ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 411–420
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 411–420
पृष्ठ 411
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२६७ सा ० भा ० - – सूत्रकारेण ' आदित्या ह जरितङ्गिरोभ्यो दक्षिणामनयन्निति सप्तदश पदानीति ’ ' योऽयं पदसमूहोऽभिहितः, सः ' देवनीथः ' ', देवलोकनयनहेतुत्वात् ॥ तं प्रशंसितुमाख्यायिकामाह— ( देवनीथपदसमूहप्रशंसितुमाख्यायिका ) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त, - वयं पूर्व एष्यामो वयमिति; ते हाङ्गिरसः पूर्वे श्वः सुत्यां स्वर्गस्य लोकस्य ददृशुस्तेऽग्निं प्रजिघ्युरङ्गिरसां वा एकोऽग्निः परे ह्यादित्येभ्यः श्वः सुत्यां स्वर्गस्य लोकस्य प्रब्रूहीति; ते हाऽऽदित्या अग्निमेव दृष्ट्वा सद्यः सुत्यां स्वर्गस्य लोकस्य ददृशुस्तानेत्याब्रवीच्छ्वः सुत्यां वः स्वर्गस्य लोकस्य प्रब्रूम इति; ते होचुरथ वयं तुभ्यं तद्यःसुत्यां स्वर्गस्य लोकस्य प्रब्रूमस्त्वयैव वयं होत्रा स्वर्गं लोकमेष्याम इति; स तथेत्युक्त्वा प्रत्युक्तः पुनराजगाम ॥ २ ॥
हिन्दी – ( देवनीथ पदसमूहों की प्रशंसा के लिए आख्यायिका को कह रहे हैं— ) स्वर्गे लोके स्वर्गलोक के विषय में वयं पूर्वम् एष्यामः वयम् हम पहले जाएँगे, हम ( पहले जाएँगे ) इति इस प्रकार आदित्याश्च ह वा अङ्गिरसश्च आदित्य देवता और अङ्गिरस ऋषियों ने स्पर्धन्त ( परस्पर ) स्पर्धा किया । ते आङ्गिरसः वे अङ्गिरस ( ऋषिगण ) पूर्वे प्रथम प्रवृत्त होकर स्वर्गस्य लोकस्य स्वर्गलोक की प्राप्ति के हेतुभूत सुत्याम् सोमाभिषव को श्वः ददृशुः आगामी दिन करने का निश्चय किया । ते अग्निं प्रजिघ्युः उन ( अङ्गिरसों ) ने ( आदित्यों के समीप ) अग्निः अङ्गिरसों में एक अग्नि ( नामक अग्नि! ) परे हि तुम ( आदित्यों के समीप ) भूत और श्वः सुत्याम् आगामी दिन ( आदित्येभ्यः प्रब्रूहि आदित्यों से कहो । ( दूर से ही आते हुए ) अग्नि ( ऋषि ) को स्वर्गस्य लोकस्य सुत्याम् स्वर्गलोक के अग्नि को प्रज्ज्वलित किया । अङ्गिरसां वै को ऋषि थे, उस ऋषि से अङ्गिरसों ने कहा- हे जाओ स्वर्गस्य लोकस्य स्वर्गलोक के निमित्त-हमारे द्वारा किये जाने वाले ) सोमाभिषव को ते ह आदित्याः उन आदित्यों ने अग्निं दृष्ट्वा देखकर ( और उनके अभिप्राय को समझ कर ) निमित्तभूत सोमयाग को सद्यः ददृशुः शीघ्र ही ( उसी समय करने का ) निश्चय किया । तान् इति अब्रवीत् ( वहाँ पहुँच कर अग्नि ऋषि ने ) उन ( आदित्यों ) से कहा — श्वः स्वर्गस्य लोकस्य सुत्याम् कल सम्पादित होने वाले स्वर्गलोक के ( निमित्तभूत ) सोमयाग को प्रब्रूमः हम ( आप से ) कह रहे हैं । ते ह ऊचुः उन ( आदित्यों ) ने कहा – सद्यः इसी समय ( सम्पादित करने वाले ) स्वर्गस्य लोकस्य सुत्याम् स्वर्ग - लोक के निमित्तभूत सोमयाग को वयं तुभ्यं प्रब्रूमः हमलोग तुम्हारे लिए ( १ ) आश्व ० श्र ० ८.३.२५ ( २ ) ऋ ० परि ० २.१३.१-१७
पृष्ठ 412
पाठ पढ़ें पाठ छिपाएँ
