ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 391–400
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 391–400
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२४७ ‘ सर्वः ’ सम्पूर्णाङ्गः सकृदेव ' न वै सम्भवति ' नैवोत्पद्यते । किन्तु ' सम्भवत: ' उत्पद्यमानस्य पुरुषस्यैकैकमङ्गं क्रमेण ‘ सम्भवति ' निष्पद्यते । तथा च गर्भोपनिषद्यामाम्नातम् ' एक-रात्रोषितं कललं भवति 1 । सप्तरात्रोषितं बुबुदं भवति ' इत्यादि । अतो गर्भवत्क्रमेण संस्कारो युक्त इत्यर्थः ॥ उक्तमेवोत्तरं पुनरपि विस्पष्टयति— सर्वाणि चेत्समानेऽहन् क्रियेरन् कल्पत एव यज्ञः, कल्पते यजमानस्य प्रजातिरथैतं होतैवयामरुतं तृतीयसवने शंसति, तद्याऽस्य प्रतिष्ठा, तस्यामेवैनं तदन्ततः प्रतिष्ठापयति ॥ ३ ॥
हिन्दी – ( उपर्युक्त उत्तर को पुनः स्पष्ट करते हैं— ) सर्वाणि चेत् यदि सभी को समानेऽहन् कियेरन् एक ही दिन में कर दिया जाय तो कल्पते एव यज्ञः ( यजमान के संस्कार में ) यज्ञ सम्पादित हो जाता है और कल्पते यजमानस्य प्रजातिः यजमान का प्रजनन भी सम्पादित हो जाता है । होता एव होता ही तृतीयसवने तृतीयसवन में एतम् एवया - मरुतं शंसति इस एवयामरुत का शंसन करता है तद् या अस्य प्रतिष्ठा जो इस ( यजमान ) की प्रतिष्ठा है । अन्ततः अन्त में तस्यामेव उस ( प्रतिष्ठा ) में ही एनम् इस ( यजमान ) को प्रतिष्ठापयति प्रतिष्ठापित करता है ॥ सा ० भा ० - – ' सर्वाणि ' शिल्पशस्त्राण्येकस्मिन्नेवाहनि ' क्रियेरन् ' । तदानीं तावतैवायं यज्ञो यजमानसंस्कारे हेतुः शिल्पसमूह उपपद्यते । यजमानस्य ‘ प्रजातिः ' जननोपचार उप-पद्यते । अतः सर्वशस्त्रानुष्ठानमेव संस्कारसाधनम् । न तु होतुः शस्त्रस्य प्रथमभावित्वादि-क्रमविशेषः संस्कारोपयोगी । नन्वत्र सर्वशस्त्रानुष्ठानं नास्ति माध्यंदिनसवने, एवयामरुन्नाम्नः सूक्तस्याच्छावाकेनाननुष्ठानात् । नायं दोषः । तत्र तदभावेऽपि तृतीयसवने होतुरेवयामरुच्छ-स्त्रमस्ति । ‘ तत् ’ तथा सति यजमानस्य सर्वशस्त्रानुष्ठानेन ' या ' प्रतिष्ठाऽपेक्षिता, तस्यामेव प्रतिष्ठायाम् ‘ एनं ’ यजमानं तत् ' अन्ततः ' शस्त्राणामन्ते प्रतिष्मते ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्यये ( त्रिंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( ३१ ) ( ११८ )
॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ षष्ठः खण्डः सा ० भा ० – - पूर्वत्र ब्राह्मणाच्छंसिनः शिल्पे शस्त्रे ' सुकीर्ति शंसति ', ' वृषाकपिं शंस-
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
१२४८: ऐतरेयब्राह्मणम् [ ३०.६ षष्ठपञ्चिकायां तीति ' यत्सूक्तद्वयं विहितं तत ऊर्ध्वं कुन्तापाख्यं सूक्तं खिले कुन्तापनामके ग्रन्थे समाम्नात त्रिंशदृचं ' वक्तव्यमिति तदितिहासमाह— ( कुन्तापसूक्तस्येतिहासकथनम् ) छन्दसां वै षष्ठेनाह्नाऽऽप्तानां रसोऽत्यनेदत्, स प्रजापतिरबिभेत्प-राङयं छन्दसां रसो लोकानत्येष्यतीति; तं परस्ताच्छन्दोभिः पर्यगृह्णान्नाराशंस्या गायत्र्या, रैभ्या त्रिष्टुभः, पारिक्षित्या जगत्याः, कारव्ययाऽनुष्टुभस्तत्पुनश्छन्दःसु रसमदधात् ॥ १ ॥
