ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 331–340

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 331–340

पृष्ठ 331

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 331 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः ११८ ९ भवन्ति । ' तानि ' सूक्तानि शान्तानि भूत्वा ' एनान् ' यजमानान् स्वर्गं लोकम् ' अभिवहन्ति ' प्रापयन्ति ॥ कद्वत्प्रगाथेभ्य ऊर्ध्वम् ‘ अप प्राच इन्द्र ' - इत्याद्यास्त्रिष्टुप्छन्दस्का ऋचः प्रतिदिनं शंसनीयसूक्तादित्वेन विधत्ते— ( प्रगाथादूर्ध्वशंसनीयसूक्तविधानम् ) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुः ॥५ ॥

हिन्दी— ( प्रगाथों के बाद शंसनीय सूक्तों का विधान कर रहे हैं — ) त्रिष्टुभः त्रिष्टुप् छन्द वाली ऋचाओं का सूक्तप्रतिपदः ( प्रतिदिन शंसनीय अहीन ) सूक्त के प्रारम्भ में शंसेयुः शंसन करना चाहिए ॥ अत्र कंचित्पूर्वपक्षमुद्भावयति— ता है पुरस्तात् प्रगाथानां शंसन्ति, धाय्या इति वदन्तः ॥ ६ ॥

हिन्दी— ( इस विषय में किसी पूर्वपक्ष की उद्भावना कर रहे हैं— ) पुरस्तात् ताः ह धाय्याः पहले उन ( ' अप प्राचः ' इत्यादि ) धाय्या को वदन्तः पढ़कर प्रगाथानां शंसन्ति प्रगाथों का शंसन करते हैं— इति एके ऐसा कुछ ( याज्ञिक कहते हैं ) ॥ सा ० भा ० — यथा होतुर्निष्केवल्यशस्त्रे प्रगाथात् पुरस्ताद्धाय्या भवन्ति, तद्वत् ‘ अप प्राचः ' इत्याद्यास्त्रिष्टुभोऽपि धाय्यास्तस्मात् पूर्वोक्तानां कद्वत्प्रगाथानां इति वदन्तः केचिद्याज्ञिकाः ' ता: ' ऋचः तेषां पुरस्ताच्छंसन्ति ॥ तं पूर्वपक्षं निराचष्टे— तत् तथा न कुर्यात् ॥७ ॥

“ हिन्दी— ( उस पूर्वपक्ष का निराकरण कर रहे हैं - ) तत् तथा प्रकार नहीं करना चाहिए ॥ तस्मिन् पक्षे दोषं दर्शयति— पुरस्ताच्छंसितुं योग्या न कुर्यात् परन्तु इस क्षत्त्रं वै होता, विशो होत्राशंसिनः, क्षत्त्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः पापवस्यसम् ॥८ ॥

हिन्दी — ( पूर्वपक्ष में दोष को दिखला रहे हैं - ) क्षत्रं वै होता होता क्षत्रिय ( राजा ) होता है । होत्राशंसिनः होत्र क्रियाओं का शंसन करने वाले ( मैत्रावरुण इत्यादि ) विशः प्र॒जाएँ हैं । तद् विशम् इस प्रकार ( प्रगाथ से पूर्व में त्रिष्टुप् का शंसन करके ) प्रजा ( रूपी मैत्रावरुण इत्यादि होत्रक के ) क्षत्राय क्षत्रिय ( राजारूपी होता ) के प्रत्युद्यामिनां कुर्युः ( १ ) द्र ० इतः परम, १००१ पृ ० ।

पृष्ठ 332

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 332 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ २ ९.५ षष्ठपञ्चिकायां ११ ९ ०: ऐतरेयब्राह्मणम् प्रतिकूल बनाता है, पापवस्यसम् ( प्रजा को राजा के प्रतिकूल करना ) पाप स्वरूप वाला है । सा ० भा ० — निष्केवल्यस्य शंसको यो होताऽस्ति, असौ ' क्षत्त्रं वै ' क्षत्रियो राजैव । समुत्पन्नाः क्रिया होत्राः, ताः शंसन्तीति मैत्रावरुणादयो ' होत्राशंसिनः ' । ते च ' विशः ’ होतृत्वे राष्ट्रवर्तिन्यः प्रजाः । ‘ तत् ’ तथा सति, होतृदृष्टान्तेन प्रगाथेभ्यः पूर्वं त्रिष्टुभः शंसने सति, तां ‘ विशं ’ प्रजां ‘ क्षत्त्रायैव ’ राज्ञ एव ' प्रत्युद्यामिनी ' प्रतिकूलोद्योगयुक्तां कुर्युः । तच्च ' पापव-स्यसम् ' अतिशयेन पापरूपं स्वामिना राज्ञा सह मात्सर्यस्य स्वामिद्रोहरूपत्वात् ॥ परपक्षं दूषयित्वा स्वपक्षं निगमयति— त्रिष्टुभो म इमाः सूक्तप्रतिपद इत्येव विद्यात् ॥ ९ ॥

