ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 341–350
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 341–350
पृष्ठ 341
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ११ ९ ७ सा ० भा०- -'शुनं हुवेमेति ' यस्यामृचि श्रूयते सा ' शुनंहुवीया ' । अहर्गणस्य शस्त्रे तया न परिदध्यात् । परिधाने हि ' क्षत्रियः ' राजा स्वकीयाद् राष्ट्राच्चयवते । यस्तु ‘ परः ’ तदीयः शत्रुर्भवति, तम् ‘ अभि ' लक्ष्य ' ह्वयति ' आह्वानं करोति । हुवेमेत्यन्याह्वानस्य प्रतीय-मानत्वात् । अत एव सूत्रकारो ब्राह्मणान्तरमाश्रित्य ' नूनं सा ते ' इत्येतां परिधानीया-मुक्तवान् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( २२ ) ( १० ९ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० — एवं तावच्छस्त्रिणां होत्रकाणां प्रातः सवने माध्यंदिने च शस्त्राण्युक्तानि । तेषां च परिधानीयाः पूर्वमेव ' उभय्यः परिधानीयाः ' इत्यत्र ऐकाहिका अहीनाश्च विमृष्टाः । अथेदानीं कतमास्ता इति विविनक्ति— ( अहीनस्य युक्तिविमुक्तिविवेचनम् ) अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च ॥ १ ॥
हिन्दी – ( अब अहर्गणों के जोड़ने और अलग करने का विवेचन कर रहे हैं - ) अथातः इस ( परिधानीया को कहने ) के बाद अहीनस्य अहीन ( अहस्समूह ) के युक्तिः जोड़ने ( स्वतन्त्रतापूर्वक याग का सम्पादन ) विमुक्तिश्च और अलग करने ( स्वतन्त्रतापूर्वक याग के परित्याग ) को कहा जाएगा । ( १ ) ऋ ० २.११.२१ । ( २ ) ' उदु ब्रह्माण्यभितष्टेवेतीतरावहरहः शस्ये, नूनं सा त इत्यन्तमुत्तमम् ' इति आश्व ० श्री ० ७.४.९, १० । यद्यपीह ब्राह्मणे शुनं हुवीयायाः परिधानीयास्वनिषेधमात्रं श्रूयते, न तु ' नूनं सा ते ' - इत्यस्या विधिरपि; तथापि तद्विधिर्ब्राह्मणान्तरादेवावगम्य इत्यभिप्रायः । तच्च ब्राह्मणान्तरमिहैवोत्तर खण्डे द्रष्टव्यम् - ' नूनं सा त इत्यहीनं युङ्क्ते ' - इति । किञ्च अभितष्टीयं सूक्तं यद्यपि संहितायां दशर्च्चम् आम्नातम्; परम् इह ' नूनम् ' इत्येतस्या आगमादेकादशर्च्चत्वेन तच्छंसनविधिः सम्पन्नः । अत एव अत्र आश्वलायनवृत्तौ नारायणः-‘ ऋगागमेऽप्युद्धाराभावाद् अधिकेयं भवति ’ - इत्याह ।
पृष्ठ 342
पाठ पढ़ें पाठ छिपाएँ
[ २ ९.७ षष्ठपञ्चिकायां ११ ९ ८: ऐतरेयब्राह्मणम् सा ० भा ० — ‘ अथ ’ परिधानीयाकथनान्तरं यतस्तद्विवेकोऽपेक्षितः, अतः कारणात् ‘ अहीनस्य ’ अहर्गणस्य युक्तिश्च विमुक्तिश्च विवेकायोभे, वक्ष्येते इत्ति शेषः । ‘ युक्तिः ' योगः, स्वाधीनत्वेन क्रतोः संपादनं, ‘ विमुक्तिः ' विमोचनं स्वाधीनतया निर्बन्धपरित्यागः, तदेतदुभयं परिधानीयावशेन संपद्यते ॥ तत्र ब्राह्मणाच्छंसिनः परिधानीयामुपजीव्य क्रतोर्योगविमोकौ दर्शयति— व्यन्तरिक्षमतिरदित्यहीनं युक्त वेदिन्द्रमिति विमुञ्चति ॥ २ ॥
