ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 401–410
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 401–410
पृष्ठ 401
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२५७ दिशाओं को सम्पादित करके तासु प्रजाः प्रतिष्ठापयति उनमें प्रजाओं को प्रतिष्ठापित करता है । सा ० भा०– ' योऽनाक्ताक्षः ' इत्याद्याः षड्ऋचो जनकल्पाभिधाः ' शंसेत् । अना-क्ताक्ष इत्यादिना पुरुषविशेषानुपन्यस्यते ' । ताः कल्पेषु ' कल्पशब्दाभिधानादेव ‘ जनकल्पाः ’, तासां प्रजारूपत्वात् । पूर्वोक्तदिग्रूपाभिर्ऋग्भिर्दिशः सम्पाद्य ' तासु ' दिक्षु प्रजाः प्रतिष्ठापयति ॥ पूर्ववन्यूङ्खनिनर्दनिषेधमर्धर्चेऽवसानं च दर्शयति— तासु न न्यूङ्खयेन्नैवैव च निनर्देन्नेदिमाः प्रजा न्यूङ्खयानीति; ता अर्धर्चशः शंसति, प्रतिष्ठाया एव ॥ २४ ॥
हिन्दी – तासु उन ( ऋचाओं ) में न न्यूङ्खयेत् न न्यूस करना चाहिए नैवैव च निनर्देत् और न तो ध्वनि - विशेष करना चाहिए ( क्योंकि उनमें ) इमाः प्रजा न्यूङ्खानि ये प्रजाएँ न्यूङ्ख होती हैं । प्रतिष्ठायै एव प्रतिष्ठा के लिए ही ताः अर्धर्चशः शंसति उन ( ऋचाओं ) को आधी - आधी ऋचा पर अवसान करके शंसन करता है । ऋगन्तराणि विधत्ते — इन्द्रगाथाः शंसतीन्द्रगाथाभिर्वै देवा असुरानभिगायाथैनानत्यायं-स्तथैवैतद् यजमाना इन्द्रगाथाभिरेवाप्रियं भ्रातृव्यमभिगायाथैन-मतियन्ति ॥ २५ ॥
हिन्दी - ( अन्य ऋचाओं का विधान कर रहे हैं— ) इन्द्रगाथा शंसति इन्द्र सम्बन्धी गाथा ( ' यदिन्द्रादो दाशराज्ञे ' - इन पाँच ऋचाओं ) का शंसन करता है । इन्द्रगाथाभिः वै देवाः इन्द्रगाथा के द्वारा ही देवताओं ने असुरान् अभिगाय असुरों को ( युद्ध के लिए ) अभिमुख किया । अथ एनान् आत्यायन् इसके बाद उन ( असुरों ) को अतिक्रमित किया । तथैव एतद् यजमानाः उसी प्रकार ये यजमान लोग इन्द्रगाथाभिः इन्द्रगाथाओं के द्वारा अप्रियं भ्रातृव्यम् अप्रिय शत्रु को अभिगाय अभिमुख करते हैं अथ एनम् अतियन्ति इसके बाद इस ( शत्रु ) को अतिक्रमित करते हैं । सा ० भा०– ' यदिन्द्रादो दाशराज्ञे ' इत्याद्याः पञ्चर्चं इन्द्रगाथाभिधाः * शंसेत् । इन्द्रो गाथ्यते कथ्यते यास्वृक्षु ताः ' इन्द्रगाथाः ' । ताभिर्देवा असुरानभिगाय योद्धुमाभिमुख्येन प्राप्य युद्धेनैनान् ‘ अत्यायन् ’ अतिक्रान्तवन्तः, अयं प्राप्ता इत्यर्थः । देववद् यजमाना अप्येताभि-र्वैरिणं जयन्ति ॥ पूर्ववदर्धर्चेऽवसानं विधत्ते-( १ ) ऋ ० परि ० २.६.१-६ ( २-३ ) जनकल्पाभिधासु ऋक्षु द्रष्टव्यम् । ( ४ ) ऋ ० परि ० २.७.१-५
पृष्ठ 402
पाठ पढ़ें पाठ छिपाएँ
१२५८: ऐतरेयब्राह्मणम् [ ३०.७ षष्ठपञ्चिकायां ता अर्धर्चशः शंसति, प्रतिष्ठाया एव ॥२६ ॥
हिन्दी — ताः उन ( ऋचाओं ) को प्रतिष्ठायै एव प्रतिष्ठा के लिए ही अर्धर्चशः शंसति आधी - आधी ऋचा पर अवसान करके शंसित करता है ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्यये ( त्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( ३२ ) ( ११ ९ )
॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामैक हिन्दी व्याख्या समाप्त ॥ सप्तमः: खण्ड: सा ० भा ० — कुन्तापनामकं त्रिंशदृचं सूक्तं विधायैतशप्रलापनामकं पदसमूहं विधत्ते— ( ऐतशप्रलापनामकपदसमूहविधानम् ) ( तत्राख्यायिका ) ऐतशप्रलापं शंसति ॥ १ ॥
हिन्दी – ऐतशप्रलापं शंसति ऐतशप्रलाप ( नामक पद - समूहों शंसन करता है । सप्ततिसंख्याकं ' का ब्राह्मणाशंसी ) सा ० भा ० - - ऐतशाख्येन मुनिना दृष्टः ' ऐतशः ' । अनन्वितानामर्थानां वचसां संलापः ‘ प्रलापः ’ । तं ब्राह्मणाच्छंसी शंसेत् ॥ तमैतशप्रलापं स्तोतुमाख्यायिकामाह— ऐतशो ह वै मुनिरग्नेरायुर्ददर्श यज्ञस्यायातयाममिति हैक आहुः; सोऽब्रवीत् पुत्रान् —पुत्रका अग्नेरायुरदर्श, तदभिलपिष्यामि, यत्किञ्च वदामि, तन्मे मा परिगातेति, स प्रत्यपद्यतैता अश्वा आप्लवन्ते, प्रतीपं प्रातिसत्वनमिति ॥२ ॥
हिन्दी— ( ऐतशप्रलाप की स्तुति के लिए आख्यायिका को कह रहे हैं— ) एतशो ह वै मुनिः ऐतश नामक ऋषि ने ' अग्नेरायुः ' ( नामक मन्त्र का ) ददर्श दर्शन किया । एके ( १ ) ( क ) ' एता अश्वा आप्लवन्त इति सप्ततिपदानि ' - इत्यादीनि आश्व ० श्रौ ० ८.३.१४-१७। ‘ सप्ततिपदं शाखान्तरे वक्तचित् षट्सप्ततिपदानि सन्तीति प्रदर्शनार्थम् ' इति तद्वृत्तौ नारायणः । ( ख ) तु ० अथर्व ० २०.१२ ९.१ ।
पृष्ठ 403
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२५ ९ ह कुछ याज्ञिक इस मन्त्र को ' यज्ञस्यायातयामम् ' इति आहुः इस ( नाम ) से कहते हैं ।. सः पुत्रान् अब्रवीत उस ( ऐतश ) ने पुत्रों से कहा – पुत्रकाः हे पुत्रो! अग्नेरायुम् अदर्शम् ‘ अग्नेरायुः ' मन्त्र का मैंने दर्शन किया है अतः तद् अभिलपिष्यामि उसका मैं ( आप लोगों के सामने ) प्रलाप करूँगा । यत्किञ्च जो कुछ भी वदामि मैं कहता हूँ तन्मे मा परिगात उस मेरे ( प्रलाप ) की ( असङ्गत अर्थ होने के कारण ) निन्दा मत करना । सः प्रत्यपतद्यत उस ( ऋषि ) ने प्रलाप आरम्भ किया । ' एता अश्वा आप्लवन्ते ' ( यह प्रथम पदसमूह ) और ‘ प्रतीपं प्रातिसत्वनम् ' ( यह द्वितीय पद समूह है ) । सा ० भा ० — ऐतशनामकः कश्चिन्मुनिः ‘ अग्नेरायुः ' इत्येतन्नामकं मन्त्रकाण्डं ददर्शम् । पूर्ववदग्नेः प्रियत्वात्तस्य काण्डस्याग्नेरायुरिति नाम सम्पन्नम् । ‘ एके ’ याज्ञिका ‘ यज्ञस्याया-तयाममिति ' तस्य मन्त्रकाण्डस्य नामधेयमाहुः । पुनः पुनः पठितैः सार्थकैर्मन्त्रजातैरलसो यज्ञो गतसारोऽभूत् । तस्य यज्ञस्याऽऽलस्यपरिहारेण सारोत्पादनादसम्बन्धप्रलापरूपस्य मन्त्र-काण्डस्य ‘ अयातयाममिति ' नाम सम्पन्नम् । ' सः ' मुनिरैतशः स्वकीयान् ' पुत्रान् ' प्रत्येव-मब्रवीत्, —हे ‘ पुत्रकाः ’ कुत्सिताः पुत्राः अहमग्नेरायुरित्येतन्नामकं मन्त्रकाण्डं दृष्टवानस्मि । तदहं भवतामग्रेऽभिलपिष्यामि । तस्मिन् सङ्गतार्थस्य