१२६८: ऐतरेयब्राह्मणम् [ ३०.८ षष्ठपञ्चिकायां कह रहे हैं । त्वया एव होत्रा ( यहाँ आये हुए ) तुम्हारे ही होत्र कर्म से वयं स्वर्गं लोकं एष्यामः हमलोग स्वर्गलोक को जाएँगे । सः उस ( अग्नि ऋषि ) ने तथा इति उक्त्वा वैसा ही होगा इस प्रकार कहकर प्रत्युक्तः ( उन आदित्यों ) से प्रत्युत्तर प्राप्त करके पुनः आजगाम् पुनः ( अङ्गिरसों के पास ) लौट आये । सा ० भा ० — अदितेः पुत्रा ‘ आदित्याः ' देवाः, ‘ अङ्गिरसः ' महर्षयः । ते द्विविधाः स्वर्गे लोके सोमयागमनुष्ठाय स्वर्गमेष्याम इति । तथाऽङ्गिरसोऽपि वयमेव ‘ पूर्वे ' प्रथमं प्रवृत्ताः स्वर्गं गमिष्याम इत्यवोचम् । तदानीं ‘ ते ’ अङ्गिरसो महर्षयः ‘ पूर्वे ’ प्रथमं प्रवृत्ताः सन्तः स्वर्गस्य लोकस्य निमित्तभूतां ' सुत्यां ' सोमाभिषवं ‘ श्वो ददृशुः ' करिष्याम इति निश्चितवन्तः । निश्चित्य च ' ते ' अङ्गिरस आदित्यानां समीपे स्वकीयमग्निं ' प्रजिघ्युः ' प्रहितवन्त इत्यर्थः । अङ्गिरसामेव महर्षीणां मध्येऽग्निनामको महर्षिरेकोऽस्ति, तं प्रत्येव-मुक्तवन्तः । हे अग्ने! त्वं ‘ परेहि ' परागच्छ । आदित्यानां समीपे गत्वा ‘ श्वः सुत्यां ' परेद्यु-रस्माभिः करिष्यमाणं सोमयागं, स्वर्गस्य लोकस्य निमित्तभूतम्, आदित्येभ्यः प्रब्रूहि । हे आदित्याः! परेद्युरङ्गिरसः सुत्यां करिष्यन्ति । यूयमागत्याऽऽर्त्विज्यं कुरुतेति कथयेत्यर्थः । ‘ ते ’ त्वादित्या दूरादागच्छन्तमग्निं दृष्ट्वैव तदभिप्रायमवगत्य भविष्यतस्तदीययज्ञात् पूर्वमेव स्वर्गस्य लोकस्य साधनभूतां ' सद्यः सुत्याम् ' अद्यतनसोमयागं कर्मविशेषं ' ददृशुः ' निश्चित-वन्तः ' । तदानीमग्निः ‘ तान् ' आदित्यान् ' एत्य ' प्राप्येदं वचनमब्रवीत्, – हे आदित्याः स्वर्गस्य लोकस्य साधनभूतां श्वः सुत्यामङ्गिरोभिः करिष्यमाणां ' वः ' युष्मभ्यं ' प्रब्रूमः ' अहं प्रब्रवीमि — यूयमागत्याऽऽर्त्विज्यं कुरुतेति । ततः ' ते ' आदित्या अग्निमूचुः । ' अथ ' त्व-द्वचनश्रवणानन्तरं वयं तुभ्यं ब्रूमः - स्वर्गस्य लोकस्य साधनभूता सुत्याऽस्माभिः सद्यः क्रियते । तस्मादिदानीमागतेन त्वयैव ' होत्रा ' आत्विज्यं कुर्वता सह वयं प्रथमतः स्वर्ग-लोकमेष्याम इति । सोऽग्निस्तथेत्युक्त्वा ' प्रत्युक्तः ' तैरादित्यैरुक्तं प्रतिवचनं प्राप्तः, स्वकी-यानामङ्गिरसां समीपमाजगाम ॥ अङ्गिरसामग्नेश्च परस्परं संवादं दर्शयति-( अङ्गिरसामग्नेश्च संवादम् ) ते होचुः प्रावोचा ३: इति; प्रावोचमिति होवाचाथो मे प्रतिप्रावोच-न्निति; नो हि न प्रत्यज्ञास्था ३: इति; प्रति वा अज्ञासमिति होवाच ॥३ ॥
हिन्दी— ( अङ्गिरसों और अग्नि ऋषि के परस्पर संवाद को दिखला रहे हैं— ) ते ह ऊचु: उन ( अङ्गिराओं ) ने ( अग्नि से ) कहा — प्रावोच ( हे अग्नि! तुमने आदित्यों से हमारा ( १ ) तथा यज्ञं दृष्टवन्त ऋषियोऽङ्गिरसस्तदा । दीक्षोपसदमद्य स्यात् सुत्या श्वो भवितेति हि ॥ इति षड्गुरुशिष्यः ।
पृष्ठ 413
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२६ ९ अभिप्राय ) कह दिया? प्रावोचम् ( अग्नि ने कहा- ) हाँ, कह दिया । उवाच ( पुनः अग्नि ने ) कहा कि मे प्रतिप्रावोचत् मुझसे ( आदित्यों ने ) प्रत्युत्तर दिया । नः हि न प्रत्यज्ञास्था ( यह सुनकर अङ्गिरसों ने पूछा कि क्या तुमने हमारा ऋत्विक् बनना स्वीकार नहीं किया था? प्रति वा अज्ञासम् हाँ, मैंने स्वीकार किया था ह उवाच इस प्रकार अग्नेि ने कहा || सा ० भा ० — ' ते ' चाङ्गिरसस्तमग्निमूचुः, - हे अग्ने! त्वमादित्यानामग्रे किमस्मदी-यमभिप्रायं प्रावोचाः इति । प्लुतिः प्रश्नार्था । सोऽग्निस्तमभिप्रायं प्रावोचमित्युक्त्वा