ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 381–390

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 381–390

पृष्ठ 381

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२३७ हिन्दी – ( सूक्तगत छन्द की प्रशंसा कर रहे हैं - ) सः वह सूक्त पाङ्कः भवति पति ( छन्द ) वाला है । लोमानि त्वग् मांसम् अस्थि मज्जा बाल, त्वचा, मांस, अस्थि और मज्जा - इस प्रकार पञ्चधा विहितः पाँच प्रकार से सृष्ट होने के कारण पाङ्कोऽयं पुरुषः यह पुरुष पाँच संख्या से युक्त है अतः यावान् एव पुरुषः पुरुष जितने ( अवयवों ) वाला होता है तावन्तमेव यजमानं संस्करोति उसी ( संख्या ) के द्वारा यजमान को संस्कारित करता है । सा ० भा०– ' स ' वृषाकपिनामकः सूक्तविशेषः पङ्क्तिच्छन्दोयुक्तो भवति । पुरुषोऽपि लोमादिभिः पञ्चधा सृष्टत्वात् पञ्चसंख्यायोगेन ' पाङ्घः ' तथा सति ‘ सः ’ पुरुषः स्वकीयैरव-यवैर्वायानेव भवति, तावन्तं सर्वमपि यजमानमनेन संस्करोति ॥ ब्राह्मणाच्छंसिनः शस्त्रमुपसंहरन्नच्छावाकस्य शस्त्रं प्रस्तौति-तं ब्राह्मणाच्छंसी जनयित्वाऽच्छावाकाय सम्प्रयच्छत्येतस्य त्वं प्रतिष्ठां कल्पयेति ॥ ५ ॥

हिन्दी — ( ब्राह्मणाच्छंसी के शस्त्र का उपसंहार करते हुए अच्छावाक के शस्त्र के लिए प्रस्तावित कर रहे हैं - ) ब्राह्मणाच्छंसी ब्राह्मणाच्छंसी ( नामक होत्रक ) तं जनित्वा उस ( यजमान ) को उत्पन्न करके अच्छावाकाय सम्प्रयच्छति अच्छावाक ( नामक ) होत्रक के लिए इस उद्देश्य से देता है कि ( हे अच्छावाकः ) त्वम् तुम ( अच्छावाक ) एतस्य प्रतिष्ठाम् इस ( यजमान ) की प्रतिष्ठा को कल्पय सम्पादित करो ॥ सा ० भा०- ' तं ' यजमानं ब्राह्मणाच्छंसी स्वकीयेन शस्त्रेणोत्पाद्य प्रतिष्ठासम्पाद-नार्थमच्छावाकाय सम्प्रयच्छति । हेऽच्छावाक! ' एतस्य ' यजमानस्य त्वं प्रतिष्ठां सम्पादयेति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्यये ( त्रिंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( २ ९ ) ( ११६ )

॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ चतुर्थः खण्डः सा ० भा ० – अथाच्छावाकस्य शस्त्रं विधत्ते-( अच्छावाकस्य शिल्पशस्त्रविधानम् ) एवयामरुतं शंसति; प्रतिष्ठा वा एवयामरुत्प्रतिष्ठामेवास्य

पृष्ठ 382

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२३८: ऐतरेयब्राह्मणम् [ ३०.४ षष्ठपञ्चिकायां तत्कल्पयति ॥ १ ॥

हिन्दी— ( अच्छावाक नामक होत्रक के शिल्पशस्त्र का विधान कर रहे हैं— ) एवयामरुतं शंसति ( अच्छावाक नामक होत्रक ' प्र वो महे मतयः ’ – इस ) एवयामरुत् ( नामक सूक्त ) का शंसन करता है । प्रतिष्ठा वा एवयामरुत् ' एवयामरुत् ' सूक्त प्रतिष्ठाप है । तत् उसके शंसन से अस्य इस ( यजमान ) की प्रतिष्ठामेव कल्पयति प्रतिष्ठा को ही सम्पादित करता है | सा ० भा०- - ' प्र वो महे मतयः ' इत्यादिकं सूक्तम् ' ' एवयामरुत् ' शब्देनोच्यते । तत्सूक्तमच्छावाकः शंसेत् । तच्च ' प्रतिष्ठा वै ' प्रतिष्ठारूपत्वात् । तेन यजमानस्य प्रतिष्ठामेव सम्पादयति ' ॥ तस्मिन् सूक्ते न्यूङ्खं विधत्ते— तं न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नद्यमेवास्मिंस्तद्दधाति ॥ २ ॥

हिन्दी - ( उस सूक्त में न्यूङ्ख का विधान कर रहे हैं — ) तं न्यूङ्खयति उस ( सूक्त ) को न्यूङ्ख से युक्त करता है । अन्नं वै न्यूङ्खः न्यूङ्ख अन्न रूप है । तत् उस ( न्यूङ्खयुक्त करने ) से अस्मिन् इस ( यजमान ) में अन्नाद्यं दधाति अन्न को धारण कराता है ॥ सा ० भा ० – पूर्ववद् व्याख्येयम् ॥ सूक्तगतं छन्दः प्रशंसति— स जागतो वाऽतिजागतो वा, सर्वं वा इदं जागतं वाऽति-जागतं वा ॥ ३ ॥

