ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 461–470
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 461–470
पृष्ठ 461
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः षष्ठः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १३१५ ' अक्रन्ददग्निस्तनयन्निव द्यौर्'- ' अधा यथा नः पितरः परास ' इत्याहुतिं ' वाऽऽहवनीये जुहुयादग्ने क्षामवते स्वाहेति, सा तत्र प्रायश्चित्तिः ॥४ ॥
हिन्दी — ( विंश प्रश्नोत्तर- ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यस्य जिस ( अग्निहोत्र ) की अग्नयः अग्नियाँ अन्यैः अग्निभिः संसृज्येरन् अन्य ( लौकिक इत्यादि ) अग्नियों के साथ मिल जाँय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये क्षामवते वह क्षामवत अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्या याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' अक्रन्ददग्निस्तनयन्निव द्यौः ' और ' अधा यथा नः पितरः परास ' । आहवनीये वा अथवा आहवनीय अग्नि में ' अग्नये सामवते स्वाहा ' इस मन्त्र से आहुतिं जुहुयात् आज्य से आहुति देवें । सा तत्र प्रायश्चित्तिः वही इस विषय में प्रायश्चित्त है । सा ० भा ० - - ' अस्य ' अग्निहोत्रिणः सम्बन्धिन आहवनीयाद्यग्नयोऽन्यदीयैराहवनी-यादिभिलौकिकाग्निभिर्वा संसृज्येरन्, तस्य प्रायश्चित्तार्थे पुरोडाशे ' क्षामवद्'- गुणयुक्तोऽ-ग्निर्देवता ' । अन्यत् पूर्ववद् व्याख्येयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वित्रिंशाध्याये ) पञ्चमः खण्डः || ५ || ( ६ ) ( २२ ९ ) ॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ षष्ठः खण्डः सा ० भा ० - एकविंशे प्रश्नोत्तरे दर्शयति-( ३ ) ऋ ० १०.४५.४; ४.२.१६ । आश्व ० श्री ० सू ० ३.१३.४,१२ । शाङ्खा ० श्रौ ० सू ० ३.३.१३ । तु ० अथर्वं प्रायश्चित्ति २.७.५.४, ५ । ( ४ ) ‘ क्षामायागारदाहे ’ इति आश्व ० श्री ० सू ० ३.१३.४ । तै ० ब्रा ० ३.७.४.५ । तै ० ब्रा ० ३. ७.४.५ । तै ० सं ० २.२.३.४, जै ० न्या ० वि ० ६.४.१७ - २१ । क्षामवत्यादिना यद्वत् कर्मणा पृतनापते । दैवदोषादकरणे जाते दोषकदम्बके । होमेनैकेन दोषाणां सर्वेषां क्षय-मादिशेत् ’ – इति म ० पु ० । ‘ एवञ्च एक प्रायश्चित्तेनानेकदोषपक्षयाय क्षामवतीष्टिः सर्वत्र दृष्टान्तः ' - इति प्रा ० त ० ।
पृष्ठ 462
पाठ पढ़ें पाठ छिपाएँ
१३१६: ऐतरेयब्राह्मणम् [ ३२.६ सप्तमपञ्चिकायां ( अग्निविषयकान्यप्रायश्चित्तानि ) ( तत्र ग्राम्येणाग्निना दाहे प्रायश्चित्तम् ) तदाहुर्यस्याग्नयो ग्राम्येणाग्निना संदह्येरन्, का तत्र प्रायश्चित्तिरिति; सोऽग्नये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' कुवित्सु नो गविष्टये ', ' मा नो अस्मिन् महाधन इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये संवर्गाय स्वाहेति; सा तत्र प्रायश्चित्तिः ॥ १ ॥
हिन्दी— ( एकविंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं - यस्य जिस ( अग्निहोत्र करने वाले ) की अग्नयः अग्नियाँ ग्राम्येण अग्निना सन्दह्येरन् ( भोजनालय इत्यादि ) ग्राम्य अग्नि के साथ सम्यग्रूपेण प्रज्ज्वलित हो जाँय तो का प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये संवर्गाय वह संवर्ग अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाक्ये उसके आज्या और अनुवाक्या इस प्रकार हैं— ' कुवित्सु नो गविष्टये ' और ' मा नो अस्मिन् महाधन ' । आहवनीये वा अथवा आहवनीयाग्नि में ‘ अग्नये संवर्गाय स्वाहा ' इस मन्त्र से आहुतिं जुहुयात् आज्य से आहुति देवे । सा तत्र प्रायश्चित्तिः वही इस विषय में प्रायश्चित्त है ॥ : सा ० भा ० — ' ग्राम्योऽग्निः ' महानसादिगतः । स कदाचित्प्रमादेन प्रवृद्धो ग्रामग-तानि गृहाणि दहन्नाग्निहोत्रशालागतानाहवनीयादीग्नीन् सम्यग्दहति, तदानीं प्रायश्चित्तस्य
