ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 351–360
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 351–360
पृष्ठ 351
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १२०७ द्वितीयसूक्तेऽपि ऋग्द्वयमेवमाम्नातम्— प्र सु श्रुतं सुराधसमार्चा शक्रमभिष्टये । यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥ १ ॥ ओ ३ म् ।
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥ २ ॥ ओ ३ मिति ।
तत्र प्रथमसूक्तगतमेकं (? ) पादं च संयोजयेत् । सोऽयं विहारः । अस्मिन् विहारे ' त्र्यतिमर्शः ' नाम कश्चिद्विशेषः । स च यथाक्रमं परित्यज्य प्रकारान्तरेण योजने सति संपद्यते । प्रथमसूक्तस्य प्रथमायामृचि प्रथमपादमुक्त्वा द्वितीयसूक्तस्य द्वितीयायामृचि ( यत् ) द्वितीयपादं तेन संयोजयेत् । तद्यथा - ' अभि प्र वः सुराधमिन्द्रस्य समिषो महीरिति ' । द्वितीयसूक्तस्य द्वितीयस्यामृचि प्रथमपादमुक्त्वा प्रथमसूक्तस्य प्रथमायामृचि ( यत् ) द्वितीय-पादं तेन संयोजयेत् । तद्यथा - ' शतानीका हेतयो अस्य दुष्टरा इन्द्रमर्चं यथाविदो ३ मिति ' । अथ प्रथमसूक्तस्य प्रथमायामृचि तृतीयपादमुक्त्वा प्रथमसूक्तस्य प्रथमायामृचि ( यत् ) चतुर्थ-पादं तेन संयोजयेत् । तद्यथा — गिरिर्न भुज्मा मघवत्सु पिन्वते सहस्रैणेव शिक्षतो ३ मिति । तदिदं पादयोर्विहृतमृग्द्वयमेकः प्रगाथः संपद्यते । तस्य प्रगाथस्यान्ते ‘ इन्द्रो विश्वस्य गोपतिः ' इत्येतामेकपदां संदध्यात् । सोऽयं समूहो वाचः कूटसंज्ञकः । अनेनैव न्यायेन सर्वेषु सूक्तेषु सर्वास्वृक्षु बुद्धिमता पादशो व्यतिमर्शविहरणमुन्नेयम् । अथार्धर्चशो विहार उच्यते - प्रथमसूक्तस्य प्रथमायामृचि प्रथमार्धर्चमुक्त्वा द्वितीय-सूक्तस्य द्वितीयस्यामृचि ( यत् ) ऊत्तरार्ध तेन संयोजयेत् । तद्यथा - ' अभि प्र वः सुराधस-मिन्द्रमर्चं यथा विदे | गिरिंर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषों ३ मिति । एवं सर्वमुन्नेयम् । ऋक्शो विहरेत्– [ तत्र प्रथमसूक्तस्य प्रथमामृचमुक्त्वा तया सह द्वितीयसूक्तस्य द्वितीया-मृचं योजयेत् । एवं सर्वत्रोहनीयम् ' । अथ प्रगाथान्तेषु प्रक्षेपणीया एकपदा दर्शयति— ता एताः पञ्चैकपदाश्चतस्त्रो दशमादह्न एका महाव्रतात् ॥ ६ ॥
हिन्दी — ( प्रगाथों के अन्त में प्रक्षेपणीय एकपदा ऋचा को दिखला रहे हैं— ) ताः वे ( पूर्वोक्त ) एताः ये पञ्च एकपदाः पाँच एकपदा ( ऋचाएँ ) हैं । ( उनमें से ) चतस्रः दशमादह्ने चार ऋचाएँ दशम दिन में ( पठित हैं ) एका महाव्रतात् और एक ( ऋचा ) महाव्रत से ली गयी है । ( १ ) एष विहारो महावलभिन्नामकः; अन्यविधावपि विहारौ आश्वलायनेनैवाभिहितौ ‘ अथ वाल-. खिल्या विहरेत्.... इति नु हौण्डिनौ ' - इति आश्व ० श्री ० ८.२.३-१७ ।
पृष्ठ 352
पाठ पढ़ें पाठ छिपाएँ