हिन्दी – ( अब कुन्ताप सूक्त का इतिहास बतला रहे हैं - ) षष्ठेन अह्ना आप्तानां छन्दसाम् ( पृष्ठ षडह: के ) षष्ठ दिन प्राप्त ( गायत्री इत्यादि ) छन्दों का रसः सारतत्त्व अत्यनेषत् अतिक्रमण करके प्रवाहित होने लगा । सः प्रजापतिः बिभेत् तब वे प्रजापति भयभीत हो गये कि छन्दसाम् अयं रसः छन्दों का यह रस लोकान् पराङ् अत्येष्यति परावर्तित होकर लोकों को अतिक्रमित कर देगा, ( अत: भयभीत प्रजापति ने ) तम् उस ( रस ) को छन्दोभिः छन्दों के द्वारा परस्तात् पर्यगृह्णात् चारो ओर से रोक लिया । नाराशंस्या गायत्र्याः नाराशंस ( ऋचाओं ) के द्वारा गायत्री के, रैभ्याः त्रिष्टुभः रैभ्या ( ऋचाओं ) के द्वारा त्रिष्टुप् के, परिक्षित्या जगत्याः परिक्षित् ( शब्द ) से युक्त ( ऋचाओं ) द्वारा जगती के कारव्याय अनुष्टुभः कारु ( शब्द ) से युक्त ( ऋचाओं ) द्वारा अनुष्टुप् के ( रस को ) ( रोक लिया ) । तत्पुनः छन्दःसु रसम् अदधात् उससे पुनः छन्दों में रस को प्रतिष्ठित किया । • सा ० भा०— पृष्ठ्यषडहस्य सम्बन्धिनां षष्ठेनाह्ना प्राप्तानां गायत्र्यादीनां छन्दसां ‘ रस: ’ सारः ‘ अत्यनेदत् ’ अतिक्रम्यागच्छत् । तदानीं ' सः प्रजापतिः ' अबिभेत् ' ( १ ) अस्ति चतुरध्यायात्मकः खिलरूप ऋक्परिशिष्टो ग्रन्थः । तत्राद्यो निविदध्यायः, कुन्ता-पाध्यायो द्वितीयः, पुरोरुगध्यायस्तृतीयः, ततः प्रैषाध्यायोऽन्तिमः । तत्र कुन्तापाध्याये त्वादौ नाराशंस्यस्तिस्रः, अथ रैभ्यस्तिस्रः, अथ पारिक्षित्यश्चतस्रः अथ कारव्याश्चतस्रः ‘ अथ दिशांक्लृप्तयः पञ्च; अथ जनकल्पाः षट्, अथेन्द्रगाथाः पञ्च, –इति त्रिंशत् सङ्ख्याका ऋचाः सन्ति; एतावदेव कुन्तापसूक्तम् । ततश्चैतशप्रलापनामकपदसप्ततिः, अथ प्रवह्निका ऋचः षट्, अथ आजिज्ञासेन्या ऋचश्चतस्रः, अथ पदत्रयात्मकः प्रतिराधः, अथातिवाद एकः, अथ सप्तदशपदात्मको देवनीथः, अथ भूतेच्छदतिस्रः, अथाहनस्या ऋच अष्टाविति पञ्चदशविधा मन्त्राः समाम्नाताः । त एवेहेत आरभ्याध्यायसमाप्तिं यावत् पञ्चसु खण्डेषु क्रमाद् विधीयन्ते । तत्रास्मिन् खण्डे त्विन्द्रगाथान्तानां कुन्तापसूक्तीया-नामेवर्चां विधानम्, अत उच्यन्ते – ' त्रिंशद् ऋचम् ' - इति । ( २ ) आप्तानामर्दितानाम् । रसः सारवस्तु । अति द्रुतम् । नेदिर्गलनार्थः । अनेदद् = अगलत् " इति षड्गुरुशिष्यः ।
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२४ ९ भीतवान् । केनाभिप्रायेणेति? सोऽभिधीयते - अयं छन्दसां रसः ' पराङ् ' परावृत्य लोकान् ‘ अत्येष्यति ' अतिक्रम्य गमिष्यति ' इति ' अनेनाभिप्रायेण । ततो भीतः प्रजापतिः ‘ तं ’ रसं ‘ परस्तात् ’ परभागे ' छन्दोभिः गायत्र्यादिभिः ' पर्यगृह्णात् परिंतो निरुद्धवान् । गाय-त्र्यादीनां मध्ये कस्याः सम्बन्धिरसं कया पर्यगृह्णादिति, तदुच्यते - गायत्र्याः सम्बन्धिरसं नाराशंस्या पर्यगृह्णात् । नराशंसशब्दो यस्यामृग्जातावस्ति, सेयं ' नाराशंसो ' । तथा त्रिष्टुभः सारं ' रैभ्या ' रेभशब्दोपेतया ऋग्जात्या पर्यगृह्णात् । जगत्याः सारं ' पारिक्षित्या ' परिक्षि-च्छब्दोपेतया ऋग्जात्या पर्यगृह्णात् । अनुष्टुभः सारं ' कारव्यया ' कारुशब्दोपेतया ऋग्जात्या पर्यगृह्णात् । ‘ तत् ’ तस्मात्परिग्रहादूर्ध्वं पुनः ' छन्दः सु ' गायत्र्यादिषु ' तं ' रसम् ' अदधात् ’ अवस्थापितवान् ॥ वेदनं प्रशंसति— सरसैर्हास्य च्छन्दोभिरिष्टं भवति, सरसैश्छन्दोभिर्यज्ञं तनुते, य एवं वेद ॥ २ ॥
