावाकीयां कुर्यात् ' इति । बवृचत्वादेवायं ' वीर्यवान् ' शक्तिमान् यज्ञभारं वोढुं शक्तः । सूक्तं चैत-द्वह्निशब्दोपेतत्वात्तस्य योग्यम् । लोकेऽपि ' वह्निः ' वोढाऽश्वो बलीवर्दो वा ' यासु ' रथशकट-सम्बन्धिनीषु धूर्षु ‘ युज्यते ’ बध्यते, ता धुरो वहत्येव । ' तस्माद् ' यज्ञभारं वोढुं समर्थत्वाद-च्छावाक ‘ उभयत्र ’ द्विविधेष्वप्यहःसु वह्निवत्सूक्तं शंसति ॥ तत्रावृत्तिरहितेष्वहःसु पूर्वोक्तसूक्तानां शंसनं प्रशंसति— तानि पञ्चस्वहःसु भवन्ति, - चतुर्विंशेऽभिजिति विषुवति विश्वजिति महाव्रतेऽहीनानि ह वा एतान्यहानि, न ह्येषु किंचन हीयते; पराञ्चीनि ह वा एतान्यहान्यनभ्यावर्तीनि; तस्मादेनान्येतेष्वहःसु शंसन्ति ॥ ८ ॥
हिन्दी — ( आवृत्तिरहित दिनों में पूर्वोक्त सूक्तों के शंसन की प्रशंसा कर रहे हैं— ) चतुर्विंशे चतुर्विंश ( नामक आरम्भणीय अहः ) में, अभिजिति अभिजिति में, विषुवति विषुवत् अहः में, विश्वजिति विश्वजित् में और महाव्रते महाव्रत में पञ्चसु अहःसु पाँच दिनों में तानि भवन्ति उन सूक्तों के शंसन होते हैं— अहीनानि वै एतानि व्रतानि ये व्रत अहीन हैं, न ह्येषु किञ्चन हीयते क्योंकि इन दिनों में ( यज्ञ का ) कोई भी भाग क्षीण ( कम ) नहीं होता । एतानि अहानि ये अहःसमूह पराश्चिनि पराञ्चि ( एक बार में प्रयोग में आने वाले ) हैं अनभ्यावर्तीनि और अभ्यावर्ति ( आवृत्तियुक्त नहीं ) हैं । तस्मात् इसी कारण से एनानि इन ( सूक्तों ) का एतेषु अहःसु इन दिनों में शंसन्ति शंसन करते हैं ॥ सा ० भा ० — गवामयने चतुर्विंशाख्यमारम्भणीयं द्वितीयमहः, महाव्रताख्यमुपान्त्य-महः, विषुवदाख्यं मध्यवर्ति प्रधानमहः, अभिजिद्विश्वजिदाख्ये विषुवत उभयभागवर्तिनी द्वे अहनी । एतेषु ‘ पञ्चस्वहःसु ' तानि ' पूर्वोक्तान्यहीनसूक्तानि होत्रकाः शंसन्ति । एतेषामह्नाम-हीनत्वात्तानि सूक्तानि तत्र योग्यानि 1 । यस्मादेतेष्वहः सु किमप्यङ्गं न हीयते, तस्मादेतान्य-
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
: ऐतरेयब्राह्मणम् [ २ ९.२ षष्ठपञ्चिकायां ११७४ हीनानि ', किञ्चैतान्यहीनानि ' पराञ्चीनि ' सकृदेव प्रयोज्यानि, न त्वावृत्तियुक्तानि । तस्यैव पदव्याख्यानमनभ्यावर्तीनीति । तस्मात् सकृदेव प्रयोज्यत्वात्तेष्वहः सु सामर्थ्यातिशयाय तानि सूक्तानि शंसेयुः ॥ प्रकारान्तरेण सूक्तानि प्रशंसति— यदेनानि शंसन्त्यहीनान् स्वर्गांल्लोकान् सर्वरूपान् सर्वसमृद्धान-वाप्नवामेति ॥ ९ ॥
हिन्दी— ( प्रकारान्तर से सूक्तों की प्रशंसा कर रहे हैं - ) यद् एनानि शंसन्ति जब इन ( सूक्तों ) को शंसित. करते हैं ( तो वे समझते हैं कि ) अहीनान् सर्वसमृद्धान् सर्व-रूपान् ( भोग्यवस्तु से ) युक्त, अनेक रूपों से सर्वसमृद्ध स्वर्गान् लोकान् स्वर्गलोकों को अवाप्नवाम प्राप्त करें । सा ० भा ० — ' ये ' स्वर्गलोकाः ' अहीना: ' भोग्यैर्वस्तुभिर्हीना न भवन्ति, अत एव ‘ सर्वसमृद्धाः ’ उत्तममध्यमाधमकर्मफलरूपत्वात् ' सर्वरूपाः ' बहुविधा भवन्ति; ताँल्लोकान् प्राप्नवामेत्यनेनाभिप्रायेण तानि सूक्तानि शंसेयुः ॥ पुनरपि प्रकारान्तरेण प्रशंसति— यदेवैनानि शंसन्तीन्द्रमेवैतैर्निह्वयन्ते यथा ॠषभं वाशितायै ॥ १० ॥