[ २ ९.८ षष्ठपञ्चिकायां १२०८: ऐतरेयब्राह्मणम् सा ० भा ० — या एकपदा ऋचः प्रक्षेप्तव्याः, ता एता एकपदाः पञ्चसंख्याकाः । तासु चतस्र एकपदाः श्रुत्यन्तरेषु दशमेऽहनि पठिताः । तस्माद्दशमादह्रस्ताश्चतस्र आनेतव्याः । तासु ‘ इन्द्रो विश्वस्य गोपतिः ’ इत्येषा प्रथमा, ' इन्द्रो विश्वस्य भूपतिः ’ — इत्येषा द्वितीया, ‘ इन्द्रो विश्वस्य चेतति ’ — इत्येषा तृतीया, ' इन्द्रो विश्वस्य राजति ' – इत्येषा चतुर्थी; अथा-वशिष्टा श्रुत्यन्तरेषु महाव्रते श्रुता । सा च ' इन्द्रो विश्वं विराजति ' – इत्येतादृशी; तस्मा-न्महाव्रतादानेतव्या । ता एताः पञ्चैकपदाः पञ्चसु प्रगाथेषु प्रक्षिपेत् ॥ अवशिष्टेषु प्रगाथेषु प्रक्षेपणीयान् पादान् दर्शयति— अथाष्टाक्षराणि माहानामनानि पदानि तेषां यावद्भिः संपद्येत, तावन्ति शंसेन्नेतराण्याद्रियेत ॥७ ॥
हिन्दी – ( अवशिष्ट प्रगाथों में प्रक्षेपणीय पदों को दिखला रहे हैं - ) अष्टाक्षराणि महानामनानि पदानि अष्टाक्षर वाले ( ' विदा मघवन् ' इत्यादि ) महानाम्नी ( संज्ञक ऋचाओं ) के ( ' प्रचेतन प्रचेतया ' इत्यादि ) पद हैं । तेषाम् उन ( पदों ) में यावद्भिः सम्पद्येत जितने ( अष्टाक्षरों ) से ( अवशिष्ट प्रगाथों में प्रक्षेप का ) सम्पादन हो तावन्ति उतने ( आठ अक्षरों से प्रक्षेप का सम्मान करके शंसेत् शंसन करना चाहिए । इतराणि न आद्रियेत् अन्य ( आठ अक्षरों ) का प्रक्षेप न करें । सा ० भा ० — अथ पञ्चसु प्रगाथेषु पञ्चानामेकपदानां प्रक्षेपादनन्तरं ' माहानामनानि ' महानामशब्देन ‘ विदा मघवन्'- इत्यादयो महानाम्नीसंज्ञकाः विधीयन्ते, तेषां महानाम्ना-मृचां सम्बन्धीन्यष्टाक्षराणि पदानि ' प्रचेतन प्रचेतया ' - इत्येवमादीनि यानि सन्ति, तेषां मध्ये यावद्भिरष्टाक्षरैः पादैरवशिष्टेषु प्रगाथेषु प्रक्षेप: संपद्येत, तावन्त्यष्टाक्षराणि पदानि शंसेत्, * इतराण्यष्टाक्षराणि पदानि महानामसम्बन्धीनि ' नाऽऽद्रियेत ' न प्रक्षिपेत् ॥ एवं पच्छः शंसने प्रक्षेपणीयमभिधायार्थर्चशो विहरणे प्रक्षेपणीयं दर्शयति-अथार्धर्चशो विहरंस्ताश्चैवैकपदाः शंसेत्, तानि चैवाष्टाक्षराणि माहानामनानि पदानि ॥८ ॥
हिन्दी — अथ इस ( पाद - पाद पर विहरण ) के बाद अर्धर्चशः विहरन् आधी - आधी ऋचा पर विहरण करता हुआ ताः एकपदाः उन एकपदा ( ऋचाओं ) का शंसेत् शंसन करना चाहिए और तानि च एव अष्टाक्षराणि महानामनानि पदानि इन आठ अक्षरों ( १ ) एताश्चतस्रः शाखान्तरीया इति कल्पे प्रपठ्य विहिताः । द्र ० आश्व ० श्री ० ८.२.२१ । ( २ ) ऐ ० आ ० ५.३.१.२ । ' इत्येकपदां शाखान्तरगतां पठेत् - इति तत्र सा ० भा ० । ‘ एको महाव्रतादाहरेत् ' – इति आश्व ० श्रौ ० ८.२.२२ । ( ३ ) ऐ ० आ ० ४ । ( ४ ) ' त्रयोविंशतिमष्टाक्षरान् पादान् महानाम्नीभ्यः सपुरीषभ्यः ' इति अश्व ० श्री ० ८.२.२३ ।
पृष्ठ 353
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२० ९ वाली महानाम्नी पदों का ( शंसन करना चाहिए ) ॥ सा ० भा ० — यथा पच्छो विहरणे प्रगाथान्ते प्रक्षेप:; एवमर्धर्चशो विहरणेऽपि योजनीयम् ॥ तद्वदृक्शो विरहणेऽपि प्रक्षेपं विधत्ते— अथ ऋक्शो विहरंस्ताश्चैवैकपदाः शंसेत्, तानि चैवाष्टाक्षराणि माहानामनानि पदानि ॥९ ॥