हिन्दी— ( इसके वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है अस्य उस ( जानने वाले ) का यज्ञम् यज्ञ सरसैः छन्दोभिः सरस छन्दों के द्वारा तनुते सम्पादित होता है और सरसैः छन्दोभिः सरस छन्दों के द्वारा इष्टं भवति अभीष्ट को प्राप्त होता है । सा ० भा ० — ‘ अस्या ’ वेदितुर्दर्शपूर्णमासादिकं सारयुक्तैर्गायत्र्यादिभिरिष्टं भवति । अथाग्निष्टोमादिकं प्रौढयज्ञं वेदिता सारयुक्तैश्छन्दोभिः ' तनुते ' विस्तारयति ॥ इदानीं कुन्तापसूक्तगता ऋचो विधत्तें— ( कुन्तापसूक्तगतर्विधानम् ) नाराशंसीः शंसति; प्रजा वै नरो वाक्शंसः, प्रजास्वेव तद्वाचं दधाति, तस्मादिमाः प्रजा वदत्यो जायन्ते य एवं वेदः यदेव नाराशंसी ३ः ॥३ ॥
हिन्दी – ( अब कुन्ताप सूक्तगत ऋचा का विधान कर रहे हैं — ) नाराशंसी शंसति नराशंस ( शब्द ) से युक्त ( ' इदं जना: ' - इस ) तृच का शंसन करता है । प्रजाः वै नरः प्रजाएँ ही नर है और वाक् शंस वाक् शंस है । तद् उस ( तृच के शंसन ) से प्रजासु एव प्रजाओं में ही वाचं दधाति वाणी को धारण कराता है । तस्मात् इसी कारण इमाः प्रजाः ये प्रजाएँ वदन्त्याः जायन्ते बोलते हुए उत्पन्न होती हैं । यः एवं वेद जो इस प्रकार जानता है ( वह वाग्व्यवहार में कुशल होता है ) । यद् एव नाराशंसी जो नाराशंसी है ( वह पूज्य होता है ) ॥ ऐ.ब्रा.उ.- २५
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
१२५०: ऐतरेयब्राह्मणम् [ ३०.६ षष्ठपञ्चिकायां -‘इदं जनाः ' इत्याद्यास्तिस्र ऋचो नाराशंस्यः ' । तत्र ‘ नराशंसस्तविष्यते ' सा ० भा०- श्रुतत्वात् । तास्तिस्र ऋचो ब्राह्मणाच्छंसी शंसेत् ' । तत्र पर इत्यनेन इति नराशंसशब्दस्य प्रजा विवक्षिताः । शंस इत्यनेन वाग्विवक्षिता । अतस्तच्छंसनेन प्रजास्वेव वाचमवस्थाप-यति । ‘ तस्मात् ’ कारणादिमाः प्रजा लोके ‘ वदत्यः ' वाग्व्यवहारयुक्ता उत्पद्यन्ते । यं एवं वेद ', तस्य वाग्व्यवहारक्षमाः प्रकाशयन्त इति शेषः । नाराशंसीरिति यदेवास्ति, तत्पूज्य-मिति प्लुतेरभिप्रायः ॥ ता ऋचः पुनः प्रशंसति— शंसन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः · शंसन्त एव स्वर्गं लोकं यन्ति ॥४ ॥
हिन्दी— ( उस नाराशंसी ऋचाओं की पुनः प्रशंसा कर रहे हैं - ) देवाश्च ऋषयश्च देवताओं और ऋषियों ने शंसन्तः एव ( इन ऋचाओं का ) शंसन करते हुए ही स्वर्ग. लोकम् आयन् स्वर्गलोक को प्राप्त किया । तथा यजमानाः उसी प्रकार यजमान लोग एतत् शंसन्तः एवं इनका शंसन करते हुए स्वर्गं लोकं यन्ति स्वर्गलोक को प्राप्त करते हैं ॥ सा ० भा ० – स्पष्टोऽर्थः ॥ तच्छंसने कञ्चिद्विशेषं विधत्ते— ताः प्रग्राहं शंसति, यथा वृषाकपिं; वार्षाकपं हि वृषाकपेस्त-न्यायमेति ॥ ५ ॥