हिन्दी – ( पुनः अन्य प्रकार से प्रशंसा कर रहे हैं - ) यद् एनानि शंसन्ति जब इन ( सूक्तों ) का शंसन करते हैं ( तो यह समझते हैं कि ) एतैः इन सूक्तों से इन्द्रं निह्वयन्ते वे इन्द्र का ही निरन्तर आह्वान ( उसी प्रकार ) करते हैं, यथा जैसे वाशितायै गर्भ धारण करने के लिए ऋषभम् ( गाय ) वृषभ का ( आह्वान करती है ) । सा ० भा ० — ' एनानि ' सूक्तानि यदा शंसन्ति, तदानीमेतैरिन्द्रमेव ‘ निह्वयन्ते’३ नितरामाह्वयन्ति, गर्भग्रहणमिच्छन्ती धेनुः ' वाशिताः ', तदर्थमृषभं पुंगवं यथाऽऽह्वयति यद्वदिन्द्राह्वानं द्रष्टव्यम् ॥ ( १ ) ननु न हीयत इत्यहीन इति न्यायो नोपपद्यते इति न्यायविदः । इतरया ' द्वादशाहीनस्य ' इत्यत्र द्वादशाहोपसत्ता ज्योतिष्टोम एव निचिशेत । अतः कथमयं समासः? इति उच्यते - मध्योदात्तत्वादहीनशब्दस्य समासानुपपत्तिस्तान्रोक्ता । इह पुनर्भाषिकः त्वादुपपद्यत एव न हीयते - इत्यहीन इति समासः । अथ कोऽयं भाषिकस्वरो नाम? छन्दोगा बहवृचाश्चैव तथा वाजसनेयिनः । “ उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ॥ इति गोविन्दस्वामी । ( २ ) प्रयोज्यानि...... तस्मात् सकृंदेव ' इति साम ० संपा ० मु ० पुस्तके नास्ति । ( ३ ) ' निसमुपविभ्यः ' इति तङ् ( पा ० सू ० १.३.३० ) । नियमेन आह्वयन्ति । - इति षड्-गुरुशिष्यः ।
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः ११७५ पुनरपि प्रकारान्तरेण सूक्तानि प्रशंसति— यद्वेवैनानि शंसन्त्यहीनस्य संतत्या, अहीनमेव तत् संतन्वन्ति ॥ ११ ॥
हिन्दी – ( पुनः अन्य प्रकार से प्रशंसा कर रहे हैं— ) यद् एव एनानि शंसन्ति जब इन ( सूक्तों ) का शंसन करते हैं ( तो यह समझते हैं कि ) अहीनस्य सन्तत्यै अहीन ( अहः- समूह ) की निरन्तरता के लिए अहीनमेव तत् संतन्वन्ति अहीन को ही सम्पादित करता है ॥ सा ० भा ० – ' यद्वेव ' यस्मादेव कारणात् ' एनानि ' सूक्तानि सर्वेष्वहः सु शंसन्ति, तस्मादेव कारणादेतच्छंसनम् ' अहीनस्य ' अहर्गणस्य संतत्यर्थं संपद्यते । ' तत् ' तेन शंसेनेन अहीनमेवाहर्गणमेव ' संतन्वन्ति ' संततं कुर्वन्ति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-. भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( १८ ) ( १०५ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा ० भा ० - अथ पूर्वोक्तानां संपातसूक्तानां विनियोगं दर्शयति— ( सम्पातसूक्तानां विनियोगः ) ततो वा एतांस्त्रीन् संपातान् मैत्रावरुणो विपर्यासमेकैकमहरहः शंसति ॥ १ ॥
