ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 371–380

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 371–380

पृष्ठ 371

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 371 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२२७ ‘ अधिष्कन् ' अध्यस्कन्दत्, तदानीमेव ' क्ष्मया ' भूम्या स्वदुहित्रा ' संजग्मानः ' सङ्गं प्राप्तोऽ-स्मिँल्लोके रोहितं भूमामृश्यो भूतो ' रेतो. निषिञ्चत् ', रेतो निषिक्तवानिति । अतः सूक्ते रेत: सेकलिङ्गमस्ति । तस्मादिदं सूक्तं रेतः समृद्ध्यर्थमेव सम्पद्यते ॥ तस्य नाभानेदिष्ठस्य सूक्तान्तरसाहित्यं विधत्ते— तं सनाराशंसं शंसति; प्रजा वै नरो वाक्शंसः, प्रजास्वेव तद्वाचं दधाति; तस्मादिमाः प्रजा वदत्यो जायन्ते ॥ १० ॥

हिन्दी – ( उस नाभानेदिष्ठ सूक्त का अन्य सूक्त से साहित्य का ' विधान कर रहे हैं— ) तम् उस ( नाभानेदिष्ठ नामक सूक्त ) को सनाराशंसं शंसति नाराशंस ( नामक सूक्त ) के साथ शंसन करता है । प्रजा वै नरः प्रजा ही नर है और वाक् शंसः वाक् ही शंस है । ( इस नाराशंस सूक्त के शंसन से ) प्रजासु प्रजाओं में वाचं दधाति वाणी को धारण कराता है । तस्मात् इस्त्री कारण से प्रजाः वदत्यः जायन्ते प्रजाएँ बोलती हुई जन्म लेती हैं | सा ० भा०- - ' तं ' नाभानेदिष्ठाख्यं सूक्तविशेषं नाराशंसाख्यसूक्तसहितं होता शंसेत् । ‘ नराः ' अङ्गिरसो महर्षयः, मनुष्यजातावुत्पन्नत्वात्; ते शस्यन्ते यस्मिन् ' ये यज्ञेन ' -इति सूक्तविशेषे ' सोऽयं ' नाराशंसः ' तेन सहितम् ' इदमित्था रौद्रम् ' इत्येतन्नाभानेदिष्ठं सूक्तं शंसेत् ' । तत्र मनुष्यरूपाः प्रजा एव नराशब्देनाभिधीयन्ते शंसशब्देन च वागुच्यते । तथा सति नराशंसशब्देन प्रजास्वेव वाचमवस्थापयति । तस्मात्कारणादिमाः प्रजाः ' वदत्यः ' वाग्व्यवहारं कुर्वत्य उत्पद्यन्ते ॥ अत्रेदं चिन्तनीयम् — किमिदं नाराशंससूक्तं नाभानेदिष्ठसूक्तस्य पुरस्तात्पठनीयम्? उतोपरिष्टात्, अथवा मध्ये? इति ॥ तत्र प्रथमपक्षं दर्शयति— ( नाराशंससूक्तशंसनस्थानम् ) तं हैके पुरस्ताच्छंसन्ति, पुरस्तादायतना वागिति वदन्तः ॥११ ॥

हिन्दी – ( नाराशंससूक्त के शंसन के स्थान को दिखला रहे हैं । इसमें प्रथम पक्ष ) तम् उस ( नाराशंस ) को पुरस्तात् शंसन्ति ( नाभानेदिष्ठ सूक्त के ) पहले शंसन करते हैं; क्योंकि वाक् पुरस्तादायतना वाणी ( मनुष्य शरीर के ) पूर्वभाग के स्थान वाली है ( अर्थात् वाणी का स्थान मनुष्य के पूर्वभाग में होता है ) इति वदन्तः एके इस प्रकार कहते हुए कुछ याज्ञिक ( नाराशंस को ) नाभानेदिष्ठ से पहले शंसन करने को स्वीकार करते हैं । ( १ ) ऋ ० १०.६२.१-११ ( २ ) आश्व ० श्री ० ८.१.२५

पृष्ठ 372

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 372 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२८: ऐतरेयब्राह्मणम् [ ३०.१ षष्ठपञ्चिकायां सा ० भा ० — मनुष्यशरीरस्य ' पुरस्तात् ' पूर्वभागे ' आयतनं ' स्थानं यस्या वाचः, सेयं वाक् ‘ पुरस्तादायतना ’ इति एवमुपपत्तिं वदन्तः केचिद्याज्ञिका नाभानेदिष्ठस्य पुरस्तान्नाराशंसं शंसन्ति ॥ द्वितीयं पक्षं दर्शयति— उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः ॥१२ ॥