हिन्दी – ( सूक्तगत छन्द की प्रशंसा करते हैं— ) सः जगतो वा अति जागतो वा वह ( सूक्त ) जगती छन्द वाला अथवा अतिजगती छन्द वाला है । सर्वं वै इदम् यह सम्पूर्ण ही जगत् जागतं वा अतिजागतं वा जगती ( छन्द ) से अथवा अतिजगती ( छन्द ) से सम्बन्धित है ॥ सा ० भा ० — सूक्तविशेषो द्वादशाक्षरपादत्वाज्जगतीछन्दस्को भवति । चतुर्थपादे षोडशाक्षरत्वादतिछन्दस्त्वादतिजगतीच्छन्दस्कोऽपि भवति । ‘ सर्वम् ' अप्येतत् प्राणिजातं जगच्छ्ब्दाभिधेयत्वाज्जागतमतिजागतं वा भवति । अतः सर्वरूपत्वेन च्छन्दोद्वयं प्रशस्तम् ॥ देवताद्वारेण सूक्तं प्रशंसति— स उ मारुत आपो वै मरुत आपोऽन्नमभिपूर्वमेवास्मिंस्तदन्नाद्यं दधाति ॥४ ॥

( १ ) ऋ ० ८.८७.१ - ९ ( २ ) ' एवयामरुदुक्तो वृषाकपिना ' - इति आश्व ० श्री ० ८.४.२ ।

पृष्ठ 383

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२३ ९ हिन्दी— ( देवता के सम्बन्ध से सूक्त की प्रशंसा कर रहे हैं - ) सः उ मारुतः वह ( सूक्त ) मरुत् ( देवता ) वाला है । आपः वै मरुतः जल ही मरुत है । आपो अन्नम् जल ही अन्न है । तत् इस सूक्त से अभि पूर्वम् क्रमशः अस्मिन् इस ( यजमान ) में अन्नाद्यं दधाति अन्न को धारण कराता है ॥ सा ० भा ० - ' स उ ' सोऽपि सूक्तविशेषो ' मारुत: ' मरुद्देवताकः । मरुतश्च वृष्टिद्वारेण ‘ आपो वै ’ आप एव । अपां चान्नहेतुत्वादन्नत्वम् । ' अभिपूर्वमेव ' उक्तानुपूर्यैव वायुसम्पा-दितजलद्वारा यजमानेऽन्नाद्यं स्थापयति ॥ होत्रादिभिः प्रयोज्यानामुक्तानां चतुर्णां शिल्पानामेकस्मिन्नहनि प्रयोगसहभावं विधत्ते— ( चतुर्णां शिल्पानां सहभावविधानम् ) तान्येतानि सहचराणीत्याचक्षते, नाभानेदिष्ठं वालखिल्या वृषा-कपिमेवयामरुतं; तानि सह वा शंसेत्, सह वा न शंसेत् ॥ ५ ॥

हिन्दी – ( होता इत्यादि द्वारा प्रयुक्त उपर्युक्त चारों शिल्पशस्त्रों के एक ही दिन में प्रयुक्त होने के सहभाव को दिखला रहे हैं - ) तानि एतानि वे ( पूर्वोक्त नाभानेदिष्ठ, वालखिल्य, वृषाकपि और एवयामरुत् ) ये ( शिल्पशस्त्र ) सहचराणि सहचर ( साथ - साथ रहने वाले ) हैं - इत्याक्षते ऐसा ( याज्ञिक लोग ) कहते हैं । तानि सह वा शंसेत् उनका साथ में ही शंसन करना चाहिए अथवा सह वा न शंसेत् साथ में शंसन नहीं करना चाहिए || सा ० भा ० — नाभानेदिष्ठादीनि चत्वारि शिल्पानि यान्युक्तानि तानि ' सहचराणि ' एकस्मिन्नहनि सह वर्तन्त ' इति ' एवमभिज्ञा आचक्षते । तस्माद्यस्मिन्नहनि शंसनीयानि,

तस्मिंश्चत्वार्यपि शंसेत् । यस्मिन्न शंसनीयानि, तस्मिंश्चत्वार्यपि परित्यजेत् ॥

विपक्षे बाधकमुक्त्वा स्वपक्षमुपसंहरति-यदेतानि नाना शंसेद् यथा पुरुषं वा रेतो वा विच्छिन्द्यात् तादृक्तत्, तस्मादेतानि सह वा शंसेत्, सह वा न शंसेत् ॥६ ॥

हिन्दी - ( विपक्ष के विषय में बाधा को कहकर अपने पक्ष का उपसंहार कर रहे हैं-) यद् एतानि नाना शंसेत् यदि इनको अलग - अलग शंसति करे यथा तो जैसे पुरुषं वा रेतो वा सम्पूर्ण गर्भ से उत्पन्न पुरुष को और ( उसके कारणभूत ) वीर्य को विच्छिन्द्यात् अलग - अलग कर दे । तादृक् तत् उसी प्रकार वह ( अलग - अलग उन सूक्तों का शंसन करना ) है । तस्मात् इसी कारण से एतानि सह वा शंसेत् इन सूक्तों का साथ - साथ शंसन करे अथवा सह वा न शंसेत् साथ - साथ शंसन न करे ॥ सा ० भा०- - यदेकस्मिन्नहनि ' एतानि ' चत्वारि शिल्पानि ' नाना शंसेत् ' नाना विच्छिद्य