हिन्दी – ( पूर्वोक्त सम्पात सूक्तों का विनियोग दिखला रहे हैं— ) ततः उस ( पूर्वोक्त चतुर्विंश इत्यादि पञ्च अहः ) से अन्य ( षड्ह के पहले तीन दिनों में ) अहरहः प्रतिदिन एतान् त्रीन् सम्पातान् इन तीन सम्पातों को एकैकम् एक - एक करके मैत्रावरुणः विपर्यासं शंसति मैत्रावरुण ( नामक होत्रक ) विपर्यास ( उल्टा ) करके शंसन करता है । सा ० भा ० -- – ' ततो वै ' तस्मादेव पूर्वोक्ताच्चतुर्विंशादेरहः पञ्चकादन्यत्र षडहेष्विति शेषः । तेषु मैत्रावरुणः त्रीन् संपाताख्यान् सूक्तविशेषान् ' विपर्यासं ' विपर्यस्य शंसेत् । स एव
विपर्यास एकैकमहरह इत्यनेन स्पष्टीक्रियते । प्रतिदिनमेकैकसूक्तमित्यर्थः ॥
, तदेवोदाहृत्य प्रदर्शयति —
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
११७६: ऐतरेयब्राह्मणम् [ २ ९.३ षष्ठपञ्चिकायां ' एवा त्वामिन्द्र वज्रिन्नत्रेति ' ' प्रथमेऽहनि, ' यन्न इन्द्रो जुजुषे यच्च वष्टीति ' र द्वितीये, ' कथा महामवृधत् कस्य होतुरिति " तृतीये ॥ २ ॥
हिन्दी— ( शंसनीय सम्पातसूक्तों को दिखला रहे हैं— ) ‘ एवा त्वामिन्द्र वज्रिन् ' इति प्रथमेऽहनि इसका प्रथम दिन, ' यन्न इन्द्रो जुजुषे यच्च वष्टी ' इति द्वितीये इसका दूसरे ( दिन ), ' कथा महामवृधत् कस्य होतुः ' इति तृतीये इसका तृतीय दिन ( शंसन करता है ) । मैत्रावरुणवद् ब्राह्मणाच्छंसिनोऽपि सूक्तत्रयस्य विपर्यासेन शंसनं दर्शयति— त्रीनेव संपातान् ब्राह्मणाच्छंसी विपर्यासमेकैकमहरहः शंसतीन्द्रः पूर्भिदातिरद्दासमर्कैरिति ' प्रथमेऽहनि, ' य एक इव्द्धव्यश्चर्षणीनामिति'५ द्वितीये, ' यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये ॥ ३ ॥
हिन्दी — ( अब मैत्रावरुण के समान ब्राह्मणाच्छंसी होत्रक के तीन सूक्तों के विपर्यास से शंसन को दिखला रहे हैं — ) त्रीन् एव सम्पातान् तीन ही सम्पात ( सूक्तों ) को ब्राह्म-णाच्छंसी ब्राह्मणाच्छंसी ( होत्रक ) विपर्यासम् विपर्यास ( उल्टा ) करके अहरहः प्रतिदिन एकैकम् एक - एक को शंसति शंसित करता है । ( वे सूक्त इस प्रकार है - ) ‘ इन्द्रः पूर्भिदातिरद्दासमर्कैः ' इति प्रथमेऽहनि यह प्रथम दिन ' यः इद्धव्यर्श्वषणीनाम् ' इति द्वितीये यह द्वितीय दिन, ‘ यस्तिग्मशृङ्गो वृषभो न भीम ' इति तृतीये यह तृतीय दिन ( शंसित होता है ) ॥ तथाऽच्छावाकस्यापि सूक्तत्रयस्य विपर्यासेन शंसनं दर्शयति— त्रीनेव संपातानच्छावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमेऽहनीच्छन्ति त्वा सोम्यासः सखाय इति ' द्वितीये, ' शासद्वह्निर्दुहितुर्नप्त्यङ्गादिति " तृतीये ॥४ ॥