हिन्दी- - अथ इस ( अर्धर्च - अर्धर्च पर विहरण ) के बाद ऋक्शः विहरन् प्रत्येक ऋचा पर विहरण करते हुए ताः एकपदाः उन एकपदा ( ऋचाओं ) का शंसेत् शंसन करना चाहिए और तानि च एष अष्टाक्षराणि महानामनानि पदानि उन अष्टाक्षर महानाम्नी पदों का भी ( शंसन करना चाहिए ) ॥ सा ० भा०- - पूर्ववत् प्रगाथान्ते प्रक्षेपः ॥ यदुक्तं पच्छोऽर्धर्चश ऋक्श इति पर्यायत्रयेण विविधं विहरणम्, तदेतत्प्रशंसति— ( विहरणप्रशंसनम् ) स यत्प्रथमं षड्वालखिल्यानां सूक्तानि विहरति, प्राणं च तद्वाचं च विहरति; यद्द्द्वितीयं, चक्षुश्च तन्मनश्च विहरति, यत्तृतीयं, श्रोत्रं च तदात्मानं च विहरति, तदुपाप्तो विहारे काम उपाप्तो वज्रे वालखिल्या-सूपाप्तो वाचः कूट एकपदायामुपाप्तः प्राणक्लृप्त्याम् ॥ १० ॥
हिन्दी - ( उन विहरणों की प्रशंसा कर रहे हैं - ) सः वह ( यज्ञकर्त्ता ) यत्प्रथमं जो पहले वालखिल्यानां सूक्तानि वालखिल्यों के सूक्तों का विहरति विहरण करता है, वह प्राणं च वाचं च विहरति वह प्राण और वाक् का विहरण करता है । यद् द्वितीयम् जो दूसरी बार ( विहरण करता है, वह ) चक्षुश्च मनश्च विहरति वह चक्षु और मन का विहरण करता है, यत् तृतीयम् जो तीसरी बार विहरण करता है, वह श्रोत्रं चात्मानं च विहरति श्रोत्र और आत्मा का विहरण करता है । विहारे इस प्रकार विहरण होने पर कामः उपाप्तः जो कामना ( फलविशेष ) प्राप्त होता है, वह उपाप्तः वह प्राप्त होता है । वन्ने वाल-खिल्यासु उपाप्तः वज्ररूप वालखिल्यों में ( जो फलविशेष है, वह ) प्राप्त होता है वाचःकूटे एकपदायाम् उपाप्तः वाचःकूटरूप एकपदा में ( जो फल विशेष है ) वह भी प्राप्त होता है । प्राणक्लृप्त्यान् वाक् इत्यादि प्राण के विहरण में ( हुई सभी कामनाएँ प्राप्त होती हैं । सा ० भा ० - — ' सः ' अनुष्ठाता ' प्रथमं ' प्रथमे पर्याये वालखिल्यानां षट्सूक्तानि विहर-तीति यदस्ति, तेन प्रथमेन पच्छो विहरणेन प्राणं वाचं ' विहरति ' मिश्रीकरोति । द्वितीय-पर्याये अर्धर्चशो विरहणेन चक्षुर्मनसोर्मिश्रीकरणम् । तृतीयपर्याये — ऋक्शो विहरणेन
पृष्ठ 354
पाठ पढ़ें पाठ छिपाएँ
१२१०: ऐतरेयब्राह्मणम् [ २ ९.८ षष्ठपञ्चिकायां श्रोत्रेन्द्रिजीवात्मनोर्मिश्रीकरणम् । ' तत् ' तथा सति विहरणेन यः ' काम: ' फलविशेषः, स ‘ उपाप्त: ’ ” प्राप्तो भवति । तथा वज्ररूपासु बालखिल्यासु यः कामः, सोऽपि प्राप्तः । तथा वाच: कूटरूपायामेकपदायां यः कामः, सोऽपि प्राप्तः । तथा प्राणा वागादीनां क्लृप्त्यां विरहणे यः कामः, सोऽपि प्राप्तो भवति ॥ चतुर्थपर्याये विहारमन्तरेण यथापाठं शंसनं विधत्ते— अविहृतानेव चतुर्थं प्रगाथाञ्छंसति, पशवो वै प्रगाथाः, पशूनाम-वरुद्ध्यै ॥ ११ ॥
हिन्दी— ( चतुर्थपर्याय में विहरण के विना पाठ के अनुसार शंसन का विधान कर रहे हैं— ) चतुर्थम् चतुर्थ पर्याय में अविहृतान् एव प्रगाथान् विहरण ( दो सूक्तों के मेल ) के विना ही प्रगाथों का शंसति शंसन करता है । पशवः वै प्रगाथाः प्रगाथ पशुरूप हैं
अतः पशूनाम् अवरुघ्यै पशुओं की प्राप्ति के लिए ही ( प्रगाथों का शंसन होता है ) ।
सा ० भा ० — प्रगाथानां पशुप्राप्तिहेतुत्वात् पशुत्वम् ॥