हिन्दी— ( ब्राह्मणाच्छंसी होत्रक के परिधानीय से अहीन क्रतु के जोड़ने और अलग करने को दिखला रहे हैं— ) ( प्रातः सवन में ) ' व्यन्तरिक्षमतिरत् ' इति इस ( ऋचा से समापन ) अहीनं युङ्क्ते अहीन को जोड़ता है और ' एवेदिन्द्रम् ' इति विमुञ्चति ( मध्यन्दिन-सवन में ) इस ( ऋचा ) से अलग करता है ॥ सा ० भा ० — प्रात: सवने ब्राह्मणाच्छंसिनो ' व्यन्तरिक्षमिति ' ' पर्यासस्तृचः । तस्य ‘ इन्द्रेण रोचना दिवः ' इति ऋगुत्तमा तया यत्परिधानं, तेन ' अहीन ' क्रतुं ' युङ्क्ते ' स्वाधीनतया निबध्नाति । माध्यंदिने सवने तु ' एवेदिन्द्रमिति ' परिधानीया, ' तया ' विमुञ्चति ' स्वाधीनतया निगृहीतमहीनक्रतुं विस्रम्भव्यवहाराय निग्रहपरित्यागेन विमुञ्चति; स्वाधीनो हि क्रतुरवश्यं फलं दास्यतीति युक्तो बन्धविमोकः ॥ अथाच्छावाकस्य परिधानीयया योगविमोकौ दर्शयति— आऽहं सरस्वतीवतोर्नूनं सा त इत्यहीनं युङ्क्ते ॥ ३ ॥
हिन्दी— ( अब अच्छावाक होत्रक के परिधानीय से अहीन क्रतु को जोड़ने और अलग करने को दिखला रहे हैं— ) ' अऽहं सरस्वतीवतो: ' ( ऋचा से प्रातःसवन में समापन करके ) अहीनं युङ्क्ते अहीन क्रतु को जोड़ता है और ' नूनं सा ते ' इति इस ऋचा से ( माध्यन्दिन सवन में समापन करके अहीन सत्र को अलग करता है ) । सा ० भा ० — अयं योगो विमोकस्याप्युपलक्षणार्थः । ' आऽहमिति ’ “ प्रातःसवने परिधानीया, ६ तथा क्रतोर्योगो भवति । ' नूनं सा ते ' इति माध्यंदिने सवने परिधानीया ' । तया क्रतोर्विमोको भवति ॥ अथ मैत्रावरुणस्य परिधानीयया योगविमोकौ दर्शयति— ( १ ) ऋ ० ८.१४.७ - ९ । ( २,६ ) ‘ ऊर्ध्वमावापात् प्रति वां सूर उदित ( ऋ ० ७.६६.७ ), व्यन्तरिक्षमंतिरत् ( ऋ ० ८.१४.७ ), श्यावाश्वस्य सुन्वतः ( ऋ ० ८.३८.८ ) इति तृचाः पर्यासाः ' – इति आश्व ० श्रौ ० ७.२.१२ । सूक्तानां पर्यासानां वा अन्त्या एव परिधानीयाः । ( ३ ) ऋ ० ७.२३.६ । ( ४,८ ) आश्व ० श्री ० ७.४.९ । ( ५ ) ऋ ० ८.३८.९ ० । ( ७ ) ऋ ० २.११.२१ ।
पृष्ठ 343
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः ११ ९९ ते स्याम देव वरुण, नू ष्टुत इति विमुञ्चति ॥४ ॥
हिन्दी— ( अब मैत्रावरुण के परिधानीय से अहीन क्रतु के जोड़ने और अलग करने को दिखला रहे हैं ) ' ते स्याम देव वरुण ' ऋचा से ( प्रातः सवन में परिधानीय करके अहीन सत्र को जोड़ता है ) और ' नू ष्टुतः ' इति इस ऋचा से ( माध्यन्दिनसवन में समापन करके अहीन क्रतु को ) विमुञ्चति अलग करता है ॥ सा ० भा ० — अत्र विमोको योगस्याप्युपलक्षणार्थः । ' ते स्यामेति ' ' प्रातःसवने परिधा-नीया तयाऽहीनस्य क्रतोर्योगः । ' नू ष्टुत ' ' इति माध्यंदिनसवने परिधानीया । तया क्रतो-र्विमोकः ॥ यद्यपि तृतीयसवने विमोको वक्तुं युक्तः, तथाऽप्यग्निष्टोमसंस्थेऽहनि होत्रकाणां तृतीय-सवने शस्त्राभावात् सर्वेष्वहस्स्वनुगत्यर्थं माध्यंदिने सवने विमोकोऽभिहितः ॥ यथोक्तयोगविमोकज्ञानं प्रशंसति— ( योगविमोकज्ञानप्रशंसनम् ) एष ह वा अहीनं तन्तुमर्हति य एनं योक्तुं च विमोक्तुं च वेद ॥५ ॥