हिन्दी – ( पूर्वपक्ष का दोष कहकर अपने पक्ष का स्थापन कर रहे हैं— ) इमा: त्रिष्टुभः ये ( ‘ अप प्राचः ' इत्यादि ) ऋचाएँ त्रिष्टुप् ( ऋचाएँ ) मे सूक्तप्रतिपदः मेरे प्रतिदिन की प्रारम्भिक ( ऋचाएँ ) हैं, इत्येव विद्यात् ऐसा ही जानना चाहिए । सा ० भा ० — ‘ इमाः ’ ‘ अप प्राचः ' इत्याद्याः त्रिष्टुभ ऋच: ' मे ' मम शंसितुः ' सूक्त-प्रतिपदः ’ अहरहःशंसनीयसूक्तप्रारम्भरूपा इत्येव निश्चिनुयात् । न पुनः प्रगाथेभ्यः पुरस्तात् त्रिष्टुभामवस्थानं युक्तम् ॥ सूक्तप्रतिपत्पक्षे गुणं दर्शयति— तद्यथा समुद्रं प्रप्लवेरन्नेवं हैव ते प्राप्लवन्ते ', ये संवत्सरं वा . द्वादशाहं वाऽऽसते; तद्यथा सैरावतीं नावं पारकामाः समारोहेयु-रेवमेवैतास्त्रिष्टुभः समारोहन्ति ॥ १० ॥

हिन्दी— ( सूक्त के प्रतिपत् के पक्ष में गुण को दिखला रहे हैं— ) तद्यथा जिस प्रकार समुद्रे प्रप्लवेरन् समुद्र में हम पार कर लेते हैं ( उसी प्रकार ) ते वे ( अनुष्ठान करने वाले ) प्रप्लवन्ते पार कर लेते हैं । ये जो लोग संवत्सरं वा द्वादशाहं वा संवत्सर अथवा द्वादशाह याग को आसते सम्पादित करते हैं तद्यथा और जैसे कि पारकामाः पार करने ( १ ) तत् = तथा सति । विशं राष्ट्रवर्ति जनताम् । प्रत्युद्यमः प्रतिकूलाचरणम् ।

राज्ञा राष्ट्रं विरुद्धं ते कुर्युर्ये प्राक्त्ववादिनः ।

प्रकृतौ होत्रकाणां हि नैव धाय्या भवन्ति यत् ॥

एवं च पापवस्यसम्, कुर्युरित्येव । उपद्रवस्य महतो नामाहुः पापवस्यसम् । – इति षड्गुरुशिष्यः । ( २ ) मे = मम, इमाः सूक्तानां प्रतिपदः आदिंभूताः । इत्येव होत्रकगणो जानीयात् । इति षड्गुरुशिष्यः । ( ३ ) ‘ प्रप्लवते ’ इति हाग सम्पादित पुस्तके एवं साम ० सम्पादित पुस्तकेऽपि पाठः ।

पृष्ठ 333

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 333 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११ ९ १ की इच्छा करने वाले सैरावतीं नावम् अन्नादि से युक्त नाव पर समावरोहेयुः आरुढ़ होते हैं एवमेव इसी प्रकार एताः ये ( अनुष्ठान करने वाले ) त्रिष्टुभः ( नावरूपी ) त्रिष्टुप् ( छन्द ) पर समारोहन्ति आरुढ़ होते हैं । सा ० भा ० — ‘ तत् ’ तस्मिन्नभिहितेऽर्थे दृष्टान्तोऽभिधीयते, —यथा लोके समुद्रं प्रप्ल-वेरन् । ‘ प्रप्लवः ’ परतीरगमनम् । स्वल्पेषु नदीतडागादिषु परतीरगमनं सुशकं भवति, समुद्रस्य तु तदुःशकम्; तथा संवत्सरसत्रस्य द्वादशाहस्य वाऽनुष्ठातृणां ' प्रप्लवः ' पारगमनं समापनमत्यन्तदुःशकम्, प्रयोगस्यातिबहुलत्वात् । ' तत् ' तथा सति, यथा लोके समुद्रस्य परतीरगमनकामाः पुरुषाः ‘ सैरावतीं नावं समारोहेयुः इराऽन्नं तत्समूह ऐरं, तेन सह वर्तत इति ‘ सैरं ’ नौस्थं वस्तुजातं, तादृशं सैरं यस्यां नाव्यस्ति, सेयं नौ: सैरावती ' । समुद्रपारगमनस्य चिरकालसाध्यत्वात् तावतः कालस्य पर्याप्तेनान्नेन सह सर्वमपेक्षितं वस्तुजातं तस्यां नावि संपाद्य पश्चान्नाविकास्तां नावमारोहेयुः, एवमेवानुष्ठातारः तथाविध - नौसदृशा एतास्त्रिष्टुभः समारोहन्ति । सर्ववस्तुसमृद्धा नौरिवैतास्त्रिष्टुभः पारं नेतुं समर्था इत्यर्थः ॥ तदेव सामर्थ्यं स्पष्टीकरोति— न ह वा एतच्छन्दो गमयित्वा स्वर्गं लोकमुपावर्तते, वीर्यवत्तमं हि ॥ ११ ॥