हिन्दी— ( द्वितीय पक्ष— ) उपरिष्टात् ( नाराशंससूक्त नाभानेदिष्ठ सूक्त के ) बाद में ( शंसित होना चाहिए ) वाग् उपरिष्टादायतना क्योंकि वाक् ( मनुष्य शरीर के ) उपरि भाग में स्थित होती है इति वदन्तः एके ऐसा कहते कुछ याज्ञिक ( बाद में शंसन करने को मानते हैं ) । सा ० भा ० – - शरीरस्य पूर्वभागेऽपि ' उपरिष्टात् ' ' मूर्धनि आयतनं ' वक्त्रादिरूपं स्थानं यस्या वाचः, सेयम् ‘ उपरिष्टादायतना वाक् ' इति युक्तिं वदन्तः केचिदन्ये याज्ञिकाः नाभा-नेदिष्ठस्योपरिष्टान्नाराशंसं शंसन्ति ॥ तृतीयं पक्षं दर्शयति— मध्य एव शंसेन्मध्यायतना वा इयं वाक् ॥ १३ ॥

हिन्दी — ( तृतीय पक्ष— ) मध्ये एव शंसेत् ( नाराशंस सूक्त को नाभानेदिष्ठ सूक्त के ) मध्य में शंसन करना चाहिए; क्योंकि मध्यायतना वै इयं वाक् वाणी ( मनुष्य के शरीर के ) मध्यभाग ( मुख ) में स्थित होती है ॥ सा ० भा०– शरीरस्याधोभागः पादरूपोऽपि वाच आयतनं न भवति । ऊर्ध्वभागो ललाटादिरपि वाचो नाऽऽयंतनम्, किंत्वाधारादिर्वक्त्रान्तो मध्यभाग आयतनं यस्या वाचः, सेयं ‘ मध्यायतना ’ । तस्मान्नाभानेदिष्ठसूक्तस्य मध्य एव नाराशंससूक्तं शंसेत् । एवकारेण पूर्वोक्तौ पक्षौ व्यावर्त्येति ॥ मध्यभागेऽपि स्थानविशेषं दर्शयति-उपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव वा इदं वाक् ॥१४ ॥

हिन्दी— ( मध्यभाग में वाक् के स्थान - विशेष को दिखला रहे हैं— ) उपरिष्टाद् नेदीयसि इव इयं वाक् यह वाक् मनुष्य के शरीर में ऊपर से समीप में ( शिर से. समीपवर्ती मुख में ) ही स्थित रहती है अतः उपरिष्टाद् नेदीयसि इव बाद वाली ( अर्थात् ( नाभानेदिष्ठ नामक ) सत्ताइस ऋचाओं वाले सूक्त में बाद वाले दो ऋचाओं से ) समीप ( पूर्व ) में ही ( नाराशंसी का शंसन करना चाहिए ) ॥ सा ० भा०- – उपरिष्टान्नाभानेदिष्ठसूक्तस्यावसानभागो ' नेदीयान् ' अत्यन्तसमीपवर्ती यस्य सूक्तस्य मध्यभागस्य, स मध्यभागः ' उपरिष्टान्नेदीयान् । ' इव ' शब्द एवकारार्थः । तथाविध

पृष्ठ 373

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 373 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२२ ९ एव मध्यभागे नाराशंसं शंसेत् । ' इदमित्था ' - इत्येतन्नाभानेदिष्ठं सूक्तं सप्तविंशत्यृगात्मकम् तत्रावसाने द्वे ऋचाववशिष्य पञ्चविंश्या ऊर्ध्वमेव नाराशंसं सूक्तं शंसेत् । तथा च आश्वलायन, आह — ‘ इदमित्था रौद्रमिति प्रागुपोत्तमाया ये यज्ञेनेत्यावपते ' इति । वागपि ' उपरिष्टान्ने-दीयसि ' अत्यन्तसमीपवर्तिन्येव शरीरमध्यभागे ताल्वोष्ठादौ वर्तते । तस्मात् सूक्तस्योक्त-स्थानं युक्तम् ॥ होतुः शंसनमुपसंहरन् मैत्रावरुणशस्त्रं प्रस्तौति— तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय सम्प्रयच्छत्येतस्य त्वं प्राणान् कल्पयेति ॥ १५ ॥

हिन्दी – ( होता के शंसन का उपसंहार करते हुए मैत्रावरुण नामक होत्रक के शस्त्र का विधान कर रहे हैं— ) तम् उस ( यजमान ) को होता होता ( नामक ऋत्विक ) रेतोभूतं सिक्त्वा ( अपने ) वीर्यभूत ( पूर्वोक्त शंसन से ) सिञ्चित करके मैत्रावरुणाय मैत्रावरुण ( नामक होत्रक ) के लिए सम्प्रयच्छति ( इस उद्देश्य से ) देता है कि त्वम् तुम ( मैत्रावरुण ) अस्य प्राणान् इस यजमान के लिए प्राणों का कल्पय सम्पादन करो ॥ सा ० भा ० — उक्तशंसनेन होता ' तं ' यजमानं ' रेतोभूतः ' रेतःप्राप्तो यथा भवति तथा सिक्त्वा तस्मै मैत्रावरुणाय सम्प्रयच्छति । तदा केनाभिप्रायेणेति? सोऽभिधीयते - हे मैत्रा-वरुण! त्वम् ‘ एतस्य ' यजमानस्य रेतोरूपस्य प्राणान् सम्पादय ' इति ' अनेनाभिप्रायेण यजमानं तस्मै प्रयच्छति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्यये ( त्रिंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( २७ ) ( ११४ )

॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ द्वितीयः खण्डः सा ० भा ० — होतुः शिल्पशस्त्रमुक्त्वा मैत्रावरुणस्य शिल्पशस्त्रं विधत्ते— ( मैत्रावरुणस्य शिल्पशस्त्रविधानम् ) वालखिल्याः शंसति, प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति ॥ १ ॥

( १ ) आश्व ० श्री ० ८.१.२१, २२

पृष्ठ 374

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 374 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ३०.२ षष्ठपञ्चिकायां १२३०: ऐतरेयब्राह्मणम् हिन्दी— ( मैत्रावरुण होत्रक के शिल्पशस्त्र का विधान कर रहे हैं ) वालखिल्याः ( मैत्रावरुण ) वालखिल्य ( ऋषि ) द्वारा दृष्ट ( ऋचाओं ) का शंसन करता है; क्योंकि वाल-खिल्या वै प्राणाः वालखिल्य द्वारा दृष्ट ( ऋचाएँ ) प्राणरूप हैं । अस्य इस ( यजमान ) के लिए प्राणान् ( वालखिल्य रूप ) प्राणों को कल्पयति सम्पादित करता है । सा ० भा ० — वालखिल्याख्यैर्मुनिभिर्दृष्टा: ' अभि प्र वः सुराधसम् ' इत्यादिकेऽष्टके ' स्थिता ऋचो वालखिल्याभिधाः । ता एव वालखिल्याख्ये ग्रन्थे समाम्नाताः । ताः सर्वा मैत्रावरुणः शंसेत् । वालखिल्यानां शिल्पानां प्राणरूपत्वेन तच्छंसने सति ' अस्य ' रेतोरूपस्य यजमानस्य प्राणानेव सम्पादयति ॥ इतरशस्त्रवदत्रापि यथापाठशंसनप्रसक्तौ विशेषं विधत्ते— ता विहृताः शंसति, विहृता वा इमे प्राणाः, प्राणेनापानोऽपानेन व्यानः ॥ २ ॥

' हिन्दी - ( अन्य शस्त्र के समान पाठ के अनुसार शंसन की प्रसक्ति में विशेष का विधान कर रहे हैं— ) ता: उन ( वालखिल्य ऋचाओं ) को विहृताः विहृत करके ( क्रम बदल कर ) शंसति शंसन करता है; क्योंकि विहृता वै इमे प्राणाः ये प्राण परस्पर परिवर्तित होते हैं, प्राणेन अपानः प्राण ( वायु के निरोध ) से अपान ( वायु ) और अपानेन व्यानः अपान ( वायु के निरोध ) से व्यान होती है ॥ सा ० भा ० – ‘ ताः ' वालखिल्या ऋचो ' विहृताः परस्परव्यतिषक्ताः शंसेत् । प्राणा-श्चेमे शरीरे ‘ विहृता वै ’ परस्परव्यतिषक्ता एव वर्तन्ते I । ऊर्ध्वगामिना प्राणवायुना निरोधात् अपानवायुर्व्यतिषक्तः । तेन वाऽपानवायुना तद्वायुद्वयमध्यवर्ती व्यानो व्यतिषक्तः । ' अथ यः प्राणापानयोः सन्धिः स व्यान: ' इति श्रुत्यन्तरात् ॥ • व्यतिषङ्गप्रकारं विधत्ते ( व्यतिषङ्गप्रकारविधानम् ) स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये ॥ ३ ॥

हिन्दी— ( परिवर्तन के प्रकार को दिखला रहे हैं— ) सः वह ( मैत्रावरुण ) प्रथमे सूक्ते ( वालखिल्य के ) प्रथम ( युग्म ) सूक्त में पच्छः विहरति पाद - पाद के अवसान पर विहरण करता है । द्वितीये द्वितीय ( युग्मक ) में अर्धर्चशः आधी - आधी ऋचा के ( १ ) ऋ ० ६ अष्टक ३ अ ० । ( २ ) अष्टाष्टक विभक्तायां बाष्कलसंहितायां बालखिल्यानां षष्ठाष्ठकान्तर्गतत्वेऽपि सायण-व्याख्यातायां दाशतय्यां शाकलसंहितायां तेषामनन्तर्भावाद् ग्रन्थान्तरस्थत्वम् ॥ ( ३ ) ' विहृतः = सुश्लिष्ट: ' - इति षड्गुरुशिष्यः । ( ४ ) छा ० उप ० - १.३.३