हिन्दी— ( क्रतु के जोड़ने और अलग करने के ज्ञान की प्रशंसा कर रहे हैं— ) यः जो एनम् इस ( अहीन क्रतु ) को योक्तुं च विमोक्तुं च वेद ( प्रातः सवन में ) जोड़ने के लिए और ( मध्यन्दिनसवन में ) अलग करने के लिए जानता है, एषः ह वै वही निश्चित रूप से अहीनं तन्तुम् अर्हति अहीन क्रतु को विस्तार करने के लिए योग्य होता है । सा ० भा०- -'यः ' पुमानुक्तप्रकारेण ' एनम् ' अहीनं प्रातः सवनपरिधानीयया योक्तुं माध्यंदिनपरिधानीयया विमोक्तुं च जानाति, एष एव पुमानहर्गणं तन्तु ' विस्तारयितुमर्हति । यथोक्तपरिधानीयानभिज्ञस्य नास्ति तत्राधिकार इत्यर्थः । एवमेकैकमहरपेक्ष्य योगविमोका-वुक्तौ ॥ अथाहःसमूहपेक्ष्य योगविमोकौ दर्शयति— तद्यच्चतुर्विंशेऽहन् युज्यन्ते, सा युक्तिरथ यत्पुरस्तादुदनीयस्यातिरात्रस्य ( १ ) ऋ ० ७.६६.९ । ( २ ) ऋ ० ४.१६.२१ । ( ३ ) आश्व ० श्रौ ० ७.४.१० ।
( ४ ) ( i ) युजेर्मुचेश्च भावे तु यागं मोक्षं तथैव च ।
एनं यो वेत्ति स एष तन्तुं सन्ततिमात्मनः ॥
अहीनं हानिरहितं बन्धुं सम्यगिहार्हति । इति षड्गुरुशिष्यः । ( ii ) योक्तुर्नाम युक्तिः | विमोक्तर्विमुक्तिः । तुमुनन्तत्वे तु क्लेशेन योजना एनमिति योक्तोर्विमोक्तोश्च विशेषणं नाहीनस्य अहीनम् अहर्गणं तन्तुं तनितुं कर्तुम् — इति गोविन्द-स्वामी ।
पृष्ठ 344
पाठ पढ़ें पाठ छिपाएँ
१२००: ऐतरेयब्राह्मणम् [ २ ९.७ षष्ठपञ्चिकायां विमुच्यन्ते, सा विमुक्तिः ॥६ ॥
हिन्दी – ( अब अहःसमूह की अपेक्षा से अहीन के जोड़ने और अगल करने की प्रशंसा कर रहे हैं— ) तद् यत् चतुर्विंशे अहन् तो जो ( गवामयन संवत्सर के अन्तिम अतिरात्र नामक दिन के बाद वाले दिन ) चतुर्विंश ( नामक आरम्भणीय दिन ) में युज्यन्ते ( क्रतु का ) योजन करते हैं, साः युक्ति वह युक्ति है । यत् जो उदयनीयस्य अतिरात्रस्य उदयनीय अतिरात्र के पुरस्तात् पहले वाले दिन विमुच्यन्ते ( अहीन क्रतु को ) अलग करते हैं, सा विमुक्तिः वह ( अहीन क्रतु की ) विमुक्ति है ॥ सा ० भा ० — गवामयनस्य संवत्सरसत्रस्यऽऽद्यन्ते अहनी अतिरात्रसंस्थे । तत्रोपक्रम-गतस्य प्रायणीयातिरात्रस्यानन्तरभाविनि चतर्विंशाख्ये आरम्भणीयेऽहनि परिधानीयाभिः सर्वेऽहर्विशेषायुज्यन्ते, सोऽयं गवामयनस्य योगः । अथोदयनीयस्यातिरात्रस्य पुरस्ताद् वर्तमाने महाव्रतीयेऽहनि परिधानीयाभिः सर्वेऽप्यहर्विशेषा विमुच्यन्त इति यदस्ति, सेयं गवामयनस्य विमुक्तः ॥ तत्र योगविमोकहेतूनां परिधानीयानामेकैकविधत्वं निन्दित्वोभयविषयत्वं दर्शयति— ( परिधानीयानामुभयविधत्वप्रदर्शनम् ) तद्यच्चतुर्विशेऽहन्नैकाहिंकाभिः परिदध्युरत्राहैव यज्ञं संस्थापयेयुर्ना-हीनकर्म कुर्युरथ यदहीनपरिधानीयाभिः परिदध्युर्यथा श्रान्तोऽविमु-च्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्नुभयीभिः परिदध्युः ॥७ ॥
हिन्दी —तद् यत् तो जो चतुर्विंशेऽहन् चतुर्विंश नामक अहः में एकाहिकाभिः ( प्रकृतिभूत ) एकाह ( के ज्योतिष्टोम में विद्यमान परिधानीया ऋचाओं ) के द्वारा परिदध्युः परिधान करें तो उन्हें अत्र एव यहीं पर ही ( चतुर्विंश के द्वितीय दिन में ) ही यज्ञ संस्थापयेयुः यज्ञ का परिधान ( समापन ) कर देना चाहिए । अहीनकर्म न कुर्युः वे अहीन कर्म को न करें । अथ यत् और जो अहीनपरिधानीयाभिः अहीन की परिधानीया ( ऋचाओं ) के द्वारा परिदध्युः परिधान ( समापन ) करें तो यथा शान्तोऽविमुच्यमानः जैसे ( रथ और बैलगाड़ी में योजित अश्व अथवा बैल के ) परिश्रान्त हो जाने पर उनको ( रथादि से ) अलग न करता हुआ उत्कृत्येत उच्छिन्न हो जाता है एवं यजमानाः इसी प्रकार यजमान लोग उत्कृत्येरन् विनष्ट हो जाते हैं । अतः उभयीभ्यः परिदध्युः दोनों के द्वारा. ही परिधान करना चाहिए ॥ सा ० भा०- ' -‘अहन् ’ अहनि चतुर्विंशाख्ये यदि ‘ ऐकाहिकाभिः ’ प्रकृतिभूत एकाहे ज्योतिष्टोमे विद्यमानाभिः परिधानीयाभिः परिदध्युः, तदानीं ' अत्रैव ' चतुर्विंशाख्ये द्वितीय-स्मिन्नहन्येव ‘ यज्ञं ’ गवामयनं ‘ संस्थापयेयुः ' समाप्तिं कुर्युः । अत्राहेत्यहशब्दः खेदे; कष्टमे-तत् । अत्रैव समाप्तौ ‘ अहीनकर्म ' कृत्स्नाहर्गणकर्तव्यं न कुर्युः । एतदेव कष्टम् । ' अथ '
पृष्ठ 345
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः सप्तमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १२०१ पूर्वोक्तवैपरीत्येनैकाहिकाः परिधानीयाः परित्यज्य यद्यहीनपरिधानीयाभिरेव सर्वे होत्रकाः परि-दध्युः, इदानीं यथा लोके रथशकटादौ युक्तोऽश्वबलीवर्दादिः कियद्दूरं गत्वा श्रान्तः सन् यदि न विमुच्येत, तदानीम् ‘ उत्कृत्येत ' उच्छिद्येत; तथैव यजमाना ' उत्कृत्येरन् ' विनश्येयुः । सर्वेषां होत्रकाणामैकाहिकस्वीकारे समाप्त्यभावः, अहीनगतस्वीकारे यजमानोच्छेदः, इति दोषद्वयपरिहारार्थम् ‘ उभयोभिः ' ऐकाहिकाभिरहीनगताभिश्च परिधानीयाभिः परिदध्युः । तत्र प्रकारविशेषः पूर्वमेवोक्तः, मैत्रावरुण ऐकाहिकाभिरेव सवनद्वये परिदध्यात्; अच्छा-वाकोऽहीनगताभिरेव सवनद्वये परिदध्यात् । ब्राह्मणाच्छंसी तु प्रातः सवने अहीनगताभिः परिदध्यात् । माध्यंदिनसवने चैकाहिकाभिरिति निर्णयः । अस्य निर्णयस्य पूर्वमेव सिद्ध-त्वेऽपि प्रकारान्तरेण प्रशंसार्थमत्र पुनरभिधानम् ॥ तदेतदुभयीभिः परिधानं दृष्टान्तेन प्रशंसति—.. तद्यथा दीर्घाध्व उपविमोकं यायात् तादृक्तत् ॥८ ॥
हिन्दी — ( दोनों द्वारा किये गये परिधान की दृष्टान्त द्वारा प्रशंसा कर रहे हैं - ) तद्यथा जिस प्रकार दीर्घार्श्वे दूर तक गमन करने पर ( व्यक्ति ) उपविमोकम् थकावट को दूर करते हुए यायात् जाता है तादृक् तत् उसी प्रकार वह ( अहीनगत ऋचाओं से परिश्रान्त हुआ ऐकाहिक ऋचाओं से विमोक होता है ) ॥ सा ० भा०- लोके यथा वा ' दीर्घाघ्वे ' दूरमार्गे गच्छन् पुरुषः ' उपविमोकं ' रथ-शकटादौ योजितमश्वबलीवर्दादिकं तत्र तत्रोपविमुच्योपविमुच्य ' यायात् ' श्रान्तिपरिहारेण शनैर्गच्छेत्, तादृगेव ‘ तत् ’ उभयविधपरिधान् । यथा मार्गे वहनश्रमो विमोकेन निवर्तते, एवमहीनगताधिरापादितश्रम ऐकाहिकाभिर्निवर्तते ॥ उभयविधपरिधाने दोषं परिहृत्य गुणं दर्शयति-संततो हैषा यज्ञो भवतीँ ३ व्यू मुञ्जन्ते ॥ ९ ॥
हिन्दी — एषाम् इन ( दोनों प्रकारों से परिधान करने वाले यजमान लोगों ) का यज्ञः सन्ततः भवति यज्ञ विच्छेदरहित होता है और विमुञ्चन्ते ( उस यजमान की ) थकावट भी दूर हो जाती है । सा ० भा ० — ' एषाम् ' उभयविधपरिधानयुक्तानां पुरुषाणां यज्ञः ' संततः ' विच्छेदरहितो भवति । सानुनासिका प्लुतिः प्रशंसार्था । विशब्दात् उपरितन उकार एवकारार्थः । तस्य