हिन्दी – ( उस त्रिष्टुप् छन्द के सामर्थ्य को दिखला रहे हैं— ) एतत् छन्दः यह ( त्रिष्टुप् ) छन्द ( यजमानों को ) स्वर्गं लोकम् स्वर्ग लोक को गमयित्वा ले जाकर न ह वै उपावर्तते निश्चित रूप से ही ( वहाँ से ) वापस नहीं होने देता । वीर्यवत्तमं हि क्योंकि ( यह छन्द ) सर्वाधिक बलशाली होता है ॥ सा ० भा०- - समुद्रे बाहुभ्यामुडुपेन चाऽऽप्लवनं पारगमनक्षमं न भवति 1 । सैरावत्या तु नावा पारमवश्यं प्राप्यते । एवमेव त्रिष्टुप्छन्दो ' यजमानान् स्वर्गं लोकं गमयित्वा नैवोपा-( १ ) इरान्नं तत्समूहः स्यादैरस्तेन समन्विता । सैराद् ङीप् मतुपो दीर्घः शरादित्वादतः परोऽम् ॥ ( पा ० सू ० ६.३.१२०; किन्तु शरादिषु नास्य पाठो दृश्यते ) – इति षड्गुरुशिष्यः । ( २ ) ( i ) एतच्छन्दस्त्रिष्टुबाख्यं कर्तृयष्टृन् दिवं प्रति । अप्रापय्य निवर्तेन नैव वीरान्वितं हि यत् ॥ - इति षड्गुरुशिष्यः । ( ii ) एतच्च त्रिष्टुप्छन्दः स्वर्ग लोकं यजमानान् अगमयित्वा नोपावर्तते । कुतो वीर्यवत्तमं हि वीर्यवत्तममेतच्छन्दः । नन्वासां प्रगाथप्राग्भावित्वेऽप्येतत् सर्वमुपपद्यत एव । न सूक्त-प्रतिपत्त्व एव । उच्यते — त्रिष्टुप्त्वं ह्यासां स्वर्गयानहेतुत्वे कारणमुक्तं, सूक्तानि त्रैष्टुभानि । तत: किं, सूक्तैः कृतसाहाय्या एता यजमानान् स्वर्गं गमयेयुः । प्रगाथानां पुरस्ताच्छ-स्यमाना नैतच्छक्नुयुः कर्तुं, सहायासम्भवात् । प्रगाथाः सहाया भविष्यन्ति इति चेन्न ते शक्नुवन्ति साहाय्यं कर्तुमत्रैष्टुभत्वात् तेषाम् । अतः सूक्तप्रतिपत्त्व एषां पारगमनहेतु-त्वमिति स्थितम् — इति गोविन्दवामी । ( iii ) तु ० ऐ ० ब्रा ० ७.१३ ।

पृष्ठ 334

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 334 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११ ९ २: ऐतरेयब्राह्मणम् [ २ ९.५ षष्ठपञ्चिकायां वर्तते । किन्तु सर्वथा स्वर्गं गमयत्येव । यस्मादेतच्छंसनमतिशयेन वीर्यवत्, तस्माद्युक्त पारगमयितृत्वम् । एवंविधास्त्रिष्टुभो यदि सूक्तप्रतिपदः स्युः, तदानीं सूक्तच्छन्दसोऽपि त्रिष्टु-प्त्वात् तत्साहाय्येन वीर्यवतमत्वमुपपद्यते । प्रगाथानां तु त्रिष्टुप्त्वाभावात् तेभ्यः पुरस्ता-च्छंसने वीर्यवत्तमत्वं न सिध्येदित्यभिप्रायः ॥ एताभ्यस्त्रिष्टुब्भ्यः पूर्वं शोंसावोमिति व्याहावमितरदृष्टान्तेन प्रसक्तं प्रतिषेधति— ताभ्यो न व्याह्वयीत; समानं हि च्छन्दोऽथो नेद्वाय्याः करवाणीति ॥ १२ ॥

हिन्दी— ( इस त्रिष्टुप् छन्द से पूर्व में प्राप्त आहाव का निषेध कर रहे हैं — ) ताभ्यः उन ( ऋचाओं ) से पूर्व न व्याह्वीयत ( ' शोंसावोम् ' - यह ) आहाव नहीं करना चाहिए । समानं हि छन्दः क्योंकि ( सूक्त और इस आहाव दोनों का ) छन्द समान हैं । अथो नो इद् ह धाय्या करवाणि इसलिए इसमें धाय्या भी नहीं करना चाहिए ॥ सा ० भा ० — ताभ्यस्त्रिष्टुब्भ्यः पूर्वं शोंसावोमिति व्याहावं न कुर्यात् । यस्मात् सूक्तैः .सहैतासां छन्दः समानम् तस्मात् सूक्तान्तर्भूतानामृगन्तराणामिवैतासां व्याहावो नास्ति । यदि धाय्यादृष्टान्तेन व्याहावः क्रियते, तदानीमेता अपि धाय्याः क्रियेरन्, अहं तु तासां धाय्यात्वं ‘ नेत् करवाणि ’ सर्वथा न करवाणीत्यभिप्रेत्य धाय्यारूपाद्भीतः सन् व्याहावं न कुर्यात् ॥ उक्तास्त्रिष्टुप्छन्दस्का ऋच: प्रशंसति— यदेनाः शंसन्ति, प्रज्ञाताभिः सूक्तप्रतिपद्धिः सूक्तानि समारोहामेति ॥१३ ॥