पुनर-प्येतदुवाच — अथो अनन्तरं ' मे ' मम ' प्रतिप्रावोचन् ' त आदित्याः प्रत्युत्तरमेवमुक्तवन्त, इति । तदीयामुक्तिमनूदितवान् । तामुक्तिं श्रुत्वा तेऽङ्गिरस एवं पप्रच्छुः । हे अग्ने! ' नो हि न प्रत्यज्ञास्थाः ' प्रतिज्ञानमार्त्विज्याङ्गीकारः, तन्निषेधोऽनङ्गीकारः । तस्यापि निषेधोऽवश्या-ङ्गीकारः, किं त्वदीयमार्त्विज्यं परिहृत्याङ्गीकृतवानसि? प्लुतिः प्रश्नार्था । ततोऽग्निरहं तत् ‘ प्रत्यज्ञासमेव ’ प्रतिज्ञामङ्गीकारं कृतवानेवेत्युक्तवान् ॥ अङ्गिरसामनभीष्टस्यापि स्वकीयार्त्विज्यस्याङ्गीकारे युक्तिं दर्शयति— यशसा वा एषोऽभ्यैति य आर्त्विज्येन; तं यः प्रतिरुन्धेद् यशः स प्रतिरुन्धेत्, तस्मान्न प्रत्यरौत्सीति ॥४ ॥
हिन्दी- - यः आर्त्विज्येन जो ऋत्विजत्व से युक्त होता है ( अर्थात् ऋत्विक् का कर्म ग्रहण करता है ) एषः यशसा वै अभ्यैति वह यश से युक्त होकर चारो ओर सञ्चरण करता है । यः तं प्रतिरुन्धेत् जो व्यक्ति ( प्रार्थित ऋत्विजत्व का परित्याग करके ) उस ( यज्ञ ) को प्रतिरुद्ध करता है, सः यशः प्रतिरुन्धेत् वह ( अपने ) यश को ही प्रतिरुद्ध करता है ( = विनष्ट करता है ) । तस्मात् इसी कारण न प्रत्यरौत्सि ( मैंने उनके यज्ञ का ) प्रतिरोध नहीं किया । सा ० भा ० — ‘ यः ' पुमानार्त्विज्येन चरति, एष पुरुषो यशसैव युक्तः ‘ अभ्येति ’ अभितः सञ्चरति । आर्त्विज्यमत्यन्तं यशस्करमित्यर्थः । ' यः ’ पुमान् परेण प्रार्थितमार्त्विज्यं परित्यज्य ‘ तं ’ तदीययागं ‘ प्रतिरुन्धेत् ' यागस्य प्रतिरोधं कुर्यात् स पुमान् स्वकीयं यथा एव ( १ ) ( क ) तं = लाभम्, प्रतिरोध: = बाधः रुन्ध्यादिति प्राप्ते रुन्धेरिति छान्दसम् । अरौत्सि = : लुङिट्; ' इरितो वे ' ति सिच् । अस्मादार्त्विज्यादुद्गन्तुमिच्छेच्चेत् । जिगमिषेदिति प्राप्ते छन्दस्त्वाद् जिगांसेत् । यज्ञेन स्वकेन अप उदियात् गलेत् । युष्मद्यज्ञो यत्र काले मया तत्रैव यक्ष्यते । इत्यतोऽपगमं कुर्यादार्त्विज्ये निस्पृहः सुधीः ॥ इति षड्गुरुशिष्यः । अयाज्यो वर्णितो गृह्ये त्वष्ट सूत्र्या महात्मना -( ख ) ‘ न्यस्तमार्त्विज्यमकार्यम् । अहीनस्य । नीचदक्षिणस्य । व्याधितस्य । आतुरस्य ।
पृष्ठ 414
पाठ पढ़ें पाठ छिपाएँ
१२७०: ऐतरेयब्राह्मणम् [ ३०.९ षष्ठपञ्चिकायां ‘ प्रतिरुन्धेत् ’ विनाशयेत् । ‘ तस्मात् कारणादहं ' न प्रत्यरौत्सि ' ' तदीययज्ञस्य प्रतिरोधं न कृतवानस्मि, किञ्चाऽऽर्त्विज्यं मयाङ्गीकृतमिति ॥ तर्हि कीदृशे विषये परिहर्तव्यार्त्विज्यमित्याशङ्क्य परिहारयोग्यं विषयं दर्शयति— यदि त्वस्मादपोज्जिगांसेद्, यज्ञेनास्मादपोदियात् । यदि त्वयाज्यः स्वयमपोदितं तस्मात् ॥ ५ ॥
हिन्दी — यदि त्वस्माद् अपोजिमांसेत् यदि इस ( ऋत्विजत्व ) को अस्वीकार करना चाहे तो यज्ञेन अस्माद् अपोदियात् ( अपने ) यज्ञ के कारण अस्वीकार करना चाहिए । यदि तु अयाज्यः यदि ( यज्ञ कराने वाला शास्त्र के अनुसार ) यज्ञ करने के लिए योग्य नहीं है तो तस्मात् स्वयमपोदितम् उस ( अयोग्य व्यक्ति के याग ) से स्वयं ही ( ऋत्विजता को ) अस्वीकार कर देना चाहिए ॥ सा ० भा ० — पूर्वत्राऽऽर्त्विज्यं परिहर्तुमशक्यमित्युक्तम्, तद्वैलक्षण्यार्थः ‘ तु ' शब्दः । यदि कथञ्चिद् ‘ अस्माद् ’ आर्त्विज्यात् ‘ अपोज्जिगांसेत् ’ अपेत्योद्गन्तुमिच्छेत्, तदानीं ‘ यज्ञेन ’ स्वकीयेन निमित्तभूतेन ‘ अस्माद् ' आर्त्विज्याद् ' अपोदियाद् ' अपक्रम्योद्गच्छेत् । यस्मिन् दिने त्वं यज्ञं करिष्यसि, तस्मिन्नैवाहमपि करिष्यामीत्युक्त्वा तदार्त्विज्यं परिहर्तुं शक्यम् । एककालीनस्वकीयानुष्ठानमेकं, परिहारनिमित्तम् । निमित्तान्तरमप्युच्यते । ‘ यदि तु ’ यदि कथञ्चिद् ‘ अयाज्यः ' यागार्थी पुरुषः शास्त्रनिषेधाद्यष्टुमयोग्यः स्यात्, तादृशादयाज्यात् पुरु-षात् स्वकीयमार्त्विज्यं ‘ स्वयमपोदितं शास्त्रेणैव निषिद्धम् । तादृशे विषये नास्त्यार्त्विज्य-परिहारदोष इत्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय-ब्राह्मणभाष्ये षष्ठपञ्चिकायां पञ्चमाध्याये ( त्रिंशाध्याये ) अष्टमः खण्डः ॥८ ॥ ( ३४ ) ( १२१ )
॥ इस प्रकार ऐतरेयब्राह्मण के तीसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ नवमः खण्डः सा ० भा०- योऽयं देवनीथः पूर्वमुक्तः, तस्य स्तुत्यर्थं कथाऽपि पूर्वं कियत्यपि दर्शिता । तत्कथाशेषं देवनीथप्रतिपाद्यावगतिकामाय दर्शयति— यक्ष्मगृहीतस्य । अनुदेश्याभिशस्तस्य । क्षिप्रयोनेः इति । चैताषाम् ' – इति । ( आ ० गृ ० सू ० १.२०.१७-१९ ) ' अयाज्योऽनधीयानः ' - इति चापस्तम्बः ( धर्म २.१०.१० ) ' प्रव-राज्ञोऽयाज्य ' - इति च बौधायनः ।
पृष्ठ 415
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२७१ ( देवनीथस्य अवगतिहेतुता ) ते हाऽऽदित्यानङ्गिरसोऽयाजयंस्तेभ्यो याजयद्र्य इमां पृथिवीं पूर्णां दक्षिणानामददुस्तानियं प्रतिगृहीताऽतपत्, तान्यवृञ्जन् सा सिंही भूत्वा विजृभन्ती जनानचरत्, तस्याः शोचत्या इमे प्रदराः प्रादीर्यन्त येऽस्या इमे प्रदराः, समेव हैव ततः पुरा ॥ १ ॥
हिन्दी— ( अब देवनीथ से अवगति की कामना के लिए आख्यायिका के शेष भाग को दिखला रहे हैं— ) ते ह अङ्गिरसः उन अङ्गिरसों ने ( ऋत्विजत्व को स्वीकार करके ) आदित्यान् अयाजयन् आदित्यों ( के याग ) को सम्पादित कराया । तेभ्यः याजयद्भ्यः उन यज्ञ कराने वाले ( ऋत्विक् रूप अङ्गिरसों ) के लिए ( आदित्यों ने ) दक्षिणानाम् दक्षिणा में इमां पूर्णां पृथिवीं इस सम्पूर्ण पृथिवी को अददुः प्रदान कर दिया । तान् उन ( अङ्गिरसों ) को इयं प्रतिगृहीता इस ( दक्षिणा रूप में ) ग्रहण की गयी ( पृथिवी ) ने अतपत् तपा डाला । ताम् न्यवृञ्जन् उस ( पृथिवी ) को ( अङ्गिरसों ने ) वियुक्त कर दिया । सा वह ( परित्यक्त पृथिवी ) सिंही भूत्वा सिंहनी होकर विजृभन्ती शिर को कपाती हुई जनान् अचरत् मनुष्यों का भक्षण करने लगी । शोचत्याः तस्याः ( तब भयभीत होकर लोगों के भाग जाने के कारण ) शोक से सन्तप्त उस ( पृथिवी ) के इमे प्रदराः ये ( दृश्यमान ) प्रदर ( ऊचे - नीचे विदीर्ण भाग ) प्रादीर्यन्त प्रकृष्ट रूप से हो गये । अस्याः इस ( पृथिवी ) के ये इमे प्रदराः जो ये विदीर्ण भाग हैं ततः पुरा उस ( शोक से सन्तप्त होने ) के पूर्व समाः एव ह समतल ही थे | सा ० भा ० — अङ्गिरसां मध्ये य एकोऽग्निः सोऽयमादित्यानां यागे आर्त्विज्यमङ्गी-चकार । तमङ्गीकारमनुसरन्तस्ते सर्वे अङ्गिरसो गत्वा तानादित्यानयाजयन् । याजयद्भ्यः ‘ तेभ्यो ' अङ्गिरोभ्य ऋत्विग्भ्यः आदित्याः इमां पृथिवीं ' पूर्णां ' चतुः सागरपरिवेष्टिताम् ' अददुः ’ दत्तवन्तः । कदा? दक्षिणाकाले — इति शेषः । मध्यंदिने