पृष्ठ 384

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४०: ऐतरेयब्राह्मणम् [ ३०.४ षष्ठपञ्चिकायां विच्छिद्यावशिष्टमहरन्तरे शंसेत् । तदानीं लोके यथा सम्पूर्णगर्भादुत्पन्नं ' पुरुषं वा ' तत्कारणं ‘ रेतो वा ’ विच्छिन्द्याद् ’ विवासयेत्, तादृशं तद्भवेत् । ‘ तस्मात् कारणादेतेषां चतुर्णां साहित्यमेव; न तु परस्परवियोगः कर्त्तव्यः ॥ अथ शिल्पेष्वेव कञ्चिद्विशेषं वक्तुमाख्यायिकामाह— ( शिल्पेषु विशेषवक्तुमाख्यायिका ) स ह बुलिल आश्वतर आश्विर्वैश्वजितो होता सन्नीक्षांचक्र एषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे मध्यंदिनमभिप्रत्येतो-र्हन्ताहमित्थमेवयामरुतं शंसयानीति; तद्ध तथा शंसयांचकार ॥७ ॥

हिन्दी — ( शिल्पशस्त्रों के विषय में कुछ विशेष कहने के लिए आख्यायिका को कह रहे हैं— ) सः ह आश्वतर: अश्विः बुलिलः उस अश्वतर के पौत्र और अश्व नामक ( ऋषि ) के पुत्र बुलिल वैश्वाजितः होता सन् विश्वजितयाग से सम्बन्धित होता होकर ईक्षांचक्रे विचार किया कि विश्वजित् ( नामक चतुर्थ दिन ) में एषाम् उन ( होता और होत्रकों ) के एषां शिल्पानाम् इन ( चार ) शिल्पों में द्वे दो ( मैत्रावरुण और ब्राह्मणाच्छंसी से सम्बन्धित शस्त्रों ) का मध्यन्दिनम् अभि मध्यान्दिन ( सवन ) को अभिलक्षित करके प्रत्येतः शंसन के लिए अहम् मैं ( समर्थ हूँ ) । इत्थम् इस प्रकार एवयामरुतं शंसयानि हम एवयामरुत् का शंसन करें । तद् ह तथा शंसयं चकार तो ( ऐसा विचार करके उन्होंने ) वैसा शंसन किया ॥ सा ० भा ० — ' ह ' शब्द ऐतिह्यद्योतनार्थम् ' । ' स ' प्रसिद्धौ बुलिनामको महर्षिः ‘ आ-श्वतरः ’ अश्वतरनाम्नो महर्षेः समुत्पन्नः । ‘ आश्विः ' अश्वनाम्नो महर्षेः पुत्र े कदाचित् ‘ वैश्वजितः ’ विश्वजिद् यागसम्बन्धी होता सन्, स्वमनसि ' ईक्षांचक्रे ' विचारितवान् । ‘ सांवत्सरिके ' गवामयनाख्यसंवत्सरसत्रसम्बन्धिनि ' विश्वजिति ' विषुवतोऽह्न ऊर्ध्वमुत्तरपक्षगते विश्वजि-न्नामके चतुर्थेऽहनि ‘ एषां ’ होतृमैत्रावरुणादीनां सम्बन्धीनि शस्त्राणि शिल्पनामकानि चत्वारि सन्ति । ‘ एषां शिल्पानां ’ मध्ये द्वे शिल्पे मैत्रावरुणब्राह्मणाच्छंसिनोः सम्बन्धिनी मध्यंदिन-सवनम् ‘ अभि’लक्ष्य ‘ प्रत्येतोः ’ प्रत्येतुं, कुशलोऽस्मीति शेषः । ‘ हन्त ' हृष्टोऽहमेवयामरुतं शंसयानीत्येवं महर्षिर्विचारितवान् । अयमर्थः - तृतीयसवनगतान्येतानि शिल्पशस्त्राणि तान्यन्येष्वहःसु सम्भवन्ति । विश्वजिति त्वग्निष्टोमसंस्थत्वादग्निष्टोमे तृतीयसवने होत्र-( १ ) ‘ इतिह ’ – इति निपातसमुदायः, ततो श्येरूपम् ऐतिह्यम् ( पा ० सू ० ५.४.२३ ) । ‘ स्मृतिः प्रत्यक्षमैतिह्यमनुमानञ्चतुष्ट्यम् ’ - इति तै ० आ ० १.२.१ । ' ऐतिह्यम् ' – इतिहासपुराणमहा-भारतब्राह्मणादिकम् ’ - इति तद्भाष्ये सायणः । ( २ ) बुडिल इति वाजसनेयिच्छान्दोग्यब्राह्मणयो पाठः ( शत ० ब्रा ० ४.६.१.९; १०.६.११; १४.८.१५.११; छा ० उप ० ५.११.१ ।