कस्यप्यभावाद् यत्किञ्चिद् वाङ्मात्रं वदामि । ‘ तत् ’ मे वचनं यूयं ' मा परिगाता ' अस्य वचनस्य निन्दां मा कुरुत ' । एवं पुत्रान् मन्त्रयित्वा ‘ सः ’ मुनिः ‘ प्रत्यपद्यत ' प्रलापं प्रारब्धवान् । सप्ततिसंख्याकपदसमूहरूपे तस्मिन् ' एता अश्वा आप्लवन्ते ' इति प्रथमं पदम् । ' प्रतीपं प्रातिसत्वनमिति ' द्वितीयं पदम् । ' इति ' शब्दः प्रदर्शनार्थः, इत्यादिकं सप्ततिपदसमूहमुक्तवान् ' ॥ तदीयपुत्रवृत्तान्तं दर्शयति-— तस्याभ्यग्निरैतशायन एत्याकालेऽभिहाय मुखमप्यगृह्णाददृपन्नः पितेति ॥३ ॥
हिन्दी – ( उस ऐतश ऋषि के पुत्रों के वृत्तान्त को कह रहे हैं— ) ऐतशायनः ऐतश ( ऋषि ) के पुत्रों में अभ्यग्निः अभ्यग्नि नामक पुत्र ने एत्य ( अकस्मात् ) आकर अकाले असमय में ( प्रलाप के न समाप्त हुए ही ) अभिहाय ( पिता के ) अभिमुख होकर तस्य उस ( पिता ) के मुखम् अपि अगृह्णात् मुख को ही बन्द कर दिया कि नः पिताप अदृपत् मेरे पिता उन्मत्त हो गये हैं । सा ० भा ० —– तस्य मुखमित्यन्वयः । ऐतशस्य पुत्र ' ऐतशायनः ’ । स च ‘ अभ्यग्निः ’ इत्येतन्नामक: । एतादृश ‘ एत्य ' प्रलपन्तं पितरं दृष्ट्वा सहसा समेत्य, तदानीम् ' अकाले ' ( १ ) अभिलापो यथेष्टोक्तिः कन् पुत्रादनुकम्पने । ' ऋदृशोऽङि गुणो ऽदर्शं परिगातिस्तु निन्दने ॥ इति षड्गुरुशिष्यः । ( २ ) सूत्र्यते हि — ' एता अश्वा आप्लवन्त इति सप्ततिं पदानि - इति आश्व ० श्री ० ८.३.१४ ।
पृष्ठ 404
पाठ पढ़ें पाठ छिपाएँ
१२६०: ऐतरेयब्राह्मणम् [ ३०.७ षष्ठपञ्चिकायां प्रलापसमाप्तिकालाभावेऽपि ‘ अभिहाय ' आभिमुख्येनोत्थाय तस्य पितुर्मुखमपि, ‘ अगृह्णाद् ’ हस्तेनाऽऽच्छादितवान् । केनाभिप्रायेणेति? सोऽभिधीयते — ' नः ’ अस्माकं पिता तदानीम् ‘ अदृपद् ’ दर्पं प्राप्तः, उन्मत्त इत्यभिप्रायेण ॥ अथ मुनेर्वृत्तान्तमाह— तं होवाचापेह्यलसोऽभूर्यो मे वाचमवधीः शतायुं गामकरिष्यं, सह-स्रायुं पुरुषं, पापिष्ठां ते प्रजां करोमि, यो मेत्थमसक्था इति ॥४ ॥
हिन्दी— ( अब ऋषि ऐतश के वृत्तान्त को कह रहे हैं— ) तम् उस ( अभ्यग्नि ) से उवाच ( पिता ने ) कहा — अपेहि ( हे पुत्र! ) तुम यहाँ से चले जाओ । यो मे वाचम् अवधीः जो तुमने मेरी वाणी को ( मध्य में ही रोक दिया है अलसः अभूः ( इसलिए ) तुमने ( मेरी वाणी को सुनने में ) आलस्य किया है । शतायुं गाम् अकरिष्यन् मैं ( अल्पायु ) गायों को सौ वर्ष वायु वाला कर सकता हूँ और सहस्रायुं पुरुषम् ( शतायु ) पुरुष को सहस्र आयु वाला ( कर सकता हूँ ) । ते प्रजां पापिष्ठां करोमि तुम्हारी प्रजाओं को मैं अत्यधिक पापी बना रहा हूँ । यो मे इत्थम् असक्था ( क्योंकि ) तुमने मुझको इस प्रकार अभिभूत किया है । सा ० भा ० — ' तम् ' अभ्यग्निनामकं पुत्रं मुखपिधाने प्रवृत्तं पिता एवं ' तम् ' उवाच । हे पुत्र त्वम् ‘ अपेहि ’ अस्माद्देशादपागच्छ, अलसोऽभूः मद्वाक्यं श्रोतुमालस्ययुक्तस्त्वमभूः । यस्त्वं मे मदीयां