हि सवने दक्षिणा नीयन्ते । तस्मिन् काले दक्षिणार्थं दत्ता च ‘ इयं ' पृथिवी तैरङ्गिरोभिः प्रतिगृहीता सती, ' तान् ' परिग्रहीतृन् ‘ अतपत् ’ तापयुक्तानकरोत् । तदानीमङ्गिरसः ' तां ' पृथिवीं ' न्यवृञ्जन् ’ नितरां वर्जितवन्तः ’ । तैरङ्गिरोभिः परित्यक्ता सा पृथिवी सिंहरूपयुक्ता भूत्वा ' विजृभन्ती ' ' शिरः कम्पयन्ती, वेगेन ( १ ) नि = द्रुतम् । अवृञ्जन् = लङ्, ' श्नसोरल्लोपः ' शीघ्रमत्यजन् ।... सिंही भूत्वा ततो भूमिः कम्पयन्ती सटादिकम् । अभक्षयज्जनान् दृष्टानादायादाय धावतः ॥... तस्या भुवस्सिह्याः शोचत्याः = शतुर्नुम्न शोचन्त्याः । भक्ष्यालाभनिर्णयात् प्रदराः = स्फोटा:, ‘ दृ विदारणे ’ ऋदप् प्रादीर्यन्त, श्नार्थे यक्, दृणातिर्भवत्यर्थः; अभवन् । इति षड्गुरुशिष्यः । ( २ ) विजृम्भन्ती = विनम्यमानगात्रा तैस्त्यक्तत्वात् ' इति गोविन्दस्वामी ।
पृष्ठ 416
पाठ पढ़ें पाठ छिपाएँ
१२७२: ऐतरेयब्राह्मणम् [ ३०.९ षष्ठपञ्चिकायां धावन्ती, पुरतोऽवस्थितान् ‘ जनाम् अचरद् ' अभक्षयत् । तदानीं भीत्या सर्वेषु जनेषु पलायितेषु ‘ शोचत्याः ’ क्षुधाग्निना संतापयुक्तायाः, तस्या: ' भूमेः ' इमे ' अस्माभिर्दृश्यमानाः ' प्रदरा: ' रेखाकारा विदारणविशेषाः ‘ प्रादीर्यन्त ' प्रकर्षेणाभवत् । ' अस्याः ' भूमेः सम्बन्धिनो य इमे प्रदराः, सर्वैर्जनैस्तत्र तत्र दृश्यन्ते, ते सर्वे परितो भूमेरुपरि विदारणेन निष्पन्नाः । ' ततः ’ शोकात् पुरा भूमिः समतलैवाऽऽसीत् । ' इव - ह - एव ' - इति निपातत्रयसमूहोऽवधारणार्थः । तदानीं समतलत्वेन ‘ प्रदरः ' विदारणरूपश्छिद्रविशेषो न कोऽप्यासीदित्यर्थः ॥ अङ्गिरसां भूमिपरित्यागप्रसङ्गेन किञ्चिच्छास्त्रज्ञानां वचनमुदाहरति— तस्मादाहुर्न निवृत्तदक्षिणां प्रतिगृह्णीयान्नेमा शुचा विद्धा शुचा विध्यादिति ॥ २ ॥
हिन्दी – ( अङ्गिरसों के भूमि - त्याग के प्रसङ्ग में कुछ शास्त्रज्ञों के वचन को उदाहरित कर रहे हैं— ) तस्माद् आहुः इसी कारण ( कुछ शास्त्रज्ञ ) कहते हैं कि निवृत्तदक्षिणाम् परित्याग की गयी दक्षिणा को न प्रतिगृह्णीयात् पुनः नहीं लेना चाहिए; क्योंकि शुचा विद्धा शोक से विद्ध ( यज्ञ - दक्षिणा ) मा विध्यात् मुझे ( शोक से ) विद्ध कर देगी | सा ० भा ० — यस्मादङ्गिरोभिर्भूरूपदक्षिणा सर्वात्मना परित्यक्ता, ‘ तस्मात् ' अन्येऽपि शास्त्रज्ञा एवमाहुः । ‘ निवृत्तदक्षिणां ' केनापि कारणेन परित्यक्तां पुनर्न ' प्रतिगृह्णीयात् ' । गोभूहिरण्यरूपादिदक्षिणामूर्त्विग्भिः स्वीकृता सति यदि कञ्चिद्दोषं दृष्ट्वा परित्यज्येत्, तदानीं पुनरपि द्रव्यलोभेन तत्प्रतिग्रहं न कुर्यात् । केनाभिप्रायेणेति? सोऽभिधीयते — इयं दक्षिणा ' शुचा ' शोकोपलक्षितेन दोषेण ' विद्धा ' सती मामपि ' शुचा ' शोकोपलक्षितदोषेण विध्यात्, मैवं विध्यत्विति भीतो न प्रतिगृह्णीयात् ॥ प्रमादात् पुनः प्रतिग्रहे कर्तव्यं दर्शयति— यदि त्वेनां प्रतिगृह्णीयादप्रियायैनां भ्रातृव्याय दद्यात् परा हैव भवति ॥ ३ ॥
