ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 441–450
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 441–450
पृष्ठ 441
पाठ पढ़ें पाठ छिपाएँ
अथ सप्तमपञ्चिकायां द्वितीयोऽध्यायः [ अथ द्वित्रिंशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— सत्रिणां वर्णितं कार्यं प्रायश्चित्तं ब्रवीत्यथ ।
चोद्योत्तरप्रकारेण सुस्पष्टमिति गृह्यताम् ॥१ ॥
तत्र प्रथमे चोद्योत्तरे दर्शयति-( आहिताग्नियजमानस्य यागकाले मरणे प्रायश्चितिविधानम् ) तदाहुर्य आहिताग्निरुपवसथे म्रियेत कथमस्य यज्ञः स्यादिति, नैनं याजयेदित्याहरनभिप्राप्तो हि यज्ञं भवतीति ॥ १ ॥
हिन्दी - ( प्रश्नोत्तर द्वारा अब प्रायश्चित्त को कह रहे हैं — प्रथमप्रश्नोत्तर - ) प्रश्न-तदाहुः उस ( यज्ञवैकल्य के विषय में ) कुछ वेदज्ञ पूछते हैं - यः आहिताग्निः जो अग्नि · का स्थापन करने वाला ( व्यक्ति ) उपवसथे उपवसथ ( सुत्या के दिन से पूर्व ) दिन में म्रियेत मर जाता है तो अस्य यज्ञः इस ( मरे हुए व्यक्ति ) का यज्ञ कथम् स्यात् किस प्रकार होवे । ( उत्तर- ) एनं न याजयेत इस ( मृतक के याग ) को नहीं करना चाहिए - इत्याहुः ऐसा कहा गया है हि क्योंकि यज्ञम् अनभिप्राप्तः भवति ( सुत्या के उपक्रान्त होने के कारण यह ) यज्ञ ( उस मृतक को ) प्राप्त नहीं होता ॥ सा ० भा ० — तत्र यज्ञवैकल्यविषये केचिद्ब्रह्मवादिनः पृच्छन्ति ‘ यः ' पुमानाहिताग्निः सन्नुपवसथाख्ये सुत्यादिनात् पूर्वदिने म्रियेत, अस्य यज्ञः कथं प्रवर्तते? इति प्रश्नः तस्येदमुत्तरम् ‘ एनं ’ मृतं न याजयेदित्यभिज्ञा आहुः । तत्रेयमुपपत्तिः — सुत्याया अनुपक्रान्त-त्वादयं यज्ञमनभिप्राप्त एव भवति; तस्माद्यागो न युक्तः ॥ द्वितीयप्रश्नोत्तरे दर्शयति— ( आहिताग्नियजमानस्य अधिसृतेऽग्निहोत्रे मरणे प्रायश्चित्तम् ) तदाहुर्य आहिताग्निरधिश्रितेऽिग्नहोत्रे सान्नाय्ये वा हविःषु वा म्रियेत, का तत्र प्रायश्चित्तिरित्यत्रैवैनान्यनुपर्यादध्याद् यथा सर्वाणि संदह्येरन्, सा तत्र प्रायश्चित्तिः ॥२ ॥
हिन्दी — ( द्वितीय प्रश्नोत्तर - ) प्रश्न - तदाहुः उस विषय में ( कुछ वेदज्ञ ) पूछते हैं — आहिताग्नि कोई आहिताग्नि अग्निहोत्रे अधिश्रिते अग्निहोत्र के ( दूध के अग्नि पर )
पृष्ठ 442
पाठ पढ़ें पाठ छिपाएँ
१२ ९ ६: ऐतरेयब्राह्मणम् [ ३२.१ सप्तमपञ्चिकायां अधिश्रित करने बाद अथवा सन्नाये वा ( दर्शपूर्ण मास के दूध के ) अधिश्रित करने पर अथवा हविःसु वा हवि के अधिश्रित करने पर म्रियेत यदि मर जाता है तो तत्र का प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त करना चाहिए? ( उत्तर ) अत्र एव एनानि उपरि दध्यात् वहाँ ( यजमान के जलाये जाने के स्थान पर ) ही इन ( पदार्थों ) को ( यजमान के ) ऊपर इस प्रकार रख देना चाहिए यथा जिस प्रकार सर्वाणि संदह्येरन् सभी पदार्थ जल जाँय । सा तत्र प्रायश्चितिः वही उस विषय में प्रायश्चित्त है । सा ० भा ० — ‘ अग्निहोत्रे ' तत्साधनभूते पयसि कार्यार्थं वह्नावधिश्रिते सतिं, तथा ‘ सान्नाय्ये ' दर्शपूर्णमासार्थे क्षीरेऽधिश्रिते सति, तथा ' हविष्षु ' पुरोडाशादिष्वधिश्रितेषु, यज-मानस्य मरणे किं प्रायश्चित्तम्? इति प्रश्नः । प्रायो नाशस्तस्य चित्तं समाधानम् । ‘ अत्रैव ’ यजमानदहनदेश एव ‘ एनानि ' क्षीरादीनि ' अनुपर्यादध्यात् '! यजमानमनु परितः प्रक्षिपेत् । येन प्रकारेण सर्वाणि तानि यजमानेन सम्भूय दह्येरन्, तथा प्रक्षिपेत् । ' सा ' तादृशी क्रिया ' तत्र ' दोषे प्रायश्चित्तिर्भवति ॥ तृतीये प्रश्नोत्तरे दर्शयति— ( आहिताग्नियजमानस्य आसन्नेषु हविषु मरणे प्रायश्चितम् ) तदाहुर्य आहिताग्निरासन्नेषु हविः षु म्रियेत, का तत्र प्रायश्चित्तिरिति; याभ्य एव तानि देवताभ्यो हवींषि गृहीतानि भवन्ति, ताभ्यः स्वा-हेत्येवैनान्याहवनीये सर्वहुन्ति जुहुयात्; सा तत्र प्रायश्चित्तिः ॥ ३ ॥
हिन्दी – ( तृतीय प्रश्नोत्तर — ) तदाहुः ( कुछ वेदज्ञ ) उस विषय में पूछते हैं— आहिताग्निः कोई अग्निहोत्र करने वाला आसन्नेषु हविः षु ( वेदी पर ) हवियों को एकत्रित करने के बाद मर जाता है तो तत्र का प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) याभ्यः देवताभ्यः जिन देवताओं के निमित्त तानि हवींषि संगृहीतानि भवन्ति वे हवियाँ एकत्रित की गयी होती हैं, ताभ्यः उन्हीं ( देवताओं ) के लिए स्वाहा स्वाहाकारपूर्वक एनानि इन ( हवियों ) को आहवनीये आहवनीय अग्नि में सर्वहुन्ति जुहुयात् निःशेषरूप से होम कर देना चाहिए । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है | सा ० भा ० — ' हविःषु ' पुरोडाशादिषु वेद्यामासन्नेषु यजमानमरणे । याभ्यो देवताभ्यः पूर्वं तानि हवींष्युपक्रान्तानि; ‘ ताभ्यः ’ तद्देवतानामानि चतुर्थ्यन्तान्युच्चार्यं स्वाहेत्यनेनैव मन्त्रेण ‘ एतानि हवींषि ‘ सर्वहुन्ति ’ निःशेषेण यथा सर्वाणि हुतानि भवन्ति यथा आहवनीये जुहुयात् ॥ चतुर्थे प्रश्नोत्तरे दर्शयति—
पृष्ठ 443
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२ ९ ७ ( आहिताग्नियजमानस्य प्रवासे मरणे प्रायश्चित्तम् ) तदाहुर्य आहिताग्निः प्रवसन् म्रियेत, कथमस्याग्निहोत्रं स्यादि-त्यभिवान्यवत्सायाः पयसा जुहुयादन्यदिवैतत्पयो यदिभिवान्यवत्साया अन्यदिवैतदग्निहोत्रं यत्प्रेतस्य ॥४ ॥
हिन्दी – ( चतुर्थ प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं- आहिताग्नि प्रवसन् म्रियेत् आहिताग्नि यदि ( अग्नि को भार्या के समीप स्थापन करके ) प्रवास पर गया हुआ ही मर जाता है तो अस्य अग्निहोत्रं कथं स्यात् इसका अग्निहोत्र किस प्रकार सम्पादित होवे? ( उत्तर ) अभिवान्यवत्सायाः दूसरी गाय के बछड़े के द्वारा दुही गयी ( गाय ) के पयसा दूध से जुहुयात् होम करना चाहिए । यत् अभिवान्यवत्सायाः पयः जो यह दूसरी गाय के बछड़े से दुही गयी ( गाय ) का दूध है एतत् अन्यत् इव वह अन्य के समान होता है । यत् प्रेतस्य एतत् अग्निहोत्रम् जो यह मरे हुए ( व्यक्ति ) का अग्निहोत्र अन्यत् इव अन्य के समान ही होता है ॥ सा ० भा ० – अग्निहोत्रे भार्यासमीपे ( सं ) स्थाप्य ग्रामान्तरे ' प्रवसन् ' गतः सन् यदि म्रियेत्, तदानीं स्वगृहे पुत्रादिः ' अभिवान्यवत्सायाः ' ' पयसाऽग्निहोत्रं जुहुयात् ' । ' वा गतिगन्धनयो: ’ – इति धातोरभिपूर्वस्य ' अभिवा ' इति रूपम् । अन्यश्चासौ वत्सश्च ‘ अन्यवत्सः ’ । अभिप्राप्तोऽन्यवत्सो यस्या गोः, सेयम् ' अभिवान्यवत्सा ', पोषणादिप्रकारेणोपस्थितेत्यर्थः ' । एतादृश्या अभिवान्यवत्सायाः यत्पयोऽस्ति एतद् ' अन्यदिव ' दैनन्दिनाग्निहोत्रीपयसः सका-शादन्यदेवैतद्द्रव्यम् । प्रेतस्यापि यदग्निहोत्रम् ' एतदन्यदिव ' एतन्नित्याग्निहोत्रादन्यदेव कर्मा-न्तरम्; तत्समानधर्मकं पुत्रादिकर्तृकम् । अतः प्रेतस्याधिकाराभावेऽपि पुत्रादेरधिकारसद्भा-वादनुष्ठानमुपपद्यत इत्यर्थः ' । तत्रैव पक्षान्तरमाह— अपि वा यत एव कुतश्च पयसा जुहुयुः ॥ ५ ॥
हिन्दी – ( इस विषय में अन्य पक्ष को कह रहे हैं- ) अपि वा अथवा यतः एव कुतः जिसकी किसी गाय के पयसा जुहुयुः दूध से होम करना चाहिए ॥ सा ० भा ० — अभिवान्यवत्साया इति नियमो नास्ति, किंतु ' यतः कुतः ' यस्याः कस्याश्चिद्गोः पयसा पुत्रादयो जुहुयुरिति ॥ पुनरपि पक्षान्तरमाह— ( १ ) अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरासमवायात् — इत्यादि आश्व ० श्री ० ३.१०.१७ । ( २ ) ' प्रोषितश्चेत् प्रेयात्'- इत्यादि कात्या ० श्रौ ० २५.८.९ । एं.ब्रा.उ.- २८
पृष्ठ 444
पाठ पढ़ें पाठ छिपाएँ
१२ ९ ८: ऐतरेयब्राह्मणम् [ ३२.१ सप्तमपञ्चिकायां अथाप्याहुरेवमेवैनानजस्त्रानजुह्वत इन्धीरन्ना शरीराणामाहर्तोरिति ॥६ ॥
हिन्दी— अथापि आहुः इस विषय में कुछ वेदज्ञ यह भी कहते हैं - एवमेव इसी प्रकार ही एनान् ( मृत अग्निहोत्री से ) इन ( आहवनीय इत्यादि तीनों अग्नियों ) को अजुह्वतः होम न करते हुए भी अजस्रान् निरन्तर इन्धीरन् ( बन्धु - बान्धवों द्वारा ) प्रज्ज्वलित रखना चाहिए जब तक शरीराणाम् ( विदेश में मरे हुए मृतक के शरीरों ( अस्थियों ) का न आहर्तोः आहरण ( सञ्चयन ) न हो जाय ॥ सा ० भा ० — अपि चान्ये याज्ञिकाः पक्षान्तरमाहुः । देशान्तरे मृतस्य प्रेतस्य ' शरी-राणाम् ' अस्थ्यादिप्रेतावयवानाम् ' आहर्तोः ' आहरणपर्यन्तम् ' एनान् ' आहवनीयादींस्त्री-नग्नीन् ‘ अजस्त्रान् ’ उपशमरहितान् ' अजुह्वतः ' होमरहितान् ' एवमेव ' असमाप्तेनैव प्रकारेण ‘ इन्धीरन् ’ प्रज्वालयेयुरिति । होमाभावेऽपि त्रयोऽप्यग्नयो यथा नोपशाम्यन्ति । तथा प्रेता-स्थिसमानयनपर्यन्तं प्रज्वालयेदित्यर्थः ॥ प्रेतास्थिविनाशे किं कर्तव्यमित्याशङ्क्याऽऽह— यदि शरीराणि न विद्येरन् पर्णशरः षष्टिस्त्रीणि च शतान्याहृत्य तेषांपुरुषरूपकमिव कृत्वा तस्मिंस्तामावृतं कुर्युरथैनाञ्छरीरैराहृतैः संस्पश्यद्वासयेयुः ॥७ ॥
हिन्दी - यदि शरीराणि न विद्येरन् यदि मृतक के शरीर के अङ्ग ( अस्थियाँ इत्यादि ) न प्राप्त हों तो षष्ठि त्रीणिशतानि तीन सौ साठ पर्णशरः पलाश वृक्ष ( के कटे हुए पत्तों वाले ) वृन्तों को आहृत्य इकट्ठा करके तेषाम् उन ( पत्तों ) को पुरुषरूपकम् इव कृत्वा पुरुषाकृति के समान बनाकर तस्मिन् उस ( मनुष्याकृति पत्तों ) में ताम् आवृत्तं कुर्युः उस ( प्रेत ) के लिए ( दहन, पिण्डदान इत्यादि ) उचित कृत्य करना चाहिए । अथ और एनान् इन ( आहवनीय इत्यादि अग्नियों ) को ( श्मशान में लाकर ) समाहृतैः शरीरैः ( पलाशपर्ण से ) निर्मित शरीरावयवों के साथ संस्पृश्य अन्त्येष्टि करके उद्वासयेयुः विसर्जन कर देना चाहिए ॥ सा ० भा ० — यदि कथञ्चित् ' शरीराणि ' अस्थ्यादीनि ' न विद्येरन् ' विनश्येयुः, तदा ‘ पर्णशर: ’ ' पलाशवृक्षस्य च्छिन्नान् वृन्तान् षष्ट्युत्तरशतत्रयसंख्याकानाहृत्य, ‘ तेषां ’ वृन्तानां सम्बन्धि ‘ पुरुषरूपकमिव कृत्वा ' मनुष्यसदृशं किञ्चिद्रूपं निर्माय, ‘ तस्मिन् ’ रूपे ‘ तामावृतं ’ प्रेतशरीरोचितं प्रकारं दहनपिण्डदानादिरूपं कुर्युः । ' अथ ' तदानीं कृत्रिमरूपदहनकाले ‘ एनान् ’ आहवनीयाद्यग्नीञ्श्मशाने नीत्वा समाहृतैस्तैः पलाशवृन्तनिर्मितैः शरीरावयवैः ‘ संस्पर्श्य ’ संस्पष्टं कृत्वोद्वासयेयुः ' ॥ ( १ ) ' शरीरनाशे त्रीणि षष्टिशतानि पलाशवृन्तानां कृष्णाजिने पूर्ववत् - इति कात्या ० ० श्रौ ० २५.८.१५
पृष्ठ 445
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १२ ९९ पुरुषरूपनिर्माणप्रकारं दर्शयति— अध्यर्धशतं काये, सक्थिनी द्विपञ्चाशे च विंशे, चोरू द्विपञ्चविंशे, शेषं तु शिरस्युपरि दध्यात् ॥८ ॥
हिन्दी – ( शरीर रूप निर्माण प्रकार को कह रहे हैं - अध्यर्धशतं काये एक सौ पचास वृन्तों को शरीर के मध्य भाग में सक्थिनी द्विपञ्चाशे च विंशे एक सौ चालीस वृन्तों ) को जाघें, द्विपञ्चविंशे ऊरू पच्चीस वृन्तों से दोनों ऊरुओं शेषं तु और अवशिष्ट ( बीस वृन्तों ) को उपरि शिरसि ऊपर शिर के रूप में दध्यात् रखना चाहिए ॥ सा ० भा ० — आनीतानां पलाशवृन्तानाम् ' अध्यर्धशतम् ' अधिकेनार्धेन पञ्चाशद्रूपेण युक्तं शतं ‘ काये ' मध्यशरीरस्थाने ' दध्यात् ' परितः प्रक्षिपेत् । पञ्चाशत्संख्याकानां वृन्तानां समूहरूपं ‘ पञ्चाशं ’, द्विसँख्याके पञ्चाशे ' द्विपञ्चाशे ', विंशतिसंख्याकानां समूहरूपं विंशं द्विपञ्चाशे च विंशे च सक्थिनी ' ' दध्यात् ' चत्वारिंशदधिकेन शतेन सक्थिद्वयं निष्पादये-दित्यर्थः । पञ्चविंशतिसंख्याकानां समूहरूपं पञ्चविंशं, द्विसंख्याके पञ्चविंशे, ते ' ऊरू दध्यात् पञ्चाशत्संख्याकैर्वृन्तैरूरुद्वयं निष्पादयेदित्यर्थः । एवं नवत्य ( चत्वारिंशद ) धिक-शतद्व ( त्र ) अये गते सति ‘ शेषं ' सप्त ( विंश ) तिसंख्याकं शिरस्युपरि प्रक्षिपेत् ॥ प्रवसतो मृतस्याग्निहोत्रवैकल्यप्रायश्चित्तं निगमयति— सा तत्र प्रायश्चित्तिः ॥९ ॥
' हिन्दी - सा वह तत्र उस ( मृतक के ) में प्रायश्चित्तिः प्रायश्चित्त है ॥ सा ० भा ० — ' सा ' प्रोक्तक्रिया ' तत्र ' वैकल्ये ' प्रायश्चित्तिः ' समाधानकरणम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये. ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वात्रिंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( २ ) ( २२५ )
॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ द्वितीयः खण्डः सा ० भा ० –पञ्चमे प्रश्नोत्तरे दर्शयति-( १ ) ‘ सक्थ्यूरुशब्दयोरपि विभक्तिव्यत्ययेन सप्तम्यर्थो द्रष्टव्यः । सक्थ्नोरूवरिति क्रमः कल्प्यः’– इति गोविन्दस्वामी ।
पृष्ठ 446
पाठ पढ़ें पाठ छिपाएँ