वाचम् ‘ अवधी: ' मुखपिधानेन विनाशितवानसि । अहमुन्मत्त इति तव बुद्धिः, न त्वहमुन्मत्तः, किन्तु मन्त्रकाण्डमीदृशम् । सामर्थ्यं तु मदीयं शृणु – अल्पायुष्यं गां ‘ शतायुं ' शतसंवत्सरायुष्कम् ' अकरिष्यं ' कर्तुं शक्नोमि । तथा शतायुं पुरुषं ' सहस्रायुं ’ सहस्रसंवत्सरायुष्कं कर्तुं शक्नोमि । अतो मामवजानस्ते ' प्रजां ' पुत्रादिरूपां ' पापिष्ठाम् ' अतिशयेन दारिद्र्यादिहेतुयुक्तां करोमि । यस्त्वं मामित्थम् ‘ असक्थाः ’ अभिभूतवानसि | तस्मात्तव शापो युक्त इत्येवं पितोवाच ॥ पितुः शापं लोकप्रसिद्ध्या द्रढयति— तस्मादाहुरभ्यग्नय ऐतशायना और्वाणां पापिष्ठा इति ॥ ५ ॥
हिन्दी— ( पिता ऐतश के शाप को लोक - प्रसिद्धि के द्वारा दृढ़ कर रहे हैं - ) तस्मात् इसी कारण से आहुः ( इस वृत्तान्त को जानने वाले ) कहते हैं— और्वाणाम् और्वगोत्रीयों में ऐताशायनाः अभ्यग्नयः ऐतश ( ऋषि ) से सम्बन्धित अभ्यग्नि इत्यादि पापिष्ठाः अत्यधिक पापी होते हैं । ( १ ) लुङि चेति वधादेशोऽतो लोप इट ईट् सिपः । गां तु कुर्यां शतायुं सलोपश्छान्दस एव च । इति षड्गुरुशिष्यः!
पृष्ठ 405
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १२६१ सा ० भा ० - – यस्मात्पित्रा शापो दत्तः ' तस्मात् कारणात्तद्वृत्तान्ताभिज्ञा जना एव-माहुः । ‘ और्वाणाम् ’ और्वगोत्रोत्पन्नानां पुरुषाणां मध्ये ' ऐतशायनाः ' ऐतशस्य मुनेः सम्बन्धिनः ‘ अभ्यग्नयः ' अभ्यग्निप्रमुखाः पुरुषाः ' पापिष्ठाः ' अत्यन्तपापयुक्ता ' इति ॥ ऐतशप्रलापस्य बाहुल्यं विधत्ते-तं हैके भूयांसं शंसन्ति ॥ ६ ॥
हिन्दी - ( ऐतश प्रलाप की बहुलता का विधान कर रहे हैं - ) तं ह एके उस ( ऐतशप्रलाप ) को कुछ याज्ञिक भूयांसं शंसन्ति अधिकता से शंसन करते हैं ।
सा ० भा ० – ' तम् ' ऐतशप्रलापमभिज्ञा: केचिद्याज्ञिकाः अतिशयेन बहुलं शंसन्ति ।
तथा च आश्वलायन आह— ' सप्ततिं पदान्यष्टादश वा २ इति ॥
तत्र कञ्चिन्नियमं विधत्ते — स न निषेधेद् यावत्कामं शंसेत्येव ब्रूयादायुर्वा ऐतशप्रलापः ॥७ ॥
हिन्दी —- ( ऐतशप्रलाप के विषय में कुछ नियम का विधान कर रहे हैं— ) सः वह ( यजमान ) न निषेधेत् ( ब्राह्मणाच्छंसी को ऐतशप्रलाप के शंसन के लिए ) निषेध न करें प्रत्युत ब्रूयात् ( ब्राह्मणाच्छंसी से ) कहे कि यावत्कामं शंस अपनी इच्छा के अनुसार ( अधिकाधिक ) शंसन करो क्योंकि आयुर्वै ऐतशप्रलापः ऐतशप्रलाप आयुरूप है । सा ० भा ० — ‘ सः ’ यजमान औत्सुक्येनैतशप्रलापं शंसन्तं ब्राह्मणाच्छंसिनं ‘ न निषेघेत् ’ मा भूदयं प्रलाप इति निषेधं कुर्यात्, किन्तु ' यावत्कामं ' तदीयेच्छानुसारेण ‘ शंस ' ‘ इत्येव ’ ब्रूयात् । अयमैतशप्रलापः, आयुः स्वरूपः, तस्मादत्र प्रवर्तमानस्य निषेधनं न युक्तम् ॥ वेदनं प्रशंसति— ( ऐतशप्रलापज्ञानप्रशंसनम् ) आयुरेव तद् यजमानस्य प्रतारयति य एवं वेद ॥८ ॥