पृष्ठ 385

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२४१ काणां शस्त्राभावान्मैत्रावरुणब्राह्मणाच्छंसिनोः सम्बन्धि शस्त्रद्वयं मध्यंदिने सवने समानेतुं तावदच्छावाकमस्मिन् मध्यंदिने एवयामरुतं शंसयानि । तथा सति ततः पूर्वभाविनोर्मैत्रा-वरुणब्राह्मणाच्छंसिशस्त्रयोरर्थात् माध्यंदिने सवने समाकर्षणं भवति । ' इति ' इत्थं बुलिलः स्वमनसि विचार्यं ‘ तद्ध ’ तस्मिन्नेव माध्यंदिने सवने ' तथा ' स्वविचारितक्रमेण ' एवयामरुतं ' सूक्तमच्छावाकं ‘ शंसयांचकार ' बलादाज्ञाप्य शंसनं कारितवान् ॥ तत्र दोषं कथामुखेनोद्भावयति— तद्ध तथा शस्यमाने गौश्ल आजगाम; स होवाच, -होतः कथा ते शस्त्रं विचक्रं प्लवत इति ॥८ ॥

हिन्दी - ( कथा के द्वारा उसमें दोष की उद्भावना कर रहे हैं - ) तद्ध तथा शस्यमाने तो उस प्रकार शंसन करने पर गौश्लः आजगाम गौश्ल ( नामक कोई ऋषि ) वहाँ आये सः ह उवाच उस ( गौश्ल ) ने ( बुलिल से ) कहा - होतः हे होता! कथा ते शस्त्रं विचक्रं प्लवते तुम्हारा ( मैत्रावरुण द्वारा किया गया ' एवयामरुत् ' ) शस्त्र क्यों विना पहिए के ( रथ के समान ) विनष्ट हो रहा है? ॥ सा ० भा ० — ' तद्ध ' तस्मिन्नेव माध्यंदिने सवने ' तथा ' तेन क्रमेण बुलिलप्रेरितेना-च्छावाकेनैवयामरुन्नामके शस्त्रे शस्यमाने सति, तदानीं गौश्लनामकः कश्चिन्महर्षिरागत्य बुलिलनामकं होतारं प्रत्येवमुवाच । हे होतः ' ते ' त्वदीयमच्छावाकप्रयुक्तमेवयामरुन्नामकं शस्त्रं ‘ प्लवते ' विनश्यति । तत्र दृष्टान्त: - ' विचक्रं ' चक्ररहितं शकटमिव । अश्रूयमाणोऽपि ·

इवशब्दोऽत्राध्याहर्तव्यः । अतः ' कथा ' तदेतत्सर्वं कथं घटते? इत्याक्षेपः ॥

तत ऊर्ध्वं बुलिलस्य वचनं दर्शयति-किं ह्यभूदिति ॥ ९ ॥

हिन्दी — किम् अभूत् ( तब बुलिल ने कहा- ) क्या हुआ? ॥

सा ० भा ० – अत्राच्छावाकेन शस्यमाने सतिं किं वा दूषणमभूत्? नास्ति कश्चिदपि दोष इत्यर्थः ॥ तत ऊर्ध्वं गौश्लेनोक्तं दोषं दर्शयति— एवयामरुदयमुत्तरतः शस्यत इति; स होवाचैन्द्रो वै मध्यंदिनः, कथेन्द्रं मध्यंदिनान्निनीषसीति? ॥१० ॥

हिन्दी— ( गौश्ल के द्वारा कहे गये में दोष को दिखला रहे हैं— ) एवयामरुद् अयम् ( १ ) ' गौश्ल: गौश्रः अभिन्नः ' - इति शाङ्खा ० ब्रा ० १६.९.२३.४ । स च गुश्रेरपत्यम् । गुश्रिः कुश्रिश्च स्यादभिन्नः । स त्वेक: ' कुश्रिर्यज्ञवचसः ' - इति शत ० ब्रा ० १०.६.५.९; अथापरः ‘ कुश्रिर्वाजश्रवसः ' इति शत ० ब्रा ० १४.९.४.३३; १०.५.४.१ ।

