ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 361–370
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२१७ एकाहिक मन्त्रों के साथ ) शंसन करना चाहिए अथवा न संशंसेत् शंसन नहीं करना चाहिए ॥ सा ० भा ० — ' तत् ' तत्र सौपर्णे दूरोहणे शस्ते सति पश्चाद् ब्रह्मवादिनो विचारमाहुः । यान्यैकाहिकानि तदूर्ध्वं शंसनीयानि सन्ति, तान्यत्र षष्ठेऽहन्यत्रत्यैः संभूय किं शंसेत्, किं
वा संभूय न शंसेदिति विचारः । प्लुतिर्विचारार्था ।
तत्र प्रथमं पक्षं दर्शयति-संशंसेदित्याहुः ॥ २ ॥
हिन्दी - ( उस विषय में प्रथम पक्ष को दिखला रहे हैं - ) संशंसेद् ( षष्ठ दिन में
शिल्पशस्त्र के ) साथ में शंसन करना चाहिए इत्याहुः ऐसा ( कुछ याज्ञिक ) कहते हैं ।
सा ० भा ० - सम्भूय शंसेदित्येवं केचिद्याज्ञिका इत्याहुः ॥
तत्रोपपत्तिं पृच्छति— कथम्? ॥ ३ ॥
हिन्दी - कथम् किसलिए ( साथ में शंसन करना चाहिए ) ॥ उत्तरमाह-अन्येष्वहःसु संशंसति, कथमत्र न संशंसेदिति ॥४ ॥
हिन्दी – ( उत्तर - ) अन्येषु अहःसु अन्य ( पूर्ववर्ती पाँच ) दिनों में संशंसति ( शिल्पशस्त्र के ) साथ में शंसन करता है तो कथमत्र न संशंसेत् किसलिए यहाँ ( षष्ठ दिन में ) साथ में शंसन न करें ( अर्थात् जब पूर्व पाँच दिनों में साथ में शंसन किया जाता है तो फिर षष्ठ दिन भी करना चाहिए ) ॥ सा ० भा ० - इतरेषु पञ्चस्वहः सु मैत्रावरुणः संभूय शंसति । तथा सत्यहःसामान्याद-त्रापि कथं न संशंसेत्? तत्परित्यागो न युक्तः, किंतु तदनुष्ठानमेव युक्तमित्येकः पक्षः ॥ पक्षान्तरं दर्शयति— अथो खल्वाहुर्नैव संशंसेत् ॥ ५ ॥
हिन्दी— ( अब अन्य पक्ष को दिखला रहे हैं - ) अथो खलु आहुः अब ( इस विषय में कुछ याज्ञिक ) कहते हैं कि नैव संशंसेत् साथ में शंसन नहीं करना चाहिए ॥ सा ० भा०- - अहरन्तरवत् संभूय शंसनं न कर्तव्यमित्यपुत्रे कथयन्ति ॥ तत्रोपपत्तिमाह— स्वर्गों वै लोकः षष्ठमहरसमायी वै स्वर्गों लोकः कश्चिद्वै स्वर्गे लोके समेतीति; स यत् संशंसेत् समानं तत्कुर्यादथ यन्न संशंसती ३ ऐ.ब्रा.उ.- २३
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
१२१८: ऐतरेयब्राह्मणम् [ २ ९.१० षष्ठपञ्चिकायां तत्स्वर्गस्य लोकस्य रूपं; तस्मान्न संशंसेद्यदेव न संशंसती ३ ॥ ६ ॥
हिन्दी— ( द्वितीय पक्ष के विषय में उपपत्ति को दिखला रहे हैं - ) स्वर्गों वै लोक: षष्ठम् अहः षष्ठ दिन स्वर्गलोक ही है । असमायी वै स्वर्गो लोकः स्वर्गलोकं समवाय ( समूह ) में नहीं जाने योग्य है । कश्चिद् हि स्वर्गे लौके समेति कोई ही ( पुण्यभागी ) स्वर्ग लोक में जाता है । यत् सः संशंसेत् जो यह ( शंसनकर्त्ता षष्ठ दिन के शिल्पशस्त्र के साथ में ) शंसन करता है, तत् समानं कुर्यात् तो वह ( अन्य दिन और षष्ठ दिन को ) समान करता है । तत् इसलिए यद् न संशंसति जो साथ में शंसन नहीं करता, तत् स्वर्गस्य लोकस्य रूपम् वह स्वर्गलोक का उपलक्षक है । तस्माद् न संशंसेत् इसी कारण साथ में शंसन नहीं करना चाहिए । यदेव न संशंति जो साथ में शंसन नहीं करता है ( वह पूजनीय होता है ) ॥ सा ० भा ० — यदिदं षष्ठमहः तदेतत् स्वर्गलोक एव; प्रयोगबाहुल्येन दुःखसाधन-त्वात् । तदेवासमायीत्यादिना स्पष्टीक्रियते । बहुभिः संभूतैः ' एतु ' गन्तुं योग्य: ' समायी ', ‘ इण्गतौ ’ – इत्यस्माद्धातोरयं शब्दो निष्पन्नः, उक्तविपरीतो बहुभिर्गन्तुमशक्यः ‘ असमायी ', ' तादृशो हि स्वर्गो लोकः । ‘ कश्चिदेव ' पुण्यकृत्स्वर्गं लोकं ' समेति ' समीचीनं भोगं प्राप्नोति, न तु सर्वैः; स्वर्गहेतोः पुण्यस्य दुर्लभत्वात् । एवं सति मैत्रावरुणो यदि षष्ठेऽहनि शिल्पेनान्यानि सूक्तानि संभूय शंसेत् तदानीमीदृशं स्वर्गरूपमुत्तमं षष्ठमहरितरैस्होभिः समानं कुर्यात्; तेषु शंसनीयानामस्मिन्नपि शंसनात् । अथ तद्वैपरीत्येन यदि षष्ठेहनि न संशंसति, पूजार्था प्लुतिः, ‘ तत् ’ एतदसंशंसनं स्वर्गलोकरूपत्वात् पूज्यम् । तस्मात् संभूय न शंसेत् ।
न संशंसतीति यदेवास्ति, तदेवातिपूज्यत्वम् । पूजार्थेयं प्लुतिः ॥
इत्थं द्वितीयपक्षमुपपाद्य पुनरपि प्रथमपक्षे दोषान्तरमाहं— आत्मा वै स्तोत्रियः, प्राणा वालखिल्याः, स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणान्वीयाद् य एनं तत्र ब्रूयादेताभ्यां देवताभ्यां यजमानस्य प्राणान् व्यगात् प्राण एनं हास्यतीति, शश्वत्तथा स्यात्, तस्मान्न संशंसेत् ॥ ७ ॥
हिन्दी— ( द्वितीय पक्ष का उपपादन करके प्रथम पक्ष के विषय में अन्य दोष को कह रहे हैं— ) आत्मा वै स्तोत्रियः स्तोत्रिय ( की अधारभूत तृच ) आत्मा ( शरीर ) रूप ही है प्राणाः वै वालखिल्याः और वालखिल्य ( ऋचाएँ ) प्राणरूप हैं । यत् सः संशंसेत् जो वह ( मैत्रावरुण अहीन के साथ दूरोहण का ) शंसन करता है तो वह एताभ्यां देवताभ्याम् ( १ ) ( i ) असमायी = समागन्तुमयोग्यः । समेत्य संहृत्य संभूय बहुभिर्गन्तुमयोग्यः । इति गोविन्दस्वामी | ( ii ) ' एरच् ' ( पा ० सू ० ३.३.५६ ) । ' समाङीणोभवेदेतन्निश्शेषजन-वर्जितः । इति षड्गुरुशिष्यः ।
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः दशमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १२१ ९ इन ( इन्द्र और वरुण ) दोनों देवताओं के लिए यजमानस्य प्राणान् वीयात् यजमान के ( वालखिल्य स्थानीय ) प्राणों को विगत कर देता है ( हर लेता है ) । तत्र वहाँ शंसन करते समय यः एनं ब्रूयात् जो कोई भी ( विरोधी ) इस ( मैत्रावरुण ) से कहे कि ' एताभ्यां देवताभ्याम् इन दोनों देवताओं ( इन्द्र और वरुण ) के लिए यजमानस्य प्राणान् व्यगात् यजमान के प्राणों को ( मैत्रावरुण ने ) विगत कर दिया है इसलिए प्राणः एनं हास्यति प्राण इस ( यजमान ) को त्याग देगा ' । शश्वत् तथा स्यात् तो ( वह कथन ) वैसा ही हो जाता है । तस्मात् न शंसेत् इसलिए ( षष्ठ दिन में शिल्पशस्त्र के साथ दूरोहण करके ) शंसन नहीं करना चाहिए ॥ सा ० भा ० – अत्र संशंसनवादी प्रष्टव्यः, किं वालखिल्याभ्यः पूर्वमैकाहिकस्य शंसनं किंवोपरिष्टादिति? तत्र प्रथमपक्षे दूषणमुच्यते, - योऽयमत्र शिल्पशंसने ' स्तोत्रियः ' सामसाध्यस्य स्तोत्रस्याऽऽधारभूततृचोऽस्ति, सोऽयम् ' आत्मा वै ' जीवस्थानीय एव ' वाल-खिल्याः ' ऋचः प्राणस्थानीयाः । तथा सति ' सः ' मैत्रावरुणो यदि ' संशसेत् ' तदानीम् ‘ एता-भ्याम् ’ इन्द्रावरुणदेवताभ्यां ' यजमानस्य ' स्तोत्रियस्थानीयस्य ' प्राणान् ' वालखिल्यस्थानीयान् ‘ वीयाद् ’ विगतान्कुर्यात् । इन्द्रावरुणौ क्रुद्धौ यजमानस्य प्राणान् विनाशयेताम् ' । एवं सति ‘ यः ’ कश्चिन्मैत्रावरुणस्य विरोधी समागत्य ' एनं ' मैत्रावरुणं ' तत्र ' तस्मिन् संशंसने ' ब्रूयात् ' शपेत् । केन प्रकारेणेति, तदुच्यते, – ' एताभ्याम् ' इन्द्रावरुणदेवताभ्यां यजमानस्य प्राणानसौ मैत्रावरुणो ‘ व्यगात् ’ विगतान् कृतवान् तस्मात्प्राण ' एनं ' मैत्रावरुणं यजमानं वा ' हास्यति ' परित्यजतीति । तदानीं तस्य शापेन ' शश्वत् ' अवश्यं ' तथा स्यात् ' प्राणवियोगी भवेत् । तस्मान्मैत्रावरुणो न संशंसेत् ॥ एवं वालखिल्याभ्यः पूर्वं शंसने दोषमभिधायोर्ध्वमपि तच्छंसने दोषमाह--स यदीक्षेताशंसिषं वालखिल्या हन्त पुरस्ताद् दूरोहणस्य संशंसा-नीति, नो एव तस्याशामियात् ॥८ ॥
हिन्दी – ( षष्ठ दिन में वालखिल्य के पहले दूरोहरण का शंसन करने में दोष को बतला कर बाद में भी शंसन करने में दोष को कह रहे हैं - ) सः इच्छेत् वह ( मैत्रावरुण यदि सोचे कि वालखिल्या आशंसिषम् ( अत्यन्त दुःसाध्य ) वालखिल्यों का शंसन कर लिया गया । ( इसके बाद ) दुरोहणस्य पुरस्तात् दुरोहण के पहले संशंसानि ( एकाहिक ऋचाओं का ) साथ - साथ शंसन करूँ तो उस ( शंसन ) का ( पूर्व कथन के समान प्राण के वियोग का हेतु होने से ) तस्य नो आशामियात् उस ( शंसन ) की आशा न करें ॥ ( १ ) ( i ) इन्द्रावरुणदेवाभ्यां प्राणान् बहिर्निर्गमयेत् । वीणो लिङ् अन्तर्णीतणिच्कः । इति षड्गुरुशिष्यः । ( ii ) ‘ वियात् ' इति मुद्रितषड्गुरुशिष्यसम्मतः पाठः । ( iii ) ' वीयात् ' इति सवर्णदीर्घत्वेन भवितव्यम् । इह तदभावश्चछान्दसः । इति गोविन्दस्वामी ।
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
१२२०: ऐतरेयब्राह्मणम् [ २ ९.१० षष्ठपञ्चिकायां सा ० भा ० — ‘ सः ' मैत्रावरुणो यदि मनस्येवम् ' ईक्षेत ' विचारयेत् । कथमिति? तदुच्यते, — ‘ वालखिल्याः ’ अत्यन्तं दुःसाध्याः, अहम् ‘ अशंसिषं ’ शंसितवानस्मि, ‘ हन्त ’ मम हर्षः संपन्नः, इतःपरं दूरोहणस्य पुरस्तादैकाहिकं संभूय शंसानीति । तदानीं तस्य शंसनस्य पूर्ववत्प्राणवियोगहेतुत्वात् ' तस्य ' पक्षस्याऽऽशामपि ' नो एवेयात् ' सर्वथा न प्राप्नुयादेव I । मानसो विचारोऽपि न कर्तव्यः, दूरे तत्संशंसनमित्यर्थः ॥ इदानीं स्थानविशेषेण तत्संशंसनमङ्गीकरोति— तं यदि दर्प एव विन्देदुपरिष्टाद् दूरोहणस्यापि बहूनि शतानि शंसेद् यस्यो तत्कामाय तथा कुर्यादत्रैव तदुपाप्तम् ॥ ९ ॥
हिन्दी – ( अब स्थान - विशेष से उसके शंसन को स्वीकार करते हैं— ) तम् उस ( मैत्रावरुण ) को परिदर्पः एव विन्देत् यदि अहङ्कार हो जाय ( कि मैंने दुःसाध्य शिल्पशस्त्र का शंसन कर ही लिया ) तब दुरोहणस्य उपरिष्टात् अपि दुरोहण के पश्चात् भी बहूनि शतानि शंसेत् अनेक सैकड़ों शस्त्रों का शंसन करे । वह शंसन यस्य कामाय जिसकी कामना के लिए कुर्यात् करे अत्रैव तथा तद् उपाप्तम् इसी स्थान पर ही वह ( फल को उसी प्रकार ) प्राप्त हो जाता है । सा ० भा ० — तं मैत्रावरुणं ' यदि दर्प