हिन्दी – ( उपर्युक्त त्रिष्टुप् छन्द की प्रशंसा कर रहे हैं— ) यद् एनाः शंसन्ति जो इन ( त्रिष्टुप् छन्द वाली ऋचाओं ) का शंसन करते हैं तो प्रज्ञाताभिः सूक्तप्रतिपद्भिः प्रज्ञात प्रतिपत ( सूक्तों ) से सूक्तानि सूक्तरूप ( सीढ़ी ) पर हम मानो चढ़ते हैं । सा ० भा ० – ‘ एनाः ’ ऋचो यदा शंसन्ति, तदानीं महानौस्थानीयानां त्रिष्टुप्छन्दस्कानां समारोहणम् ‘ एताभिः ’ सूक्तप्रतिपद्भिः प्रज्ञाताभिर्भविष्यतीति शंसितॄणाभिप्रायः । यथा प्रौढा यः नावः समारोहणं यत्र क्वापि कर्तुं न शक्यते, किन्तु निःश्रेण्यादिसाधनेनैव कर्तुं शक्यते, तद्वदत्रापि द्रष्टव्यम् ॥ पुनरपि प्रकारद्वयेन प्रशंसति— यदेवैनाः शंसन्तीन्द्रमेवैताभिर्निह्वयन्ते यथऋषभं वाशितायै, यद्वेवैनाः शंसन्त्यहीनस्य संतत्था अहीनमेव तत् संतन्वन्ति ॥ १४ ॥

हिन्दी – ( पुनः दो प्रकारों से त्रिष्टुप् छन्द की प्रशंसा कर रहे हैं - ) यदेव एनाः शंसन्ति जो इन ( त्रिष्टुप् छन्दस्क ऋचाओं ) का शंसन करते हैं; एताभिः इन ( ऋचाओं ) से इन्द्रमेव निह्वयन्ते इन्द्र का ही निरन्तर ( उसी प्रकार ) आह्वान करते हैं यथा ऋषभं वाशितायै जिस प्रकार गर्भ धारण करने के लिए ( गाय ) वृषभ को ( बुलाती है ) ।

पृष्ठ 335

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 335 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११ ९ ३ यद्वेव एनाः शंसन्ति जो इन ( ऋचाओं ) का शंसन करते हैं, वहीं अहीनस्य सन्तत्यै वह अहीन को निरन्तरता के लिए अहीनम् एव अहीन को ही तत् संतन्वन्ति निरन्तर करते हैं ॥ सा ० भा ० | - -'अप प्राच इंन्द्रेति ' श्रुतत्वादिन्द्राह्वानं भवति । अन्यत् पूर्ववद् व्याख्येयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( २१ ) ( १०८ )

॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० - यदुक्तं त्रिष्टुभः सूक्तप्रतिपदः शंसेयुरिति, तत्रस्थास्त्रिष्टुभ उदाहृत्य प्र-दर्शयति— ( प्रगाथान्तरं शंसनीयसूक्तप्रतिपत्प्रदर्शनम् ) ( तत्र मैत्रावरुणस्यानुरूपर्क ) अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्रावरुणः पुरस्तात् सूक्तानामहरहः शंसति ॥ १ ॥

हिन्दी – ( उन त्रिष्टुप् छन्द वाले प्रतिपत् को दिखला रहे हैं— ) मैत्रावरुणः मैत्रा-वरुण ( नामक होत्रक ) ' अप प्राच इन्द्र विश्वाँ अमित्रान् ' अर्थात् ' हे इन्द्र! सभी शत्रुओं को पूर्वमुख करके विनष्ट करो ' इति इस ऋचा का अहरहः प्रतिदिन सूक्तानाम् पुरस्तात् सूक्तों के पहले शंसति शंसन करता है । सा ० भा०- -‘अप प्राचः ' इत्येतामृचं ' मैत्रावरुणः प्रतिदिनं स्वकीयसूक्तादौ शंसेत् हे इन्द्रः विश्वान् अमित्रवान् सर्वानपि शत्रून् ' प्राचः ' प्राङ्मुखान् कृत्वा ' अपनुदस्व ' - इति