पृष्ठ 386

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४२: ऐतरेयब्राह्मणम् [ ३०.४ षष्ठपञ्चिकायां उत्तरतः शस्यते ‘ एवयामरुत् ’ – यह ( होता की वेदि के ) उत्तर ओर से ( अच्छावाक द्वारा ) शंसित किया जाता है । सः ह उवाच पुनः उन्होंने कहा – ऐन्द्रो वै मध्यन्दिनः मध्यन्दिन ( सवन ) इन्द्र ( देवता ) से सम्बन्धित है । मध्यन्दिनात् तो मध्यन्दिन ( सवन ) से इन्द्रम् इन्द्र को कथं निनीषसि किस प्रकार से निकालना चाहते हो? ॥ सा ० भा ० — होतुर्धिष्ण्यादुत्तरतो ह्यच्छावाकस्य धिष्ण्यम् । तत्समीपेऽवस्थितेना-च्छावाकेनैवयामरुन्नामकः शस्त्रविशेषः, पठनीय इति तस्याऽऽशय इत्युक्त्वा, पुनरपि ' सः ' गौश्ल एवमुवाच । माध्यंदिनसवन ' ऐन्द्र: ' इन्द्रदेवताकः । तथा सति हे होतः! तमेतमिन्द्रम-स्मान्माध्यंदिनसवनात् ‘ कथा निनीषसि ' केन प्रकारेणापनेतुमच्छसि? सैवमपनयनेच्छैव त्वदीयाच्छावाकशंसने दोष इति गौश्लस्याभिप्रायः ॥ तमभिप्रायमजानतो बुलिलस्य वाक्यं दर्शयति— नेन्द्रं मध्यंदिनान्निनीषामीति होवाच ॥ ११ ॥

हिन्दी— ( उस गौश्ल के अभिप्राय को न जानते हुए बुलिल के वाक्य को दिखला रहे हैं— ) सः उवाच उस ( बुलिल ) ने कहा – इन्द्रम् इन्द्र को मध्यन्दिनात् मध्यन्दिन ( सवन ) से न निनीषामि हम नहीं निकालना चाहते हैं ॥ सा ० भा ० — अस्मान् माध्यंदिनसवनात् तत्स्वामिनमिन्द्रमपनेतुमहं नेच्छामि, तद्वि-रुद्धस्य कस्यचिदपि अननुष्ठितत्वात्, ' इति ' एवं बुलिल उक्तवान् ॥ ततो विरुद्धार्थानुष्ठानप्रदर्शनार्थं गौश्लस्य वाक्यं दर्शयति— छन्दस्त्विदममध्यंदिनसाच्ययं जागतो वाऽतिजागतो वा सर्वं वा इदं जागतं वाऽतिजागतं वा; स उ मारुतो मैव शंसिष्टेति ॥ १२ ॥

हिन्दी— ( अब विरुद्धार्थ अनुष्ठान को दिखलाने के लिए गौश्ल के कथन को दिखला रहे हैं— ) इदं छन्दः तु यह ( अच्छावाक नामक होत्रक द्वारा प्रयुक्त शस्त्र वाला ) छन्द तो अमध्यदिनसाचि मध्यन्दिन ( सवन ) के अयोग्य है; क्योंकि अयं जागतो वा अतिजागतो वा यह ( सूक्त ) जगती छन्द वाला अथवा अति जगती छन्द वाला है । सर्वं वा इदं जागतं वा अतिजागतं वा यह सम्पूर्ण ( जगत् ) जगती से अथवा अतिजगती ( छन्द ) से सम्बन्धित है । सः उ मारुतः और वह ( सूक्त ) मरुत् देवता वाला है ( इन्द्र देवता वाला नहीं ), मा एव शंसिष्ट ( अतः उसका ) सर्वथा शंसन मत करो ॥ सा ० भा ० — हे होतः! त्वं स्वमनसेन्द्रमपनेतुं नेच्छसि, छन्दोऽच्छावाकेन प्रयुज्य-मानं शस्त्रगतम् ‘ अमध्यंदिनसाचि ' मध्यंदिनसवनसम्बन्धार्हं न भवति । कथमिति चेत्? तदुच्यते —– ‘ अयं ’ सूक्तविशेषो ‘ जागतो वाऽतिजागतो वा ' द्वादशाक्षरपादेन षोडशाक्षर-पादेन चोपेतत्वात् । सर्वं चेदं जागतमतिजागतं च मन्त्रजातं जागते तृतीयसवने एव

पृष्ठ 387

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२४३ योग्यम्, न तु त्रैष्टुभे मध्यंदिने सवने । ' स उ ' सोऽपि सूक्तविशेषो ' मारुतः ' मरुद्देवताको, न चैन्द्रः । अतोऽपि कारणात् तृतीयसवन एव योग्यम् । तस्मादयमच्छावाको ' मैव शंसिष्ट ' शंसनं सर्वथा मा करोत्विति दोषं दर्शितवान् ॥ तत ऊर्ध्वं बुलिलकृतं दर्शयति-स होवाचाऽऽरमाच्छावाकेत्यथ हाऽस्मिन्ननुशासनमीषे ॥ १३ ॥

हिन्दी - ( अब बुलिल द्वारा कृत कर्तव्य को कह रहे हैं - ) सः ह उवाच तब उस ( बुलिल ) ने कहा — अच्छावाक हे अच्छावक ( नामक होत्रक )! आरम ( तुम शंसन को ) मत करो | अथ हा अस्मिन् अनुशासनम् ईषे अब यह कष्ट है मैं इस ( गौश्ल ) के अनुशासन की इच्छा कर रहा हूँ ( उसको जानकर उसी के अनुसार शंसन करूंगा ) । सा ० भा ० — हे अच्छावाक! त्वम् ' आरम ' शंसनादुपरतो भव । ' इति ' एवं बुलिल उवाच । ‘ अथ ’ अनन्तरमिदमप्युवाच — ' हा ' कष्टं सम्पन्नम् । इतःपरमस्मिन् गौश्ले गुरौ ‘ अनुशासनम् ' अनुष्ठेयोपदेशनम् ' इषे ' इच्छामि । एतस्मादवगत्य सर्वमनुष्ठास्यामीति तस्याभिप्रायः ॥ अथ गौश्लस्योपदेशवाक्यं दर्शयति— स होवाचैन्द्रमेष विष्णुं न्यङ्ङ्गं त्वमेतं होतरुपरिष्टाद् रौद्र्यै धाय्यायै पुरस्तान्मारुतस्याप्यस्याथा इति ॥ १४ ॥