१३००: ऐतरेयब्राह्मणम् [ ३२.२ सप्तमपञ्चिकायां ( अग्निहोत्रीयधेनुविषये प्रायश्चित्तिविधानम् ) ( तत्रोपवेशने प्रायश्चित्तम् ) तदाहुर्यस्याग्निहोत्र्युपावसृष्टा, दुह्यमानोपविशेत्, का तत्र प्रायश्चिरिति तामभिमन्त्रयेत ॥ १ ॥
हिन्दी— ( पञ्चम प्रश्नोत्तर— ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यस्य जिस ( अग्निहोत्र करने वाले यजमान ) की अग्निहोत्री अग्निहोत्र के लिए दुही जाने वाली ( गाय ) उपावसृष्टा दोहन के लिए बछड़े से संयोजित होने के बाद दुह्यमाना उपविशेषत् दोहन की जाती हुई बैठ जाय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित ( करना चाहिए )? ( उत्तर- ) ताम् उस ( गाय ) को अभिमन्त्रयेत ( आगे लिखे गये मन्त्र से ) अभिमन्त्रित करना चाहिए— सा ० भा ० — अग्निहोत्रहविरर्थं दोग्धव्या धेनुः ' अग्निहोत्री ’ । ‘ यस्य ' अग्निहोत्रिणः सम्बन्धिनी सा धेनुः ‘ उपावसृष्टा ' वत्सेन संयोजिता दुह्यमाना सती दोहनस्य विघ्नं कृत्वा यद्युपविशेत्, तदानीं वक्ष्यमाणेन मन्त्रेण तामभिमन्त्रयेत । यद्यप्येतत् पञ्चविंशाध्यायस्य द्वितीयखण्डे ' वर्णितं तथाऽपि तत्र बुद्धिस्थसङ्गतिः । अत्र तु प्रायश्चित्तप्राधान्येनोपक्रमात् साक्षादेव सङ्गतमित्यभिप्रेत्य पुनरप्याम्नातम् ॥ तत्रोत्तरशेषं दर्शयति— यस्माद्भीषा निषीदसि, ततो नो अभयं कृषि । पशून्नः सर्वान् गोपाय नमो रुद्राय मीहळुष इति तामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपता-वधात् । इन्द्राय कृण्वती भागं, मित्राय वरुणाय चेत्यथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयादथैनां ब्राह्मणाय दद्यात्, सा तत्र प्रायश्चित्तिः ॥२ ॥
हिन्दी— ( अभिमन्त्रण मन्त्र— ) ' यस्माद् भीषा निषीदसि ( हे गाय! ) जिस भय के कारण तुम बैठ रही हो, ततो नो अभयं कृषि उस ( भय ) से हमको अभय करो । नः नर्वान् पशून् गोपाय हमारे सभी पशुओं की रक्षा करो । मीदुषे रुद्राय नमः सेचन में नमर्थ ( पशुपति ) रुद्र के लिए नमस्कार है ' । इति इस ( मन्त्र ) से ( अभिमन्त्रण के ) बाद शाम् उस ( गाय ) को उत्थापयेत् इस मन्त्र से उठाना चाहिए— इन्द्राय मित्राय वरुणाय न्द्र, मित्र और वरुण के लिए भागं कृण्वती हविर्भाग को प्रदान करती हुई देवी अदितिः देव्य देवता अदितिरूप ( अग्निहोत्री गाय ) उदस्थात् उठ गयी है ( और उठकर ) यज्ञपती नायुः अवधात् यज्ञपति में आयु को धारण कराया है । अथवा उदपात्रम् ( थन धोने के १ ) आश्व ० श्री ० ३.११.१-३ । आप ० श्र ० ९.५ ।
पृष्ठ 447
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३०१ लिए रखे गये ) जल पात्र को उधसि च मुखे च थन के और मुख के उपगृह्णीयात् समीप में ले जाना चाहिए । अथ इसके बाद एनाम् इस ( गाय ) को ब्राह्मणाय दद्यात् ब्राह्मण के लिए दान दे देना चाहिए । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है । सा ० भा ० – एतत्सर्वं पूर्वत्रैव ' व्याख्यातम् ॥ षष्ठे प्रश्नोत्तरे दर्शयति— ( हम्भारवे कृते प्रायश्चित्तम् ) तदाहुर्यस्याग्निहोत्र्युपावसृष्टा दुह्यमानाः वाश्येत, का तत्र प्राय-श्चित्तिरित्यशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते, तामन्नमप्यादयेच्छान्त्यै; शान्तिर्वा अन्नं, सूयवसाद्भगवती हि भूयादिति; सा तत्र प्रायश्चित्तिः ॥ ३ ॥