वक्ष्यमाणेनान्वयः 1 । सोऽयं प्रथमपादस्यार्थः ॥

अवशिष्टं पादत्रयं पठति— अपापाचो अभिभूते नुदस्व, अपोदीचो, अप शूराधराच, उरौ यथा तव शर्मन् मदेमेति ॥ २ ॥

( १ ) ऋ ० १०.१३१.१ । ( २ ) तु ० आश्व ० श्रौ ० ७.४.७; शांखा ० श्रौ ० १२.३.५; कौत ० ब्रा ० २४.४ ।

पृष्ठ 336

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 336 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११ ९ ४: ऐतरेयब्राह्मणम् [ २ ९.६ षष्ठपञ्चिकायां हिन्दी – ( इस ' अप प्राच इन्द्र ' इस ऋचा के अवशिष्ट तीन पादों को पढ़ रहे हैं— ) अभिभूते हे ( शत्रुओं को ) परास्त करने में समर्थ ( इन्द्र )! अपाचः ( हमारे शत्रुओं को ) दक्षिण मुख करके अपनुदस्व दूर भगाओ, उदीचः उत्तर की ओर मुख करके अप दूर भगाओ । शूर हे वीर ( इन्द्र )! अधराचः नीचे मुख करके अप दूर भगाओ यथा तव उरौ शर्मन् जिससे तुम्हारे विस्तृत कल्याण में मदेम हम लोग हर्षित होवें ॥ सा ० भा ० — हे ‘ अभिभूते ' शत्रुमभिभवितुं समर्थ, ' अपाचः ' शत्रून् दक्षिणा ( मुखा ) न्प्रत्यङ्मुखांश्च कृत्वाऽपदनुदस्व । तथैव ' उदीच: ' उदङ्मुखान् कृत्वाऽपनुदस्व । हे शूरः ‘ अधराचः ’ ‘ अधोमुखान् कृत्वाऽपनुदस्व । ' उरौ ' विस्तीर्णे ' तव शर्मन् ' त्वत्संबन्धिनि गृहे ‘ यथा मदेम ' येन प्रकारेण हृष्टा भवेम, तथा कुर्विति शेषः ॥ ऋचस्तात्पर्यं दर्शयति— अभयस्य रूपमभयमिव हि यन्निच्छति ॥३ ॥

हिन्दी – ( ऋचा के तात्पर्य को दिखला रहे हैं - ) अभयस्य रूपम् ( यह ऋचा ) अभय का स्वरूप है । इस ऋचा से अभयम् इव इच्छति मानो भयविहीन ( स्थान ) को ( प्राप्त करने की ) इच्छा करता है । सा ० भा०- - एतन्मन्त्रवाक्यमभयस्य स्वरूपं, शत्रुनिराकरणस्य स्वकीयहर्षस्य चात्र प्रार्थ्यमानत्वात् । ‘ अभयमिव ' भयरहितमेव स्थानमयं मैत्रावरुणो ' यन् ' प्राप्नुवन् ' इच्छति '

प्राप्तुमपेक्षते । तस्माद्योग्येयमृक् ॥

ऋगन्तरं ब्राह्मणाच्छंसिनो विधत्ते— ( ब्राह्मणाच्छंसिनोऽनुरूपर्क ) ब्रह्मणा ते ब्रह्मयुजा युनज्मीति ब्राह्मणाच्छंस्यहरहः शंसति; युनज्मीति युक्तवती; युक्त इव ह्यहीनोऽहीनस्य रूपम् ॥४ ॥

हिन्दी – ( ब्राह्मणाच्छंसी की ऋचा का विधान कर रहे हैं - ) ब्राह्मणाच्छंसी ब्राह्म-णाच्छंसी ( नामक होत्रक ) ‘ ब्रह्मणा ते ब्रह्मयुजा युनज्मि ' इस ऋचा का अहरहः प्रतिदिन शंसति शंसन करता है | ‘ युनज्मि ' इति युनज्मि यह युक्तवती युक्त अर्थ से युक्त है । युक्त इव अहीनः क्योंकि अहीन ( अहस्समूह ) भी परस्पर युक्त ( जुड़े हुए ) ही रहते हैं । ( अतः यह ऋचा ) अहीनस्य रूपम् अहीन का उपलक्षक है । सा ० भा ० — अस्यामृचि ' युनज्मीति श्रवणादियमृग्युजिधात्वर्थवती । अहीनोऽहर्गणश्च ‘ युक्त इव ’ अह्नां परस्परसम्बन्धवानेव; अतो युजिधात्वर्थयुक्तमन्त्रवाक्यमहीनस्य रूपम् ॥ ( १ ) ' यन्त्रितीच्छति ' इति साम ० संपा ० संस्करणे पाठः । ( २ ) ऋ ० ३.३५.४ ।

पृष्ठ 337

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 337 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः षष्ठः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: ११ ९ ५ अनुकूलमृगन्तरमच्छावाकस्य विधत्ते— ( अच्छावाकस्यानुरूपर्क ) उरुं नो लोकमनु नेषि विद्वानित्यच्छावाकोऽहरहः शंसत्यनु नेषीत्येतीव ह्यहीनोऽहीनस्य रूपम् ॥५ ॥