हिन्दी - ( अब गौश्ल के उपदेश को दिखला रहे हैं - ) सः ह उवाच उस ( गौश्ल ) ने कहा — एषः यह ( अच्छावाक ) विष्णुं न्यङ्गं शंसतु विष्णु के चिह्न वाले ( इन्द्र ) का शंसन करे । होतः हे होता ( बुलिल )! त्वं तुम रौद्र्यै धाय्यायै उपरिष्टात् रुद्र देवता से सम्बन्धित धाय्या से बाद में मारुतस्य पुरस्तात् किन्तु मारुतसूक्त के पहले अस्य इस ( ' एवयामरुत् ’ ) का प्रक्षेप करो ॥ सा ० भा०– ' सः ' गौश्ल एवमुवाच – ' एषः ' अच्छावाकः ‘ ऐन्द्रम् ' इन्द्रदेवताकं ‘ विष्णुन्यङ्गं ’ ' विष्णुलिङ्गोपेतं शंसतु । एवयामरुतं त्यक्त्वा ‘ द्यौर्नय इन्द्र ' इति प्रत्येवया-मरुन्नामकं ' यदैन्द्रं सूक्तमस्ति ', तस्मिन् सूक्ते द्वितीयस्यामृचि चतुर्थपाद एवमाम्नायते— ‘ हन्नृजीषिन् विष्णुना सचानः ' इति । अत इदं विष्णुचिह्नोपेतं सूक्तं शंसतु । हे ' होत: ' बुलिल! त्वम् ‘ एतम् ' एवयामरुतं ' त्वदीयशस्त्रे ‘ अस्याथाः ' प्रक्षिपेः । तत्र स्थानविशेष उच्यते — तृतीयसवने ‘ शं नः करतीति " रुद्रदेवताका धाय्या, तस्या उपरिष्टात्, मारुतसूक्तस्य ( १ ) ' विष्णुन्यङ्गम् ' - इति पाठ एव भाष्यसम्मतो गम्यते । ( २ ) ‘ प्रत्येवयामरुदित्येतदाचक्षते ' - इति आश्व ० श्रौ ० ८.४.११ । ( ३ ) ऋ ० ६.२०.१-१३ ( ४ ) एवयामरुतम् = = प्रत्येवयारुतम् । ( ५ ) ऋ ० १.४३.६

पृष्ठ 388

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४४: ऐतरेयब्राह्मणम्.. [ ३०.५ षष्ठपञ्चिकायां

पुरस्तात्, तयोरुभयोर्मध्ये प्रक्षेपस्थानम् । एवं गौश्लोपदेशः ॥

अथानुष्ठानं दर्शयति— तद्ध तथा शंसयाञ्चकार; तदिदमप्येतर्हि तथैव शस्यते ॥ १५ ॥

हिन्दी – ( अब अनुष्ठान को दिखला रहे हैं — ) तद् ह तब उस बुलिल ने तथा उस प्रकार ( गौश्ल द्वारा कहे गये के अनुसार ) शंसयांचकार शंसन किया । तद् एतर्हि तो यहाँ भी इदम् यह तथा शस्यते उसी ( गौश्ल के द्वारा कहे गये ) के अनुसार शंसन किया जाता है ॥ सा ० भा ० — ' तद्ध ' गौश्लेन यदुक्तं तत्सर्वं तथैव बुलिलः ‘ शंसयाञ्चकार ' । माध्यं-दिनसवनेऽच्छावाकं प्रत्येवयामरुच्छंसने प्रेषितवान् । स्वयं तृतीयसवने आग्निमारुतशस्त्रमध्ये धाय्यामारुतसूक्तयोर्मध्ये एवयामरुतं प्रक्षिप्य शंसनं कृतवान् । तस्मादिदानीमपि तदिदं सर्वं होत्रकैस्तथैव शस्यते ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्यये ( त्रिंशाध्याये ) चतुर्थः खण्डः ॥४ ॥ ( ३० ) ( ११७ )

॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ पश्चमः खण्डः सा ० भा ० — संवत्सरसत्रे यदहरग्निष्टोमसंस्थं विश्वजिदाख्यमस्ति, तत्र शिल्पानां शस्त्राणां क्लृप्तिः पूर्वत्राभिहिता ॥ तत्र किञ्चिच्चोद्यमुद्भावयति— ( विश्वजिति शिल्पशस्त्रक्लृप्तिविषये प्रश्नोत्तरे ) तदाहर्यदस्मिन् विश्वजित्यतिरात्र एवं षष्ठेऽहनि कल्पते यज्ञः, कल्पते यजमानस्य प्रजातिः; कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावरुणो वालखिल्याः शंसति; ते प्राणा, रेतो वा अग्रेऽथ प्राणा; एवं ब्राह्मणाच्छंस्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति; स आत्मा, रेतो वा अग्रेऽथाऽऽत्मा, कथमत्र यजमानस्य प्रजातिः, कथं प्राणा अविक्लृप्ता भवन्तीति ॥ १ ॥