हिन्दी - ( इसके वेदन की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है, तद् वह यजमानस्य आयुरेव प्रतारयति यजमान की आयु को ही विस्तृत करता है । ( १ ) ‘ तस्मादैतशायना आजानेय्याः सन्तो भृगूणां पापिष्ठा ' - इति शाङ्खा ० ब्रा ० ३०.५ । ( २ ) आश्व ० श्री ० ८.३.१४, १५ ।
( ३ ) अथैतशप्रलापेऽत्र द्वौ पक्षौ शंसने श्रुतौ ।
पदानि सप्ततिं वान्ताच्छंसेद् वाष्टा ( पदं? ) दशत्विति ॥
तत्र सप्ततिपक्षस्य श्रद्धेयत्वं ब्रवीति हि - ' तं.... ब्रूयात् ' इति । भूयांसं सप्ततिपदयुक्तं तमैतशप्रलापम्, शंसिरन्तर्णीतण्यर्थः । स = यष्टा । यावत्कामं = = यथेच्छम् । अन्तादेव द्रुतम् । इति षड्गुरुशिष्यः ।
पृष्ठ 406
पाठ पढ़ें पाठ छिपाएँ
१२६२: ऐतरेयब्राह्मणम् [ ३०.७ षष्ठपञ्चिकायां प्लुतेन पूज्यत्वं दर्शयति-— ( ऐतशप्रलापप्रशंसनम् ). यदेवैतशप्रलापा ३ः ॥ ९ ॥
हिन्दी – यद् एव ऐतशप्रलापाः जो ये ऐतशप्रलाप हैं ( वे पूज्य हैं ) ॥ प्रकारान्तरेण प्रशंसति-छन्दसां हैष रसो यदैतशप्रलापश्छन्दः स्वेव तद्रसं दधाति ॥ १० ॥
हिन्दी — ( प्रकारान्तर से छन्द की प्रशंसा कर रहे हैं - ) यद् ऐतशप्रलापः जो यह ऐतशप्रलाप है, एष ह छन्दसां रसः यह छन्दों ( वेदों ) का सारतत्त्व है । छन्दःसु एव तद्रसं दधाति ( इसके शंसन से ) छन्दों में ही उस ( वेदों के ) सारतत्त्व को धारण कराता है | सा ० भा ० — योऽयमैतशप्रलापः, स एष ' च्छन्दसां ' वेदानां मध्ये ' रसः ' सारः । अत एतच्छंसनेन ‘ च्छन्द: सु ’ वेदेष्वेव रसमवस्थापयति ॥ वेदनं प्रशंसति— ग़रसैर्हास्य च्छन्दोभिरिष्टं भवति, सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद ॥ ११ ॥
· हिन्दी— ( वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है सरसैः छन्दोभिः तनुते वह सरस छन्दों से यज्ञ को विस्तृत ( यजमान ) का यज्ञं सरसैः छन्दोभिः यज्ञ सरस छन्दों से इष्टं सा ० भा ० - पूर्ववद् व्याख्येयम् ॥ पुनरपि प्लुतेन पूज्यत्वं दर्शयति— यद्वेवैतशप्रलापा ३ः ॥ १२ ॥
हिन्दी -- यद्वेव ऐतशप्रलापः जो यह ऐतशप्रलाप है ( सा ० भा ० - उ अपि चेत्यर्थः ॥ प्रकारान्तरेण प्रशंसति— अयातयामा वा अक्षितिरैतशप्रलापोऽयातयामा यज्ञेऽसदिति ॥ १३ ॥
हिन्दी - ( प्रकारान्तर से ऐतशप्रलाप की प्रशंसा कर करता है और अस्य इस भवति अभीष्ट होता है ॥ वह अत्यधिक पूज्य है ) । मे यज्ञेऽसदक्षितिर्मे रहे हैं - ) ऐतशप्रलापः ऐतशप्रलाप अयातयामा नि: सार नहीं है और अक्षय्यः अक्षय ( फल ) का हेतु है । मे यज्ञे . अयातयामा असत् ( इसका शंसन इस अभिप्राय से करना चाहिए कि ) मेरे यज्ञ में ( यह )
पृष्ठ 407
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२६३ निःसार न होवे, मे यज्ञे अक्षितिः असत् और मेरे यज्ञ में ( यह शंसन ) अक्षय फल का हेतु होवे ॥ सा ० भा०- — योऽयमैतशप्रलापः, सः ‘ यातयामः ’ । ‘ यातयामत्वम् ' असारत्वं, तद्वैपरीत्यात् ‘ अयातयामः ' सारयुक्त इत्यर्थः । अत एव ' अक्षितिः ' अक्षय्यफलहेतुः । तस्मान्मे यज्ञे प्रयोगोऽयम् ' अयातयामोऽसत् ' सरसोऽस्तु । तथा ' मे यज्ञे ' प्रयोगोऽयम् ‘ अक्षितिः ’ ‘ असत् ’ अक्षय्यफलहेतुत्वमभिप्रेत्य शंसेत् ॥ तत्रैकस्मिन् पदेऽवसानं विधत्ते— ( ऐतशप्रलापपदेऽवसानविधानम् ) तं वा एतमैतशप्रलापं शंसति, पदावग्राहं यथा निविदम् ॥ १४ ॥