हिन्दी - ताः उन ( ऋचाओं ) को प्रग्राहम् ( उसी प्रकार ) पाद - पाद पर अवसान करके शंसति शंसन करता है यथा वृषाकपिम् जिस प्रकार वृषाकपि का ( पाद - पाद पर अवसान करके शंसन करते हैं ) । वाषाकपं वृषाकपि से सम्बन्ध करना चाहिए; क्योंकि वृषाकपेः हि वृषाकपि नाम वाले ( सूक्त ) के न्यायम् एति न्याय ( प्रकार ) को प्राप्त करता है । सा ० भा०- ' ताः ' नाराशंसीस्त्रिस्त्र ऋचः ' प्रगाहं ' पादे पादे प्रगृह्य अवसाय शंसेत्; । ( १ ) ऋ ० परिशिष्टे २.१.१-३ ) | ( २ ) नाराशंस्यादीनामिन्द्रगाथान्तानां त्रिंशदृचां कुन्तापसूक्तमिति समाख्या । ' तस्माद् ( वृषाकपेः ऊर्ध्वं कुन्तापम् ' इति आश्व ० श्रौ ० ८.३.७ । ( ३ ) ( क ) ङसोङसिः वेदितुः । शतुर्नुम्न । वेदितुस्तु प्रजायेरन् प्रजा वाग्मित्वसंयुताः । इति षड्गुरुशिष्यः । ( ख ) य एवं वेद सोऽपि प्रजासु वाचम् - इत्यध्याहारः - इति गोविन्दस्वामी ।
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १२५१ यथा वृषाकपिसूक्तं पादे पादे विगृह्य शंसति, तद्वदेतत् ' । वृषाकपिसूक्ते प्रग्रहविधिरर्थसिद्धो द्रष्टव्यः । ‘ हि ’ यस्मात्कारणादिदमृचां शंसनं ' वार्षाकपं ' वृषाकपिसम्बन्धं कर्तव्यम् । ' तत् ' तस्मात्कारणाद् ‘ वृषाकपेः ’ एतन्नामकस्य सूक्तस्य ' न्यायं ' प्रकारम् ' एति ' प्राप्नोति । विग्रह एवात्र तन्न्यायः ॥ वृषाकपिसूक्ते न्यूङ्खनिनर्दावपि विद्येते । अतोऽत्रापि तदुभयप्राप्तौ न्यूङ्खं निराकृत्येतरं विधत्ते— ( तत्र न्यूङ्खनिषेधः ) तासु न न्यूङ्खयेन्नी वीव नर्वेत् स हि तासां न्यूङ्खः ॥६ ॥
हिन्दी – तासु उन ( ऋचाओं ) में न न्यूङ्खयेत् न्यूङ्ख नहीं करना चाहिए किन्तु नी वीव नर्देत् ' नी वीव ' इति इस ( विशेष प्रकार से ) निनर्दन करे; क्योंकि सः हि तासां न्यूङ्खः वह ही उन ( ऋचाओं ) का न्यूङ्ख है ॥ सा ० भा ० - – ' तासु ' नाराशंसीषु न्यूङ्खं न कुर्यात् । किन्तु ' नी वीव ' नर्देदेव निनर्दमेव कुर्यात् । ' सः ' एव निनर्दः ' तासां ' नाराशंसीनां न्यूङ्खस्थानीयः । तृतीयपादस्य द्वितीयस्वरे त्रयोदशभिरोकारैस्तत्र चावसानं कृत्वा त्रयाणां त्रिमात्राणामोकाराणामुच्चारणं न्यूङ्खः । तृतीय-पादस्य प्रथमाक्षरमनुदात्तत्वेन द्वितीयाक्षरमुदात्तत्वेनोच्चारयेदिति यदस्ति, सोऽयं निनर्दः ॥ ऋगन्तराणि विधत्ते— ( १ ) ' तस्य ( कुन्तापस्य ) आदितश्चतुर्दश ( कारव्यान्याः ) विग्राहं निनदं शंसेत् इति आश्व ० श्रौ ० ८.३.८ । इह त्वित उत्तरमेव निनर्दं विधास्यति । ( २ ) ‘ अथ वृषाकपिं शंसेद् यथा होताज्याद्याञ्चतुर्थे ' – इति आश्व ० श्रौ ० ८.३.४ । आज्याद्यधर्मास्तु अर्धर्चशंसनम्, विग्राहः, त्रिरभ्यासः, न्यूङ्खः, निनर्दः, प्रतिगतरश्चेति षट् ( ७.११.१-२१ ) । अर्धर्चशंसनातिदेशं वारयितुं तत उक्तम् — ' पतिशंसन्त्विह ' – इति ( ५ ) । ( ३.क ) “ तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निनर्देत् । तदपि निदर्शनायोदाहरिष्यामः इदं जना उपश्रुत । नराशंसस्तविष्यते । षष्टिं सहस्रा नवतिं च कौरम आरुशमेयु दद्-महो ३ म् ’ – इति ” —इति आश्व ० श्रौ ० ८.३.