विहरणशंसनवदत्राप्येकपदाप्रक्षेपप्रसक्तौ निषेधति— ( चतुर्थपर्याय एकपदाप्रक्षेपनिषेधः ) नात्रैकपदां व्यवदध्यात् ॥ १२ ॥
हिन्दी - अत्र यहाँ ( दो प्रगाथों के मध्य में ) एकपदां न व्यवदध्यात् एकपदा ( ऋचा से प्रक्षेप द्वारा ) व्यवधान नहीं करना चाहिए ॥ सा ० भा०- - एकपदाया: प्रक्षेपे प्रगाथद्वयस्य मध्ये व्यवधानं स्यात्, तन्न कुर्यात् ॥ तत्करणे बाधं दर्शयति— यदत्रैकपदां व्यवदध्याद् वाचः: कूटेन यजमानात् पशून्निर्हण्याद्, एनं तत्र ब्रूयाद् वाचःकूटेन यजमानात् पशून्निरवधीरपशुमेनमकरिति शश्वत् तथा स्यात् ॥ १३ ॥
हिन्दी— ( व्यवधान करने में बाधा को दिखला रहे हैं - ) यद् अत्र जो इस ( चतुर्थ आवृत्ति ) में एकपदां व्यवदध्यात् एकपदा ( ऋचा ) से व्यवधान करता है तो वाचः-कूटेन वाच: कूट ( रूपी वज्र ) के द्वारा यजमानात् यजमान से पशून् निर्हण्यात् पशुओं को सम्पूर्ण रूप से विनष्ट करता है । तत्र उस ( चतुर्थ पर्याय में प्रक्षेप के साथ शंसन करते ) समय एनम् ब्रूयात् इस शंसन कर्ता से यदि कहे कि ' हे शंसन कर्ता! वाचःकूटेन ( १ ) तत् = टार्थे सु, तेन | कामः = लाभ: । उपाप्तः = स्वीकृतः । इति षड्गुरुशिष्यः 1 ( २ ) काम इत्ययेव । प्राणश्चक्षुरादित्यः । क्लृप्तिः = संश्लेषः । इति षड्गुरुशिष्यः ।
पृष्ठ 355
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्ड; ] सायणाचार्यकृतभाष्योपेतम्: १२११ वाचःकूट के द्वारा यजमानात् यजमान से पशून् निरवधीः पशुओं को लेकर मारते हैं और एनम् अपशुः अकः इस ( यजमान ) को पशुविहीन कर रहे हो ' तो तथा शश्वत् स्यात् वैसा ही ( यजमान का पशुविहीन होना ) सत्य हो जाता है ॥ सा ० भा ० — यदि ‘ अत्र ' चतुर्थपर्याये – एकपदाव्यवधानं कुर्यात्, तदानीं वाचःकूट-रूपेणैकपदासहितप्रगाथेन वज्रेण पूर्वं विद्यमानान् पशून् यजमानादस्मात् ' निर्हण्यात् ' निः-शेषेण ' विनाशयेत् । एवं सति यः कोऽपि विरोधी समागत्य ' एनं ' शंसितारं तत्र ' शंसनकाले ‘ ब्रूयात् ’ शपेत् । कीदृशः शापः? इति सोऽभिधीयते — हे शंसित:, त्वं वाचःकूटेन वज्रेण यजमानात् पशून् ‘ निरवधी: ' निःसार्य हतवानसि । ' एनं ' यजमानम् ' अपशुं ' पक्षुरहितम् ‘ अकः ’ कृतवानसीति । तदानीं ' शश्वत् ' अवश्यं ' तथा स्यात् ' पशुरहित एव स्यात् ॥ विपक्षे बाधमुक्त्वा स्वपक्षमुपसंहरति-तस्मात् तत्रैकपदां न व्यवदध्यात् ॥ १४ ॥
हिन्दी— ( बाधा को कहकर अपने पक्ष का उपसंहार कर रहे हैं— ) तस्मात् इसी कारण से तत्र उस ( चतुर्थ पर्याय ) में एकपदां न व्यदध्यात् एकपदा ( ऋचा ) का व्यवधान नहीं करना चाहिए || सा ० भा ० — वालखिल्यानां षट्सूक्तेषु विहारमुक्त्वाऽवशिष्टयोः सप्तमाष्टमयाः सूक्तयोर्विपर्यासेन ' शंसनं विधत्ते— द्व्येवोत्तमे सूक्ते पर्यस्यति, स एव तयोर्विहारः ॥१५ ॥