हिन्दी— ( संवत्सर सत्र में विश्वाजित् के शिल्पशस्त्रों की क्लृप्ति को कह दिया गया है उसके विषय में कुछ प्रश्नोत्तर की उद्भावना कर रहे हैं— ) तदाहुः उस विषय में ( कुछ

पृष्ठ 389

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२४५ ब्रह्मवादी ) पूछते हैं— अस्मिन् अतिरात्रे विश्वजिति इस विश्वजित् अतिरात्र में एवं षष्ठेऽहनि और उसी प्रकार वाले षष्ठ दिन में यज्ञः कल्पते यज्ञ सम्पादित किया जाता है । यजमानस्य प्रजातिः कल्पते उसी के अनुसार यजमान की उत्पत्ति सम्पादित हो जाती है । कथम् अत्र अशस्ते एव तो कैसे यहाँ होता के शंसन किये विना ही नाभानेदिष्ठः न भवति ( होता द्वारा ) नाभानेदिष्ठ ऋचाओं का शंसन नहीं होता । अथ फिर भी मैत्रावरुणः वालखिल्याः शंसति मैत्रावरुण वालखिल्य ( ऋचाओं ) का शंसन करता है । ते वे ( वालखिल्य ऋचाएँ ) प्राणः प्राण - स्वरूप हैं । रेतो अत्रे अथ वा प्राणाः तो पहले ( होता के नाभानेदिष्ठ रूप ) रेत का सिञ्चन होता है अथवा ( मैत्रावरुण के वालखिल्य रूप ) प्राण होते हैं । ( द्वितीय प्रश्न - ) अशस्तः एव नाभानेदिष्ठः भवति ( होता द्वारा ) नाभानेदिष्ठ शंसित नहीं होता अथ फिर भी ब्राह्मणाच्छंसी वृषाकपिं शंसति ब्राह्मणच्छंसी वृषाकपि का शंसन करता है । रेतो अग्रे अथवा आत्मा तो पहले ( नाभानेदिष्ठ - रूप ) रेत-सिञ्चन होता है अथवा ( वृषाकपि रूप ) आत्मा होती है । कथमत्र तो किस प्रकार यहाँ यजमानस्य प्रजातिः यजमान की उत्पत्ति होती है और कथं प्राणाः अविक्लृप्ताः भवन्ति कैसे ( विना वीर्य के ) प्राण विच्छिन्न नहीं होते ॥ विमर्श - ( १ ) तात्पर्य यह है कि अतिरात्र के तृतीयसवन में होता ऋत्विक् नाभानेदिष्ठ का शंसन करके यजमान की उत्पत्ति के लिए मानो वीर्य का सेचन करता है । उसके बाद मैत्रावरुण नामक होत्रक वालखिल्यों का शंसन करके मानों उसमें प्राणों को स्थापित करता है । तत्पश्चात् ब्राह्मणाच्छंसी सुकीर्ति का शंसन करके उसमें मानों आत्मा का उत्पादन करता है । अच्छावाक् एवयामरुत् का शंसन करके मानो उसे प्रतिष्ठित करता है । यही शंसन का क्रम है ॥ इस विषय में प्रश्न है कि होता द्वारा नाभानेदिष्ठ का शंसन सायंसवन में होता है । तो उस समय यजमान की उत्पत्ति के लिए नाभानेदिष्ठ रूप रेतसेचन होता है तो उससे पहले मध्यन्दिन सवन में जबकि होता द्वारा नाभानेदिष्ठ रूप रेत सेंचन न होने से यजमान की उत्पत्ति कैसे होती है? और उससे मैत्रावरुण द्वारा शंसित वालखिल्य रूप प्राण का प्रतिष्ठापन और ब्राह्मणाशंसी द्वारा सुकीर्ति रूप आत्मा ( मध्य देह ) का स्थापन कैसे होता है? ॥ सा ० भा ० — द्विविधो हि विश्वजित् — अतिरात्रसंस्थोऽग्निष्टोमसंस्थश्च । तत्र तृतीय-सवने होत्रकाणां शस्त्राणि विद्यन्ते । तथा सति पूर्वोक्तक्रमेण होता नाभानेदिष्ठं शस्त्वा रेतः सिञ्चति; मैत्रावरुणो वालखिल्याः शस्त्वा प्राणानवस्थापयति, ब्राह्मणाच्छंसी सुकीर्तिं शस्त्वा ग़जनयति, अच्छावाक एवयामरुतं शस्त्वा प्रतिष्ठां करोतीत्ययं क्रम उपपन्नः । एवं पृष्ठ्य-षडहस्य यदहः षष्ठमस्ति, तस्याप्युक्तसंस्थात्वेन तृतीयसवने होत्रकशस्त्रसद्भावात् पूर्वोक्ता. यजमानोत्पत्तिरुपपद्यते । यथा विश्वजिदतिरात्रे षष्ठेऽहनि च शस्त्ररूपो यज्ञः ' कल्पते ' उपपद्यते,