९, १० । इह षकारोऽनुदात्तष्टिकार उदात्तः, अन्यदेकश्रुतिः । ( ख ) अत्र सूक्ते ' तस्मादूर्ध्वं कुन्तापम् । तस्यादितश्चतुर्दश विग्राहं निनदं शंसेत् । तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तं निनर्देत् ' ( आश्व ० श्रौ ० ८.३.७ - ९ ) इति यो निन-र्दस्तृतीयपादाद्योपाद्यस्वरगतः प्रसिद्धः स एव तासां न्यूङ्खनिनर्दलाभकर इति गृह्यताम् । नि = दीर्घश्छान्दसः । वि साधु, इव, निनर्देत् । स तासां न्यूङ्ख इव स्यात् । निनर्दशब्दवाच्यत्वान्निनर्दस्वर एव हि । द्वितीयस्वरगामित्वान्युङ्खत्वमपि चेष्यताम् । न्यूङ्खात् पूर्वोऽनुदात्तोऽभूत् तत्रात्रापि समं हि तत् । इति षड्गुरुशिष्यः ।
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
१२५२: ऐतरेयब्राह्मणम् [ ३०.६ षष्ठपञ्चिकायां ( ऋगन्तराणां शंसनविधानम् ) रैभीः शंसति ॥७ ॥
हिन्दी— ( रैभी ऋचाओं का विधान कर रहे हैं - ) रैभीः शंसति रेभ शब्द से युक्त ( ' वच्यस्वरेभवच्यस्व ’ – इस ) तृच का शंसन करता है ॥ सा ० भा ० – - रेभशब्दोपेता ऋचो रैभ्यो ' वच्यस्वरेभवच्यस्व ' - इत्याद्यास्तिस्रः ' । ताः शंसेत् ॥ ता ऋचः प्रशंसति— रेभन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति ॥८ ॥
हिन्दी— ( उन रैभी ऋचाओं की प्रशंसा कर रहे हैं— ) रेभन्तः वै रेभन् ध्वनि करते हुए ही देवाश्च ऋषयश्च देवताओं और ऋषियों ने स्वर्गं लोकम् आयन् स्वर्गलोक को ` प्राप्त किया तथैव उसी प्रकार यजमानाः यजमान लोग रेभन्तः एव रेभन् शब्द ( कीर्ति ) को करते हुए ही स्वर्गं लोकं यन्ति स्वर्गलोक को जाते ( प्राप्त करते ) हैं ॥ सा ० भा ० — ' रेभन्तः ' शब्दं कुर्वन्तः कीर्तिं कुर्वन्त इत्यर्थः ॥ विग्रहादिकं विधत्ते— ताः प्रग्राहं शंसति, यथा वृषाकपिं; वार्षाकपं हि वृषाकपेस्तन्या-यमेति; तासु न न्यूङ्खयेन्नी वीव नर्देत्, स हि तासां न्यूङ्खः ॥९ ॥
हिन्दी - ताः विग्राहं शंसति उन ( ऋचाओं ) का ( उसी प्रकार पाद - पाद पर अवसान करके ) शंसन करता है । यथा वृषाकपिम् जिस प्रकार वृषाकपि का ( पाद - पाद पर अवसान करके पाठ करते हैं ) । वर्षाकपम् वृषाकपि से सम्बन्ध वृषाकपेः हि वृषाकपि से न्यायम् एति न्याय को ( ऋचाओं ) में न्यूङ्ख नहीं करना चाहिए; प्रत्युत नी विशेष करना चाहिए । सः हि तासां न्यूङ्खः वही न्यूङ्ख है ॥ सा ० भा ० – पूर्ववत् ॥ ऋगन्तराणि विधत्ते— पारिक्षितीः शंसति प्राप्त करता है वीव नर्देत् ' नी ( ध्वनि - विशेष ) ॥ १० ॥
करना चाहिए; क्योंकि । तासु न न्यूङ्खयेत् उन वीव ' इस प्रकार ध्वनि-ही उन ( ऋचाओं ) का ( ३ ) ऋ ० परिशिष्टे २.२.१-३; अथर्व ० २०.१२७.४ - ६; ऋ ० खि ० ५.९; शांखा ० श्रौ ० १२.१५.१; १४.४, ५; तु ० वैत ० १२.१ ९ ।
पृष्ठ 397
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२५३ हिन्दी - ( अब ' परिक्षित् ' शब्द से युक्त ऋचाओं को कह रहे हैं - ) पारिक्षितो शंसति परिक्षित् शब्द से युक्त तृच का शंसन करता हैं । सा ० भा ० — परिक्षिच्छब्दोपेताः ' राज्ञो विश्वजनीनस्य ' इत्याद्याश्चतस्त्र ऋचः पारि-क्षित्यः; तासु ‘ परिक्षितः क्षेममकरत् ' इति परिक्षिच्छब्दस्य श्रुतत्वात् । ता ऋचः शंसेत् ॥ ताः प्रशंसति— अग्निर्वै परिक्षिदग्निर्होमाः प्रजाः परिक्षेत्यग्निं हीमाः प्रजा परि-क्षियन्ति ॥ ११ ॥