हिन्दी – ( ऐतशप्रलाप के एक - एक पद पर अवसान करने का विधान कर रहे हैं— ) यथा पदावग्राहं निविदम् जिस प्रकार प्रत्येक पद पर अवसान करके निविद का शंसन होता है ( उसी प्रकार ) तम् एतम् ऐतशप्रलापं शंसति उसी प्रकार इस ऐतशप्रलाप को ( पद - पद पर अवसान करके ) शंसित करते हैं ॥ सा ० भा ० — पदे पदेऽवगृह्य यथा निविदं शंसति, तथैवैतशप्रलापं पदे पदेऽवगृह्य-वगृह्य शंसेत् ॥ अन्ते प्रणवं विधत्ते— तस्योत्तमेन पदेन प्रणौति, यथा निविदः ॥ १५ ॥
हिन्दी - ( ऐतशप्रलाप के अन्त में प्रणव का विधान कर रहे हैं - ) यदा निविदः जिस प्रकार निविद के ( अन्त में प्रणव के साथ शंसन करते हैं उसी प्रकार ) तस्योत्तमे पदे उस ( ऐतशप्रलाप ) के अन्तिम पद के बाद प्रणौति प्रणव का उच्चारण करता है । सा ० भा ० — निविदः पदानां शंसने चरमे पदे यथा प्रणवं करोति, तद्वदत्राप्युत्तमे पदे प्रणवं कुर्यात् ॥ ऐतशप्रलापं विधाय प्रवह्निकाख्या ऋचो विधत्ते— ( प्रवह्निकाख्यर्चविधानम् ) प्रवह्निकाः शंसति प्रवह्निकाभिर्वै देवा असुरान् प्रवह्न्याथैनान-त्यायंस्तथैवैतद् यजमानाः प्रवह्निकाभिरेवाप्रियं भ्रातृव्यं प्रवह्न्या-थैनमतियन्ति ॥ १६ ॥
हिन्दी— ( अब प्रवह्निका नामक ऋचाओं का विधान कर रहे हैं— ) प्रवह्निकाः शंसति प्रवह्निका संज्ञक ( ' विततौ किरणौ द्वौ'- इन अनुष्टुप् छन्दस्क छः ऋचाओं ) का शंसन करता है । प्रवह्निकाभिः वै प्रवह्निका ( ऋचाओं ) के द्वारा ही देवाः देवताओं ने
पृष्ठ 408
पाठ पढ़ें पाठ छिपाएँ
१२६४: ऐतरेयब्राह्मणम् [ ३०.७ षष्ठपञ्चिकायां असुरान् असुरों को प्रवह्न्य अनमनस्क प्रियवचन कहकर एनान् अत्यायन् इन ( असुरों ) को अतिक्रमित कर दिया । तथैव उसी प्रकार ही एतद् यजमानाः ये यजमान लोग प्रवह्निकाभिः प्रवह्लिक संज्ञक ऋचाओं से ही अप्रियं भ्रातृव्यं अप्रिय शत्रु को प्रवह्न्य अनमनस्क प्रियवचन कहकर एनम् अतियन्ति इस ( शत्रु ) को अतिक्रमित कर देते हैं । सा ० भा ० — ' विततौ किरणौ द्वौ ' - इत्याद्याः षडनुष्टुभः ' प्रवह्निकाख्याः । पुरा किलै-ताभिर्ऋग्भिर्देवा असुरान् प्रवह्वय अमनस्कं प्रियमुक्त्वा ततस्तानसुरानतिक्रम्यागच्छन् । प्रवह्ननं निर्हृदयं सान्त्ववचनमित्युक्तवान् । अमनःपूर्वकेण प्रियवचनेन विरोधिनोऽसुरान् वञ्चयित्वा
तदीयदेशमतिक्रम्य गतवन्त इत्यर्थः । देवदृष्टान्तेन यजमानानामपि तथैव भवति ' ॥
तास्वृक्ष्वर्धचेंऽवसानं विधत्ते-ता अर्धर्चशः शंसति, प्रतिष्ठाया एव ॥ १७ ॥
हिन्दी - ( उन ऋचाओं में अर्धर्च पर अवसान का विधान कर रहे हैं — ) प्रतिष्ठायै एव प्रतिष्ठा के लिए ही ताः अर्धर्चशः शंसति उन ( ऋचाओं ) को आधी - आधी ऋचा