हिन्दी— ( प्रमाद के कारण पुनः ले लेने पर करणीय कर्त्तव्य को कह रहे हैं— ) यदि तु एनां प्रतिगृह्णीयात् यदि इस ( दक्षिणा ) को पुनः ले ले तो एनां प्रियाय भ्रातृव्याय दद्यात् इस ( दक्षिणा ) को प्रिय शत्रु के लिए दे देना चाहिए । परा एव ह भवति इससे ( शत्रु ) पराभूत ही हो जाता है ॥ सा ० भा ० — पुनःप्रतिग्रहपक्षे प्रतिगृहीतां दुष्टां दक्षिणामत्यन्तविरोधिने शत्रवे छद्मना दद्यात् । ततः शत्रुः पराभवत्येव ॥ प्रासङ्गिकं परिसमाप्य दक्षिणान्तरं दर्शयन्नुपाख्यानस्य देवनीथोपयोगमाह— ( उपाख्यानस्य देवनीथोपयोगकथनम् ) अथ योऽसौ तपती हूँ एषोऽश्वः श्वेतो रूपं कृत्वाऽश्वाभिधान्य-
पृष्ठ 417
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२७३ पिहितेनाऽऽत्मना प्रतिचक्रम इमं वो नयाम इति; स एष देवनीथोऽ-नूच्यते ॥४ ॥
हिन्दी – ( अब दक्षिणा को दिखलाते हुए देवनीथ में उपाख्यान को कह रहे हैं— ) यो असौ तपति ( आदित्यों के सङ्कल्प के कारण ) जो वह ( दृश्यमान ) यह ( मण्डल के मध्य में तप रहे ( प्रकाशित हो रहे हैं एषः ये ( सूर्य ) श्वेतः अश्वो रूपं कृत्वा श्वेत अश्व का रूप धारण करके अश्वाभिधानी अश्व के बन्धन के लिए रस्सी आदि से आत्मना अपिहितेन अपने को आच्छादित करके प्रतिचक्रमे सम्मुख आये । ( स्व सङ्कल्पित उस अश्वरूप सूर्य को देखकर आदित्यों ने कहा- ) ( हे अङ्गिरसों! ) इमम् इस ( सूर्य ) को वयम् नयामः हम ( आदित्य ) लोग ( तुम्हारे लिए दक्षिणा के रूप में प्रदान कर रहे हैं ) सः एषः वह यह ( वृत्तान्त ) देवनीथः देवनीथ के रूप में अनूच्यते वेद में कहा गया है 11 सा ० भा ० – ' अथ ' अङ्गिरोभिः पृथिवीरूपदक्षिायां परित्यक्तायां ततोऽनन्तरम्, अदितिपुत्राणां यजमानानां सङ्कल्पवशाद् योऽसौ मण्डलमध्ये सूर्यस्तपति, एषः ' प्रति-चक्रमे ' सम्मुखमाजगामेत्यर्थः । सानुनासिका प्लुतिः पूजार्थाम् । ' असौ ' मण्डलवर्ती पुरुष: तेजसा तपन्नपि भूमिवच्चित्तपीडातुल्यं संताप न करोति । तस्मादस्य पूज्यत्वम् । सूर्यः केन रूपेणाऽऽगच्छतीति? तद्रूपमुच्यते — लोके श्वेतोऽश्वो यादृग्रूपवान्, तादृशं रूपं कृत्वा, ततः ' अश्वाभिधान्यपिहितेन ' अश्वस्य बन्धनार्था रज्जुः ' अश्वाभिधानी ', तया ' अपिहित ' आ-च्छादित आत्माऽश्वदेहः, तेन देहेन युक्तः सन्नागत इत्यर्थः । स्वसङ्कल्पितं तमश्वरूपं सूर्यं दृष्ट्वा, त आदित्या एवमब्रुवन् – हे अङ्गिरसः? ' वः ' युस्माकम् ' इदम् ' अश्वं नयामः दक्षिणात्वेन समर्थयामः । ' इति ' यस्यां कथायां वृत्तान्तोऽभिहितः, स एष देवनीथो भूत्वा, वेदेनानूच्यते ॥ तस्य देवनीथस्य सप्तदश पदानि; तेषु प्रथमं पदमाह– ( देवनीथस्य सप्तदशपदनिर्देशनम् ) आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ॥५ ॥
हिन्दी - ( देवनीथ के सत्रह पदों में प्रथम पद को दिखला रहे हैं - ) आदित्याः ह आदित्यों ने जरितः आङ्गिरोभ्यः स्तोता अङ्गिराओं के लिए दक्षिणाम् अनयन् दक्षिणा को प्रदान किया || सा ० भा ० — आदित्याख्या यजमानाः पुरा ' जरित: ' जरितृभ्यः स्तोतृभ्योऽङ्गिरोभ्यो भूरूपां दक्षिणाम् ‘ अनयन् ' दत्तवन्तः ॥ द्वितीयं पदमनूद्य व्याचष्टे— तां ह जरितर्न प्रत्यायन्निति न हि त इमां प्रत्यायन् ॥ ६ ॥
पृष्ठ 418
पाठ पढ़ें पाठ छिपाएँ
१२७४: ऐतरेयब्राह्मणम् [ ३०.९ षष्ठपञ्चिकायां हिन्दी— ( द्वितीय पद को कहकर उसकी व्याख्या कर रहे हैं— ) जरितः स्तोता ( अङ्गिराओं ) ने ताम् ह उस ( दक्षिणा ) को न प्रत्यायन नहीं ग्रहण किया अर्थात् ते उन्होंने इमाम् इस ( पृथिवी ) को न प्रत्यायन् नहीं लिया ॥ सा ० भा०- ‘ जरितः! ' जरितारः स्तोतारोऽङ्गिरसः तां ह ' ' तां तु पृथिवीरूपां दक्षिणां ‘ न प्रत्यायन् ' नैव प्रतिगृहीतवन्तः । अस्मिन् पदे प्रोक्ताः ' ते ' अङ्गिरसः ‘ इमां ’ भूमिं