हिन्दी — ( परिक्षित् शब्द से युक्त ऋचाओं की प्रशंसा कर रहे हैं- ) अग्निर्वै परिक्षित् अग्नि ही परिक्षित् है । अग्निर्हि इमा प्रजाः परिक्षेति क्योंकि अग्नि ही इन प्रजाओं की ( तपाने और पकाने के बाद ) रक्षा करता है और अग्निः हि इमाः प्रजाः परिक्षियन्ति अग्नि हि इन प्रजाओं के लिए सभी ओर से सेवनीय है ॥ सा ० भा ० — तास्वृक्षु परिक्षिच्छब्देनाग्निरेवाभिधीयते । अग्निर्हीींमाः सर्वाः प्रजा दाह-पाकादिना परिपालयन् ' क्षेति ' निवसति । प्रजाश्चेमा अग्निं परितः सेवमानाः ‘ क्षियन्ति ’ निवसन्ति । अतः कर्तरि कर्मणि वा व्युत्पत्त्याऽयमग्निः परिक्षिद्भवति ॥ वेदनं प्रशंसति— अग्नेरेव सायुज्यं सारूपतां सलोकतामश्नुते य एवं वेद ॥१२ ॥
हिन्दी— ( इसके वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह अग्नेः एव अग्नि की ही सायुज्यं सरूपतां सलोकताम् अश्नुते सायुज्य ( साथ-साथ निवास ), समरूपता और समानलोकता को प्राप्त करता है । सा ० भा ० — सहवास - समानरूप - समानलोकत्वानि वेदिता प्राप्नोति ॥ तासामृचां प्लुतेन पूज्यत्वं दर्शयति— यदेव पारिक्षिती ३: ॥ १३ ॥
हिन्दी – ( इन ऋचाओं की पूजनीयता को दिखला रहे हैं— ) यद् एव पारिक्षितिः जो परिक्षित् शब्द से युक्त ( ऋचाएँ ) हैं ( वे पूज्य हैं ) ॥ सा ० भा ० – प्रकारान्तरेण ताः प्रशंसति— संवत्सरो वै परिक्षित्, संवत्सरो हीमाः प्रजाः परिक्षेति; संवत्सरं हीमाः प्रजाः परिक्षियन्ति ॥ १४ ॥
हिन्दी - ( प्रकारान्तर से पारिक्षित ऋचाओं की प्रशंसा कर रहे हैं - ) संवत्सरो वै परिक्षित् परिक्षित् संवत्सर रूप है । संवत्सरो हि इमाः प्रजाः परिक्षेति संवत्सर ही
पृष्ठ 398
पाठ पढ़ें पाठ छिपाएँ
१२५४: ऐतरेयब्राह्मणम् [ ३०.६ षष्ठपञ्चिकायां इन प्रजाओं की सभी ओर से रक्षा करता है । संवत्सरं हि इमा प्रजाः परिक्षियन्ति
संवत्सर को ही ये प्रजाएँ चारो ओर से सेवन करती हैं ।
सा ० भा ० — अग्निवाक्यवद् व्याख्येयम् ॥
वेदनप्रशंसां प्रग्राहविधिं च दर्शयति-संवत्सरस्यैव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद; ताः प्रग्राहं शंसति, यथा वृषाकपिं, वार्षाकपं हि वृषाकपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नी वीव नर्देत्, स हि तासां न्यूङ्खः ॥१५ ॥
हिन्दी – ( इन ऋचाओं के वेदन की प्रशंसा और प्रगाह विधि को दिखला रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है वह संवत्सरस्य सायुज्यं सरूपतां सलोकताम् अश्नुते संवत्सर के सहवास, समानरूपता और समानलोकता को प्राप्त करता है । ताः प्रग्राहं शंसति उन ( ऋचाओं ) को पाद- पाद पर अवसान करके शंसन करता है यथा वृषाकपिम् जिस प्रकार वृषाकपि का पाद - पाद पर अवसान करके किया जाता है । वार्षाकपम् वृष्यकपि से सम्बन्ध स्थापित करता है । वृषाकपेः तन्न्यायम् एति क्योंकि वृषाकपि से उसकी प्रकारता को प्राप्त करता है । तासु न न्यूङ्खयेत् उन ( ऋचाओं ) में न्यूङ्ख नहीं करना चाहिए प्रत्युत नी वीव नर्देत् ' नी वीव ' इस विशेष ध्वनि को करना चाहिए सः हि तासां न्यूङ्खः क्योंकि वही उन ( ऋचाओं ) का न्यूङ्ख है है ॥ सा ० भा ० - – पूर्ववद् व्याख्येयम् ॥ ऋगन्तराणि विधत्ते— कारव्याः शंसति ॥१६ ॥