पुरोडाशस्य ‘ संवर्ग ' गुणयुक्तोऽग्निर्देवता ' । अन्यत् पूर्ववत् ॥
द्वाविंशे प्रश्नोत्तरे दर्शयति— ( दिव्येनाग्निना संसर्गे प्रायश्चित्तम् ) तदाहुर्यस्याग्नयो दिव्येनाग्निना संसृज्येरन्, का तत्र प्रायश्चित्तिरिति; सोऽग्नयेऽप्सुमतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' अप्स्वग्ने सधिष्टव ', ' मयो दधे मेधिरः पूतदक्ष इत्याहुतिं वाऽऽ -हवनीये जुहुयादग्नयऽप्सुमते स्वाहेति, सा तत्र प्रायश्चित्तिः ॥ २ ॥
हिन्दी— ( द्वाविंश प्रश्नोत्तर— ) ( प्रश्न- ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यस्यः जिस ( अग्निहोत्र करने वाले ) की अग्नयः अग्नियाँ दिव्येन अग्निना संसृज्येरन् ( विद्युत् इत्यादि ) दिव्य अग्नि के साथ मिल जाँय तो का तत्र प्रायश्चित्तिः उस ( १ ) ऋ ० ८.७५.११-१२ | आश्व ० श्री ० ३.१३.७, १२; शाङ्खा ० श्री ० सू ० ३.४.५; ५.४; · शत ० ब्रा ० १२.४.४.३ । ( २ ) ' ग्राम्येण संवर्गाय ' इति आश्व ० श्री ० सू ० ३.१३.७ । ( ३ ) ऋ ० ८.४३.९; ३.१.३ । तु ० शाङ्खा ० श्री ० सू ० ३.४.७; शत ० ब्रा ० १२.४.४.४ ।
पृष्ठ 463
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३१७ विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये अप्सुमते वह अप्सुमान अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाके उसके याज्या और अनुवाक इस प्रकार हैं- ' अप्स्वग्ने सधिष्टव ' और ' मयो दधे मेधिरः पूतदक्षः ' । आहवनीये वा अथवा आहवनीयाग्नि में ' ये अप्सुमते स्वाहा ' इस मन्त्र से आहुतिं जुहुयात् आज्य की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं इस विषय प्रायश्चित्त है || सा ० भा ० – ‘ दिव्याग्निः ' वैद्युतः । अशनिपाते सति तदीयेनाग्निनाऽऽहवनीयादीनां संसर्गे प्रायश्चित्तस्य पुरोडाशस्य ' अप्सुमान् ' अग्निर्देवता ' । अन्यत् पूर्ववत् ॥. त्रयोविंशे प्रश्नोत्तरे दर्शयति —... ( शवाग्निना संसर्गे प्रायश्चित्तम् ) तदाहुर्यस्याग्नयः शवाग्निना संसृज्येरन्, का तत्र प्रायश्चित्तिरिति; सोऽग्नये शुचयेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' अग्निः शुचिव्रततम ' - ' उदग्ने शुचयस्तवेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये शुचये स्वाहेतिः सा तत्र प्रायश्चित्तिः ॥ ३ ॥
हिन्दी — ( त्रयोविंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में कुछ वेदज्ञ पूछते : हैं - यस्य जिस ( अग्निहोत्रक ) की अग्नयः अग्नियाँ शवाग्निना संसृज्येरन् शव को जलाने वाली ( श्मशान की ) अग्नि से मिल जाय तो का तत्र प्रायश्चित्तिः इस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये शुचये वह शुचि अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाक्ये उसके आज्या और अनुवाक्या इस प्रकार हैं— ' अग्निः शुचिव्रततम ' और ‘ उदग्ने शुचयस्तव ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्नये शुचये स्वाहा ' मन्त्र से आहुतिं जुहुयात् आज्य की आहुति देवें । सा तत्र प्रायश्चित्तिः वही इस विषय में प्रायश्चित्त है ॥ सा ० भा ० – प्रेतदहनाय प्रवृत्तोऽग्निः ' शवाग्निः ' । तत्संसर्गे पुरोडाशस्य ' शुचि'-गुणयुक्तोऽग्निर्देवता ' । अन्यत् पूर्ववद् व्याख्येयम् ॥ चतुविंशे प्रश्नोत्तरे दर्शयति— ( अरण्येनाग्निना दाहे प्रायश्चित्तम् ) तदाहुर्यस्याग्नय आरण्येनाग्निना संदह्येरन्, का तत्र प्रायश्चित्तिरिति; ( १ ) ' वैद्युतेऽप्सुमते ' - इति आश्व ० श्रौ ० सू ० ३.१३.८ ( २ ) ऋ ० ८.४४.२१, १७ ( ३ ) ' शुचये संसर्जनेग्निनान्येन ' इति आश्व ० ० श्रौ ० सू ० ३.१३.४ । शाङ्खा ० श्रौ ० सू ० ३.४.६, तु ० शत ० ब्रा ० १२.४.४.५ ।
पृष्ठ 464
पाठ पढ़ें पाठ छिपाएँ
१३१८: ऐतरेयब्राह्मणम् [ ३२.६ सप्तमपञ्चिकायां समेवाऽऽरोपयेदरणी वोल्मुकं वा मोक्षयेद्, यद्याहवनीयाद्यदि गार्हपत्याद्, यदि न शक्नुयात्, सोऽग्नये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्, तस्योक्ते याज्यानुवाक्ये ' आहुतिं वाऽऽहवनीये जुहुयादग्नये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः ॥४ ॥
हिन्दी — ( चतुर्विंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यस्य जिस ( अग्निहोत्र करने वाले ) की अग्नयः अग्नियाँ अरण्येन अग्निना सन्दह्येरन् जङ्गल की अग्नि ( दावाग्नि ) के साथ सम्यक् रूप से प्रज्ज्वलित हो जाँय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सममेव आरोपयेद् अरणी वा ( प्रज्ज्वलित होने से पूर्व ही ) अग्नि को अरणियों में रख लेना चाहिए । न शक्नुयात् यदि ऐसा करने में समर्थ न हो सके तो यदि आहवनीयाद् यदि गार्हपत्यात् यदि आहवनीय अथवा गार्हपत्य अग्नि से उल्मुकं मोक्षयेत् जलती हुई लकड़ी से सुरक्षित कर लेना चाहिए । सः अग्नये संवर्गाय वह संवर्ग अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करे । तस्य उक्ते याज्यानुवाके उसके याज्या और अनुवाक्या कह दिये गये हैं । आहवनीये वा अथवा आहवनीयाग्नि में ‘ अग्नये संवर्गाय स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है । सा ० भा०—- दावाग्निररण्यादागत्याग्निहोत्रशालां दहन्नाहवनीयादीन् यदा सम्यग्दहति, तदानीं तद्दहनात् पूर्वमेवाग्नीन् ' अरणी ' द्वयोररण्योः सह समारोपयेदेव । तदशक्तौ गार्ह-पत्याहवनीयात् ‘ उल्मुकं मोक्षयेत् ' । सहसोल्मुकमादाय परितो गच्छेत् । समारोपणं वोल्मुक-मोचनं वेति पक्षद्वयस्याग्निदाहत्वरया यदा न शक्तिः, तदा ' संवर्गं ’ - गुणयुक्तोऽग्निः पुरो-डाशदेवता ' । तदीययाज्यानुवाक्ये च पूर्वमेवाभिहिते ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वित्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( ७ ) ( २३० )
॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( २ ) ऋ ० ८.४४.२१, १७ ( ३ ) ‘ अग्नये संवर्गायप्रदव्याच्चेत् ' – इति कात्या ० श्रौ ० २५.४.३२ । तु ० शत ० ब्रा ० ४. ३.१०; ४.१; ५.२.१; १३.६.२.२०; ४.६.८.३; शाङ्खा ० श्रौ ० सू ० २.१७०. १-५1
पृष्ठ 465
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३१ ९ सप्तमः काण्ड: सा ० भा ० – पञ्चविंशे प्रश्नोत्तरे दर्शयति— ( पुनर्यजमानविषयकप्रायश्चित्तविधानम् ) ( तत्रोपवसथदिने आहिताग्नेरश्रुपाते प्रायश्चित्तम् ) तदाहुर्य आहिताग्निरुपवसथेऽश्रु कुर्वीत, का तत्र प्रायश्चित्तिरिति; सोऽग्नये व्रतभृतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' त्वमग्ने व्रतभृच्छुचिर् ' - व्रतानि बिभ्रद् व्रतपा अदब्ध इत्याहुतिं, वाऽऽहवनीये जुहुयादग्नये व्रतभूते स्वाहेति सा तत्र प्रायश्चित्तिः ॥१ ॥