एव विन्देत् ' गर्वोऽवश्यं लभेत । अत्यन्तदुःशंसं शिल्पमहमशंसिषं, किं नाम मया शंसितुमशक्यमित्येतादृशो दर्पः । तदानीं तस्य मैत्रा-वरुणस्यौत्सुक्यानुसारेण दूरोहणस्योपरिष्टाद् बहून्यपि शस्त्राणां शतानि शंसेत् । अस्त्येव तंदानीं शंसनस्यानुज्ञा | ‘ यस्यो ' यस्यैव फलस्य ' कामाय ' प्राप्तये ' तद् ' बहुविधशंसनम् ‘ अत्रैव ’ स्थाने तथा कुर्यात् ' तत् ' फलम् ' उपाप्तं ' प्राप्तं भवति । एवं तावदैकाहिकानां सूक्तानामशंसनं शंसनं वेति पक्षद्वयमप्यभिहितं भवति ॥ तत्र कस्य शंसनमङ्गीकृतं, कस्य वा निषिद्धम्? इत्यपेक्षायामुभयं विविच्य दर्शयति— ऐन्द्रयो वालखिल्यास्तासां द्वादशाक्षराणि पदानि; तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्रावरुणं सूक्तमैन्द्रावरुणी परिधानीया; तस्मान्न संशंसेत् ॥१० ॥
हिन्दी — ऐन्द्रो वै वालखिल्या वालखिल्य ( ऋचाएँ ) इन्द्र देवता वाली हैं । तासां द्वादशाक्षराणि पदानि उन ऋचाओं का बारह अक्षरों वाला पाद होता है । तत्र ऐन्द्रो जागते उस इन्द्र देवता वाले जगती छन्दस्क ( चर्षणीधृत आदि ऐकाहिक सूक्त ) में ( जो कामना अपेक्षित है ) सः कामः उपाप्तः वह कामना पूर्ण होती है । अथ ऐन्द्रावरुणं सूक्तम् इस प्रकार यह इन्द्र और वरुण युगल देवता वाला सूक्त ( ' आ वां राजानौ ' इत्यादि हैं तथा ) परिधानीया ( उसकी ) परिधानीया ऐन्द्रावारुणी इन्द्र और वरुण युगल देवता
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२२१ वाली ( ऋचा ‘ इयमिन्द्रं वरुणं ' ) है । तस्मात् इसी कारण न संशंसेत् साथ - साथ शंसन नहीं करना चाहिए ॥ सा ० भा०- -‘चर्षणीधृतम्’— इत्यादिकं ' यदेतदैन्द्रं सूक्तमैकाहिकं, तदेतन्निराकृत्य यत्सूक्तान्तरम् ‘ आ वां राजनौर इति, ऐन्द्रावरुणमैकाहिकं, तदङ्गीक्रियते । या ' वालखिल्याः ’ ऋचस्ताः ‘ ऐन्द्र्य: ' इन्द्रदेवताकाः तासां मध्ये यानि द्वादशाक्षराणि ' पदानि ' पादा विद्यन्ते, बृहतीसतोबृहतीद्वयात्मकेषु प्रगाथेषु बृहत्यास्तृतीयपादौ द्वौ द्वादशाक्षरौ, सतोबृहत्या आद्य-स्तृतीयश्चौभौ पादौ द्वादशाक्षरौ; तेषां पादानामक्षरसंख्यया जागतत्वमस्ति । एवं सत्यै-काहिके जागते ‘ चर्षणीधृतम् ' इत्यस्मिन्नैन्द्रे सूक्ते ' यः ' कामोऽपेक्षितः स कामः ‘ तत्र ’ तेष्विन्द्रदेवताकवालखिल्यागतेषु द्वादशाक्षरपादेषु ' उपाप्तः ' लब्धो भवति । तस्माच्चर्षणी-धृतमित्येतदैकाहिकमैन्द्रं सूक्तमत्र परित्याज्यम् । ' आ वां राजानो ' इत्येतदैन्द्रावरुणं सूक्तम्, तत्र ‘ इयमिन्द्रं वरुणमिति ' परिधानीयाऽप्यैन्द्रावरुणी । तथा सत्येतस्य सूक्तस्यानुकूलतया तदेव शंसेत् । तस्मादन्यन्न संशंसेत् । अन्यशब्दोऽत्राध्याहर्तव्यः । अतएव सूत्रकार ऐन्द्रावरुणं सूक्तम् अङ्गीचकार ' आ वां राजानौ ' इति नित्यमैकाहिकमिति । इत्थं शिल्पाख्यं शस्त्रं व्यवस्थाप्य तस्योपरि सूक्तान्तरमप्यङ्गीकृतम् ॥ इदानीं शस्त्रमेवोपजीव्य स्तोत्रे कंचिद्विचारमुद्भावयति— ( शस्त्रस्तोत्रयोः विचारः ) तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं; विहृता वालखिल्याः शस्यन्ते, विहृतास्तोत्राँ ३, अविहृताँ ३? ॥ ११ ॥