पृष्ठ 375

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 375 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२३१ अवसान पर और तृतीये तृतीय ( युग्मक में ) ऋक्शः प्रत्येक ऋचा के अवसान पर ( विहरण करता है ) ॥ विमर्श - ( १ ) तात्पर्य यह है कि वालखिल्य के आठ सूक्तों में चार युग्म बनते हैं । उनमें से अन्तिम युग्मक को छोड़कर आदि वाले तीन युग्मकों में से प्रथम युग्मक के प्रथम सूक्त के पादों को द्वितीय सूक्त के पादों से मिलाता है । द्वितीय युग्मक में पूर्ववर्ती सूक्त की आधी ऋचा से, परवर्ती सूक्त की आधी ऋचाओं से और तृतीय युग्मक की पूर्ववर्ती ऋचाओं से परवर्ती सूक्त की ऋचाओं को मिलाता है ॥ सा ० भा ० — वालखिल्यानामष्टसु सूक्तेषु सप्तमाष्टमे सूक्ते परित्यज्य यान्यवशिष्टानि षट्सूक्तानि, तेषु त्रीणि युग्मानि । तत्र प्रथमयुग्मगते द्वे सूक्ते ' सः ' मैत्रावरुणः ' पच्छो विहरेत् ' । प्रथमसूक्तगतं पादं द्वितीयसूक्तगतेन पादेन योजयेत् । द्वितीययुग्मगते द्वे सूक्ते ‘ अर्धर्चशो विहरेत् ’ । तस्मिन् युग्मे एकसूक्तगतमर्धर्चं द्वितीयसूक्तगतेनार्धर्चेन योजयेत् । तृतीययुग्मगते द्वे सूक्ते ' ऋक्शो विहरेत् ' । तस्मिन् युग्मे एकसूक्तगतामृचं द्वितीयसूक्तगत-यर्चा योजयेत् । तदुक्तमाश्वलायनेन ' अथ वालखिल्या विहरेत्, तदुक्तं षोळशिना; सूक्तान.. प्रथमद्वितीये पच्छस्तृतीयचतुर्थे अर्धर्चश ऋक्शः पञ्चमषष्ठे " इति । यद्यपि पूर्वाध्याये ' पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीयमृक्शस्तृतीयम् ' इति विहारोऽ-भिहितः । तथाऽप्यत्रास्ति विशेष:: - - तत्र हि षण्णामपि सूक्तानां पादविहार:, अर्धर्चविहारः, ऋग्विहार इति त्रिरावृत्तिरभिहिता । अत्र तु प्रथमयुग्मे पादविहारः, द्वितीययुग्मेऽर्धर्चविहारः, तृतीययुग्मे ऋग्विहार इति । तत्रापि सकृदेव पादादिविहारः, न त्वावृत्तिः; तथा वाचः सह-भावाभावाभ्यामप्यस्ति विशेषः । अत एवोभयत्र नामभेदोऽस्ति – महावालभिद्विहार इति पूर्वस्य नामधेयम्, हौण्डिनो विहार इत्येतस्य नामधेयम् । अत एव सूत्रकारो नामधेयद्वयं दर्शयति --- ' इति नु हौण्डिनावथ महावालभिद् ' इति । हुण्डिनाख्येन महर्षिणा दृष्टौ द्वौ विहारौ । महावालभिदाख्येन महर्षिणा दृष्ट एको विहारः * ॥ अत्रोक्तहौण्डिनविहारौ प्रशंसति— ( हौण्डिन्यविहारयोः प्रशंसनम् ) स यत्प्रथमे सूक्ते विहरति, प्राणं च तद्वाचं च विहरति, यद्-द्वितीये चक्षुश्च तन्मनश्च विहरति, यत्तृतीये श्रोत्रं च तदात्मानं च विहरति ॥४ ॥

हिन्दी— ( उपर्युक्त हौण्डिन्य विहरण की प्रशंसा कर रहे हैं - ) सः वह ( मैत्रावरुण ) ( १ ) आश्व ० श्री ० ८.२.३-६ ( २ ) द्र ० इतः पूर्वम्, १०१३ पृ ० । ( ३ ) अश्व ० श्रौ ० ८.२.१७-१८ ( ४ ) द्र ० इतः पूर्वम्, १०१५ पृ ०, टि ० १ ।

पृष्ठ 376

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 376 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ३०.२ षष्ठपञ्चिकायां १२३२: ऐतरेयब्राह्मणम् प्रथमे सूक्ते विहरति जो प्रथम सूक्त में विहरण करता है तो प्राणं च वाचं च विहरति यत् प्राण और वाक् को विहृत करता ( मिलाता है ) यद् द्वितीये जो द्वितीय युग्मक में ( विहरण करता है ) चक्षुश्च मनश्च विहरति वह चक्षु और मन का विहरण करता है और यत् तृतीये जो तृतीय ( युग्मक ) में ( विहरण करता है ) तत् श्रोत्रं च आत्मानं च श्रोत्र और आत्मा को मिलाता है ॥ सा ० भा ० – पूर्ववद् व्याख्येयम् । योऽयमत्रोक्तो हौण्डिनविहारस्तस्यापि मतभेदेन द्वौ प्रकारौ ॥ तत्र प्रथमप्रकारमुपन्यस्य, तत्र किञ्चिदपरितोषं दर्शयति— ते है सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति, तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्ते ॥ ५ ॥