हिन्दी— ( पञ्चविंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— -: यः आहिताग्निः जो अग्निहोत्र करने वाला उपवसथे ( यजनीय दिन के ) पूर्व दिन अश्रु कुर्वीत् किसी कारण वश अश्रु गिरा देवे तो का प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये व्रतभृते वह व्रतभृत अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत आठ कपालों वाले पुरोडाश का निर्वाप करे । तस्य याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' त्वमग्ने व्रतभृच्छुचिः ' और ' व्रतानि बिभ्रद् व्रतपा अदब्धः ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्नये व्रतभृते स्वाहा ' इस मन्त्र से आहुतिं जुहुयात् याज्य की आहुति देवे । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है । सा ० भा०- ' -‘उपवसथे ' यजनीयदिनात् पूर्वदिने शिरोव्यथादिना मृतबन्धुस्मरणादिना वा नेत्रयोरश्रुमोचने पुरोडाशस्य ' व्रतभृद् ' - गुणकोऽग्निर्देवता । त्वमग्ने व्रतभृदित्यादिके सूत्र-कारेण पठिते याज्यानुवाक्ये ' | षड्विंशे प्रश्नोत्तरे दर्शयति— ( आहिताग्नेरव्रत्यापन्ने प्रायश्चित्तम् ) तदाहुर्य आहिताग्निरुपवसथेऽव्रत्यमापद्येत, का तत्र प्रायश्चित्तिरिति; सोऽग्नये व्रतपतयेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' त्वमग्ने व्रतपा असि ' - ' यद्वो वयं प्रमिनाम व्रतानीत्याहुतिं ' ' वाऽऽ-( १ ) अग्निर्व्रतभृद् । त्वमग्ने व्रतभृच्छुचिरग्ने.... व्रतानि बिभ्रद् व्रतपा.... ..एषैवार्त्याश्रुपाते ' - – इति आश्व ० श्रौ ० सू ० ३.१२.१३-१५ । तै ० ब्रा ० २.४.१.११ । शाङ्खा ० श्रौ ० सू ० ३.४.१२, ( २ ) ऋ ५.९ ० ८.११.१ ।, १०.२.४; आश्व ० श्र ० ३.१३.२, १२; शाङ्खा ० श्री ० ४.४.११ ।
पृष्ठ 466
पाठ पढ़ें पाठ छिपाएँ
१३२०: ऐतरेयब्राह्मणम् [ ३२.७ सप्तमपञ्चिकायां हवनीये जुहुयादग्नये व्रतपतये स्वाहेति सा तत्र प्रायश्चित्तिः ॥ २ ॥
हिन्दी— ( षड्विंश प्रश्नोत्तर— ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यः आहिताग्निः जो अग्निहोत्र करने वाला उपवसथे ( यजनीय दिन के ) पूर्व दिन अव्रत्यम् आपद्येत् नियम के विरुद्ध आचरण कर दें तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर - ) सः अग्नये व्रतपतये वह व्रतपति अग्नि के लिए अष्टा-कपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करे । तस्य याज्या-नुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' त्वमग्ने व्रतपा असि ' और ' यद्वो वयं प्रमिनाम व्रतानि ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्नये व्रतपतये स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्राश्चित्तिः वहीं इस विषय में प्रायश्चित्त है ॥ सा ० भा ० — व्रतविरुद्धं निषिद्धाचरणम् ' अव्रत्यं ' दिवास्वापादिकम् ' आपद्येत ' प्राप्नु-यात् । तत्र ‘ व्रतपति ’ – गुणयुक्तोऽग्निः पुरोडाशदेवता ' ॥. सप्तविंशे प्रश्नोत्तरे दर्शयति— ( दर्शपौर्णमासावतिक्रमे प्रायश्चित्तम् ) तदाहुर्य आहिताग्निरमावास्यां पौर्णमासीं वाऽतीयात्, का तत्र प्रायश्चित्तिरितिः सोऽग्नये पथिकृतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' वेत्था हि वेधो अध्वन ', ' आ देवानामपि पन्थामगन्मेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये पथिकृते स्वाहेति, सा तत्र प्रायश्चित्तिः ॥ ३ ॥