हिन्दी – ( अब अच्छावाक नामक होत्रक के अनुकूल अन्य ऋचा को कह रहे हैं— ) अच्छावाकः अच्छावाक ( नामक होत्रक ) ' उरुं नो लोकमनु नेषि विद्वान् ' इति इस ( ऋचा ) का अहरहः शंसति प्रतिदिन शंसन करता है । ' अनु नेषि ' इति इससे एति इव अहीनः मानो अहीन अहस्समूह क्रम से प्रवर्तमान होता है । अतः अहीनस्य रूपम् अहीन का रूप है । सा ० भा ० — अत्र ' यदेतदनुनेषीति पदमस्ति, तस्यार्थ ' एतीव ह्यहीन ' इत्यनेनोच्यते । अयमहर्गणः ‘ एतीव ’ प्रवर्तत एव । ' अनु नेषि ' अनुक्रमेण ' नय ' प्रवर्तयेति । एवमुच्यमान-त्वात् प्रवर्तमानस्याहीनस्येदं वाक्यमनुरूपम् ॥ अनुनेषीति पदस्याभिप्रायमुक्त्वा तन्मव्यगतस्य नेषीत्येतस्याभिप्रायान्तरमाह— नेषीति सत्रायणरूपम् ॥ ६ ॥

हिन्दी – ( अब ऋचा में प्रयुक्त नेषि के तात्पर्य को दिखला रहे हैं — ) नेषि इति ‘ नेषि ' यह पद सन्त्रायणरूपम् सत्रायन ( अनुष्ठान ) का रूप है ॥ सा ० भा ० — सत्रस्यायनमनुष्ठानं ' सत्रायणं, नेषि ' नय, अनुष्ठापयेति तस्यार्थः । अत एतत्पदं सत्रायणस्यानुकूलम् ॥ उदाहृतास्तिस्र ऋच उपसंहरति-ता वा एता अहरहः शस्यन्ते ॥७ ॥

हिन्दी — ( उक्त तीनों ऋचाओं के कथन का उपसंहार कर रहे हैं - ) ताः एताः वै वे ये ( ऋचाएँ ) ही अहरहः शस्यन्ते प्रतिदिन शंसित की जाती है ॥ अथ परिधानीया ऋचः स्तोतुमुपक्रमते— ( परिधानीयर्चः स्तोतुमुपक्रमः ) समानीभिः परिदध्युः ॥८ ॥

हिन्दी - ( अब परिधानीय ऋचाओं के स्तुति का उपक्रम कर रहे हैं - ) समानीभिः ( मैत्रावरुण इत्यादि होत्रकों को ) एक समान ( ऋचाओं ) द्वारा परिदध्युः परिधान ( समापन ) ( १ ) ऋ ० ६.४७.८ । ( २ ) ‘ अप प्राचः... कद्वद्भ्य आरम्भणीयाः ' इति आश्व ० श्रौ ० ७.४.७ ।

पृष्ठ 338

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 338 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११ ९ ६: ऐतरेयब्राह्मणम् [ २ ९.६ षष्ठपञ्चिकायां करना चाहिए ॥ सा ० भा ० — ‘ समानीभिः ’ एकविधाभिर्ऋग्भिर्मैत्रावरुणादयो होत्रकाः ‘ परिदध्युः ’ शस्त्रसमाप्तिं कुर्युः । ‘ नू ष्टुतेति ' मैत्रावरुणस्य परिधानीया ' । ' एवेदिन्द्रमिति ' ब्राह्मणाच्छंसिनः परिधानीया ’ । ‘ नूनं सा ते ’ ’ इत्यच्छावाकस्य परिधानीया * । अनेन सूक्तसामान्यादेताः सामान्य इत्युच्यन्ते ॥ दृष्टान्तद्वयेन परिधानीयाः शंसति— ओकःसारी हैषामिन्द्रो यज्ञं भवतीँ ३, यथ ऋषभो वाशितां, यथा वा गौः प्रज्ञातं गोष्ठमेवं हैषामिन्द्रो यज्ञमैव गच्छति ॥ ९ ॥

हिन्दी – ( दो दृष्टान्तों द्वारा परिधानीय ऋचाओं की प्रशंसा कर रहे हैं - ) ओक-सारी ह इन्द्रः इन्द्र घर की बिल्ली के समान है जो एषां यज्ञम् भवति इस ( यजमानों ) के यज्ञ में बार - बार आते हैं यथा जिस प्रकार ही वाशितां ऋषभः गर्भ धारण करने की इच्छुक ( गाय ) के पास वृषभ ( जाता है ) यथा वा अथवा जैसे गौ गाय प्रज्ञातं गोष्ठम् ( प्रतिदिन आने - जाने के कारण ) परिचित गोशाला को जाती है एवं ह उसी प्रकार ही इन्द्रः इन्द्र एषां यज्ञम् एव इन ( यजमानों ) के यज्ञ में ही गच्छति जाता है ॥ सा ० भा ० — ' ओकःसारी ह ' मार्जार इवेन्द्रः ' एषां ' यजमानानां यज्ञं ' भवती ' पुनः पुनः प्राप्नोति । सानुनासिका प्लुतिः पूजार्था । यथा ' वाशितां ' गर्भार्थिनीं गामृषभो गच्छति । यथा वा गौः ‘ प्रज्ञातं ’ प्रतिदिनगमनेनात्यन्तं परिज्ञातं गोष्ठं प्राप्नोति । एवमेवायमिन्द्रः ‘ एषां ’