हिन्दी— ( प्रथम पक्ष को कह रहे हैं— ) ते ह एके वे कुछ ( प्रसिद्ध याज्ञिक ) बृहत्यौ सह सतोबृहत्यौ सह बृहती को साथ में और सतो बृहती को साथ में विहरन्ति विहरण करते हैं । विहारे विहरण होने पर तदु कामः ( विहार निमित्तक ) वह फलविशेष उपाप्तः प्राप्त हो जाता है, न इत् तु प्रगाथा कल्पन्ते किन्तु प्रगाथ सम्पादित नहीं होते ( तात्पर्य यह है कि वालखिल्य सूक्तों में विषम संख्यक अक्षरों वाली बृहती और सम संख्यक चालीस अक्षरों वाली सतोबृहती है । कुछ याज्ञिक प्रथम ऋचा और तृतीय ऋचा वाली बृहती को एक साथ में तथा द्वितीय ऋचा की सतोबृहती और चतुर्थ ऋचा की सतोबृहती को एक साथ में योजित करने के पक्षपाती हैं ) ॥ सा ० भा ० — याः ( षट्त्रिंशदक्षरा बृहती चत्वारिंशदक्षरा सतोबृहती ) वालखिल्य-सूक्तेषु प्रथमा बृहती, द्वितीया सतोबृहती, तृतीया बृहती, चतुर्थी सतोबृहतीत्येवं मणि-प्रवालन्यायेन एकान्तरिताः पठिताः । तत्र प्रथमाद्ययुजो बृहत्यः द्वितीया चतुर्थ्यादियुजः सतोबृहत्यः । एवं सति प्रथमसूक्ते द्वितीयसूक्ते चाऽऽदिभूते द्वे बृहत्यौ सह विहरेत् । तदनन्तरभाविन्यौ द्वे सतोबृहत्यौ सह विहरेत् । इत्थं विहारं ' ते ' प्रसिद्धाः याज्ञिकाः केचिदि-च्छन्ति । तस्मिन् पक्षे विहारस्य विद्यमानत्वाद् विहारनिमित्तो यः कामः स उपाप्तो भवेदेव | किन्तु प्रगाथाः ‘ नेत्कल्पन्ते ’ ते नैव सम्पद्यन्त इति । परिभव द्योतनार्थो नेच्छब्दः । छन्दोद्वयं मिलित्वैकः प्रगाथो भवति । स्वाध्यायपाठे प्रगाथानां विद्यमानत्वाद् विहारोऽपि प्रगाथान् एवापेक्षित: । ते न केवलबृहतीभ्यां केवलसतोबृहतीभ्यां वा सम्पद्यन्ते । कितु च्छन्दोद्वयेन सम्पद्यन्ते । प्रग्रन्थनेन द्वयोर्ऋचोर्वा बृहतीत्वसम्पादनार्थं प्रगाथाश्रयणम् । तच्च च्छन्दोद्वये सुकरम् । तथाहि — प्रथमा बृहती यथापाठमेव पठितव्या । ततोऽष्टाक्षर चतुर्थपादं द्विराव च सतोबृहत्याः प्रथमार्धगतेन द्वादशाक्षरपादेनाष्टाक्षर पादेन च द्वितीया बृहती सम्पद्यते । तमप्यष्टाक्षरपादं द्विरभ्यस्य सतोबृहत्या उत्तरार्धगतेन द्वादशाक्षरपादेनाष्टाक्षरपादेन च तृतीया

पृष्ठ 377

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 377 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२३३ बृहती सम्पद्यते । अतः प्रगाथेषु च्छन्दोद्वयमपेक्षितम् । केवलयोबृंहत्योः सतोबृहत्योर्वा यथोक्तप्रग्रथनासम्भवात् ॥ इत्थं हौण्डिनविहारे प्रथमप्रकारं निराकृत्य द्वितीयप्रकारं विधत्ते— अतिमर्शमेव विहरेत्, तथा वै प्रगाथाः कल्पन्ते; प्रगाथा वै वाल-खिल्यास्तस्मादतिमर्शमेव विहरेद् यदेवातिमर्शा ३ म् ॥ ६ ॥