हिन्दी— ( सप्तविंश प्रश्नोत्तर— ) ( प्रश्न- ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यः आहिताग्निः जो आहिताग्नि अमावास्यां पौर्णमासीं वा अमावास्या अथवा पौर्णमासी का अतीयात् अतिक्रमण कर दें ( अर्थात् अमावास्या अथवा पौणमासी की इष्टि न करें तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये पथिकृते वह पथिकृत् अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाक्ये इसके याज्या और अनुवाक्या इस प्रकार हैं— ' वेत्था हि वेधो अध्वनः ' और ' आ देवानामपि पन्थामगन्म ' । आहवनीये वा अथवा आहवनीयाग्नि में अग्नये पथिकृते स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवे । सा तत्र प्रायश्चित्तिः वही इस विषय में प्रायश्चित्त है ॥ ( १ ) ' व्रतातिपत्तौ व्रतपतये ' - इति आश्व ० श्री ० सू ० ३.१.२ । ( २ ) ऋ ० ६.१६.३; १०.२.३ । तु ० शाङ्खा ० श्रौ ० सू ० ४.४.२; ५.७ ।
पृष्ठ 467
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३२१ सा ० भा ० – आहिताग्निरमावास्येष्टिं पौर्णमासेष्टिं वा यदि कदाचिदतिक्रामेत्, तदा ‘ पथिकृद् ' गुणयुक्तोऽग्निः पुरोडाशदेवता ' ॥ अष्टाविंशे प्रश्नोत्तरे दर्शयति— ( सर्वास्वग्नीषूपशान्ते प्रायश्चित्तम् ) तदाहुर्यस्य सर्व एवाग्नय उपशाम्येरन्, का तत्र प्रायश्चिरिति; सोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं पुरोळाशं निर्वपेत् तस्य याज्यानुवाक्ये ' आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्वित्याहुति ' वाऽऽहवनीये - जुहुयादंग्नये तपस्वते जनद्वते पावकवते स्वाहेति, सा तत्र प्रायश्चित्तिः ॥४ ॥
हिन्दी – ( अष्टाविंश प्रश्नोत्तर – ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यस्य जिस होत्रक की सर्वे एव अग्नयः सभी ( आहवनीय, गार्हपत्य और दाक्षि-णाग्नि ) अग्नियाँ उपशाम्येरन् शान्त हो जाँय ( बुझ जाँय ) तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये तपस्वते जनद्वते पावकवते वह तपस्वत्, जनद्वत् और पावक अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ क़पालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाक्ये उसके याज्या और अनु-वाक्या इस प्रकार हैं — ‘ आयाहि तपसा जनेषु ' और ' आ नो याहि तपसा जनेषु ' ।'आहव-नीये वा अथवा आहवनीयाग्नि में ' अग्नये तपस्वते जनद्वये पावकवते स्वाहा ' इस मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं उस विषय में प्रायश्चित्त है | सा ० भा ० — आहवनीय - गार्हपत्य - दक्षिणाग्नीनां सर्वेषामुपशान्तौ ' तपस्वज्जन-द्वत्पावकवद् ’ – गुणत्रयमुक्तोऽग्निः पुरोडाशदेवता ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वित्रिंशाध्याये ) सप्तमः खण्डः || ७ || ( ८ ) ( २३१ ) ॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) यदि त्वदीयाद्यद्यमावास्यां पौर्णमासीं वा ' - इति आश्व ० श्री ० ३.१०.१०-१२ । ( २ ) द्र ० आश्व ० श्रौ ० सू ० ३.१२.२७ । ( ३ ) ' तत इष्टिरग्निस्तपस्वान् जनद्वान् पावकवान् ' इति आश्व ० श्रौ ० सू ० ३.१२.२६ ।
पृष्ठ 468
पाठ पढ़ें पाठ छिपाएँ