यजमानानां यज्ञमागच्छत्येव । अतस्तदागमनार्थं सामान्यः परिधानीया इत्यर्थः ॥

‘ समानीभिः परिदव्युः ’ इति यदुक्तं तत्र ' अभि तष्टेव " इत्यच्छावाकस्याहरहःशस्यं सूक्तं, तस्मिन्नन्त्या ' शुनं हुवेम ' - इत्येषा तया परिधानप्राप्तौ निषेधति— न शुनंहुवीययाऽ हीनस्य परिदध्यात् क्षत्रियो ह राष्ट्राच्च्यवते यो हैव परो भवति तमभिह्वयति ॥ १० ॥

हिन्दी— ( शुनंहुवीयया ऋचा से शस्त्र को समाप्त करने का निषेध कर रहे हैं— ) शुनंहुवीयया शुनंहुवीय ऋचा ( जिसमें ' शुनं हुवेम ' श्रुतिगोचर होता हो जिसमें उस ऋचा ) से अहीनस्य अहीन ( सत्र ) के शस्त्र का न परिदध्यात् समापन नहीं करना चाहिए । ( ऐसी ऋचा से शस्त्र का समापन करने पर ) क्षत्रियः ह क्षत्रिय ( राजा ) निश्चित रूप से राष्टात् च्यवते ( अपने ) राष्ट्र से च्युत हो जाता है और यः वै परः भवति जो ( उसका ) शत्रु होता है तम् अभिह्वयति उसी को अभिलक्षित करके आह्वान करता है ॥ ( १ ) ऋ ० ४.१ ९.११ । ( २ ) ऋ ० ७.२३.६ । ( ३ ) ऋ ० २.११.२१ । ( ४ ) आश्व ० श्रौ०- ७.४.८-१० ( ५ ) ऋ ० ३.३८.१-१० ।

पृष्ठ 339

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 339 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः सप्तमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: ११ ९ ७ सा ० भा०— - ' शुनं हुवेमेति ' यस्यामृचि श्रूयते सा ' शुनंहुवीया ' । अहर्गणस्य शस्त्रे तया न परिदध्यात् । परिधाने हि ' क्षत्रियः ' राजा स्वकीयाद् राष्ट्राच्चयवते । यस्तु ' परः ' तदीयः शत्रुर्भवति, तम् ‘ अभि ' लक्ष्य ' ह्वयति ' आह्वानं करोति । हुवेमेत्यन्याह्वानस्य प्रतीय-मानत्वात् । अत एव सूत्रकारो ब्राह्मणान्तरमाश्रित्य ' नूनं सा ते ' इत्येतां ' परिधानीया-मुक्तवान् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( २२ ) ( १० ९ )

॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० — एवं तावच्छस्त्रिणां होत्रकाणां प्रातः सवने माध्यंदिने च शस्त्राण्युक्तानि तेषां च परिधानीयाः पूर्वमेव ' उभय्यः परिधानीया: ' इत्यत्र ऐकाहिका अहीनाश्च विमृष्टाः । अथेदानीं कतमास्ता इति विविनक्ति— ( अहीनस्य युक्तिविमुक्तिविवेचनम् ) अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च ॥ १ ॥

हिन्दी - ( अब अहर्गणों के जोड़ने और अलग करने का विवेचन कर रहे हैं— ) अथातः इस ( परिधानीया को कहने ) के बाद अहीनस्य अहीन ( अहस्समूह ) के युक्तिः जोड़ने ( स्वतन्त्रतापूर्वक याग का सम्पादन ) विमुक्तिश्च और अलग करने ( स्वतन्त्रतापूर्वक याग के परित्याग ) को कहा जाएगा ॥ ( १ ) ऋ ० २.११.२१ । ( २ ) ' उदु ब्रह्माण्यभितष्टेवेतीतरावहरहः शस्ये, नूनं सा त इत्यन्तमुत्तमम् ' इति आश्व ० श्रौ ० ७.४.९, १० । यद्यपीह ब्राह्मणे शुनं हुवीयायाः परिधानीयास्वनिषेधमात्रं श्रूयते, न तु ' नूनं सा ते ' - इत्यस्या विधिरपि; तथापि तद्विधिर्ब्राह्मणान्तरादेवावगम्य इत्यभिप्रायः । तच्च ब्राह्मणान्तरमिहैवोत्तर खण्डे द्रष्टव्यम् - ' नूनं सा त इत्यहीनं युङ्क्ते'- इति । किञ्च अभितष्टीयं सूक्तं यद्यपि संहितायां दशर्च्चम् आम्नातम्; परम् इह ' नूनम् ' इत्येतस्या आगमादेकादशर्च्चत्वेन तच्छंसनविधिः सम्पन्नः । अत एव अत्र आश्वलायनवृत्तौ नारायणः-' ऋगागमेऽप्युद्धाराभावाद् अधिकेयं भवति ’ – इत्याह ।