हिन्दी— ( अच्छावाक के भी तीन सूक्तों को विपर्यास के साथ शंसन का विधान कर रहे हैं— ) त्रीनेव सम्पातान् तीन ही सम्पात सूक्तों को अच्छावाकः अच्छवाक अहरहः प्रतिदिन एकैकम् एक - एक करके विपर्यासं शंसति विपर्यासपूर्वक शंसन करता है । ' इमामूषु प्रभृतिं सातये धा ' इति प्रथमेऽहनि यह प्रथम दिन में ' इच्छन्ति त्वा सोम्यासः सखायः ' इति द्वितीये यह द्वितीय दिन में, ' शाश्वद्वह्निर्दुहितुर्नप्त्यङ्गात् ' इति तृतीयं यह तृतीय दिन ( शंसित होता है ) । उक्तानां सूक्तानां मिलित्वा संख्यां दर्शयति-( १ ) ऋ ० ४.१ ९ । ( २ ) ऋ ० ४.२२ । ( ३ ) ऋ ० ४.२३ । ( ४ ) ऋ ० ३.३४ । ( ५ ) ऋ ० ६.२२ । ( ६ ) ऋ ० ७.१ ९ । ( ७ ) ऋ ० ३.३६ | ( ८ ) ऋ ० ३.३० । ( ९ ) ऋ ० ३.३१ ।
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११७७ तानि वा एतानि नव ॥ ५ ॥
हिन्दी – ( इन सभी सम्पात सूक्तों की संख्या की प्रशंसा करते हैं वे ( पूर्वोक्त ) ये ( सम्पातसूक्त ) नव ( संख्या में ) नौ होते हैं ॥ दिनविशेषेण सूक्तविशेषान् विधाय प्रतिदिनं शंसनीयानि सूक्तानि त्रीणि चाहरहः शस्यानि ॥ ६ ॥
हिन्दी - अहरहः प्रतिदिन त्रीणि शस्यानि ( एक - एक करके शंसित होकर कुल ) तीन ( सम्पातसूक्त ) शंसित किया जाना चाहिए ॥ - ) तानि एतानि विधत्ते— तीन होत्रकों द्वारा सा ० भा ० – यानि प्रतिदिनं शंसनीयानि त्रीणि सूक्तानि तान्युपरितखण्डे ' सद्यो ह जात: ’ इत्यादिना स्पष्टीकरिष्यन्ते ॥ दिनविशेषगतानि प्रतिदिनगतानि च मिलित्वा प्रशंसति— तानि द्वादश संपद्यन्ते, द्वादश वै मासाः संवत्सरः, संवत्सरः प्रजापतिर्यज्ञस्तत्संवत्सरं प्रजापतिं यज्ञमाप्नुवन्ति, तत्संवत्सरे प्रजा-पतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति ॥७ ॥
हिन्दी - तानि वे ( दिन विशेषगत और प्रतिदिन एक - एक सूक्त मिलाकर ) द्वादश सम्पद्यन्ते बारह हो जाते हैं । द्वादश वै मासाः संवत्सरः संवत्सर बारह महीनों वाला होता है । संवत्सरः प्रजापतिः संवत्सर प्रजापति है जो यज्ञः यज्ञ है । तत् उस ( शंसन ) से संवत्सरं प्रजापतिं यज्ञम् संवत्सरात्मक प्रजापतिरूप यज्ञ को आप्नुवन्ति ( यजमान ) प्राप्त करते हैं । तत् इसी कारण संवत्सरे प्रजापतौ यज्ञे संवत्सरात्मक प्रजापति रूप यज्ञ में अहरहः प्रतिदिन प्रतिष्ठन्तः यन्ति ( अपने को ) प्रतिष्ठित करते हुए अनुष्ठान करते हैं । सा ० भा ० – ' तानि ' पूर्वोक्तानि नव त्रीणि च मिलित्वा द्वादश संपद्यन्ते । अतो मास-संवत्सर तन्निर्मातृप्रजापतिद्वारा प्रजापतिसृष्टत्वेन प्रजापतिरूपो यो यज्ञस्तादृशं संवत्सरात्मकं प्रजापतिरूपं यज्ञमनुष्ठातारः प्राप्नुवन्ति । ' तत् ' तेन शंसनेन संवत्सरात्मकप्रजापतिरूपे यज्ञे प्रतिदिनं प्रतिष्ठिताः सन्तोऽनुतिष्ठन्ति ॥ अथ पृष्ठ्यषडहस्योत्तरस्मिंस्त्र्यहे कासांचिदृचामावापं विधत्ते-( आवापविधानम् ) तान्यन्तरेणाऽऽवापमावपेरन् ॥८ ॥