हिन्दी - ( अब प्रथम पक्ष का निराकरण करके द्वितीय पक्ष का विधान कर रहे हैं— ) अतिमर्शम् एव अतिमर्श करके ( अर्थात् प्रथम सूक्त की प्रथम ऋचा के प्रथम पाद का शंसन करके उसके बाद के पादों को छोड़कर द्वितीय सूक्त की द्वितीय ऋचा के द्वितीय पाद का ) विहरेत् विहरण करना चाहिए । तथा वै उस प्रकार करने से प्रगाथाः कल्पन्ते प्रगाथों को सम्पादित करते हैं । प्रगाथाः वै वालखिल्याः वालखिल्य ( की ऋचाएँ ) प्रगाथ रूप ही हैं । तस्मात् इसी कारण से अतिमर्शमेव विहरेत् अतिमर्श करके ही विहरण करना चाहिए । यद् एव अतिमर्शम् जो अतिमर्श करके ( विहरण करता है वह सम्मानित होता है ) ॥ सा ० भा ० – ' अतिमर्शम् ' अतिमृश्यातिमृश्य, प्रथमसूक्तस्य प्रथमायामृचि प्रथमपाद-मुक्त्वा तदनन्तरभावि सर्वमतिलङ्घय द्वितीयसूक्ते द्वितीयस्यामृचि द्वितीयपादेन योजयेत् । सोऽयमतिलङ्घये मृश्यमानत्वादतिमर्शं इत्युच्यते । तत्र बृहतीपादसतोबृहतीपादयोर्मिश्रण-रूपो विहारो भवति । एवकारेण पूर्वोक्तविहारो व्यावर्त्यते । स तु केवलबृहत्योः केवलसतो-बृहत्योः सम्पद्यते । न तु मिलितयोः । अतो न तत्र प्रगाथभावः । इह तु ' यथा ' सति, अतिमृश्य मेलने सति, च्छन्दोद्वयसम्बन्धात् प्रगाथाः सम्पद्यन्ते । या वालखित्या ऋच आम्नातास्ताः प्रगाथरूपादय एव । तस्माद् विहारेऽपि प्रगाथरूपत्वं युक्तम् । तस्मादित्युप-संहारः । यदेवातिमृश्य विहरणं तत्पूज्यमिति प्लुतेरर्थः ॥ आत्मा वै बृहती, प्राणाः सतोबृहती, स बृहतीमशंसीत्, स आत्माऽथ सतोबृहतीं, ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानं प्राणैः परिबृहन्नेति तस्मादतिमर्शमेव विहरेत् ॥ ७ ॥

हिन्दी - आत्मा वै बृहती बृहती ही आत्मा रूप है प्राणाः सतोबृहती: और सतोबृहती प्राणस्वरूप हैं । सः बृहतीं अशंसीत् इस प्रकार वह ( मैत्रावरुण ) बृहती का जो शंसन किया सः वह आत्मा आत्मा है । अथ सतोबृहतीम् जो सतोबृहती का ( शंसन किया ) ते प्राणाः वे प्राण है । अथ बृहतीं अथ सतोबृहतीम् जो बृहती और सतोबृहती को मिलाकर ( शंसन करता है ) तद् आत्मानं प्राणैः परिबृहन् एति वह आत्मा को प्राणवायु के द्वारा बढ़ाता हुआ अनुष्ठान करता है । तस्मात् इसी कारण अतिमर्शमेव विहरेत् अतिमर्श करके विहरण करना चाहिए ॥ .ऐ.ब्रा.उ.- २४

पृष्ठ 378

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 378 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२३४: ऐतरेयब्राह्मणम् [.३०.२ षष्ठपञ्चिकायां सा ० भा ० -पूर्वोदाहृतं यदेवेति वाक्यमत्र योजनीयम् । अतिमृश्यातिमृश्य पूज्यं विहरणं यदस्ति, तस्मिन् विहरणे सा बृहती ' आत्मा वै ' मध्यदेह एव । या तु सतोबृहती, सा प्राणाः । तथा सति ‘ सः ’ मैत्रावरुणो यदादौ बृहतीम् ‘ अशंसीत् ' शसनं कृतवान् । ‘ सः ’ बृहतीशंसनरूप: ‘ आत्मा ’ मध्यदेहः सम्पद्यते । ' अथ ' अनन्तरं सतोबृहतीमशंसीत् । ‘ ते ’ सतोबृहतीरूपा प्राणाः सम्पद्यन्ते । ' अथ ' पुनरपि बृहतीं, तत ऊर्ध्वं सतोबृहतीं बहुकृत्वः शंसति । ‘ तत् ’ तेन व्यक्तिषक्तशंसनेन ' आत्मानं ' मध्यदेहं ' प्राणैः ’ वायुविशेषैः ‘ परिबृहन् ’ परितो वर्धयन् ' एति ' गच्छति । पुनरपि व्यतिषङ्गमनूद्य प्रकारान्तरेण प्रशंसति— यद्वेवातिमर्शा ३ म् । आत्मा वै बृहती, पशवः सतोबृहती स बृहतीमशंसीत्, स आत्माऽथ सतोबृहतीं ते पशवोऽथ बृहतीमथ सतोबृहतीं, तदात्मानं पशुभिः परिबृहन्नेति, तस्मादतिमर्शमेव विहरेत् ॥ ८ ॥