हिन्दी – ( कारु शब्द से युक्त ऋचाओं का विधान कर रहे हैं - ) कारव्याः शंसति कारु शब्द से युक्त ( ‘ इन्द्रः कारुमबूधत् ' - इन चार ऋचाओं ) का शंसन करता है । सा ० भा ० — कारुशब्दोपेताः ‘ कारव्याः ’, ‘ इन्द्रः कारुमबूधद् ’ - इत्याद्याश्चतस्रः ' शंसेत् ॥ ताः प्रशंसति— देवा वै यत्किञ्च कल्याणं कर्माकुर्वंस्तत् कारव्याभिरवाप्नुवंस्तथै-वैतद् यजमाना यत्किञ्च कल्याणं कर्म कुर्वन्ति, तत् कारव्याभि-राप्नुवन्ति ॥ १७ ॥
. हिन्दी - ( उन कारव्य ऋचाओं की प्रशंसा कर रहे हैं - ) देवाः देवताओं ने यत्किञ्च कल्याणं कर्म अकुर्वन् जो कुछ भी कल्याण का कार्य किया तत् कारव्याभिः ( १ ) ऋ ० परि ० २.४.१-४
पृष्ठ 399
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२५५ अवाप्नुन् उसको कारु शब्द से युक्त ( ऋचाओं ) द्वारा प्राप्त किया था । तथैव उसी प्रकार एतत् यजमानाः ये यजमान लोग यत्किञ्च कल्याणं कर्म कुर्वन्ति जो कुछ भी कल्याण का कार्य करते हैं तत् कारव्याभिः आप्नुवन्ति उसे कारु शब्द से युक्त ( ऋचाओं ) द्वारा प्राप्त करते हैं । सा ० भा ० — ' कल्याणं ' काम्यफलार्थं कर्म कृतवतां कारव्याभिर्ऋग्भिस्तत्फलप्राप्ति-र्भवति ॥ विग्रहादिकं विधत्ते— ताः प्रग्राहं शंसति, यथा वृषाकपिं; वार्षाकपं हि वृषाकपेस्तन्न्याय-मेति; तासु न न्यूङ्खयेन्नो वीव नर्देत्, स हि तासां न्यूङ्खः ॥ १८ ॥
हिन्दी – ( इसके विग्रह इत्यादि का विधान कर रहे हैं - ) ताः प्रग्राहं शंसति उन ( ऋचाओं ) को पाद - पाद पर अवसान करके शंसन करता है यथा वृषाकपिम् जिस प्रकार वृषाकपि का ( पाद - पाद पर अवसान करके शंसन करते हैं ) । वार्षाकपम् वृषाकपि से सम्बन्ध ( बनाता है ) । वृषाकपेः हि तन्न्यायम् एति क्योंकि वृषाकपि के उस प्रकारता को प्राप्त करता है । तासु न न्यूङ्खयेत् उन ( ऋचाओं ) में न्यूङ्ख नहीं करना चाहिए । नी वीव ' नर्देत् ' नी वीव ' इस प्रकार की विशेष ध्वनि करना चाहिए सः हि तासां न्यूङ्खः क्योंकि वही उन ( ऋचाओं ) का न्यूङ्ख होता है । सा ० भा ० - – पूर्ववद् व्याख्येयम् ' ॥ ऋगन्तराणि विधत्ते — दिशांक्लृप्तीः शंसति; दिश एव तत्कल्पयति ॥ १ ९ ॥ हिन्दी - ( दिशांक्लप्ति संज्ञक ऋचाओं का विधान कर रहे हैं - ) दिशांक्लृप्तीः क्लृप् धातु से युक्त ( ‘ ते देवा प्रागकल्पयन् ' इत्यादि पाँच ऋचाओं ) का शंसन करता है । दिशः एव तत् कल्पयति इस शंसन से दिशाओं को ही ( अनुकूल ) बनाता है । सा ० भा ० -'य: सभेयो विदथ्यः ' इत्याद्या ऋच: दिशांक्लृप्तीः शंसेत् । प्राच्यादि-दिग्वत्पञ्चसंख्योपेतत्वात् । ' ते देवाः प्रागकल्पयन्निति क्लृपिधातुश्रवणाच्च दिशांक्लृप्ति-त्वम् । तच्छंसनेन दिश एव ' कल्पयति ' स्वप्रयोजनक्षमाः करोति ॥ तासामृचां संख्यां दर्शयति— ताः पञ्च शंसति; पञ्च वा इमा दिशश्चतस्त्रस्तिरश्चय एकोर्ध्वा ॥ २० ॥.