पृष्ठ 340

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 340 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ २ ९.६ षष्ठपञ्चिकायां ११ ९ ६: ऐतरेयब्राह्मणम् करना चाहिए ॥ सा ० भा ० — ‘ समानीभि: ’ एकविधाभिर्ऋग्भिर्मैत्रावरुणादयो होत्रकाः ‘ परिदध्युः ’ शस्त्रसमाप्तिं कुर्युः । ‘ नू ष्टुतेति ' मैत्रावरुणस्य परिधानीया ' । ' एवेदिन्द्रमिति ’ ब्राह्मणाच्छंसिनः परिधानीया ’ । ‘ नूनं सा ते ’ ' इत्यच्छावाकस्य परिधानीया । अनेन सूक्तसामान्यादेताः सामान्य इत्युच्यन्ते ॥ दृष्टान्तद्वयेन परिधानीयाः शंसति— ओकःसारी हैषामिन्द्रो यज्ञं भवतीँ ३, यथ ऋषभो वाशितां, यथा वा गौः प्रज्ञातं गोष्ठमेवं हैषामिन्द्रो यज्ञमैव गच्छति ॥ ९ ॥

हिन्दी— ( दो दृष्टान्तों द्वारा परिधानीय ऋचाओं की प्रशंसा कर रहे हैं - ) ओक-सारी ह इन्द्रः इन्द्र घर की बिल्ली के समान है जो एषां यज्ञम् भवति इस ( यजमानों ) के यज्ञ में बार - बार आते हैं यथा जिस प्रकार ही वाशितां ऋषभः गर्भ धारण करने की इच्छुक ( गाय ) के पास वृषभ ( जाता है ) यथा वा अथवा जैसे गौ गाय प्रज्ञातं गोष्ठम् ( प्रतिदिन आने - जाने के कारण ) परिचित गोशाला को जाती है एवं ह उसी प्रकार ही इन्द्रः इन्द्र एषां यज्ञम् एव इन ( यजमानों ) के यज्ञ में ही गच्छति जाता है ॥ सा ० भा०- ' ओक: सारी ह ' मार्जार इवेन्द्रः ' एषां ' यजमानानां यज्ञं ' भवती ' पुनः पुनः प्राप्नोति । सानुनासिका प्लुतिः पूजार्था । यथा ' वाशितां ' गर्भार्थिनीं गामृषभो गच्छति । यथा वा गौः ‘ प्रज्ञातं ' प्रतिदिनगमनेनात्यन्तं परिज्ञातं गोष्ठं प्राप्नोति । एवमेवायमिन्द्रः ‘ एषां ’

यजमानानां यज्ञमागच्छत्येव । अतस्तदागमनार्थं सामान्यः परिधानीया इत्यर्थः ॥

‘ समानीभिः परिदव्युः ' इति यदुक्तं तत्र ' अभि तष्टेव " इत्यच्छावाकस्याहरहःशस्यं सूक्तं, तस्मिन्नन्त्या ' शुनं हुवेम ' - इत्येषा तया परिधानप्राप्तौ निषेधति— न शुनंहुवीययाऽहीनस्य परिदध्यात् क्षत्रियो ह राष्ट्राच्च्यवते यो हैव परो भवति तमभिह्वयति ॥ १० ॥

हिन्दी— ( शुनंहुवीयया ऋचा से शस्त्र को समाप्त करने का निषेध कर रहे हैं - ) शुनंहुवीयया शुनंहुवीय ऋचा ( जिसमें ' शुनं हुवेम ' श्रुतिगोचर होता हो जिसमें उस ऋचा ) से अहीनस्य अहीन ( सत्र ) के शस्त्र का न परिदध्यात् समापन नहीं करना चाहिए । ( ऐसी ऋचा से शस्त्र का समापन करने पर ) क्षत्रियः ह क्षत्रिय ( राजा ) निश्चित रूप से राष्टात् च्यवते ( अपने ) राष्ट्र से च्युत हो जाता है और यः वै परः भवति जो ( उसका ) शत्रु होता है तम् अभिह्वयति उसी को अभिलक्षित करके आह्वान करता है ॥ ( १ ) ऋ ० ४.१ ९.११ । ( २ ) ऋ ० ७.२३.६ । ( ३ ) ऋ ० २.११.२१ । ( ४ ) आश्व ० श्रौ०- ७.४.८-१० ( ५ ) ऋ ० ३.३८.१-१० ।