हिन्दी – ( षष्ठ प्रश्नोत्तर - ) ( प्रश्न ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— अस्य जिस ( अग्निहोत्र करने वाले यजामन ) की अग्निहोत्री अग्निहोत्र के लिए दुही जाने वाली ( गाय ) उपावसृष्टा ( दुहने के लिए बछड़े को ) छोड़े जाने पर दुह्यमाना वाश्येत ही जाती हुइ रम्भा ध्वनि करने लगे तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त होता है? ( उत्तर- ) एषा यह ( गाय ) अशनायां ह वै भूखी होने पर ही यजमानस्य प्रतिख्याय यजमान को प्रख्यापित करके वाश्यते रम्भा ध्वनि करती है । शान्त्यै ( भूख की ) शान्ति के लिए ताम् अन्नम् अप्यात् उस ( गाय ) को अन्न देना चाहिए; क्योंकि अन्नं वै शान्तिः ( शान्ति का हेतु होने के कारण ) अन्न ही शान्ति है । ‘ सूयवसाद्भगवती हि भूयात् ' इति इस मन्त्र से ( अन्न देता है ) । ( मन्त्रार्थ - ) हे अग्निहोत्री! भगवती ( दुग्ध से सम्पन्न ) सूयवसाद् भूयात् सुष्ठु यव के भूसे से तुम तृप्त होती हो ' । सा तत्र प्रायश्चित्तिः वही ( अग्निहोत्री गाय को अन्नादि खिलाना ही ) इस विषय में प्रायश्चित्त है ॥ सा ० भा०- - एतदपि पूर्वत्र ' व्याख्यातम् ॥ सप्तमे प्रश्नोत्तरे दर्शयति-( स्पन्दने प्रायश्चित्तम् ) तदाहुर्यस्याग्निहोत्र्युपावसृष्टा, दुह्यमाना स्पन्देत, का तत्र प्रायश्चित्ति-रिति; सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेद्यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः । पयो गृहेषु पयो अघ्न्यायां, पयो वत्सेषु पयो अस्तु तन्मयीति; तत्र यत्परिशिष्टं स्यात्, तेन जुहुयाद्, यद्यलं ( १ ) द्र ० आश्व ० श्री ० ३.११.१-३ । ( २ ) द्र ० आश्व ० श्रौ ० ३.११.४ ।
पृष्ठ 448
पाठ पढ़ें पाठ छिपाएँ
१३०२: ऐतरेयब्राह्मणम् [ ३२.२ सप्तमपञ्चिकायां होमाय स्याद्, यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा त्वेव श्रद्धायै होतव्यं; सा तत्र प्रायश्चित्तिः ॥४ ॥
हिन्दी— ( सप्तम प्रश्नोत्तर— ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यस्य जिस ( अग्निहोत्र करने वाले ) की अग्निहोत्री अग्निहोत्र के लिए दूध का सम्पादन करने वाली ( गाय ) उपावसृष्टा दूहने के लिए बछड़े को छोड़े जाने पर दुह्यमाना दुही जाती हुई स्पन्देत विचलित हो जाय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सा यत् स्कन्देत् वह ( गाय यदि विचलित होती हुई दूध को भूमि पर ) छलका दे तद् एतद् अभिमृश्य तो इस ( पृथ्वी पर छलके दूध ) का स्पर्श करके जपेत् इस मन्त्र का जप करना चाहिए- ' यद् दुग्धं पृथिवीम् असृप्त जो दूध पृथिवी पर फैल · गया है, यद् ओषधीः अत्यसृपत् जो ( तृणादि ) ओषधियों पर फैल गया है, यद् आपः और जो जल में ( मिल गया है ), पयः गृहेषु वह दूध ( हमारे ) घरों में, तत्पयः मयि अस्तु और वह दूध हमारे ( उदर ) में होवे ' । तत्र यत् परिशिष्टं स्यात् वहाँ जो ( दूध गिरने से ) अवशिष्ट हो यदि होमाय अलं स्यात् यदि ( वह दूध ) होम करने के लिए पर्याप्त हो तो तेन जुहुयात् उसी ( दूध ) से होम करना चाहिए । यदि उ सर्वं सिक्तं स्यात् यदि सम्पूर्ण ( दूध पृथिवी पर गिरकर ) सिक्त हो गया हो अथ अन्याम् आहूय तो दूसरी ( गाय ) को बुलाकर और ताम् दुग्ध्वा उसको दूहकर तेन जुहुयात् उस ( दूध ) से होम करना चाहिए । आ त्वेव श्रद्धायै होतव्यम् ( यदि दूसरी गाय न मिले तो भी ) श्रद्धा से ही होम करना चाहिए ( अग्निहोत्र छोड़ना नहीं चाहिए ) सा तत्र प्रायश्चित्तिः वही इस विषय में प्रायश्चित्त है ॥ सा ० भा ० — इतदपि पूर्वत्र ' व्याख्याताम् ' ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वात्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( ३ ) ( २२६ )
॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) आश्व व ० ० श्री ० ३.११.७-१० । ( २ ) सर्वं तत् पञ्चमपञ्चिकायाः पञ्चमाध्यायीयद्वितीयखण्डे द्रष्टव्यम् ८५ ९ पृ ० । पूर्वमुक्तार्थकः खण्डस्त्रिस्तदाहुरिहाधिकम् । पुनरुक्तेः किं फलं स्यादिति चेत् पृच्छं तां श्रुतिम् ॥ इति षड्गुरुशिष्यः ।
पृष्ठ 449
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १३०३ तृतीयः खण्डः सा ० भा ० – अष्टमे प्रश्नोत्तरे दर्शयति— ( प्रश्नोत्तराभ्यामन्यप्रायश्चित्तविधानम् ) ( तत्र सायंदुग्धे सन्नाये दुष्टेऽपहृते वा प्रायश्चित्तम् ) तदाहुर्यस्य सायं दुग्धं सांनाय्यं दुष्येद्वाऽपहरेद्वा, का तंत्र प्रायश्चिति-रिति; प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतरां भक्तिमातच्य तेन यजेत, सा तत्र प्रायश्चित्तिः ॥ १ ॥
हिन्दी – ( अष्टम प्रश्नोत्तर — ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यस्य जिस ( अग्निहोत्र करने वाले ) का सायं दुग्धं सांनाय्यं दुष्येत् ( दर्शपूर्णमास याग में दही के लिए ) सायंकाल में दुहा हुआ दुग्ध सन्नाय ( हवि के लिए रात में जमाई जाने वाली दही यदि कीटादि से ) दूषित हो जाय अपहरेद्वा अथवा किसी के द्वारा अपहृत कर ली जाय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है । ( उत्तर ) प्रातर्दुग्धं द्वैधं कृत्वा प्रातः कालीन दूध को दो भागों में विभाजित करके तस्य अन्यतराम् उस ( दूध ) के एक भाग को भक्तिमातच्य संस्कृत करके तेन उससे ( दधि के स्थान पर ) यजेत यजन करना चाहिए । सा तत्र प्रायश्चित्तिः वही उस विषय में प्रायश्चित्त है ॥ सा ० भा ० – दर्शपूर्णमासयोर्दध्यर्थं सायंकाले दुग्धं पयः सांनाय्यरूपं ' केशकीटादि-भिर्दुष्येत्, यः कश्चिदपहरेद्वा, तदानीं परेद्युः प्रातर्दुग्धं पयो भागद्वयं कृत्वा तत्रैकभागमातच्य ', संस्कृत्य दधिस्थानीयेन तेन यजेत । नवमे प्रश्नोत्तरे दर्शयति— ( १ ) ' स प्रजापतिः पशून् अब्रवीद् एतदस्मै सन्नयतेति, तत् पशव ओषधीभ्योऽध्यात्मन्त्य-समनयन्; तत् प्रत्यदुहन्; यत् समनयन्, तत् सान्नायस्य सान्नाय्यत्वम् ' – इति तै ० सं ० २.५.३.३ । तदेतस्मात् पशुपयसां सान्नाय्यत्वमवगम्यते । गोरस इति, एतत्ब्राह्मण-वचनव्याख्यायां सायणः । ‘ सोमः खलु वै सान्नाय्यम् ' इति तै ० ब्रा ० ३.२.३-११ । पौर्णमासं हविः सान्नाय्यम् ' – इति शत ० ब्रा ० १.६.२.६ । ' सान्नाय्यं ’ ‘ दधिपयोलक्षणम्’– इति शत ० ब्रा ० ११.२.६.