हिन्दी— ( वालखिल्यों के अवशिष्ट सप्तम और अष्टम - इन दो सूक्तों के विपर्यय-पूर्वक शंसन का विधान कर रहे हैं - ) द्वि एव उपोत्तमे सूक्ते दो बाद वाले ( वालखिल्य के सप्तम और अष्टम ) सूक्तों का विपर्यास करके ( अर्थात् पहले अष्टम सूक्त पुनः सप्तम का ) शंसन करता है । एषः यही ( विपर्यास करके पाठ ) तयोः उन दोनों ( सप्तम और अष्टम सूक्त ) का विहारः विहार - स्थानीय है ॥ सा ० भा०- -ये द्वे उत्तमे सूक्ते, ते विपर्यस्येदेव, न तु विहरेत् । अष्टमं सूक्तमादौ ( १ ) यद् = यदि । हनिर्गत्यर्थोऽन्तर्णीतण्यर्थश्च निर्गमयेत् । यजमानात् = सत्रिणः । इति ( २ ) तत्र षड्गुरुशिष्यः एकपदाभिधाने । । एनं = प्रशास्तारं यो ब्रूयात् त्वं पशून् सत्रिणः, निरवधीः = अजीगमः । एनं सत्रिणमपशुमकः = अकार्षीः । ' मन्त्रे घसेति ' ( पा ० सू ० २.४.८० ) लुक् च्लेः सिञ्मन्त्रं छन्द इतस्तथाह । इति षड्गुरुशिष्यः । ( ३ ) मुद्रिते शाकलसंहितापुस्तके तु वालखिल्यानामेकादश सूक्तानि दृश्यन्ते । विरोधस्त्वेष शाखाभेदकृत इत्यपनेतव्यः । अपि वा अष्टावेव वालखिल्यानि, तदतिराणि त्रीणि तु खिलसूक्तान्येवेति स्यात् समाधेयम् ।
पृष्ठ 356
पाठ पढ़ें पाठ छिपाएँ
१२१२: ऐतरेयब्राह्मणम् [ २ ९.८ षष्ठपञ्चिकायां पठित्वा पश्चात् सप्तमस्य पाठो विपर्यासः । ' तयोः ' द्वयोः सूक्तयो: १ ' ' सः ' एष विपर्यस्तपाठ एव विहारस्थानीयः ॥ शिल्पनामकं शस्त्रं निरूप्य प्रशंसति— ( शिल्पशस्त्रप्रशंसनम् ) तदेतत्सौबलाय सर्पिर्वात्सिः शशंस, स होवाच भूयिष्ठानहं यजमाने पशून् पर्यग्रहैषमकनिष्ठा उ मामागमिष्यन्तीति; तस्मै ह यथा महद्भ्य ऋत्विग्भ्य एवं निनाय; तदेतत्पशव्यं च स्वर्ग्यं च शस्त्रं; तस्मादे-तच्छंसति ॥ १६ ॥
हिन्दी — ( शिल्पनामकशस्त्र का निरूपण करके उसकी प्रशंसा करते हैं - ) वात्सिः सर्पिः वत्स के पुत्र सर्पि ( नामक किसी ऋत्विक् ) ने सौबलाय सुबल के पुत्र सौबल ( नामक यजमान ) के लिए एतत् सशंस इस ( शिल्पशस्त्र ) का शंसन किया । सः ह उवाच ( शंसन के बाद ) उस ( सर्पि नामक ऋत्विक् ) ने कहा – यजमाने ( सौबल नामक ) यजमान ( के यज्ञ ) में भूयिष्ठान् पशून् बहुत अधिक पशुओं को पर्यग्रहैषम् चारों ओर से मैंने सम्पादित किया है । अतः माम् अकनिष्ठाः आगमिष्यन्ति मेरे पास श्रेष्ठ पशु आवेंगे । तस्मै उस ( सर्पि ) के लिए ( सौबल ने ) यथा महद्भ्यः ऋत्विभ्यः महान् ऋत्विकों के समान निनाय दक्षिणा प्रदान किया । तद् एतत् शस्त्रम् इस प्रकार यह शस्त्र पशव्यं च स्वर्ग्यं च पशुओं और स्वर्ग को प्रदान करने वाला है । तस्मात् इसी कारण से एतत् शंसति इसका शंसन करता है ॥ सा ० भा ० — ‘ सौबल ' नामकः कश्चिद्यजमानः तस्मै वत्सस्य पुत्रः ‘ सर्पिः ' इत्येतन्नामक ऋत्विक्, ‘ तदेतत् ’ शिल्पशस्त्रं शशंस; ( ' स ' ) च शंसनादूर्ध्वमेवमुवाच, – अहमस्मिन् सौबलनामके ‘ यजमाने ’ ‘ भूयिष्ठान् ' अतिशयेन प्रभूतान् पशून् ' पर्यग्रहैषं ’ परितः संपादित-वानस्मि । तस्माद् ‘ अकनिष्ठा उ ' श्रेष्ठा एव पशवो मामागमिष्यन्ति । ततः सौबलो यजमानः यथा ‘ महद्भ्य ऋत्विग्भ्यः ’ होत्रध्वर्युद्गातृब्रह्मभ्यो दक्षिणां दत्तवान्, अथापि शिल्पशंसिने होत्रकायापि बह्वीरुत्तमा गाः दक्षिणात्वेन निनाय ' । तस्मादेतच्छिल्पशस्त्रमिह लोके पशुसाधनं ( १ ) ऋ ० ८.६.५५,५६ ।
( २ ) निनाय दत्तवांस्तस्मै सर्पिषे सौबलो मुदा ।
होत्रादिमुख्यसदृशीं दक्षिणां बहुरूपिणीम् ॥