पृष्ठ 390

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४६: ऐतरेयब्राह्मणम् [ ३०.५ षष्ठपञ्चिकायां तदनुसारेण यजमानस्य ‘ प्रजातिः ' जननमप्युपपद्यते । तथा संवत्सरसत्रगतेऽग्निष्टोमसंस्थे विश्वजित्यहनि तदुपपादयितुं न शक्यते । तथा हि — तत्राग्निष्टोमसंस्थे विश्वजिति होत्रा नाभानेदिष्ठो माध्यंदिनसवने शस्त एव भवति । तृतीयसवने वैश्वदेवशस्त्रे शस्यमानत्वात् । अथैवं सति मैत्रावरुणो वालखिल्याः प्रथमं शंसति; तृतीयसवने होत्रकाणां शस्त्राभावेऽपि माध्यंदिने सवने तेषां शस्त्राणां बुलिलाख्येन महर्षिणा समाकृष्टत्वात् । ' ते ' च वाल-खिल्यात्मकाः प्राणा इत्युक्तम् । लोके तु रेत एव ' अ ' प्रथमं सिक्तं भवति I । पश्चात् सिक्ते रेतसि प्राणानां प्रवृत्तिरिति क्रमः । इह तु नाभानेदिष्ठराहित्येन रेतःसेको नास्ति । वालखिल्यानां सद्भावेन प्राणा विद्यन्ते । कथमेतदुपपद्यत? इत्येकं चोद्यम् । एवं चोद्यान्तरमस्ति । ब्राह्म-णाच्छंसी मध्यंदिने वृषाकपिं शंसति । ' सः ' वृषाकपिर्यजमानस्य प्रजायमानस्य ' आत्मा ’ देहः । अत्रापि नाभानेदिष्ठोऽशस्त एव भवति, अतो रेतो नास्ति । लोके तु रेत एवाग्रे सिच्यते । ‘ अथ ’ पश्चादात्मदेहो जायते । अतो लोकवैपरीत्ये सति कथमत्र यजमानस्य ‘ प्रजाति: ’ जन्म? इति द्वितीयं चोद्यम् । यजमानस्य जन्मसम्भवे वालखिल्यरूपाः ‘ प्राणाः ’ ‘ अविक्लृप्ताः ’ विशेषेण स्थानक्लृप्तिरहिताः ' कथं भवन्ति ' केन प्रकारेण वर्तन्ते? ' इति ' एवं ब्रह्मवादिनश्चोद्यमाहुः ॥ तस्य परिहारं दर्शयति— यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति; स यथा गर्भो योन्यामन्तरेवं सम्भवञ्छेते; न वै सकृदेवाग्रे सर्वः सम्भवत्येकैकं वा अङ्गं सम्भवतः सम्भवतीति ॥ २ ॥

हिन्दी – ( उस प्रश्न का परिहार कर रहे हैं — ) ( उत्तर- ) एतेन सर्वेण यज्ञक्रतुना ( वस्तुत:) इस सभी यज्ञ के साधनभूत शिल्पसमूहों से यजामानम् यजमान को ( प्राण की प्राप्ति के योग्य ) संस्कुर्वन्ति संस्कारित करते हैं । यथा जैसे सः गर्भः वह गर्भ योन्यान्तरमेव योनि के अन्दर ही सम्भवन् शेते संस्कार से वृद्धि को प्राप्त होता हुआ सोता रहता है । अग्रे पहले सकृदेव एक साथ ही सर्वः न सम्भवति सभी ( अङ्ग ) निष्पन्न नहीं होते प्रत्युत उत्पन्न होने वाले गर्भ का एकैकं वै अङ्गम् एक - एक अङ्ग ही सम्भवतः निष्पन्न होता हुआ संभवति जन्म लेता है । ( उसी प्रकार यजमान ) का एक - एक करके संस्कार किया जाता है ) । सा ० भा ० — इह ‘ यज्ञक्रतु’शब्देन तत्साधनभूतः शिल्पसमूहो विवक्षितः । ‘ ए॒तेन ’ सर्वेणापि शिल्पसमूहेन यजमानं ' संस्कुर्वन्ति ' प्राणप्राप्त्यर्हता संस्कारः । स एव चात्र क्रियते । न तु यजमानस्य मरणं जन्म ( वा ) । बहुभिः शिल्पैः क्रमेण संस्कारे दृष्टान्तः । यथा योन्याम् ‘ अन्तः ’ मध्ये ‘ सः ’ प्रसिद्धो गर्भो भवति । एवमयं यजमानः क्रमेण ‘ सम्भवन् ’ संस्कारेणोत्पद्यमानः ‘ शेते ’ अवतिष्ठते । लोकेऽपि गर्भः ' अग्रे ' प्रथमं रेतःसेककाले एव