हिन्दी - तदाहुः - इस विषय में ( कुछ ब्रह्मवादी ) पूछते हैं- हैं- यथा वाव स्तोत्रम् जिस प्रकार का स्तोत्र हो एवं शस्त्रम् उसी प्रकार का शस्त्र होना चाहिए । विहृताः वालखिल्याः शस्यन्ते वालखिल्य ऋचाएँ विहृत ( क्रमविपर्यय ) के साथ शंसित की जाती है तो विहृता स्तोत्रा अविहृताः स्तोत्रों के विहृत ( क्रमविपर्यय ) करके अथवा अविहृत ( क्रमानुसार ) ही शंसित करना चाहिए? ॥ सा ० भा ० — स्तोत्रशस्त्रयोः सादृश्यस्यापेक्षितत्वाच्छस्त्रगतासु वालखिल्यनामिका-स्वृक्षु विहरणं दृष्ट्वा सामगानां स्तोत्रमेवं संशयो जायते, किमिदं स्तोत्रं विहृतमाहोस्विद्
अविहृतम्? इति । प्लुर्तिद्वयं विचारार्थम् ॥
तस्मिन् विचारे निर्णयमाह— विहृतमिति ब्रूयादष्टाक्षरेण द्वादशाक्षरमिति ॥ १२ ॥
( १ ) ऋ ० ३.५१ श * ( २ ) ऋ ० ७.८४ । ( ३ ) ऋ ० ७.८४.५ । ( ४ ) आश्व ० श्रौ ० ८.२.१६ ।
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
१२२२: ऐतरेयब्राह्मणम् [ २ ९.१० षष्ठपञ्चिकायां हिन्दी— ( उत्तर- ) विहृतम् विहृत करके शंसन करना चाहिए इति ब्रूयात् यह उत्तर कहना चाहिए । अष्टाक्षरेण द्वादशाक्षरम् ( ' अग्ने त्वं नो अन्तम ' आदि द्विपाद वाली ऋचाओं के प्रथम ) आठ अक्षरों से ( द्वितीय पाद के ) बारह अक्षरों के पाद को ( विहृत करके शंसन करना चाहिए ) ॥ सा ० भा ० – ' अग्ने त्वं नो अन्तमः ' इत्यादिषु द्विपदासु सामगाः स्तुवते । तत्र चाद्याः पादा अष्टाक्षराः द्वितीयाः पादा द्वादशाक्षरा । एवं तत्र च्छन्दो विहृतमित्युत्तरं ब्रूयात् । अथ शस्त्रमुपजीव्य याज्यायां चोद्यमुद्भावयति— ( शस्त्रयाज्ययोः विषये विचार: ) तदाहुर्यथा वाव शस्त्रमेवं याज्या; तिस्रो देवताः शस्यन्तेऽग्निरिन्द्रो वरुण इत्यथैन्द्रावरुण्या यजति, कथमग्निरनन्तरित इति ॥ १३ ॥
हिन्दी — तदाहुः इस विषय में ( पुन: ब्रह्मवादी ) पूछते हैं- - यथा वाव शस्त्रम् जिस प्रकार का शस्त्र होता है एवं याज्या उसी प्रकार की याज्या होनी चाहिए । ( शस्त्र में ) अग्निः इन्द्रः वरुणः अग्नि, इन्द्र और वरुण - ये तिस्रः देवता शस्यन्ते तीन देवता शंसित होते हैं । अग्निः अन्तरितः अग्नि को छोड़कर ऐन्द्रावरुण्या इन्द्र और वरुण देवताक याज्या से कथं यजति किसलिए यजन करते हैं? ॥ सा ० भा ० — ' तत् ' तत्र शस्त्रयाज्यायां चोद्यमाहुः । शस्त्रस्य तदीययाज्यायाश्च सादृश्यमपेक्षितम् । शस्त्रे च तिस्रो देवताः शस्यन्ते - अग्निरिन्द्रो वरुणश्चेति । तत्र स्तोत्रियानुरूपयोरग्निर्देवता, वालखिल्यास्विन्द्रो देवता । ' आ वां राजानौ ' इति सूक्ते ' इन्द्रो वरुणश्च । एवं सति याज्यायामपि देवतात्रयमपेक्षितम्, तत्तु नास्ति । ' इन्द्रावरुणा मधुमत्तम-स्येति ' याज्यायामिन्द्रावरुणयोरुभयोरपिं प्रतिपादितत्वेनाग्नेः परित्यक्तत्वात् । कथमत्राग्निः ‘ अनन्तरितः ’ परित्यक्तो भवेदिति चोद्यम् ॥ तस्योत्तरमाह— यो वा अग्निः स वरुणस्तदप्येतदृषिणोक्तं, त्वमग्ने वरुणो जायसे यदिति; तद्यदेवैन्द्रावरुण्या यजति तेनाग्निरनन्तरितोऽनन्तरितः ॥ २६ ॥