दक्षिणापरिमाणं तु प्रोक्तं यज्ञविशारदैः ।
यद् दित्सितं क्रतौ द्रव्यं शतधा प्रविभज्य तत् ॥
क्षिपेच्चतुर्षु वर्गेषु प्रत्येकं पञ्चविंशतिम् ।
तत्र द्वादशमुख्याय द्वितीयाय षडेव तु ॥
पृष्ठ 357
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२१३
परलोके स्वर्गसाधनं च । तस्मात् ' एतत् ' शिल्पं शंसेत् ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) अष्टमः खण्डः ॥८ ॥ ( २४ ) ( १११ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ नवमः खण्डः सा ० भा ० - शिल्पशंसनमभिधाव शंसनान्तरमभिधत्ते— ( दूरोहरणशंसनविधानम् ) दूरोहणं रोहति, तस्योक्तं ब्राह्मणम् ॥ १ ॥
हिन्दी - ( शिल्प नामक शस्त्र को कहकर अब अन्य शंसन को कह रहे हैं— ) दूरोहणं रोहति दूरोहण ( सात प्रकार से अत्यन्त दुःसाध्य पाठ वाली हंसवती ऋचा ) का शंसन करता है । तस्य उस ( दूरोहण ) से सम्बन्धित ब्राह्मणं प्रोक्तम् ब्राह्मणवचन को पहले ही कहा जा चुका है ॥ सा ० भा ० – दुःशकं रोहणमुच्चारणं यस्य शंसनस्य, तत् ‘ दूरोहणं ’, तत् ‘ रोहति ’ शंसेदित्यर्थः ‘ तस्य ’ दूरोहणस्य विधायकं ब्राह्मणं पूर्वमेव विषुवदहःप्रसङ्गे ‘ आहूय दूरो-हणम् ’ - इत्यत्राभिहितम् । अत एव पूर्वाचार्या आहुः-‘ स्वर्गों वै लोक इत्यादि पूर्वं विषुवति क्रतौ । दूरोहणब्राह्मणं तु प्रागवोचाम वै स्फुटम् ॥ सप्तरूपा हंसवती दूरोहणमितीरितम् ' इति । हसंवती, पच्छ: अर्धर्चशः, त्रिपद्या, ऋक्शोऽनवानं पुनरपि त्रिपद्या अर्धर्चशः, पच्छ इति सप्तभिः प्रकारैः पठ्नमिति दूरोहणम् ' । तदेतत् ' पूर्व ' तार्क्ष्यसूक्तेऽभिहितम् ॥ इदानीं फलविशेषायैन्द्रे सूक्ते तद्विधत्ते-चतुरोऽथ तृतीयाय त्रींश्चतुर्थाय वै त्विति । अतः षडंशभाजेऽस्मै द्वादश स्म मुदा ददौ ॥ सर्पिषे सौबल इति महाबालभिदस्तुतिः । इति षड्गुरुशिष्यः । ( १ ) हंसः शुचिषत् इति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवानमुक्त्वा प्रणुत्यावस्येत् पुनस्त्रि-पद्यार्धर्चशः पच्छ एव सप्तममेतद् दूरोहणम् - इति आश्व ० श्रौ ० ८.२.१४,१५ ।
पृष्ठ 358
पाठ पढ़ें पाठ छिपाएँ
१२१४: ऐतरेयब्राह्मणम् [ २ ९.९ षष्ठपञ्चिकायां ( दूरोहणे फलविशेषार्थं सूक्तविशेषविधानम् ) ऐन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवः ॥ २ ॥
हिन्दी— ( फल - विशेष की कामना के लिए इन्द्रदेवताक सूक्त में दूरोहण सूक्त के शंसन का विधान कर रहे हैं - ) पशुकामस्य पशुओं की प्राप्ति के लिए ऐन्द्रे इन्द्र देवता वाले सूक्त में रोहेत ( दूरोहण का ) शंसन करना चाहिए । ऐन्द्राः वै पशवः क्योंकि पशु इन्द्र देवता के सम्बन्धित होते हैं । सा ० भा ० — इन्द्रदेवताके कस्मिंश्चित् सूक्ते पशुप्राप्त्यर्थं दूरोहणं ' रोहेत् ' शंसेत् । इन्द्रस्य वृष्टिद्वारा पशुपोषकत्वात् पशव ऐन्द्राः ॥ तस्मिन् सूक्ते छन्दोविशेषं विधत्ते— · तज्जागतं स्याज्जागता वै पशवः ॥ ३ ॥