हिन्दी – ( अब पृष्ठ षडह के बाद वाले इस त्र्यह में कुछ ऋचाओं के आवाप को कह रहे हैं— ) तानि अन्तरेण ( पृष्ठ षडह के बाद वाले त्र्यह में ) उन ( विपर्यासपूर्वक ) शंसित नौ सूक्तों और प्रतिदिन शंसनीय अन्य सूक्तों के मध्य में आवापम् आवपनीय
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
११७८: ऐतरेयब्राह्मणम् [ २ ९.३ षष्ठपञ्चिकायां ( ऋचाओं ) का आवापेरन् आवाप करना चाहिए ॥ “ सा ० भा ० — यानि विपर्यासेन शंसनीयानि नवसंख्याकानि सूक्तान्युक्तानि यानि च प्रतिदिनं शंसनीयानि त्रीण्युक्तानि, ' तान्यन्तरेण ' तेषामुभयविधानामन्तराले स्थाने किंचिदाव-पनीयमृक्समूहमावपेरन् ॥ कस्मिन् दिने का ऋच आवपनीया इत्याशङ्क्य तत्सर्वं विविच्य दर्शयति— अन्यूङ्खया विराजो वैमदीश्च चतुर्थेऽहनि, पङ्क्तीः पञ्चमे, पारुच्छेपीः षष्ठे ॥९ ॥
हिन्दी — चतुर्थेऽहनि ( पृष्ठ षडह के ) चतुर्थ दिन वैमदी विराजश्च विमद ऋषि द्वारा दृष्ट विराट् छन्दस्क ( का शंसन ) अन्यूङ्ख्या विना न्यूङ्ख के करना चाहिए । पञ्चमे पञ्चम दिन में पङ्किः पङ्कि छन्दस्क और षष्ठे षष्ठ दिन पारुच्छेपीः परिच्छेप द्वारा दृष्ट ( ऋचाओं ) का पहले की भाँति ( आवाप करना चाहिए ) ॥ सा ० भा ० – उच्चारणविशेषोपेता ओंकारा ' न्यूङ्खा: ', ते च पूर्वमेव ' मुखतो मध्यंदिने न्यूङ्खयति ’ — इत्यत्राभिहिताः । तानर्हन्तीति न्यूङ्ख्याः । तद्विपरीता ' अन्यूङ्ख्या: ' । ' विराजः ’ विराट्छन्दस्का ऋच: । ताः पृष्ठ्यषडहस्य चतुर्थेऽहन्यावपनीया: । ' न ते गिरो अपि मृष्ये -इत्याद्याश्चतस्र ऋच: ’ । ‘ प्र वो महे महिवृधे भरध्वम् ' – इत्याद्यास्तिस्रः ' । एताः सप्त विराजः । त्रयाणां होत्रकाणां त्रयस्तृचा भवन्ति । प्रथममारभ्येकस्तृचो मैत्रावरुणस्य, तृतीय-मारभ्यैकस्तृचो ब्राह्मणाच्छंसिनः । पञ्चमीमारभ्यैकस्तृचोऽच्छावाकस्य । तदेवं सप्तस्वृक्षु यस्तृचा विभज्य प्रक्षेपणीयाः । सोऽयं विराजां प्रक्षेप एकः पक्षः । वैमदीरावपेन्निति पक्षान्तरम् । विमदाख्येन महर्षिणा दृष्टा वैमद्यः । ताश्च ' यजामह इन्द्रम् ' – इत्याद्याः सप्तर्चः । ता अपि पूर्ववत् त्रयस्तृचाः कर्तव्याः । पञ्चमेऽहनि ' यच्चिद्धि सत्य सोमपाः ' – इत्याद्याः पक्तिंच्छन्दस्काः सप्तर्च: ४ पूर्ववदावपनीयाः । तथा षष्ठेऽहनि परुच्छेपेन दृष्टा ' इन्द्राय हि द्यौः ' - इत्याद्याः सप्तर्च: ५ पूर्ववदावपनीयाः । स्तोमवृद्धावतिशंसनार्थमावपनीयानि सूक्तानि दर्शयति— अथ यान्यहानि महास्तोमानि स्युः, को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत; वने न वायो ' न्यधायि चाकन्निति ब्राह्मणाच्छंस्या याह्यर्वाङ्गुप बन्धुरेष्ठा इत्यच्छावाकः ॥ १० ॥
( १ ) ऋ ० ७.२२.५-८ । ( २ ) ऋ ० ७.३१.१०-१२ । ( ३ ) ऋ ० १०.२३.१-७ ] ( ४ ) ऋ ० १.२ ९.१-७ । ( ५ ) ऋ ० १.१३१.१-७ ( ६ ) वायः = वेःपुत्रः ।........ वेति च य इति च चकार शाकल्यः, उदात्तं त्वेवमाख्यातम-भविष्यदसुसमाप्तश्चार्थः - इति निरु ० ६.५.५ ।