१३२२: ऐतरेयब्राह्मणम् [ ३२.८ सप्तमपञ्चिकायां अष्टमः खण्डः सा ० भा ० | - – एकोनत्रिंशे प्रश्नोत्तरे दर्शयति— ( विविधप्रायश्चित्तिविधानम् ) ( तत्राग्रयणं विना नवान्नप्राशने प्रायश्चित्तम् ) तदाहुर्य आहिताग्निराग्रयणेनानिष्ट्वा नवान्नं प्राश्नीयात्, का तत्र प्रायश्चित्तिरिति; सोऽग्नये वैश्वानराय द्वादशकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ‘ वैश्वानरो अजीजनत् ' ' पृष्टो दिवि पृष्टो अग्निः पृथिव्या ' मित्याहुतिं वाऽऽहवनीये जुहुयादग्नये वैश्वानराय स्वाहेति; सा तत्र प्रायश्चित्तिः ॥ १ ॥
हिन्दी – ( एकोनत्रिंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यः आहिताग्निः जो आहिताग्नि आप्रायणेन अनिष्ट्वा आग्रायण इष्टि न करके नवान्नं प्राश्नीयात् नये अन्न का प्राशन कर ले तो का प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नेः वैश्वानराय वह वैश्वानर अग्नि के लिए द्वादशकपालं पुरोडाशं निर्वपेत् बारह कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' वैश्वानरो अजीजनत् ' और ' पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्ने वैश्वानराय स्वाहा ' मन्त्र से आहु॑तिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है । सा ० भा०- –गृहेषु नवधान्ये समागते सत्याग्रयणेष्टिं कृत्वा पश्चान्नवान्नं भोक्तव्यम्, तस्या इष्टेरकरणे ‘ वैश्वानर ’ गुणयुक्तोऽग्निः पुरोडाशदेवता ॥ त्रिंशे प्रश्नोत्तरे दर्शयति— ( आहिताग्नेः पुरोडाशकपालविनष्टे प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्यदि कपालं नश्येत्, का तत्र प्रायश्चित्तिरिति; सोऽश्विभ्यां द्विकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' अश्विना वर्तिरस्मद्'- ' आ गोमता नासत्या रथेनेत्याहुतिं वाऽऽहवनीये जुहुयादश्विभ्यां स्वाहेति, सा तत्र प्रायश्चित्तिः ॥ २ ॥
( १ ) द्र ० आश्व ० श्री ० सू ० २.१५.२ । ( २ ) द्र ० आश्व ० श्री ० सू ० ३.१३.८; आश्व ० गृ ० सू ० ३.६८ । ( ३ ) ऋ ० १.९ २.१६, ७.७२.१ ।
पृष्ठ 469
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३२३ हिन्दी — ( त्रिंश प्रश्नोत्तर ) ( प्रश्न - ) यदाहुः इस विषय में ( कुछ वेदज्ञ ) प्रश्न करते हैं - यः आहिताग्निः जिस आहिताग्नि का यदि कपालं नश्येत् यदि कपाल ( पुरोडाश सेंकने के लिए मिट्टी का बना तवा विशेष ) विनष्ट हो जाय ( टूट जाय ) तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अश्विभ्याम् दोनों अश्विनों के लिए द्विकपालं पुरोडाशं निर्वपेत् दो कपालों वाले पुरोडाश का निर्वाप करे । तस्य याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' अश्विना वर्तिरस्मद् ' और ‘ आ गोमता नासत्या रथेन ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अश्विभ्यां स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः यह उस विषय में प्रायश्चित्त है । सा ० भा ० — ‘ य आहिताग्नि ' यस्याऽऽहिताग्नेः पुरोडाशनिष्पादकं ' कपालं ' यदि नश्येत्, तदानीमश्विनौ पुरोडाशदेवताः ॥ एकत्रिंशे प्रश्नोत्तरे दर्शयति— ( पवित्रे विनष्टे प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्यदि पवित्रं नश्येत्, का तत्र प्रायश्चित्तिरिति; सोऽग्नये पवित्रवतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' पवित्रे ते विततं ब्रह्मणस्पते ' - ' तपोष्पवित्रं विततं दिवस्पद इत्याहुतिं ' वाहवनीये जुहुयादग्नये पवित्रवते स्वाहेति, सा तत्र प्रायश्चित्तिः ॥३ ॥