हिन्दी – ( प्रकारान्तर से प्रशंसा कर रहे हैं - ) यद्वेव अतिमर्शम् जो अतिमर्श करके विहरण करता है, उस ( विहरण ) में आत्मा वै बृहती बृहती आत्मा रूप है और पशवः सतोबृहती सतोबृहती पशुरूप है । सः उस ( मैत्रावरुण ) ने बृहतीम् अशंसीत् जो बृहती का शंसन किया सः आत्मा उसने आत्मा का ( शंसन किया ) और सतोबृहतीम् जो सतोबृहती का शंसन किया ते पशवः वे पशु रूप हैं । अथ बृहतीम् अथ सतोबृहतीम् अतः जो बृहती और सतोबृहती का शंसन किया तद् आत्मानं पशुभिः परिबृहन् एति वह आत्मा को पशुओं के साथ बढ़ाता हुआ जाता है । तस्मात् इसी कारण से अतिमर्शमेव विहरेत् अतिमर्श करके विहरण करना चाहिए ॥ सा ० भा ० – उ, अपि पुनरपि यदेवातिमृश्यातिमृश्य पूज्यं शंसनमस्ति, तत्र बृहती

यजमानः, सतोबृहती पशुरूपा । अन्यत् सर्वं पूर्ववद् व्याख्येयम् ॥

इत्थं षण्णां सूक्तानां विहरणमुक्त्वा सप्तमाष्टमयोर्विपर्यासं विधत्ते— द्व्येवोत्तमे सूक्ते पर्यस्यति, स एव तयोर्विहारः ॥९ ॥

हिन्दी— ( अब वालखिल्य के छः सूक्तों के विहरण को कहकर सप्तम और अष्टम सूक्त के विपर्यास का विधान कर रहे हैं - ) द्वि एव उत्तमे सूक्ते पर्यस्यति ( वालखिल्य के ) अन्तिम दो सूक्तों का विपर्यास ( अष्टम सूक्त का पहले और सप्तम सूक्त का बाद में पाठ ) करता हैं । सः एव तयोः विहारः वहीं उन दोनों ( सूक्तों का विपर्यास उनका ) विहरण है | सा ० भा ० — अष्टमं सूक्तमादौ पठित्वा पश्चात् सप्तमं सूक्तं पठेदित्येवमन्तिमं सूक्तं विपर्यस्येदेव । न तु पादार्धादि व्यतिषङ्गं कुर्यात् । ' सः ' विपर्यास एव तयोर्विहार इत्युच्यते ॥

पृष्ठ 379

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 379 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२३५ मैत्रावरुणस्य शस्त्रमुपसंहरन् ब्राह्मणाच्छंसिनः शस्त्रं प्रस्तौति— तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने सम्प्रयच्छ-त्येतं त्वं प्रजनयेति ॥ १० ॥

हिन्दी— ( अब मैत्रवरुण के शस्त्र का उपसंहार करते हुए ब्राह्मणाच्छंसी के शस्त्र को प्रस्तावित कर रहे हैं— ) मैत्रावरुणः मैत्रावरुण ( नामक होत्रक ) तस्य उस ( यजमान ) के प्राणान् कल्पयित्वा प्राणों को सम्पादित करके ब्राह्मणच्छंसिने ( यजमान को ) ब्राह्मणा-च्छंसी ( नामक होत्रक ) के लिए सम्प्रयच्छति ( इस उद्देश्य से ) देता है कि ( हे ब्राह्मणा-च्छंसिन्! ) एतं त्वं प्रजनय इस ( यजमान ) को तुम ( ब्राह्मणच्छंसी ) उत्पन्न करो || सा ० भा०- ' तस्य ' होतृशस्त्रेण निष्पन्नस्य रेतोरूपस्य यजमानदेहस्य ' मैत्रावरुणः ’ स्वकीयेन शस्त्रेण प्राणवायून् सम्पाद्य, तं प्राणविशिष्टं यजमानदेहं ब्राह्मणाच्छंसिने सम्प्रय-च्छति । हे ब्राह्मणाच्छंसिन्! ' एतं ' यजमानदेहं त्वं ' प्रजनय ' उत्पादयेति तस्याभिप्रायः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्याये ( त्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( २८ ) ( ११५ )

॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः सा ० भा ० — ब्राह्मणाच्छंसिनः शस्त्रं विधत्ते— ( ब्राह्मणाच्छंसिनः शिल्पशस्त्रविधानम् ) सुकीर्ति शंसति; देवयोनिर्वै सुकीर्तिस्तद् यज्ञाद्देवयोन्यै यजमानं प्रजनयति ॥ १ ॥