न प्रतिगृहीतवन्त इत्यर्थः । प्रसिद्ध इति ' हि ' शब्देन द्योतयति ॥
तृतीयं पदमनूद्य व्याचष्टे— तामु ह जरितः प्रत्यायन्निति प्रति हि तेऽमुमायन् ॥७ ॥
हिन्दी— ( तृतीय पद को कहकर व्याख्यान कर रहे हैं— ) तामु उस ( सूर्यरूप दक्षिणा ) को जरितः स्तोता ( अङ्गिराओं ) ने प्रत्यायन् ( प्रतिग्रह के रूप में ) ग्रहण कर लिया अर्थात् ते उन्होंने अमुम् उस ( सूर्य ) को आयन् ले लिया ॥ सा ० भा०- ' तामु ह ' तामादित्यरूपां दक्षिणां ' जरितः ' प्रत्यायन् स्तोतारः प्रति-गृहीतवन्तः । अस्मिन् पदे प्रोक्ताः ' ते ' अङ्गिरसः ' अमुम् ' आदित्यं प्रत्यायन् । भूप्रतिग्रह निषेधोऽर्थः प्रसिद्धः ॥ द्वितीयपदार्थवैशद्याय प्रवृत्तं चतुर्थं पदमनूद्य व्याचष्टे— तां ह जरितर्न प्रत्यगृभ्णन्निति; न हि त इमां प्रत्यगृभ्णन् ॥८ ॥
हिन्दी— ( चतुर्थ पद को कहकर व्याख्यान कर रहे हैं - ) ताम् ह उ उस ( सूर्य ) को जरितः स्तोताओं ने प्रत्यगृभ्णन् प्रतिग्रह रूप से ग्रहण किया किन्तु ते उन्होंने इमां न प्रत्यगृभ्णन् इस ( पृथिवी ) को नहीं ग्रहण किया ॥ सा ० भा ० - पूर्वपदवद् व्याख्यानयोरर्थः स्पष्टः ॥ तृतीयपदार्थवैशद्याय पञ्चमं पदमनूद्य व्याचष्टे— तामु ह जरितः प्रत्यगृभ्णन्निति प्रति हि तेऽमुमगृभ्णन् ॥ ९ ॥
हिन्दी — ( पञ्चम पद को कहकर व्याख्यान कर रहे हैं— ) जरितः स्तोताओं ने तामु उस ( सूर्य ) को ले लिया अर्थात् ते उन्होंने अमुम् इन ( आदित्यों ) को प्रतिगृभ्णन् प्रतिग्रह के रूप में ले लिया || सा ० भा०- - पूर्वपदवद् व्याख्यनयोरर्थो विस्पष्टः ॥ षष्ठं पदमनूद्य व्याचष्टे— अहा नेत सन्नविचेतनानीत्येष ह वा अह्नां विचेतयिता ॥ १० ॥
हिन्दी - ( षष्ठ पद को कहकर उसका व्याख्यान कर रहे हैं - ) सन् ( हे अङ्गिराओं!
पृष्ठ 419
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२७५ यह ) ( सूर्य के तुम्हारे ) पास रहने से अहः अविचेतनानि दिन विशेष प्रकाश वाला नहीं है अतः न इतः यहाँ से नहीं जा सकते; क्योंकि एषः वै हि यह ( सूर्य ) ही अह्नां विचेतयिता दिन को विशेष रूप से प्रकाशित करने वाला है । सा ० भा ० — हे अङ्गिरसः अयं सूर्यः, सन् युष्माकं समीपेऽस्ति, तस्माद् ' अविचेत-नानि ’ विशेषप्रकाशरहितानि ' अहा ' तमोयुक्तान्यहानि ' नेत ' न गच्छत । ' एषः ' आदित्यः ‘ अह्नां ’ ‘ विचेतयिता ' विशेषेण प्रकाशयिता ' ॥ सप्तमपदमनूद्य व्याचष्टे— जज्ञा नेत सन्नपुरोगवास इति; दक्षिणा वै यज्ञानां पुरोगवी, यथा ह वा इदमनोऽपुरोगवं रिष्यत्येवं हैव यज्ञोऽदक्षिणो रिष्यति; तस्मा-दाहुर्दातव्यैव यज्ञे दक्षिणा भवत्यत्यल्पिकाऽपि ॥ ११ ॥
हिन्दी— ( सप्तम पद को कहकर व्याख्यान कर रहे हैं— ) जज्ञाः हे ज्ञानयुक्त ( अङ्गिरसो )! सन् सूर्य के आपके पास रहने पर अपुरोगवासः मार्ग - प्रदर्शक के विना न इत ( यहाँ से ) नहीं जा सकते । यज्ञानां दक्षिणा वै पुरोगवी अर्थात् यज्ञों की दक्षिणा पथप्रदर्शक ( आगे ले जाने वाली ) होती है । यथा ह वै जिस प्रकार इदम् अनोऽपुरो-गवम् यह बैल - विहीन बैलगाड़ी रिष्यति विनष्ट हो जाती है एवं ह उसी प्रकार अदक्षिणो यज्ञः दक्षिणारहित यज्ञ रिष्यति विनष्ट हो जाता है । तस्माद् आहुः उसी कारण यह कहा गया है कि यज्ञे दक्षिणा दातव्या एव यज्ञ में दक्षिणा अवश्य ही देना चाहिए । अल्पिका अपि ( वह ) अल्प भले ही हो ॥ सा ० भा ० — हे ' जज्ञाः ' ज्ञानयुक्ताः, अङ्गिरसः अयमादित्यः सन् भवत्समीपे वर्तते । तस्माद् अपुरोगवासः, मार्गप्रदर्शकेन पुरोगामिना रहिता यूयं ' नेत ' न गच्छत् । अस्मिन् पदे पुरोगन्त्र्यर्थपेक्षा दर्शिता ' । यज्ञानां तु दक्षिणैव ' पुरोगवी ' । अत्र दृष्टान्तः ‘ यथा ह वा इदम् ’ ' अनोऽपुरोगवं, बलीवर्दरहितं शकटं ' रिष्यति ' विनश्यति । ' एवं हैव ' अनेनैव प्रकारेण ' अदक्षिणः ' दक्षिणारहितो यज्ञो ' रिष्यति ' विनश्यति । तस्मात् कारणाद् याज्ञिका एवमाहुः द्रव्यहीनेनापि यजमानेन ' अत्यल्पिकाऽपि ' अत्यन्तस्वल्पाऽपि ' दक्षिणा यज्ञे दातव्या भवति ' ॥ ( १ ) ( क ) विचेतनो महाप्रकाशः सूर्यः स नो येषु तानि । अहा = शि नलोपः, अहानि; न इत = लोट्, हे महर्षय इत्यर्थं मत्वा व्यचष्टे – ' एष ' इति । एषः = सूर्य:, विचेतयिता = प्रकाशकः । इति षड्गुरुशिष्यः । ( ख ) ' विचेतयिता = विभागकर्ता ' – इति गोविन्दस्वामी । ( २ ) हे जज्ञा = बोद्धारः । जानतेः तर्तरि तु के ( ' इगुपधज्ञाप्रीकर: क: ' इति कप्रत्ययः ) द्वित्वे सम्बोधने हि जस् । न इत ' ये यज्ञाः सन्नपुरोगवासः । आज्जसेरसुक् ' ( पा ० सू ० ७.१. ५० ) नष्टपुरोगन्तृगोसदृशदक्षिणकाः इति षड्गुरुशिष्यः ।
पृष्ठ 420
पाठ पढ़ें पाठ छिपाएँ
१२७६: ऐतरेयब्राह्मणम् [ ३०.९ षष्ठपञ्चिकायां अष्टमं पदमाह– उत श्वेत आशुपत्वा ॥ १२ ॥
हिन्दी— ( अष्टम पद को कह रहे हैं— ) उत श्वेतः और ( आदित्यरूप ) श्वेत ( अश्व ) आशुपत्वा शीघ्रगामी है । सा ० भा ० — ‘ उत ’ अपि तु हे अङ्गिरसो युष्माकमयं श्वेतरूपोऽश्व आदित्यः ‘ आशु-पत्वा ' शीघ्रगामी । तस्मादस्ति पुरोगन्तेत्यर्थः ॥ नवमं -पदमाह– उतो पद्याभिर्जविष्ठः ॥१३ ॥
हिन्दी – ( नवम पद को कह रहे हैं— ) उत पद्याभिः जविष्ठः और पाद - विक्षेपों से वेग - सम्पन्न है | सा ० भा ० — ‘ उतो ’ अपि च ' पद्याभि: ' पादविक्षेपैर्हेतुभिः तिशयेन वेगवान् ॥ दशमं पदमाह-उमाशु मानं पिपर्ति ॥ १४ ॥
हिन्दी – ( दशम पद को कह रहे हैं - ) उत ईम् I और इस आदित्य रूप अश्व ) सत्कार्य को पूर्ण करता है ॥ सा ० भा ० — ‘ उत ’ अपि च, ' ईम् ' ईदृशं ' मानं ' सत्कारम् ‘ शीघ्रं पूरयति ॥ एकादशं पदमाह— आदित्या रुद्रा वसवस्त्वेळते ॥ १५ ' जविष्ठः ' अयं सूर्योऽ-प्रकार मानं पिपर्ति ( वह आशु पिपर्ति ' असौ सूर्यः ॥ हिन्दी— ( एकादश पद को कह रहे हैं— ) आदित्याः रुद्राः वसवः ( हे सूर्य! ) आदित्यगण, रुद्रगण और वसुगण त्वा ईळते तुम्हारी प्रार्थना करते हैं ॥ सा ० भा०- - हे सूर्य आदित्याद्या देवगणाः ' त्वा ' त्वाम् ' ईळते ' स्तुवन्ति ॥ द्वादशं पदमनूद्य व्याचष्टे— इदं राधः प्रतिगृभ्णीह्यङ्गिर इति; प्रतिग्रहमेव तद्राधस ऐच्छन् ॥ १६ ॥
हिन्दी— ( द्वादश पद को कहकर उसकी व्याख्या कर रहे हैं— ) अङ्गिर हे अङ्गिरस् इदं राथः इस ( हमारे द्वारा दिया जाता हुआ सर्वसुखसाधक आदित्य रूप ) धन को प्रतिगृणीहि ( दक्षिणा के रूप में ) ग्रहण करो । अर्थात् तद् राधसः एव ( उन अङ्गिराओं ने ) उस ( सर्वसाधक आदित्य रूप ) धन को ही प्रतिग्रहम् प्रतिग्रह ( दक्षिणा ) में लेने की