हिन्दी – ( उस सूक्त के छन्दविशेष की प्रशंसा कर रहें हैं— ) तद् जागतं स्यात् वह ( सूक्त ) जगती छन्द वाला होना चाहिए; क्योंकि जागता वै पशवः पशु जगती ( छन्द ) से सम्बन्धित होते हैं ॥ सा ० भा ० - सोमाहरणप्रसङ्गे जगत्या पशूनामानीतत्वात् ' तत् ' सूक्तं ' जागतम् ’ ॥ तस्य सूक्तस्य कंचिद्विशेषं विधत्ते— तन्महासूक्तं स्याद्भूयिष्ठेष्वेव तत्पशुषु यजमानं प्रतिष्ठापयति ॥४ ॥
हिन्दी— ( उस इन्द्र देवताक सूक्त की विशेषता को कह रहे हैं— ) तद् महासूक्तं स्यात् वह ( इन्द्रदेवताक ) महासूक्त ( बड़ा सूक्त ) होना चाहिए । अतः भूयिष्ठेषु वै पशुषु बहुत अधिक पशुओं में यजमानं प्रतिष्ठापयति यजमान को प्रतिष्ठापित करता है । सा ० भा ० – द्विविधं सूक्तं क्षुद्रं महच्च । अत एव आरण्यकाण्डे वक्ष्यति — ‘ ते क्षुद्र-सूक्ताश्चाभवन् महासूक्ताश्चेति ' ' । महासूक्तलक्षणं पूर्वाचार्यैरुक्तम्— “ दशर्चताया अधिकं महासूक्तं विदुर्बुधाः ” इति । तेन महासूंक्तेन ‘ भूयिष्ठेषु ’ इत्यन्तं प्रभूतेष्वेव पशुषु यजमानं प्रतिष्ठापयति ॥ विवक्षितं सूक्तविशेषं दर्शयति— बरौ रोहेत्तन्महासूक्तं च जागतं च ॥५ ॥
हिन्दी - ( विवक्षित सूक्त में विशेष को दिखला रहे हैं— ) बरौ रोहेत बरु ( ऋषि ) द्वारा दृष्ट ( सूक्त ) में दूरोहरण करना चाहिए; क्योंकि तद् महासूक्तं च जागतं च वह ( १ ) ( i ) ऐ ० आ ० २.२.२.५ । ( ii ) ' नासदीयात् ( ऋ ० १०.१२ ९ ) पूर्वं महासूक्तम्, परं क्षुद्रसूक्तम् — इति ऋक्सर्वानुक्रमण्यां षड्गुरुशिष्यः ।
पृष्ठ 359
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२१५ महासूक्त भी है और जगती छन्द वाला है ॥ सा ० भा ० — बरुर्नाम कश्चिन्महर्षि:, तेन दृष्टं सूक्तमपि बरुशब्देनोच्यते । ' तस्मिन् सूक्ते ' रोहेत् ', दूरोहणं शंसेत् । ' प्र ते महे ' इत्यादिकं बरुनामकं सूक्तम् । तच्च त्रयोदशर्चत्वान्महासूक्तं जगतीछन्दस्कं च ॥ फलान्तराय सूक्तान्तरं विधत्ते— ऐन्द्रावरुणे प्रतिष्ठाकामस्य रोहेदेतद्देवता वा एषा होत्रैतत्प्रतिष्ठा यदैन्द्रावरुणा; तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति ॥ ६ ॥
हिन्दी – ( अन्य फल के लिए सूक्त का विधान कर रहे हैं - ) प्रतिष्ठा कामस्य प्रतिष्ठा की कामना से ऐन्द्रावरुणे रोहेत् इन्द्र और वरुण युगल देवता से सम्बन्धित सूक्त का शंसन करना चाहिए । एतद् देवता वै एता होत्रा ये देवता ही यह होत्र - क्रिया हैं । यद् ऐन्द्रावरुणा जो इन्द्र और वरुण युगल देवता से सम्बन्धित हैं एतत् प्रतिष्ठा यह प्रतिष्ठा ( समाप्ति ) है । तद् एनम् तो इस ( दूरोहण ) को स्वायामेव प्रतिष्ठायाम् अपनी ही प्रतिष्ठा में प्रतिष्ठापयति प्रतिष्ठित करता है । सा ० भा ० — यथा पशुकामस्य सप्तरूपहंसवत्यात्मकं दूरोहणमैन्द्रे सूक्ते रोहेत्, तथैव प्रतिष्ठाकामस्यैन्द्रावरुणके सूक्ते शंसेत् । शंसितुर्मैत्रावरुणस्य होत्रकस्य क्रिया ' होत्रा: ' । एषा चैतद्देवताका, ‘ एतत्प्रतिष्ठा ' इन्द्रावरुणदेवताकसमाप्तियुक्ता । यस्मादैन्द्रावरुणा, याज्येति शेषः । ' इन्द्रावरुणा मधुमत्तमस्येति ' ' याज्याया इन्द्रावरुणदेवताकत्वात् समाप्तेरिन्द्रावरुण-संबन्धः । तथा सति ‘ एतद् ' दूरोहणं ' स्वायामेव ' ' प्रतिष्ठायां ' स्वस्योचितामेव समाप्तौ ' अन्ततः ' शस्त्रान्ते प्रतिष्ठापयति ॥ पुनरपि सूक्तं प्रशंसति— यदेवैन्द्रावरुण ३ इ, एषा ह वा अत्र निविन्निविदा वै कामा आप्यन्ते स यद्यैन्द्रावरुणे रोहेत् सौपर्णे रोहेत्तदुपाप्त ऐन्द्रावरुणे काम उपाप्तः सौपर्णे ॥७ ॥