हिन्दी— ( ब्राह्मणाच्छंसी के शिल्पशस्त्र का विधान कर रहे हैं - ) सुकीर्ति शंसति ( ब्राह्मणाच्छंसी नामक होत्रक ' अप प्राच: ' -इस ) सुकीर्ति ( नामक सूक्त ) का शंसन करता है । देवयोनिर्वै सुकीर्तिः सुकीर्ति ( सूक्त ) देवताओं की योनि ( स्थान ) है । तद् यज्ञात् उस ( देवयोनिरूप सुकीर्त्यात्मक ) यज्ञ से यजमानं प्रजनयति यजमान को उत्पन्न करता है ॥ सा ० भा ० – ‘ अप प्राचः ' इत्यादिसूक्तं ' सुकीर्तिशब्देनोच्यते । तत्सूक्तं ब्राह्मणा-( १ ) ऋ ० १०.१३१.१-७

पृष्ठ 380

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 380 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२३६: ऐतरेयब्राह्मणम् [ ३०.३ षष्ठपञ्चिकायां च्छंसी शंसेत् ' । सुकीर्तेर्देवप्रियत्वात् देवयोनित्वम् । तस्य देवयोनिरूपात् सुकीर्त्यात्मक-त्वात्, यज्ञावयवाद् यजमानं ब्राह्मणाच्छंसी ' प्रजनयति ' उत्पादयति ॥ तस्यैव सूक्तान्तरं विधत्ते— वृषाकपिं शंसत्यात्मा वै वृषाकपिरात्मानमेवास्य तत्कल्पयति ॥ २ ॥

हिन्दी— ( उसी ब्राह्मणाच्छंसी के अन्य सूक्त का विधान कर रहे हैं— ) वृषाकपिं शंसति ( ‘ वि हि सोतोरसृक्षत ' -इस ) वृषाकपि ( नामक सूक्त ) का शंसन करता है । आत्मा वै वृषाकपिः वृषाकपि ( सूक्त ) आत्मा स्वरूप है । तत् इसके ( शंसन ) से ( ब्राह्मणाच्छंसी ) अस्य इस ( यजमान ) की आत्मानमेव कल्पयति आत्मा को ही उत्पन्न करता है ॥ सा ० भा०- - ' वि हि सोतोरसृक्षत ' इत्यादिकं सूक्तं वृषाकविना दृष्टत्वात् तच्छब्दे-नाभिधीयतेः । तस्य वृषाकपिसूक्तस्य जीवात्मस्थानीयत्वात् । तेन ' अस्य ' यजमानदेहस्य जीवा-त्मानमेव सम्पादयति ॥ तस्य सूक्तस्य मध्ये न्यूङ्खं विधत्ते— तं न्यूङ्खयत्यन्नं वै न्यूङ्खस्तदस्मै जातायान्नाद्यं प्रतिदधाति, यथा कुमाराय स्तनम् ॥ ३ ॥

हिन्दी - ( उस सूक्त के मध्य में न्यूङ्ख का विधान कर रहे हैं - तं न्यूङ्खयति उस ( ' वि हि सोतोरसृक्षत ' सूक्त ) को न्यूङ्खयुक्त करता है । अन्नं वै न्यूङ्खः न्यूङ्ख अन्नरूप है । यथा कुमाराय स्तनम् जिस प्रकार उत्पन्न बालक के लिए ( माता दूध पीने के लिए ) स्तन प्रदान करती है उसी प्रकार अस्मै जाताय अन्नाद्यं प्रतिदधाति ( न्यूङ्ख करने से ) इस उत्पन्न ( यजमान ) के लिए अन्न प्रदान करता है । सा ० भा ० — ' तं ' वृषाकपिं ' न्यूङ्खयति ' न्यूङ्खयुक्तं कुर्यात् ॥ ह्रस्वैस्त्रयोदशभिरोकारैर्युक्ता दीर्घास्त्रय ओकारा मिलित्वा न्यूङ्खा भवन्ति । एतच्च पूर्वमेवोक्तम् । न्यूङ्खस्यान्नसाधनत्वेना-न्नरूपत्वात् न्यूङ्खेन ‘ अस्मै ' यजमानायोत्पन्नाय ' अन्नाद्यं समर्पयति यथोत्पन्नाय कुमाराय माता स्तनं प्रयच्छति तद्वत् ॥ सूक्तगतं छन्दः प्रशंसति— स पाङ्को भवति; पाङ्कोऽयं पुरुषः, -पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा; स यावानेव पुरुषस्तावन्तं यजमानं संस्करोति ॥४ ॥

( १ ) ' सुकीर्ति ब्राह्मणाच्छंसी - इति आश्व ० श्री ० ८.४.९। ( २ ) ऋ ०. १०.८६.१-२३ ( ३ ) ‘ वृषाकविञ्च पङ्क्तिशंसम् ’ - आश्व ० श्रौ ० ८.४.९ ।