दीर्घश्छान्दसः । यजमानाः श्रमं विमुञ्चन्त एव ॥
अथ स्तोमातिशंसने कंचिद्विशेषं दर्शयति-( स्तोमातिशंसने विशेषविधानम् ) एकां द्वे न द्वयोः सवनयोः स्तोममतिशंसेत् ॥ १० ॥
ऐ.ब्रा.उ.- २२
पृष्ठ 346
पाठ पढ़ें पाठ छिपाएँ
[ २ ९.७ षष्ठपञ्चिकायां १२०२: ऐतरेयब्राह्मणम् हिन्दी— द्वयोः सवनयोः ( प्रातः और मध्यन्दिन ) दोनों सवनों में एकां द्वे एक अथवा दो ऋचाओं का न अतिक्रमण न करते हुए स्तोमम् स्तोम का अतिशंसेत् · अतिशंसन करना चाहिए ॥ सा ० भा ० — यदा सामगैर्विवृद्धः स्तोमः क्रियते, तदानीं होत्रकैः स्तोमसंख्यामति-लङ्घ्य शंसनीयम् । तत्र ‘ द्वयोः ' प्रातर्मध्यंदिनयोः सवनयोः ' एकाम् ' ऋचं वा ' द्वे ' ऋचौ वाऽतिक्रम्य न शंसेत् । किंत्वेकया द्वाभ्यां वाऽतिशंसेत् । पूर्वत्रायं नियमः प्रातःसवन एवोक्तः । उत्तरयोस्तु सवनयोरपरिमिताभिरतिशंसनमुक्तम् । तथा सति माध्यंदिने सवने पूर्वोत्तरविरोधः प्रसज्येतेति चेत्, तर्हि तत्रैकया द्वाभ्यामपरिमिताभिर्विकल्पोऽस्तु ' ॥ बहुभिरतिशंसने बाधमाह— दीर्घारण्यानि ह वै भवन्ति, यत्र बह्वीभिः स्तोमोऽतिशस्यते ॥ ११ ॥
हिन्दी — ( बहुत - सी ऋचाओं के शंसन में बाधा को कह रहे हैं - ) यत्र बह्वीभिः जहाँ बहुत ( ऋचाओं ) से स्तोमः अतिशस्यते स्तोम का अतिशंसन किया जाता है, तो वह दीर्घारण्यानि वै भवन्ति दीर्घ अरण्य के समान ( निर्जन ) हो जाता ॥ सा ० भा ० — यथा दीर्घेष्वरण्येषु गच्छतः पुरुषस्य विश्रामस्थानाभावात् महाप्रयासः, तथा बह्वीभिरतिशंसनं दुःखहेतुरित्यर्थः ॥ माध्यंदिनसवन इव तृतीयसवने पक्षान्तरमस्तीति शङ्कां वारयितुं पूर्वोक्तमेवापरिमितत्वं पुनरप्यभिधत्ते-अपरिमिताभिस्तृतीयसवनेऽपरिमितो वै स्वर्गों लोकः स्वर्गस्य लोकस्याऽऽप्त्यै ॥ १२ ॥
हिन्दी — तृतीयसवने तृतीय सवन में अपरिताभिः अपरिमित ( ऋचाओं ) से ( शंसन किया जाता है ) क्योंकि अपरिमितो वै स्वर्गो लोकः स्वर्ग लोक ( भोग बहुलता के कारण ) अपरिमित है । स्वर्गस्य लोकस्य आप्त्यै स्वर्गलोक की प्राप्ति के लिए ( अपरिमित ऋचाओं से शंसन किया जाता है ) ॥ सा ० भा ० — ‘ अपरिमिताभिः ’ नियतपरिणामरहिताभिः । स्वर्गस्य भोगबाहुल्याद-परिमितत्वम् । वेदनपूर्वमनुष्ठानं प्रशंसति— संततो हास्याभ्यारब्धोऽविस्त्रस्तोऽहीनो भवति य एवं विद्वानहीनं तनुते ॥ १३ ॥
( १ ) श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभावपि ' - इति म ० सं ० २.१४
पृष्ठ 347
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२०३ हिन्दी – ( वेदनपूर्वक अनुष्ठान की प्रशंसा कर रहे हैं— ) यः एवं विद्वान् जो इस प्रकार ( अतिशंसन को ) जानने वाला विद्वान् अहीनं तनुते अहीन का सम्पादन करता है, अस्य आरभ्यारब्धंः इस ( विद्वान् ) का अभिमुख रूप से उपक्रान्त अहीनः अहस्समूह सन्ततः निरन्तरता को प्राप्त करके अविस्रस्तः भवति विनाशरहित होता है । सा ० भा ० — ‘ यः ’ पुमानुक्तप्रकारेणातिशंसनं जानन्नहीनमनुतिष्ठति, ‘ अस्य ' पुरुष-स्य ‘ अभ्यारब्धः ’ आंभिमुख्येनोपक्रान्तोऽहर्गणः ' संततः ' नैरन्तर्येण वर्तमानः, कदाचिदपि ‘ अविस्रस्तः ' विनाशरहितो भवति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्यायें ( एकोनत्रिंशाध्याये ) सप्तमः खण्डः || ७ || ( ११० ) ॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा ० भा ० — अथ पृष्ठ्यस्य षडहस्य षष्ठेऽहनि धिष्ण्याख्यशस्त्रक्लप्तिसूक्तं विधातु-माख्यायिकामाह— ( धिष्ण्याख्यशस्त्रक्लंप्तिसूक्तविधानम् ) ( तत्राख्यायिका. ) देवा वै वले गाः पर्यपश्यंस्ता यज्ञेनैवेत्संस्ताः षष्ठेनाह्नाऽऽप्नुवंस्ते प्रातः सवने नभाकेन वलमनभयंस्तं यदनभया ३ न्, अश्रथयन्नेवैनं तत्, त उ तृतीयसवने वज्रेण बालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा उदाजन् ॥ १ ॥
हिन्दी— ( पृष्ठ षडह के षष्ठ दिन में धिष्ण्य नामक शस्त्रक्लप्ति सूक्त का विधान करने के लिए आख्यायिका को कह रहे हैं— ) देवाः ( वल नामक असुर के भृत्य देवताओं के गायों को चुराकर बल के घर में छिपा दिया ) देवताओं ने ( किसी गुप्तचर से जानकर ) वलेः वले के ( घर ) गाः पर्यपश्यन् गायों को देखा । ताः ( उन ) देवताओं ने यज्ञेन एव यज्ञ के द्वारा ही इत्संस्ताः ( उन्हें ) प्राप्त करने की इच्छा किया । उन्होंने षष्ठेन अह्ना षष्ठ दिन के ( अनुष्ठान ) द्वारा आप्नुवन् ( गायों को ) प्राप्त कर लिया । ते उन ( देवताओं ) ने प्रातःसवने प्रातः सवन में नभाकेन नभाक ऋषि द्वारा दृष्ट ( मन्त्र ) से वलम्
पृष्ठ 348
पाठ पढ़ें पाठ छिपाएँ
[ २ ९.८ षष्ठपञ्चिकायां १२०४: ऐतरेयब्राह्मणम् अनभयन् बल को प्रताड़ित किया । तम् उस ( वल ) को यद् अनभयन् जो प्रताड़ित किया ( तब ) एनम् इस ( गाय के बन्धन ) को, अश्रथयन् शिथिल कर दिया । ते उ पुनः उन ( देवताओं ) ने तृतीयसवने तृतीयसवन में वज्रेण वज्र रूप वाले बालखिल्याभिः बालखिल्य ऋचाओं के वाचः कूटेन वाचःकूट ( विहित मन्त्र - विशेष ) नामक एकपदया एक पद से वलं विरुज्य वल को विशेष प्रकार से भग्न करके गाः उदाजन् गायों को ( उसके घर से ) निकाल लिया । सा ० भा ० — वलनामकः कश्चिदसुरप्रभुः, तदीयभृत्याः बृहस्पतिप्रमुखानां देवानां गा अपहृत्य वलस्य गृहे स्थापितवन्तः । देवाश्च केनचिद्दूतमुखेन ' वले ' वलस्य गृहेऽवस्था-पिता गाः ‘ पर्यपश्यन् ’ ज्ञातवन्तः । ज्ञात्वा च सामभेदादी ल्लौकिकोपायान् परित्यज्य ‘ यज्ञेनैव ’ उपायेन ‘ ऐप्सन् ’ आप्तुमिच्छा कृतवन्तः । कृत्वा च पृष्ठ्यंस्य षडहस्य यत्षष्ठ-महः, तदहरनुष्ठाय तत्सामर्थ्येन ' ताः ' गाः प्राप्नुवन् । ' ते ' देवाः प्रातःसवने नभाकनाम्ना महर्षिणा, तद्दृष्टेनं मन्त्रेण वा वलनामकमसुरम् ' अनभयन् ', नभतिधातुर्हिसार्थः, ताडितवन्त इत्यर्थः । ‘ तं ’ प्रतिबन्धकारणं वलनामानमसुरं यद्यपि ' अनभयन् ' ताडितवन्तः । प्लुति-स्ताडनप्रशंसार्था । तदानीमेव गोग्रहणम् ' अश्रथयन्नेव ' रक्षणार्थप्राकारद्वारोद्घाटनेन निरोषं शिथिलीकृतवन्तः । यद्वा, वलनामानमसुरमेव बलक्षयमापाद्य शिथिलीकृतवन्तः । ' ते उ ' पुनरपि ते देवास्तृतीयसवने वज्ररूपेणावस्थिताभिः ' वालखिल्याख्याभि: ' ऋग्भिः ‘ वाच: कूटेनैकपदया ’ वलं ‘ विरुज्य ' विशेषेण भग्नं कृत्वा स्वकीया गाः ' उदाजन् ' तदीयाद् दुर्गादुद्गमितवन्तः । वाचःकूटशब्देन विहृतो मन्त्रविशेष उच्यत इत्युपरिष्टाद् दर्शयिष्यति, स एव वाच: कूट एकपदा भवति ॥ अथ नभाकेन दृष्टान् तृचान् विधत्ते— ( नाभाकदृष्टतृचविधानम् ) तथैवैतद् यजमानाः प्रातः सवने नभाकेन वलं नभयन्ति, तं यन्न-भयन्ती ॐ श्रथयन्त्येवैनं तत्; तस्माद्धोत्रकाः प्रातः सवने नाभा-कांस्तृचाञ्छंसन्ति ॥ २ ॥
हिन्दी – ( नभाक द्वारा दृष्ट तृचों का विधान कर रहे हैं— ) तथैव उसी प्रकार से यजमानाः यजमान लोग प्रातः सवने प्रातः सवन में नभाकेन नाभाक द्वारा दृष्ट च वलं नभयन्ति वल ( नामक असुर रूप पाप ) को प्रताड़ित करते हैं ) । यत् जो तम् उस ( वल ) को नभयन्ति ताड़ित करते हैं तत् तो एनम् उस ( वल ) को श्रथयन्ति एव शिथिल ही करते हैं । तस्मात् इसी कारण से होत्रकाः ( मैत्रावरुण इत्यादि ) होत्रक प्रातः सवने प्रात: -सवन में नाभाकान् तृचान् नभाक द्वारा दृष्ट तृचों का शंसन करते हैं । सा ० भा ० — यथा देवा नभाकेन वलं हिंसितवन्तः तथैवैतस्मिन् षष्ठेऽहनि यज-
पृष्ठ 349
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः. ] सायणाचार्यकृतभाष्योपेतम्: १२०५ मानाः प्रातःसवने नभाकनाम्ना महर्षिणा दृष्टेन मन्त्रेण ' बलं ' वलनामकासुरवत् प्रतिबन्धकं पाप्मानं ‘ नभयन्ति ' हिंसन्ति । ' तं ' वलं ' यद् ' यदा नभयन्ति । प्लुतिः पूर्ववत् । ' तत् ' तदैनं ' श्रथयन्ति ' शिथिलं कुर्वन्ति । ' तस्मात् ' कारणान्मैत्रावरुणादयो ' होत्रकाः ' प्रातः सवने ' ना-भाकान् नभाकेन दृष्टांस्तृचाशंसेयुः ॥ तांस्तृचानुदाहरति— ( नाभाकदृष्टतृचनिर्देशनम् ) यः ककुभो निधारय इति मैत्रावरुणः पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी, ता हि मध्यं भराणामित्यच्छावाकः ॥ ३ ॥
हिन्दी – ( उन तृचों को दिखला रहे हैं - ) ' यः ककुभो निधारय ' इति मैत्रावरुणः इस ( तृच ) का मैत्रावरुण, ' पूर्वीष्ट इन्द्रोपमातय ' इति ब्राह्मणच्छंसी इस ( तृच ) का ब्राह्मणाच्छंसी और ' ता हि मध्यं भराणां ' इति अच्छावाकः इस तृच का अच्छावाक ( शंसन करता है ) । सा ० भा ० — -'यः ककुभः ' इत्येकस्तृचः ' । ' पूर्वीष्टे ' इति द्वितीय: ' । ' ता हीति ' तृतीयः ' । मैत्रावरुणादयः क्रमेण शंसेयुः * ॥ तांस्तृचान् विधाय शिल्पस्वरूपं विधत्ते— ( शिल्पस्वरूपविधानम् ) त उ तृतीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा आप्नुवन्ति ॥४ ॥
हिन्दी - ( उन तृचों का विधान करके शिल्प के स्वरूप को कह रहे हैं - ) ते उ वे ( मैत्रावरुण इत्यादि ) तृतीयसवने तृतीयसवन में वज्रेण वालखिल्याभिः वज्ररूप वाल-खिल्यों के वाचःकूटेन वाणी के समूह के एकपदया एक पद से बलं विरुज्य वल ( नामक असुर रूप पाप ) को प्रताडित करके गा आप्नुवन्ति गायों को प्राप्त करते हैं । सा ० भा ० - -'त उ ' ते तु मैत्रावरुणादयः ' बलं ' प्रतिबन्धकं पाप्मानं वैरिणं वज्र-रूपेण बालखिल्येन विनाश्य गोप्राप्तौ विघ्नरहिताः सन्तो गाः प्राप्नुवन्ति । ' वालखिल्या-भिर्वाचःकूटेनैकपदया ’ — इति एतावता शिल्पस्वरूपमभिहितम् ॥ तदेतद्विशदयति— ( १ ) ऋ ० ८.४१.४-६ । ( २ ) ऋ ० ८.४०.९ -११ । ( ३ ) ऋ ० ८.४०.३-५ । ( ४ ) ‘ महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन् गायत्री-कारम् ' – इत्यादि आश्व ० श्रौ ० ७.२.१६,१७ ।