हिन्दी - ( उन ऋचाओं की संख्या की प्रशंसा कर रहे हैं - ) ताः पञ्च शंसति उन ( १ ) —चंतुर्दश्याम् ( कारव्यचतुर्थ्याम् ) एकेन द्वाभ्यां च विग्रहः ' इति आश्व ० श्रौ ० ८.३.१२ । ( २ ) ऋ ० परि ० २.५.१-५ ।
पृष्ठ 400
पाठ पढ़ें पाठ छिपाएँ
१२५६: ऐतरेयब्राह्मणम् [ ३०.६ षष्ठपञ्चिकायां ( क्लृप् धातु से युक्त ) पाँच ( ऋचाओं ) का शंसन करता है । चतस्रः तिरश्चयः तिरछे रूप से अवस्थित ( इन्द्र, यम, वरुण और सोम से सम्बन्धित ) चार और एक ऊर्ध्वा एक ऊपर की इस प्रकार इमाः पञ्च वै दिशः ये पाँच ही दिशाएँ हैं ॥ सा ० भा०- – दिशांक्लृप्तिसंज्ञकास्ता ऋचः पञ्च शंसेत् अर्यमा उपलभ्येत्याद्याः । दिशः पञ्चसंख्याका एव । ऐन्द्री, यामी, वारुणी, सौमी, चेत्येवं ' तिरश्चयः ' तिर्यगवस्थिता
दिशश्चतस्रः, ऊर्ध्वं चैका । इत्थं पञ्चसंख्योपपद्यते ॥
न्यूङ्खनिनर्दो निषेधति— तासु न न्यूङ्खयेन्नैवैव च निनर्देन्नेदिमा दिशो न्यूङ्खयानीति ॥ २१ ॥
हिन्दी – ( इन ऋचाओं में न्यूङ्ख और निनद का निषेध कर रहे हैं - ) तासु उन ( ऋचाओं ) में न न्यूङ्खयेत् न न्यूङ्ख करना चाहिए नैवैव च निनर्देत् और न तो ध्वनि - विशेष करना चाहिए ( क्योंकि ) इमाः दिशः न्यूङ्खयानि ये दिशाएँ ही न्यूङ्ख हैं । सा ० भा ० — ' तासु ' दिशांक्लृप्तिषु न्यूङ्खं न कुर्यात् । तथा निनर्दमपि नैव कुर्यात् । ‘ एव ’ ‘ चेति ’ पदद्वयं विषययोः समुच्चयार्थम् । न्यूङ्खवर्जने कोऽभिप्रायः? सोऽभिधीयते — इमा दिशो ' नेत् न्यूङ्खयानि ' नैव चालयानि ' इति ' अनेनाभिप्रायेण । न्यूङ्खनिनर्दयोर ( न ) भि-धानादेव वर्जनसिद्धौ निषेधो नित्यानुवादः । पूर्वमन्त्रदृष्टान्तेन शङ्कितयोर्निषेधार्थो वा ॥ शंसने विशेषं दर्शयति-ता अर्धर्चशः शंसति, प्रतिष्ठाया एव ॥ २२ ॥
हिन्दी - ( दिशां कल्लृप्तिसंज्ञक ऋचाओं के शंसन में विशेष दिखला रहे हैं - ) ताः अर्धर्चशः शंसति उन ( ऋचाओं ) को आधी - आधी ऋचा पर अवसान करके शंसन करता है । ( वह शंसन ) प्रतिष्ठायै एव प्रतिष्ठा के लिए ( सम्पादित ) होता है ॥ सा ० भा०- –पूर्वासामृचां पादे पादेऽवसाय शंसनमुक्तम् । तास्तु दिशांक्लृप्तीरर्ध-चेंऽर्द्धेऽवसायं शंसेत् । अर्धर्चस्य प्रत्यृचं द्वित्वात्तच्छंसनं प्रतिष्ठानं सम्पद्यते ' ॥ ऋगन्तराणि विधत्ते— जनकल्पाः शंसति, प्रजा वै जनकल्पा, दिश एव तत्कल्पयित्वा तासु प्रजाः प्रतिष्ठापयति ॥ २३ ॥
हिन्दी - ( अन्य ऋचाओं का विधान कर रहे हैं - ) जनकल्पाः शंसति जनकल्प संज्ञक ( ' योऽनाक्ताक्ष: ' - इन छः ऋचाओं ) का शंसन करता है । प्रजाः वै जनकल्पाः जनकल्पसंज्ञक ( ऋचाएँ ) प्रजा रूप हैं । तद् दिशः एव कल्पयित्वा उस ( शंसन ) से ( १ ) सूत्र्यते हि - ' शेषोऽर्धर्चश: ' इति आश्व ० श्रौ ० ८.३.१३ ।