६ भाष्ये सायणः । ' सम्यङ् नीयते होमार्थमग्निं प्रति · इतिं सान्नाय्यं हविर्विशेषः ’ — इति पा ० ३.१.१२ ९ सूत्रवृत्तौ दीक्षितः । ' सान्नाय्यं दुग्ध-दधिरूपं हविः ’ – इति कात्या ० श्रौ ० ४.२.१७ सूत्रवृत्तौ याज्ञिकदेवश्च । ( २ ) अपहरेत् = यकश्शप्, तस्य तिप्; अपह्रियेत चारादिभिः । द्वैधं = द्विधा । द्वित्र्योश्च धमुञ् ( पा ० सू ० ५.३.४५ ) । भक्तिं = भागम् । आतच्य = आतञ्चनं कृत्वा । इति षड्गुरुशिष्यः ।
पृष्ठ 450
पाठ पढ़ें पाठ छिपाएँ
१३०४: ऐतरेयब्राह्मणम् [ ३२.३ सप्तमपञ्चिकायां ( प्रातर्दुग्धे सन्नाये दुष्टेऽपहृते वा प्रायश्चित्तम् ) तदाहुर्यस्य प्रातर्दुग्धं सांनाय्यं दुष्येद्वाऽ पहरेद्वा, का तत्र प्रायश्चित्तिरि-त्यैन्द्रं वा माहेन्द्रं वा पुरोळाशं तस्य स्थाने निरूप्य तेन यजेत, सा तत्र प्रायश्चितिः ॥ २ ॥
हिन्दी – ( नवम प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः उस विषय में ( कुछ वेदज्ञ ) पूछते हैं- — यस्य जिस ( अग्निहोत्री ) का प्रातर्दुग्धं सान्नाय्यं दुष्येत प्रातः दुहा गया सान्नाय ( हव्य के लिए दधि ) कीटादि से दूषित हो जाय अपहरेद्वा अथवा चोरी चला जाय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर - ) तस्य स्थाने उस ( सान्नाय ) के स्थान पर ऐन्द्रं वा माहेन्द्रं वा इन्द्र से सम्बन्धित अथवा महेन्द्र से सम्बन्धित पुरोडाशं निरूप्य पुरोडाश को बनाकर तेन यजेत उस ( पुरोडाश ) से याग करना चाहिए । सा तत्र प्रायश्चित्तिः वही इस विषय में प्रायश्चित्त है ॥ सा ० भा ० — प्रातर्दुग्धरूपस्य सांनाय्यस्य दोषापहाराभ्यां वैकल्ये सति, तस्य दुग्धस्य स्थाने इन्द्रदेवताकं महेन्द्रदेवताकं वा पुरोळाशं कृत्वा, तेन यजेत । इन्द्रियाजिमहेन्द्रयाजि-भेदाद्देवताव्यवस्था ॥ दशमे प्रश्नोत्तरे दर्शयति— ( सर्वस्मिन् सन्नाये दुष्टेऽपहृते वा प्रायश्चित्तम् ) तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येद्वाऽपहरेद्वा; का तत्र प्रायश्चि-त्तिरित्यैन्द्रं वा माहेन्द्रं वेति समानं, सा तत्र प्रायश्चित्तिः ॥ ३ ॥
हिन्दी— ( दशम प्रश्नोत्तर— ) ( प्रश्न - ) तदाहः उस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यस्य जिस ( अग्निहोत्र करने वाले ) का सर्वमेव सान्नाय्यं दुष्येत् सम्पूर्ण सन्नाय्य ( हवि के लिए दधि ) दूषित हो जाय अपहरेद्वा अथवा चोरी चला जाये तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर ) समानम् ( पूर्वोक्त के ) समान ऐन्द्रं वा माहेन्द्रं वा इन्द्र अथवा महेन्द्र से सम्बन्धित ( पुरोडाश बनाकर यजन करना चाहिए ) ।
सा तत्र प्रायश्चित्तिः वही उस विषय में प्रायश्चित्त है ।
सा ० भा ० – सायं दुग्धं प्रातर्दुग्धं चेत्युभयं ' सर्वम् ' ॥
एकादशे प्रश्नोत्तरे दर्शयति— ( सर्वेषु हविष्णु दुष्टेष्वपहृतेषु वा प्रायश्चित्तम् ) तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वाऽपहरेयुर्वा, का तत्र प्रायश्चित्ति-रित्याज्यस्यैनानि यथादेवतं परिकल्प्य तयाऽऽज्यहविषेष्ट्या यजेता-तोऽन्यामिष्टिमनुल्बणां तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः ॥४ ॥