हिन्दी – ( पुनः इन्द्र और वरुण से सम्बन्धित सूक्त की प्रशंसा कर रहे हैं - ) यद् एव ऐन्द्रावरुणे जो यह इन्द्र और वरुण युगल देवता से सम्बन्धित सूक्त में ( दूरोहण ) है, एषा ह वै निवित् वहीं ( दुरोहण ) निवित् के समान है । निविदा वै कामाः आप्यन्ते निवित् के द्वारा ही कामनाएँ प्राप्त करते हैं । यद् ऐन्द्रावरुणे रोहेत् जो इन्द्र और वरुण देवता से सम्बन्धित सूक्त में दूरोहण करें तो सौपर्णे रोहेत् सुपर्ण ऋषि द्वारा दृष्ट सूक्त में दूरोहण करे । ऐन्द्रावरुणे कामः अपाप्तः इन्द्र और वरुण से सम्बन्धित ( सूक्त ) में ( १ ) ऋ ० १० ९ ३ ( २ ) ऋ ० ६.६८.११ ।
पृष्ठ 360
पाठ पढ़ें पाठ छिपाएँ
१२१६: ऐतरेयब्राह्मणम् [ २ ९.१० षष्ठपञ्चिकायां ( दूरारोहण से ) कामना पूर्ण होती है । उपाप्तः सौपर्णे वह सौपर्ण ऋषि द्वारा दृष्ट सूक्त में भी ( दूरोहण से ) प्राप्त होती है ॥ सा ० भा ० — ‘ यद् ’ यस्मात्कारणादैन्द्रावरुणे सूक्ते दूरोहणं रोहति, तस्मात् स्वायामेव प्रतिष्ठायामिति पूर्वत्रान्वयः । यद्वा, ऐन्द्रावरुणे सूक्ते. दूरोहणमिति यदस्ति, एषैव दूरोहण-क्रियाऽत्र ‘ निवित् ' इवशब्दोऽत्र लुप्तो द्रष्टव्यः, निवित्सदृशीत्यर्थः । तथा च दूरोहणरूपया ‘ निविदा ’ सर्वे कामाः प्राप्यन्ते । ' सौपर्णे ' सूक्ते दूरोहणं रोहेदिति पक्षान्तरं खिलेषु ' समा-म्नातम् । ‘ इमानि वां भागधेयांनीति ' ' सूक्तं सौपर्णम् । “ इमानि वेति सप्तर्चं सौपर्णं खैलिकं विदुः ॥ ” इति । यद्वा ‘ प्रधारा यन्त्विति ' गृह्येोक्तसूक्तं सौपर्णम् । ऐन्द्रावरुणे सौपर्णे वा दूरोहणशंसनेन तत्रोभयत्र यः कामः संभावितः, स ' उपाप्तः ' प्राप्तो भवति ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) नवमः खण्डः ॥९ ॥ ( २५ ) ( ११२ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के नवम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ दशमः खण्डः सा ० भा ० — अत्र कञ्चिद्विचारमुद्भावयति— ( दूरोहणविषये कञ्चिद्विचारम् ) तदाहुः संशंसे ३ त् षष्ठेऽहा ३ न्, न संशंसे ३ त् इति ॥ १ ॥
' हिन्दी — ( इस विषय में कुछ विचार करने की उद्भावना कर रहे हैं - ) ( प्रश्न - ) तत् आहुः उस ( विषय ) में ब्रह्मवादी पूछते हैं— षष्ठे अहन् संशंसेत् षष्ठ दिन में ( शंसनीय ( १ ) ‘ यद्वा उर्वरयोरसम्भिन्नं भवति, खिल इति वै तदाचक्षते'- इति शत ० ब्रा ० ८.३.४.१ । पूर्वत्रानुक्तं वक्तव्यत्वेन परिशिष्टं खिलमिति हि खिललक्षणम् ' इति शत ० ब्रा ० १४.८.१.१ । ‘ सप्तम्यन्तस्य प्रशंसायां प्लुतः ' इति षड्गुरु ० । ( २ ) मुद्रितशाकल्यसंहितायामेतत् सूक्तं वालखिल्येष्वन्त्यमेकादश । ( ३ ) ऋ ० ८.५ ९ । ( ४ ) वालखिल्यसूक्तान्यपि खिलविशेषाण्येव । द्र ० शत ० ब्रा ० ८.३.४.१ । ( ५ ) आश्व ० गृ ० ३.१२.१४ ।