पर अवसान करके शंसन करता है ।
सा ० भा ० — अर्धर्चयोर्द्वित्वात् पादद्वयसाम्येन प्रतिष्ठात्वम् ॥
शाखान्तरगताः प्रवह्निकाख्या ऋचो विधाय तथैव शाखान्तरगता आजिज्ञासेन्या ऋचो विधत्ते— ( आजिज्ञासेन्याख्यविधानम् ) आजिज्ञासेन्याः शंसत्याजिज्ञासेन्याभिर्वै देवा असुरानाज्ञायाथैनान-त्यायंस्तथैवैतद् यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यमाज्ञा-याथैनमतियन्ति; ता अर्धर्चशः शंसति, प्रतिष्ठाया एव ॥ १८ ॥
हिन्दी— ( अब आजिज्ञासेन्या संज्ञक ऋचाओं को कह रहे हैं— ) आजिज्ञासेन्याः शंसति आजिज्ञासेन्या संज्ञक ( ‘ इहेत्थ प्रागपागुदग् ' इन अन्य शाखा में पठित चार ऋचाओं ) का शंसन करता है | आजिज्ञासेन्याभिः आजिज्ञासेन्या संज्ञक ( ऋचाओं ) द्वारा देवाः असुरान् देवताओं ने असुरों को आज्ञाय अवज्ञा करके एनान् अत्यायन् उनका अतिक्रमण कर दिया । तथैव एतद् यजमानाः उसी प्रकार से यजमान लोग आजि - ज्ञासेन्याभिः आजिज्ञासेन्या ( ऋचाओं ) द्वारा अप्रियं भ्रातृव्यम् अप्रिय शत्रु को आज्ञाय अवज्ञा करके अतियन्ति अतिक्रमित कर देते हैं । प्रतिष्ठायै एव प्रतिष्ठा के लिए ही ताः अर्धर्चशः शंसति उन ( ऋचाओं को आधी - आधी ऋचा पर अवसान करके शंसन करता है ॥ ( १ ) ऋ ० परि ० २.९.१-६ । ( अथर्व ० २०.१३३.१-६ ) ( २ ) द्र ० आश्व ० श्री ० ८.३.१८
पृष्ठ 409
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ' ] सायणाचार्यकृतभाष्योपेतम्: १२६५ सा ० भा ० – आकारोऽत्र अवशब्दार्थे वर्तते । आज्ञातुमवज्ञातुमिच्छा ‘ आजिज्ञासा ', तामर्हन्तीति सत्साधनीभूता ऋच: ' आजिज्ञासेन्याः ' । आज्ञायासुराणामवज्ञां कृत्वेत्यर्थः । अन्यत्पूर्ववद् व्याख्येयम् । ‘ इहेत्थ प्रागपागुदग् ' इति शाखान्तरपठिताश्चतस्त्र ऋच आजिज्ञा-सेन्याः १ ॥ तासां शंसनं विधाय प्रतिराधाख्यस्य मन्त्रस्य शंसनं, विधत्ते— ( प्रतिराधख्यमन्त्रशंसनविधानम्. ) प्रतिराधं शंसतिः प्रतिराधेन वै देवा असुरान् प्रतिराध्याथै-नानत्यायंस्तथैवैतद् यजमानाः प्रतिराधेनैवाप्रियं भ्रातृव्यं प्रति-राध्याथैनमतियन्ति ॥ १ ९ ॥ हिन्दी - ( अब प्रतिराधसंज्ञक मन्त्र के शंसन का विधान कर रहे हैं - ) प्रतिराधं शंसति प्रतिराध संज्ञक मन्त्र का शंसन करता है । प्रतिराधेन प्रतिराध संज्ञक ( मन्त्र ) से देवाः असुरान् देवताओं ने असुरों को प्रतिराध्य विरोधियों की समृद्धि को बाधित करके एनान् अत्यायन् इन ( असुरों ) को अतिक्रमित कर दिया । तथैव एतद् यजमानाः उसी प्रकार ये यजमान लोग प्रतिराधेन वै प्रतिराधसंज्ञक मन्त्र के द्वारा अप्रियं भ्रातृव्यम् अप्रिय शत्रु की प्रतिराध्य समृद्धि को बाधित करके एनम् अतियन्ति इस ( शत्रु ) को अतिक्रमित कर देते हैं । सा ० भा०- - सूत्रे ' भुगित्यभिगत इति त्रीणि पदानि इत्यादिना ' यो मन्त्र उक्तः, सोऽयं प्रतिराधः । विरोधिनां राधं समृद्धिं प्रतिबध्नातीति प्रतिराधत्वम् ' । ‘ असुरान् प्रतिराध्य ’ तदीयां समृद्धिं प्रतिबध्येत्यर्थः ॥ प्रतिराधाख्यं शाखान्तरगतं मन्त्रं विधाय, ' अतिवादाख्यं शाखान्तरगतमेव ' मन्त्रं विधत्ते-( १ ) ऋ ० परि ० २.१०.१-४ । ( अथर्व ० २०.१३४.१-४ ) ( २ ) आश्व ० श्रौ ० ८.३.२२ ( ३ ) ऋ ० परि ० २.११.१ ( ४ ) यथापठितमिति शेषः । सूत्र्यते हि —भुगित्यभिगत इति निशान्तम्, –इति । पदत्रयं भुगित्यादि प्रतिराधाख्यमुच्यते । प्रतिराधः = अभिभवः । इति षड्गुरुशिष्यः । ( ५-६ ) शाखान्तरगतमन्त्रस्य विधाने तत्स्वरूपज्ञानायैतद्द्ब्राह्मणे पठ्यते चेह सर्वत्रैव । दृश्यते चानयोः पाठः परिशिष्टग्रन्थे । त्रीणि पदानि सर्वाणि यथा तत्पाठस्याप्यौचित्यम्, तथा कुन्तापाध्याये । आश्वलायने-नापि नायं प्रपठ्य विहितः, प्रत्युत प्रतीकग्रहण एव कृतः ( आश्व ० श्री ० ८.३.२२, २३ ) । तदिमौ मन्त्रौ न शाखान्तरीयावित्यस्माकम् अभिप्रायः । ऐ.ब्रा.उ.- २६
पृष्ठ 410
पाठ पढ़ें पाठ छिपाएँ
१२६६: ऐतरेयब्राह्मणम् [ ३०.८ षष्ठपञ्चिकायां ( अतिवादाख्यमन्त्रशंसनविधानम् ) अतिवादं शंसत्यतिवादेन वै देवा असुरानत्युद्याथैनानत्यायंस्तथैवैद् यजमाना अतिवादेनैवाप्रियं भ्रातृव्यमत्युद्याथैनमतियन्ति; तमर्धर्चशः शंसति, प्रतिष्ठाया एव ॥ २० ॥
हिन्दी— ( अब अतिवाद - संज्ञक मन्त्रों का विधान कर रहे हैं - ) अतिवादं शंसति अतिवाद - संज्ञक ( अन्य शाखा में पठित ' वि मे देवा अक्रंसत ' इत्यादि मन्त्र ) का शंसन करता है । अतिवादेन अतिवाद नामक ( मन्त्र ) के द्वारा देवाः असुरान् देवताओं ने असुरों को अत्युद्य अतिवाद करके एनान् अत्यायन् इन ' ( असुरों ) को अतिक्रमित कर दिया तथैव एतद् यजमानाः उसी प्रकार ही ये यजमान लोग अप्रियं भ्रातृव्यम् अप्रिय शत्रुओं को अतिवादेन अतिवाद - संज्ञक मन्त्र से अत्युद्य अतिवाद करके ( अपशब्द ) कहकर एनम् अतियन्ति इस शत्रु को अतिक्रमित करते हैं । प्रतिष्ठायै एव प्रतिष्ठा के लिए ही तम् अर्धर्चशः शंसति उस ( मन्त्र ) को आधी ऋचा पर अवसान करके शंसित करता है ॥ सा ० भा ० — ' वीमे देवा अक्रंसत ' - इत्याद्यनुष्टुप्शाखान्तरपठिताऽतिवाद इत्युच्यते ' । तत्सामर्थ्यसाधनत्वादृगप्यतिवाद इत्युच्यते । ' अत्युद्य ' अतिक्रम्योक्त्वाऽक्षिप्येत्यर्थः । अन्य-त्पूर्ववद् व्याख्येयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्यये ( त्रिंशाध्याये ) सप्तमः खण्डः || ७ || ( ३३ ) ( १२० ) ॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अष्टमः खण्डः सा ० भा ० — अथ देवनीथाख्यं सप्तदशानां पदानां समूहं विधत्ते— ( देवनीथाख्यपदसमूहविधानम् ) देवनीथं शंसति ॥ १ ॥
हिन्दी - ( अब देवनीथसंज्ञक शाखान्तर्गत पठित सत्रह पदसमूह का विधान कर रहे ।
हैं- ) देवनीथं शंसति देवनीथसंज्ञक ( पदसमूह ) का शंसन करता है ॥
( १ ) ऋ ० परि ० २.१२.१ ( २ ) ' वीमे देवा अक्रंसतेत्यनुष्टुप् – इति आश्व ० श्री ० ८.३.२३, २४