( १ ) ‘ अग्ने त्वं नः ’ – इति द्वे, ‘ तं त्वा शोचिष्ठ ' – इत्येका ( ऋ ० ५.२४.१-२,४ ), एवं मिलितो द्वैपदस्तृचः स्तोत्रियः ( उ ० आ ० ४.१.२२ ) । अत्र द्वे सामनी अधीयेते ( ऊ ० गा ० ३.२.१८; १२.२.१५ ) । तयोराद्यं ' गर्द ' नाम दशरात्रे, अपरं ' सत्रासाहीयं ' त्वेकाहे इति दिशेषः । इह खलु गूर्द्दस्यैव ग्रहणम् ' गुर्दो भवति ' –इत्यादि हि तद्-ब्राह्मणम् ता ० ब्रा ० १३.१२.४,५ ) । ( २ ) ऋ ० ७.८४ |
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२२३ हिन्दी - ( उत्तर- ) यः वै अग्निः सः वरुणः जो अग्नि है, वही वरुण है । तदपि एतद् ऋषिणा उस इस ( एकता ) को ऋषि के द्वारा ' त्वमग्ने वरुणो जायते यत् ' अर्थात् हे अग्नि! तुम वरुण होकर उत्पन्न होते हो इति उक्तम् इस प्रकार कहा गया है । तद् यद् तो जो ऐन्द्रावरुण्या यजति इन्द्र और वरुण देवता वाली ( याज्या ) से यजन करता है, तेन अग्निः अनन्तरितः उससे ( अग्नि के वरुण में अन्तर्हित हो जाने से ) अग्नि छूटता नहीं है सा ० भा ० — अग्निवरुणयोरत्यन्तभेदो नास्ति परस्परमतिप्रियत्वेनैक़त्वोपचारात् ‘ तत् ’ एकत्वम् ‘ ऋषिणा ' मंन्त्रेणाप्युक्तम् । ' त्वमग्ने ' ' इत्यादिको मन्त्रः । हेऽग्ने त्वं वरुणो भूत्वा ' जायसे ' प्रादुर्भवसीति मन्त्रार्थः । तथा सत्यैन्द्रावरुण्या यजतीति यदेवास्ति, ' तेन ' अग्ने॑वरुणे एवान्तर्भावात् अयमग्निः ' अनन्तरितः ' अपरित्यक्तः । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-` भाष्ये षष्ठपञ्चिकायां चतुर्थाध्याये ( एकोनत्रिंशाध्याये ) दशमः खण्ड ॥ १०॥ ( २६ ) ( ११३ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय के दशम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यदेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाश ' नामभाष्ये ऐतरेयब्राह्मणभाष्ये षष्ठपञ्चिकायाः ( एकोनत्रिंशोऽध्यायः ) चतुर्थाध्यायः ॥४ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के उनतीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ऋ ० ५.३.१ ( २ ) ऋग्वेदसंहितायाम् एतन्मन्त्रस्य व्याख्याने सायणाचार्येणैषा श्रुतिः तत्रोद्धृता ' ते देवा बिभ्यतोऽग्निं प्राविशन् ' ( तै ० सं ० ६.२.२.६ ) । वस्तुतोऽग्नेः सर्वदेवताकत्वमनेकत्र विश्रुतम् निरु ० ७ । “ अथापि ब्राह्मणं भवति — ' अग्निः सर्वा देवता ' इति ( ऐ ० ब्रा ० २.१.३ ) । 6. एतस्योत्तरा भूयसे निर्वचनाय, - ' इन्दं मित्रं वरुणमग्निमाहुः '... ( ऋ ० १.१६.४६ ) । इममेवाग्निं महान्त ( च ) आत्मानं बहुधा मेधाविनो वदन्ति ' – इत्यादि । पुनः तत्परि-शिष्टेऽपि — ‘ अग्निः सर्वा देवता ' - इति । तस्योत्तर भूयसे निर्वचनाय, – जातवेदसे सुन-वास... ' ( ऋ ० १.९९.१ ) इति ( निरु ० १४.३३ ) ।
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
अथ षष्ठपञ्चिकायां पञ्चमोऽध्यायः [ अथ. त्रिंशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— स्तोत्रियस्यानुरूपत्वं सम्पताश्च प्रगाथकाः ।
त्रिष्टुभोऽथाहीनयुक्तिमोकौ शिल्पं च वर्णितम् ॥१ ॥
अथ पृष्ठ्यषडहस्य षष्ठेऽहनि शिल्पनामकानि शस्त्राणि विधत्ते— ( षष्ठेऽहनि शिल्पाख्यशस्त्रविधानम् ) शिल्पानि शंसन्ति ॥१ ॥.