पृष्ठ 350
पाठ पढ़ें पाठ छिपाएँ
: ऐतरेयब्राह्मणम् [ २ ९.८ षष्ठपञ्चिकायां १२०६ ( विहरणविधानम् ). पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीय-मृक्शस्तृतीयं, स पच्छो विहरन् प्रगाथे प्रगाथ एवैकपदां दध्यात् स वाचःकूटः ॥५ ॥
हिन्दी— ( उपर्युक्त कथन का विस्तार कर रहे हैं - ) पच्छः प्रथमं षड्वाल-' खिल्यानाम् पहली बार वालखिल्य ऋषि द्वारा दृष्ट आठ ( सूक्तों ) में से ( छ: सूक्तों का ) पाद - पाद के अवसान पर विहरति विहरण करता है । अर्धर्चशः द्वितीयम् द्वितीय बार आधी - आधी ऋचा के अवसान पर, ऋक्शः तृतीयम् तीसरी बार प्रत्येक ऋचा के अवसान पर ( विहरण करता है ) । सः वह ( विहरण कर्ता ) पच्छः विहरन् पाद - पाद विहरण करते हुए प्रगाथे प्रगाथे एव प्रत्येक प्रगाथ में ही एकपदां दध्येत् एकपदा ऋचा को ही रखें, सः वाचः कूटः वह ( प्रगाथ और एकपदा ऋचा का समूह ) वाच: -कूटसंज्ञक है । सा ० भा ० — वालखिल्यनामकाः केचन महर्षयः तेषां सम्बन्धीन्यष्टसूक्तानि विद्यन्ते; तानि बालखिल्यनामके ग्रन्थे समाम्नायन्ते ' । तेष्वादौ यानि षट्सूक्तानि तानि प्रथमं ‘ पच्छः ’ पादशो विहरेत् । ततो द्वितीयस्यामावृत्तावर्धर्चशो विहरेत् । यदा पच्छो विहरति, तदानीमेकै-कस्मिन् प्रगाथ एकैकामेकपदां दध्यात् । स प्रगाथैकपदयोः समूहो ‘ वाचःकूट: ’ — इत्यनेन शब्देनाभिधीयते । तमिमं विहारप्रकारम् आश्वलायन आह — ‘ षट्सूक्तानि व्यतिमर्श पच्छो विहरेत् । व्यतिमर्शमर्धर्चशो, व्यतिमर्शमृक्शः, प्रगाथान्तेषु चानुपसन्तानमृगावानमेकपदाः शंसेत् ' - – इति ' । तेषु षट्सूक्तेषु प्रथमसूक्तादावृग्द्वयमेवमाम्नातम्— अभि प्र वः सुराधसमिन्द्रमर्च यथा विद । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ १ ॥ ओ ३ म् ।
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव स रसा अस्य पिन्विरे दत्राणि पुरु भोजसः ॥ २ ॥ ओ ३ म् ।
( १ ) मोक्षमूलरभट्ट - सम्पादित - मुद्रित - ऋग्वेदसहितायां सातवलेकरसंपादितसंहितायां वा अष्टममण्डलीय - षष्ठानुवाकात् परस्तात् बालखिल्य नामकान्येकादश सूक्तानि मुद्रिता दृश्यन्ते ( ऋ ० ८.४ ९ -५ ९ ) । वस्तुत: यस्याः संहिताया मण्डलकृतो विभागः न तत्र वालखिल्यानामृचां सन्निवेशः; तामेव संहितामवलम्व्य सायणाचार्येण भाष्यमकारि । अत एवेहोक्तं ' बालखिल्यनामके ' ग्रन्थे ' - इति । अष्टकविभक्तसंहितायां तु षष्ठाष्टकस्य चतुर्थाध्याये. चतुर्दशाद्याः सप्तदशवर्गा वालखिल्यीया एवेति न तत्र वालखिल्याख्यः कश्चन पृथक् ग्रन्थ इति विवेकः । अथ यदुक्तमारण्यकभाष्ये ' संहितायामाम्नातानि ’ - इति ( ऐ ० आ ० ५.२.४.२ ), तदपि वालखिल्यसंहितेति पृथक् ग्रन्थ इत्यभिप्रायेणैव । ( २ ) आश्व ० श्रौ ० ८.२.१ ९, २० ।