हिन्दी – ( एकत्रिंश प्रश्नोत्तर — ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते -य: आहिताग्निः जिस आहिताग्नि का यदि पवित्रं नश्येत् पवित्रों ( कुश निर्मित अङ्गुलि में धारण करने वाली वस्तु ) नष्ट हो जाँय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये पवित्रवते वह पवित्रवान् अग्नि के लिए अष्टा-कपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्या-नुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' पवित्रं ते विततं ब्रह्मणस्पते ' और ‘ तपोष्पवित्रं विततं दिवस्पदः ' । आहवनीये वा अथवा आहवनीय याग्नि में ' अग्नये पवित्रवते स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः यहीं उस विषय में प्रायश्चित्त है ॥ सा ० भा ० — आहिताग्नेः पवित्रनाशे ' पवित्रवद् ' - ' गुणयुक्तोऽग्निः पुरोडाशदेवता ॥ द्वात्रिंशे प्रश्नोत्तरे दर्शयति-( १ ) आश्व ० श्री ० सू ० ३.१३.९ -१० । ( २ ) ऋ ० ९.८३.१-२ ( ३ ) आश्व ० गृ ० सू ० ३.२
पृष्ठ 470
पाठ पढ़ें पाठ छिपाएँ
१३२४: ऐतरेयब्राह्मणम् [ ३२.८ सप्तमपञ्चिकायां ( हिरण्ये विनष्टे प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्यदि हिरण्यं नश्येत्, का तत्र प्रायश्चित्तिरिति; सोऽग्नये हिरण्यवतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' हिरण्यकेशो रजसो विसार ' - ' आ ते सुपर्णा अमिनन्तं एवैरित्याहुतिं ' वाहवनीये जुहूयादग्नये हिरण्यवते स्वाहेति सा तत्र प्रायश्चित्तिः ॥४ ॥
हिन्दी — ( द्वात्रिंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यः आहिताग्निः जिस आहिताग्नि का यदि हिरण्यं नश्येत् यदि सुवर्ण विनष्ट हो जाय तो का प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर - ) सः अग्नये हिरण्यवते वह हिरण्यवान् अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाके उसके याज्या और अनुवाक्या इस प्रकार हैं — ' हिरण्यकेशो रजसो वि सार ' और ' आ ते सुपर्णा अमिनन्त एवैः ' । आहवनीये . वा अथवा आहवनीयाग्नि में ' अग्नये हिरण्यवते स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देनी चाहिए । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्ति है । सा ० भा ० — आहिताग्नेर्हिरण्यनाशे ' हिरण्यवद् ' - गुणयुक्तोऽग्निः पुरोडाशदेवता || त्रयस्त्रिंशे प्रश्नोत्तरे दर्शयति— ( प्रातः स्नानं विना अग्निहोत्रे हुते प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्यदि प्रातरस्नातोऽग्निहोत्रं जुहुयात्, का तत्र प्रायश्चित्तिरिति; सोऽग्नये वरुणायाष्टकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' त्वं नो अग्ने वरुणस्य विद्वान् ' स त्वं नो अग्नेऽवमो भवोतीत्याहुतिं ' वाहवनीये जुहुयादग्नये वरुणाय स्वाहेति, सा तत्र प्रायश्चित्तिः ॥५ ॥
हिन्दी— ( त्रयत्रिंश प्रश्नोत्तर— ) ( प्रश्न- ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यः आहिताग्निः जो आहिताग्नि यदि प्रातः अस्नातः अग्निहोत्रं जुहुयात् प्रातः स्नान किये विना ही अग्निहोत्र होम कर दे तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये वरुणाय वह वरुणाग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्य याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' त्वं नो अग्ने वरुणस्य विद्वान् ' और ‘ स त्वं नो अग्नेऽवमो भवोती ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्नये वरुणाय स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं इस विषय में ( १ ) ऋ ० १.७ ९.१-२ ( २ ) ऋ ० ४.१.४-५