हिन्दी – ( अब पृष्ठ षडह के षष्ठम दिन के तृतीयसवन में शिल्प नामक शस्त्र का : विधान कर रहे हैं - ) शिल्पानि शंसन्ति ( पृष्ठषडह के षष्ठ दिन ) शिल्पों ( आश्चयों-त्पादक कर्मों ) का शंसन करते हैं ॥ शिल्पत्वं लौकिकनिदर्शनेन— देवशिल्पान्येतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते, -हस्ती कंसो वासो हिरण्यमश्वतरीरथः शिल्पम् ॥ २ ॥
हिन्दी — देवशिल्पानि ( नाभानेदिष्ठ इत्यादि शिल्प देवताओं की प्रीति का हेतु होने के कारण ) देवशिल्प हैं । एतेषामेव शिल्पानाम् इन्हीं देव ( सम्बन्धी ) शिल्पों की अनुकृति समान आकृति को इह इस ( मनुष्यलोक ) में शिल्पम् अधिगम्यते शिल्प प्रतीत होते ( जानते ) हैं । ( इस लोक में निर्मित ) हस्ती ( मिट्टी इत्यादि से बनी ) हाथी कंसः दर्पण, वासः ( अनेक प्रकार के ) वस्त्र, हिरण्यम् सुवर्ण ( से निर्मित आभूषण ), अश्वतरी ( मिट्टी इत्यादि से बनायी गयी ) खच्चरी, रथः रथ शिल्पम् ( लौकिक ) शिल्प है । सा ० भा ० — शिल्पशब्दश्चाऽऽश्चर्यकरं कर्मं ब्रूते । तच्च शिल्पं द्विविधम् - देवशिल्पं मानुषशिल्पं चेति । नाभानेदिष्ठादीनि यानि शिल्पानि सन्ति, तानि देवानां प्रीतिहेतुत्वांद्दे-वशिल्पानीत्युच्यन्ते । ‘ एतेषाम् ’ एव ' देवशिल्पानामनुकृति ' सदृशरूपम् ' इह ' मनुष्यलोके शिल्पम् ‘ अधिगम्यते ’ प्रतीयते । हस्तीत्यादिना तदेवोदाह्रियते । लोके शिल्पिनः कर्मकारा मृद्दार्वादिभिर्हस्तिसदृशमाकारं निर्मिमते । तथाऽन्यैः शिल्पिभिः ' कंसः ’ दर्पणादि निर्मीयते । अपरैर्वासो विविधं निर्मीयते । अपरैः सुवर्णमयं कटकमुकुटादि निर्मीयते । अपरैश्चाश्वतरी-रथो निर्मीयते । गर्दभ्यामश्चादुत्पन्नाऽश्वतरजातिः, तद्युक्तो रथोऽश्वतरीरथः । तदेतत्सर्वम-
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२२५ स्माभिरधिगम्यमानं मानुषशिल्पमेतद् दृष्ट्वा नाभानेदिष्ठादि ‘ शिल्पम् आश्चर्यकरमिति निश्चेतव्यम् ॥ वेदनं प्रशंसति— शिल्पं हास्मिन्नधिगम्यते य एवं वेद ॥ ३ ॥
हिन्दी— ( इसके वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार ( शिल्प के विषय में ) जानता है, अस्मिन् उस ( ज्ञाता व्यक्ति ) के प्रति शिल्पं ह अधिगम्यते निश्चितरूप से शिल्पकला प्राप्त होती है ॥ सा ० भा ० – अस्मिन् वेदितरि ' शिल्पं ' कौशलं नानाविधं प्राप्यते ॥ सानुनासिकप्लुतेन शिल्पानां पूज्यत्वं दर्शयति— यदेव शिल्पानीँ ३ ॥४ ॥
हिन्दी — यदेव इसलिए ही शिल्पानि ये ( नाभानेदिष्ट इत्यादि ) शिल्प प्रशंसनीय हैं । सा ० भा ० — यस्मान्नाभानेदिष्ठादीनि शिल्पशब्दवाच्यानि, तस्मात् सुवर्णाभरणादिवत् पूज्यानीत्यर्थः ॥ प्रकारान्तरेण शिल्पानि प्रशंसति— आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते ॥ ५ ॥
हिन्दी — ( प्रकारान्तर से शिल्पों की प्रशंसा कर रहे हैं - ) आत्मसंस्कृतिर्वै शिल्पानि ( यह नाभानेदिष्ठ इत्यादि ) शिल्प जीवात्मा को संस्कृत करने का कारण है । एतैः इन शिल्पों से यजमानः यजमान आत्मानं छन्दोमयम् जीवात्मा को वेदयुक्त करके संस्कुरुते संस्कारित करता है । सा ० भा ० — वक्ष्यमाणानि नाभानेदिष्ठादिशिल्पानि ‘ आत्मसंस्कृतिः ' जीवात्मनः संस्कारकारणानि । तस्मादेतैर्यजमानो जीवात्मानं ' छन्दोमयं ' वेदमयो यथा भवति तथा संस्कुरुत ॥ होतुः शिल्पं विधत्ते— ( होतुः शिल्पशस्त्रविधानम् ) नाभानेदिष्ठं शंसति ॥ ६ ॥
हिन्दी – ( होता के शिल्प का विधान कर रहे हैं - ) नाभानेदिष्ठं शंसति ( होता ऋत्विक् ) नाभानेदिष्ठ ( ऋषि ) द्वारा दृष्ट ( ' इदमित्था ' सूक्त ) का शंसन करता है । सा ० भा ० — नाभानेदिष्ठाख्येन महर्षिणा दृष्टम् ' इदमित्था ' इत्यादिसूक्तं ' नाभाने-
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
[ ३०.१ षष्ठपञ्चिकायां १२२६: ऐतरेयब्राह्मणम् दिष्ठं ’ ” तद्धोता शंसेत् ॥ तत्प्रशंसति-रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति ॥७ ॥
हिन्दी— ( नाभानेदिष्ठ सूक्त की प्रशंसा कर रहे हैं— ) रेतो वै नाभानेदिष्ठः नाभानेदिष्ठ द्वारा दृष्ट ( सूक्त ) वीर्य - स्वरूप है । तद् रेतः सिञ्चति उस ( सूक्त ) के द्वारा ( होता यजमानोत्पादक ) वीर्य का सिञ्चन करता है । सा ० भा ० — एतैः सूक्तैर्यजमानस्याऽऽत्मसंस्कारो वेदमयजन्मरूपो योऽभिहितः, स एव क्रमेणोपवर्ण्यते । तत्र नाभानेदिष्ठाख्यः सूक्तविशेषो यजमानोत्पादकरेतस्थानीयः । ‘ तत् ’ तेन सूक्तेन होता रेतः सिञ्चति ॥ तस्मिन् सूक्ते देवताविशेषवाचिनः पदस्य विस्पष्टप्रतीत्यभावाद् यदनिरुक्तत्वमस्ति, तत्प्रशंसति— तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते ॥८ ॥
हिन्दी – ( उस सूक्त में देवता के अनिरुक्तत्व की प्रशंसा कर रहे हैं — ) तम् अनिरुक्तं शंसति ( होता ) उस अनिरुक्त ( देवता वाले सूक्त ) का शंसन करता है अनिरुक्तं वै रेतः गुहायोन्यां सिच्यते क्योंकि गुप्त रखने के लिए अनिरुक्त ( विना किसी से कहे ) ही वीर्य को गोपनीय योनि में सिञ्चित किया जाता है ॥ सा ० भा ० — ‘ तं ’ नाभानेदिष्ठं सूक्तविशेषम् ' अनिरुक्तम् ' अस्पष्टदेवताकं शंसेत् । लोके तत: ‘ अनिरुक्तम् ’ अस्पष्टमेव ' गुहा ' गोप्येऽन्तः स्थाने योन्यां सिच्यते ॥ नाभानेदिष्ठाख्येन सिक्तरेतसा यजमानस्य सम्बन्धं मन्त्रलिङ्गदर्शनेन द्रढयति— स रेतो मिश्रो भवति; क्ष्मया रेतः संजग्मानो निषिञ्चदिति रेतः-समृद्ध्या एव ॥ ९ ॥
हिन्दी- - सः वह ( यजमान ) रेतः मिश्रो भवति ( नाभानेदिष्ठ रूप ) वीर्य से मिश्रित होता है । ( इस सूक्त की सातवीं ऋचा का द्वितीय पाद ) ' क्ष्मया रेतः सञ्जग्मानो निषिञ्चत् ’ इति रेतः समृद्ध्यै एव यह वीर्य की समृद्धि के लिए है । द्वितीय पाद का अर्थ- ( अपनी दुहिता ) भूमि के साथ समागम करते हुए ( प्रजापति ने ) वीर्य का सेचन किया ॥ सा ० भा ० — ‘ सः ’ यजमानो नाभानेदिष्ठेन रेतसा मिश्रितो भवति । तस्मिन्नर्थे ‘ क्ष्मया ’ इत्यादिकस्तत्सूक्तगतः कश्चिद् ऋक्पादः प्रमाणम् । प्रजापतिर्यदा स्वां दुहितरं दिवमुषसं वा ( १ ) ऋ ० १०.६१.१-२७ ( २ ) ' उद्धृत्य चोत्तमं सूक्तं त्रीणि ' - इत्यादिनि आश्व ० श्री ० ८.१.१ ९ -१४